विश्वास-प्रस्तुतिः
अथ काञ्चीवर्णनम्॥
इति विमानमितः प्रतीच्यां दिशि योजनपञ्चकमतिक्रामयन् पुरतो दृष्ट्वा सामोदम्-
मूलम्
अथ काञ्चीवर्णनम्॥
इति विमानमितः प्रतीच्यां दिशि योजनपञ्चकमतिक्रामयन् पुरतो दृष्ट्वा सामोदम्-
बाल-कृष्णः
अथ तेष्वपि विचित्रवस्तुरचनादिरूपान् गुणान् प्रदर्शयन्नाह विश्वावसुः - पश्येति । त्वं एतेष्वपि पूर्वोक्त निन्याचारयुक्तेष्वपि गुणग्राहित्वं पश्य ॥ १०५ ॥
गुणग्राहित्वमेवोपपादयति — प्रसह्येति । अमी हूणाः परेषां लोकानां धनौघं द्रव्यसमूहं, अन्यायतः प्रसह्य बलात्कारेण न हरन्ति । किंतु विचित्रवस्तुप्रदर्शनादिना मोहयित्वा करग्रहणादिना च प्रतिवर्ष स्वल्पं स्वल्पमिति बहुना कालेन बह्वेव हरन्तीति ध्वनिः । एवमुत्तरत्रापि यथायथमूह्यम् । तथा मृषावचः अनृतभाषणं न वदन्ति, अद्भुतं आश्चर्यकरं वस्तु विरचयन्ति उत्पादयन्ति तथा कृतागसां कृतापराधानां यथाविधि राजनियममनुसृत्य स्वयं दण्डनं शिक्षां विदधति कुर्वन्ति । तस्मात् अवगुणानां ‘शौचत्यागिषु —’ इत्यादिश्लोकप्रतिपादितानां दोषाणां आकरेषु उत्पत्तिस्थानेष्वपि सत्सु हूणेषु, अमूनधुना मया प्रतिपादितान् गुणान् गृहाण । नैते सर्वथा दोषाः इति भावः ॥ २६४ ॥
इदानीं काञ्चीनगरवर्णनमाक्षिपन्नाह कविः - इतीति । इतः चन्नपट्टणदेशात्, प्रतीच्यां पश्चिमायां दिशि, योजनपञ्चकं विंशतिक्रोशपर्यन्तं अतिक्रामयन् गमयन्, सामोदं सानन्दम् ।
विश्वास-प्रस्तुतिः
इयं काची काञ्ची करिशिखरिणः कापि नगरी
गरीयस्यां यस्यां विहरणजुषां पक्ष्मलदृशाम् ॥
मुखं दर्श दर्श रजनिकरमादर्शममलम्1
स्वरूपं के पङ्केरुहमपि न निन्दन्ति रसिकाः ॥ २६५ ॥
किं च-
सुमनोजनतास्थानं2 स्थाने सद्रूपशोभनी3 सेयम् ॥
सुरताभ्युदयविधात्री शुभकाञ्ची साधु रञ्जयति चेतः ॥ २६६ ॥
नगरीमेनां दक्षिणेन करुणाझरीव भगवती4 वेगवती नाम प्रवहति पावनी शैवलिनी ॥ १०६& ॥
मूलम्
इयं काची काञ्ची करिशिखरिणः कापि नगरी
गरीयस्यां यस्यां विहरणजुषां पक्ष्मलदृशाम् ॥
मुखं दर्श दर्श रजनिकरमादर्शममलम्1
स्वरूपं के पङ्केरुहमपि न निन्दन्ति रसिकाः ॥ २६५ ॥
किं च-
सुमनोजनतास्थानं2 स्थाने सद्रूपशोभनी3 सेयम् ॥
सुरताभ्युदयविधात्री शुभकाञ्ची साधु रञ्जयति चेतः ॥ २६६ ॥
नगरीमेनां दक्षिणेन करुणाझरीव भगवती4 वेगवती नाम प्रवहति पावनी शैवलिनी ॥ १०६& ॥
बाल-कृष्णः
इयमिति । इयं करिशिखरिणः हस्तिशैलस्य काञ्ची रशना, “स्त्रीकट्यां मेखला - काञ्ची सप्तकी रशना तथा " इत्यमरः । तमभिवेष्ट्य स्थितेत्यर्थः । काञ्ची नाम कापि अनिर्वाच्या नगरी वर्तते । गरीयस्यां अतिमहत्यां, गुरुशब्दात् ईयसुनि “प्रिय-स्थिर-स्फिर—” इत्यादिना गरादेशः । यस्यां नगर्यो विहरणजुषां क्रीडां कुर्वतीनां पक्ष्मलदृशां स्त्रीणां मुखं दर्श दर्श पुनः पुनरवलोक्य के रसिकाः पुरुषाः अमलस्वरूपं स्वच्छस्वरूपं, एतत् रजनिकरादर्शं - पङ्केरुहेष्वपि संबन्धनीयम् । रजनिकरं चन्द्रं, आदर्शं दर्पणं, पङ्केरुहं कमलमपि च न निन्दन्ति ? अपि तु सर्व एव एतान् सर्वानपि निन्दन्तीत्यर्थः ॥ २६५ ॥
सुमन इति । सुष्ठु मनो येषां ते सुमनसः पण्डितास्ते च ते जनाश्च तेषां समूहस्तत्ता तस्याः स्थानं, यथाविधिस्वकर्मानुष्ठानेन शुद्धमानसानां पण्डितानां वसतिस्थानमित्यर्थः । पक्षे सुष्टु मनोजः कामस्तेन नतानां, नम्राणां, अत्यन्तकामासक्तानामित्यर्थः । आस्थानम् । सद्भिरुत्तमैः स्वादु- सुगन्धिफल-पुष्पसंपन्नैरिति यावत् । द्रुभिः वृक्षैः आम्र-पनस - दाडिम - नारीकेलादिभिः उपशोभनी पक्षे सता उत्तमेन रूपेण शोभनी च, सुराणां समूहः सुरता तस्याः, पक्षे सुरतस्य कामसौख्यस्य च अभ्युदयं वृद्धिं विधत्ते इति तथाभूता सा इयं शुभा काञ्ची नगरी रशना च, अस्मिन् स्थाने चेतः अन्तःकरणं साधु यथा स्यात्तथा रञ्जयति रमयति ॥ २६६ ॥
अन्यदप्याश्चर्यमाह – नगरीमिति । एनां काञ्चीं नगरीं दक्षिणेन अस्या दक्षिणत इत्यर्थः । “एनबन्यतरस्याम् – ” इति एनप्प्रत्ययः । " एनपा द्वितीया" इति तद्योगे द्वितीया च । करुणायाः झरीव भगवती वेगवती नाम पावनी पवित्रा शैवलिनी नदी प्रवहति ॥ १०६& ॥
विश्वास-प्रस्तुतिः
माधुर्याध्ययनोपसन्नमधुनिष्यन्दानि5 मन्दानिल-
व्यालोलत्तटचारुभूरुहशिखानिष्पातिपुष्पाधिकैः ॥
डिण्डीरैः स्मितवन्ति पान्ति6 दुरिताद्वेगापगायाः स्फुर-
द्वेगोद्वेजितवाजिमेधमखकृद्वेधांसि7 पाथांसि नः ॥ २६७ ॥
इतश्च सखे चक्षुर्निक्षिप्यताम्8 ॥ १०७& ॥
य एष राजत्कटकः सदालिभिः समाश्रितः शोभनदानसंपदा ॥
स नित्यशुद्धं वरदं तमुद्वहन्यथार्थनामा गजभूभृदीक्ष्यते ॥ २६८ ॥
सभक्तिप्रकर्षमञ्जलिं बद्ध्वा-
द्विपाचलमुपाश्रितं त्रिदशपादपस्वर्गवी-
त्रपाकरमुपास्महे दिगधिपावनं पावनम् ॥
कृपाशिशिरलोचनं कृतभवव्यथामोचनम्
वपासुरभिलाधरं9 वरदनाम धाम स्थिरम् ॥ २६९ ॥
मूलम्
माधुर्याध्ययनोपसन्नमधुनिष्यन्दानि5 मन्दानिल-
व्यालोलत्तटचारुभूरुहशिखानिष्पातिपुष्पाधिकैः ॥
डिण्डीरैः स्मितवन्ति पान्ति6 दुरिताद्वेगापगायाः स्फुर-
द्वेगोद्वेजितवाजिमेधमखकृद्वेधांसि7 पाथांसि नः ॥ २६७ ॥
इतश्च सखे चक्षुर्निक्षिप्यताम्8 ॥ १०७& ॥
य एष राजत्कटकः सदालिभिः समाश्रितः शोभनदानसंपदा ॥
स नित्यशुद्धं वरदं तमुद्वहन्यथार्थनामा गजभूभृदीक्ष्यते ॥ २६८ ॥
सभक्तिप्रकर्षमञ्जलिं बद्ध्वा-
द्विपाचलमुपाश्रितं त्रिदशपादपस्वर्गवी-
त्रपाकरमुपास्महे दिगधिपावनं पावनम् ॥
कृपाशिशिरलोचनं कृतभवव्यथामोचनम्
वपासुरभिलाधरं9 वरदनाम धाम स्थिरम् ॥ २६९ ॥
बाल-कृष्णः
तामेव वर्णयति - माधुर्येति । माधुर्यस्य मधुरतायाः अध्ययनार्थं शिक्षणार्थं उपसन्नाः संमिलिताः मधुनः तीरस्थवृक्षरसस्य निष्यन्दा बिन्दवो येषु तानि, पुनश्च मन्दानिलेन मन्दवायुना व्यालोलन्ति चञ्चलानि तटयोस्तीरयोः चारुभूरुहाणां सुन्दरवृक्षाणां शिखाभ्यः अग्रेभ्यः निष्पातीनि पतनशीलानि यानि पुष्पाणि तैः अधिकैः प्रवृद्धैरित्यर्थः । डिण्डीरैः फेनैः " डिण्डीरोऽब्धिकफः फेनः" इत्यमरः । स्मितवन्ति मन्दहास्ययुक्तानीव स्थितानि अपि च स्फुरता वेगेन जवेन उद्वेजितः यज्ञभङ्गभिया दुःखितः, वाजिमेधं अश्वमेधं नाम मखं यज्ञं करोतीति तत्कृत् वेधाः ब्रह्मा येषां तानि वेगापगायाः वेगवत्या नाम नद्याः पाथांसि उदकानि, नः अस्मान् दुरितात् पापात् पान्ति रक्षन्ति । पाठान्तरे, नः पान्तु रक्षन्तु इत्यर्थः । पुरा किल ब्रह्मदेवे काञ्च्यामश्वमेधं कुर्वति सति तद्विनाशार्थं सरस्वत्येव वेगवतीरूपेण यज्ञवेदिमावृणोत् इति पौराणिकी कथात्रानुसंधेया ॥ २६७ ॥
इत इति । हे सखे, इतः अस्मिन्प्रदेशे चक्षुः दृष्टिः निक्षिप्यतां दीयताम् ॥ १०७& ॥
य इति । य एष पुरो दृश्यमानः पर्वतः राजन् शोभमानः कटकः नितम्बभागः यस्य सः, राजन्तौ शोभमानौ कटौ गण्डस्थले यस्य स राजत्कटक इति च । “कटकोऽस्त्री नितम्बोऽद्रेः " " गण्डः कटो मदो दानं” इत्युभयत्राप्यमरः । अत एव सतां साधूनामालिभिः पतिभिः सदा अलिभिर्भ्रमरैश्च शोभनानां शुभफलप्रदानां दानानां शोभनस्य दानस्य मदोदकस्य च संपदा समृद्ध्या च समाश्रितः नित्यं सततं शुद्धं निर्मलं श्वेतवर्णे च तं भक्तेष्टफलदातृत्वेन प्रसिद्धं वरदं एतन्नामकं भगवन्तं वरं सुन्दरं दन्तं रदनं च, उद्वहन् धारयन् अत एव यथार्थनामा अन्वर्थनामा सः गजभूभृत् हस्तिशैलः, गजानां भूभृत् राजा च ईक्ष्यते अवलोक्यते ॥ २६८ ॥
अतीव भक्तिप्रवणान्तःकरण आह— द्विपाचलमिति । द्विपाचलं हस्तिशैलं उपाश्रितं, त्रिदशपादपः कल्पवृक्षः स्वर्गवी कामधेनुश्च तयोः त्रपाकरं लज्जोत्पादकं, भक्तेष्टप्रदानेनेति भावः । दिशां अधिपाः इन्द्रादयो लोकपालास्तान् अवति दैत्यादिदुष्टजनविनाशनेन रक्षतीति तथाभूतं, स्वतः पावनं पवित्ररूपं, कृपया दयया शिशिरे शीते लोचने यस्य तथाभूतं, कृतं भवव्यथायाः संसारपीडायाः मोचनं मुक्तिर्येन तं, वपया ब्रह्मकृताश्वमेधीयया सुरभिलः सुगन्धयुक्तः अधरः अधरोष्ठो यस्य सः तं, सुरभिलेति प्रामादिकोऽयं प्रयोगः । इलच्प्रत्ययविधायके तुन्दादिगणे सुरभिशब्दस्य पाठाभावात् । नाप्ययमाकृतिगणः । तस्मात् ‘वपासुरभिताननं’ इति पाठान्तरं पुस्तकान्तरे दृश्यते, तदेव युक्ततरमिति ज्ञेयम् । तत्र तारकादित्वादितच्- प्रत्यये सुरभितेति प्रयोगस्य सुसाध्यत्वात् । तत् वरदनाम स्थिरं धाम वैष्णवं तेजः वयम् उपास्महे भजामहे ॥ २६९ ॥
विश्वास-प्रस्तुतिः
कृशानुमामन्त्र्य-
वरदं भो भज सततं शरदम्भोरुहविलोचनं देवम् ॥
परदम्भोपहतिकरं हरदम्भोलिघरमुखमखाशनुतम् ॥ २७० ॥
पुनः सानुस्मरणरोमाञ्चम् -
तापत्रयप्रशमनादमृतं ग्रहीतुम्
तामेव वैधहयमेधवपामुपासे ॥
अम्भोधिजाधरसुधारसवासितेन
या चुम्बिता वरदराजमुखाम्बुजेन ॥ २७१ ॥
मूलम्
कृशानुमामन्त्र्य-
वरदं भो भज सततं शरदम्भोरुहविलोचनं देवम् ॥
परदम्भोपहतिकरं हरदम्भोलिघरमुखमखाशनुतम् ॥ २७० ॥
पुनः सानुस्मरणरोमाञ्चम् -
तापत्रयप्रशमनादमृतं ग्रहीतुम्
तामेव वैधहयमेधवपामुपासे ॥
अम्भोधिजाधरसुधारसवासितेन
या चुम्बिता वरदराजमुखाम्बुजेन ॥ २७१ ॥
बाल-कृष्णः
कृशानुं संबोध्याह - वरदमिति । भो कृशानो, शरदि शरदृतौ ये अम्भोरुहे कमले ते इव विलोचने नेत्रे यस्य तं परेषां शत्रूणां दम्भस्य गर्वस्य उपहतिकरं नाशकरं, हरः शिवश्च दम्भोलिधरः वज्रधर इन्द्रश्च तौ मुखे अग्रे येषां तैर्मखाशैर्यज्ञभुग्भिः देवैः नुतं स्तुतं देवं वरदं सततं निरन्तरं भज उपास्स्व । मैनं दोषदृष्ट्या द्राक्षीरिति भावः ॥ २७० ॥
तापत्रयेति । तापानां आध्यात्मिकाधिभौतिकाधिदैविकात्मकानां त्रयस्य प्रशमनात् नाशं प्राप्येत्यर्थः । त्यब्लोपे पञ्चमी । अमृतं जन्म-मरणराहित्यं मोक्ष- मिति यावत् । ग्रहीतुं स्वीकर्तु तां प्रसिद्धां विधेर्ब्रह्मणोऽयं वैधः स चासौ हयमेधोऽश्वमेधयज्ञः तत्संबन्धिनीं वपामेव उपासे सेवे । तस्याः सेवनार्हत्वमुपपादयति-अम्भोधिजेति । या वपा अम्भोधिजाया लक्ष्म्याः अधर एव सुधारसोऽमृतरसस्तेन वासितेन सुगन्धयुक्तेन वरदराजस्य भगवतो मुखाम्बुजेन मुखकमलेन चुम्बिता आस्वादिता । अतस्तामेवोपासे इति ॥ २७१ ॥
विश्वास-प्रस्तुतिः
पुनः सानन्दम्-
भुवनवहनशीला सिन्धुरागं10 भजन्ती
जयति वरदमूर्तिः साधु वेगापगा च ॥
दमयितुमवतीर्णा धातृयज्ञं द्वितीया
सफलयितुमिहाद्या सादरा11 प्रादुरासीत् ॥ २७२ ॥
कृ॰ – वयस्य तवेयं जयानभिज्ञे तस्मिन् जयतीत्युक्तिरयुक्ता । सवनसफलीकरणभणितिरपि तत्प्रतिकूल्यभाजि12 नोचिता ॥ १०८ ॥
तथाहि-
अजयज्ञोद्भवे तस्मिन्कथं नाम जयज्ञता ? ॥
सवनाशानुकूले का सवसाफल्यकारिता ? ॥ २७३ ॥
मूलम्
पुनः सानन्दम्-
भुवनवहनशीला सिन्धुरागं10 भजन्ती
जयति वरदमूर्तिः साधु वेगापगा च ॥
दमयितुमवतीर्णा धातृयज्ञं द्वितीया
सफलयितुमिहाद्या सादरा11 प्रादुरासीत् ॥ २७२ ॥
कृ॰ – वयस्य तवेयं जयानभिज्ञे तस्मिन् जयतीत्युक्तिरयुक्ता । सवनसफलीकरणभणितिरपि तत्प्रतिकूल्यभाजि12 नोचिता ॥ १०८ ॥
तथाहि-
अजयज्ञोद्भवे तस्मिन्कथं नाम जयज्ञता ? ॥
सवनाशानुकूले का सवसाफल्यकारिता ? ॥ २७३ ॥
बाल-कृष्णः
भुवनेति । भुवनानां स्वर्गादिलोकानां जलानां च वहनं धारणं प्रवहणं च शीलं स्वभावो यस्याः सा सिन्धुरः गजः तन्नामा यः अगः पर्वतस्तं हस्तिशैलमिति यावत् । पक्षे सिन्धौ समुद्रे यो रागः प्रेमा तं च भजन्ती सेवमाना सा वरदमूर्तिः वरदाभिधाना भगवतो मूर्तिः, वेगापगा वेगवतीनाम नदी च साधु यथा तथा जयति । तत्र द्वितीया वेगापगा धातुर्ब्रह्मणः यज्ञं दमयितुं विनाशयितुमवतीर्णा आविर्भूता । आद्या वरदराजमूर्तिस्तु इह काञ्च्यां नगर्यां, धातृयज्ञं सफलयितुं सफलं कर्तुं, सादरा आदरसहिता सती प्रादुरासीत् प्रकटीबभूव ॥ २७२ ॥
वयस्येति । हे वयस्य मित्र, जये अनभिज्ञः अनिपुणः जयानर्ह इत्यर्थः । तस्मिन् वरदराजे इयं तव ‘जयति’ इत्युक्तिः अयुक्ता अयोग्या । तथा सवनस्य यज्ञस्य सफलीकरणभणितिः सफलीकरणोक्तिरपि, तस्य यज्ञस्य प्रातिकूल्यं विरुद्धत्वं भजतीति तद्भाक् तस्मिन् नोचिता न योग्या ॥ १०८& ॥
उक्तार्थमेव प्रपञ्चयति–अजेति । जयं सर्वोत्कर्षं न जानातीत्यजयज्ञः, अजस्य ब्रह्मदेवस्य यज्ञोऽश्वमेधश्च तस्मात् उद्भवे उत्पन्ने तस्मिन् वरदे जयज्ञता जयज्ञानत्वं कथं नाम ? अपि तु नास्त्येवेत्यर्थः । तथा सवस्य यज्ञस्य नाशे विनाशे अनुकूलः, सवनाशानां यज्ञभुजां देवानाम् अनुकूले च तस्मिन्, सवस्य यज्ञस्य साफल्यकारिता सफलीकरणत्वं का नाम ? नास्त्येवेत्यर्थः । अत्र मुद्रितपुस्तकटीकायाम् अन्यदप्यर्थान्तरं दृश्यते । यथा - ‘पूर्वार्द्ध कथं नामेत्यत्र ‘कथं न अम’ इति छित्त्वा, हे अम भाग्यरहित कृशानो, तस्मिन् वरदे जयज्ञता कथं नास्तीति काकुः । अस्त्येवेत्यर्थ इति । उत्तरार्द्धे च ‘कासव - ’ इत्यत्र अकारं प्रश्लिष्य असवसाफल्यकारिता केति काकुः । नास्त्येव ? अपि तु सवसाफल्यकारितैवास्तीत्यर्थान्तरं चातुर्यात्कल्पयन्ति’ इति । श्लेषालंकारः ॥ २७३ ॥
विश्वास-प्रस्तुतिः
विश्वावसुः - सखे श्लेषभङ्गयैव दोषमुद्भावयता भवता तस्मिन्नखिलहेयप्रत्यनीकतैवाविष्कृता13 । युक्तं चैतत् ॥ १०९& ॥
पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे ।
भास्वति वरदे भविता न जातु दोषानुषङ्गवार्तापि ॥ २७४ ॥
समन्तादवलोकयन्नञ्जलिं बद्ध्वा-
सेवेऽनन्तसरः श्रये करिगिरिं श्रीपुण्यकोट्या14 समम्
ध्यायाम्युत्तरवेदिमत्र महितं देवाधिराजं भजे ॥
कल्याणीं कलयामि कंजनिलयां कल्याणकोटिस्थिता-
मीडे राघव यादवादिमकिटीन्वन्दे मुकुन्दाश्रितान् ॥ २७५ ॥
इति प्रतीच्यां दिशि किंचिदन्तरमतिक्रम्य सविस्मयानन्दम्
मूलम्
विश्वावसुः - सखे श्लेषभङ्गयैव दोषमुद्भावयता भवता तस्मिन्नखिलहेयप्रत्यनीकतैवाविष्कृता13 । युक्तं चैतत् ॥ १०९& ॥
पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे ।
भास्वति वरदे भविता न जातु दोषानुषङ्गवार्तापि ॥ २७४ ॥
समन्तादवलोकयन्नञ्जलिं बद्ध्वा-
सेवेऽनन्तसरः श्रये करिगिरिं श्रीपुण्यकोट्या14 समम्
ध्यायाम्युत्तरवेदिमत्र महितं देवाधिराजं भजे ॥
कल्याणीं कलयामि कंजनिलयां कल्याणकोटिस्थिता-
मीडे राघव यादवादिमकिटीन्वन्दे मुकुन्दाश्रितान् ॥ २७५ ॥
इति प्रतीच्यां दिशि किंचिदन्तरमतिक्रम्य सविस्मयानन्दम्
बाल-कृष्णः
अथ विश्वावसुः कृशानोः श्लिष्टार्थमभिनन्दयन्नाह - सख इति । हे सखे, श्लिष्यति एकीभवति अर्थबाहुल्यं यत्र स श्लेषः तस्य भक्त्या रीत्या दोषमुद्भावयता आरोपयता भवता, तस्मिन् वरदे अखिलानां हेयानां दोषाणां प्रत्यनीकता विरोधितैवाविष्कृता प्रकटीकृता । अत एव एतत् युक्तम् ॥ १०९& ॥,
युक्तत्वमेव प्रतिपादयति– पद्मेति । पद्मानां कमलानां पद्माया लक्ष्म्याश्च उल्लासं विकासं विधत्ते तच्छीलः उल्लासविधायी तस्मिन् सत्पथस्य आकाशस्य सन्मार्गस्य च दीप्तिं प्रकाशं करोतीति दीप्तिकृत् तस्मिंश्च चक्राणां चक्रवाकानां भव्यकरे संभोगरूपकुशलसाधके “भावुकं भविकं भव्यं कुशलं" इत्यमरः । चक्रेण सुदर्शनेन च भव्यः शोभनः करो हस्तो यस्य तथाभूते च वरान् इष्टार्थान् ददाति तस्मिन् भास्वति सूर्ये, तेजखिनि भगवति वरदे देवे च दोषानुषङ्गस्य रात्रिसंबन्धस्य, दोषाणां दुरितानां अनुषङ्गस्य संबन्धस्य च वार्ता कथा जातु कदाचिदपि न भविता नैव भविष्यति ॥ २७४ ॥
सेवे इति । अहं अनन्तसरो नामात्रत्यं तीर्थं सेवे, करिगिरिं हस्तिशैलं श्रये आश्रये, श्रीपुण्यकोट्या विमानेन समं सह उत्तरवेदिं ब्रह्मकृताश्वमेधीयां व्यायामि । अत्र उत्तरवेद्यां महितं पूजितं देवाधिराजं श्रीवरदं भजे, तथा कल्याणानां कोटौ प्रकर्षे " कोटिः स्त्री धनुषोऽग्रेऽश्रौ संख्याभेदप्रकर्षयोः " इति मेदिनी । अर्थात् श्रीविष्णौ विमाने वा (?) स्थितां तत्र विष्णौ प्रेमाश्रयेण विमाने चोपवेशनेन च स्थितिरिति बोध्यम् । कल्याणीं स्वयं कल्याणरूपिणीं कंजनिलयां पद्मालयां लक्ष्मीं, कलयामि शरणं व्रजामि । राघवो रामचन्द्रश्च यादवः श्रीकृष्णश्च आदिम किटिः आदिवराहश्च तान् । " वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः" इत्यमरः । ईडे स्तौमि तथा मुकुन्दाश्रितान् श्रीकृष्णभक्तांश्च वन्दे नमस्करोमि ॥ २७५ ॥
विश्वास-प्रस्तुतिः
‘अत्र हि-
स्वावज्ञानसमुन्मिषद्रुषि सरस्वत्यां विरिञ्च्याध्वर -
प्रत्यूहाय नदीप्रवाहविधिना15 पर्यापतन्त्यामहो ॥
दूने तु16 द्रुहिणे गणे च मरुतां दीने मखं विघ्नतः17
पातुं सेतुकृदेष18 सेतुरभवत्पक्षीन्द्रकेतुः स्वयम् ॥ २७६ ॥
किंच——
परं वेगं सरस्वत्या उद्वेगमपि तत्पतेः ॥
एषं सेतुर्विधरणोप्यरुणद्युगपत्प्रभुः19 ॥ २७७ ॥
मूलम्
‘अत्र हि-
स्वावज्ञानसमुन्मिषद्रुषि सरस्वत्यां विरिञ्च्याध्वर -
प्रत्यूहाय नदीप्रवाहविधिना15 पर्यापतन्त्यामहो ॥
दूने तु16 द्रुहिणे गणे च मरुतां दीने मखं विघ्नतः17
पातुं सेतुकृदेष18 सेतुरभवत्पक्षीन्द्रकेतुः स्वयम् ॥ २७६ ॥
किंच——
परं वेगं सरस्वत्या उद्वेगमपि तत्पतेः ॥
एषं सेतुर्विधरणोप्यरुणद्युगपत्प्रभुः19 ॥ २७७ ॥
बाल-कृष्णः
स्वावज्ञानेति ।स्वस्य आत्मनः अवज्ञानेन अपमानेन समुन्मिषती उत्पद्यमाना रुट् कोपो यस्याः “कोप - क्रोधामर्ष - रोष - प्रतिघा रुट्-कुधौ स्त्रियौ ” इत्यमरः । तस्यां सरस्वत्यां विरिञ्च्याध्वरे ब्रह्मकृताश्वमेधयज्ञे प्रत्यूहाय विघ्नं कर्तुं “क्रियार्थोपपदस्य –” इत्यादिना चतुर्थी । " विघ्नोऽन्तरायः प्रत्यूहः" इत्यमरः । प्रवाहविधिना वेगवतीप्रवाहरीत्या, पर्यापतन्त्यां सत्यां, द्रुहिणे ब्रह्मणि तु, दूने यज्ञविघ्नेन दुःखिते सति ‘दु गतौ’ इत्यस्मात् क्तप्रत्यये " त्वादिभ्यः” इति सूत्रस्थ- “दुग्वोदर्घश्च” इति वार्तिकेन नत्वं दीर्घश्च । मरुतां देवानां गणे समुदाये च दीने खिन्ने सति, मखं यज्ञं विघ्नतः विघ्नात् पातुं रक्षितुं, सेतुकृत् प्रवाहप्रतिबन्धकृत्, एषः पक्षीन्द्रकेतुः गरुडध्वजो विष्णुः स्वयमेव सेतुरभवत् । अहो भगवतः प्रभाव इत्यर्थः ॥ २७६ ॥
परमिति । एषः भगवान् श्रीवरदनामा प्रभुः विधरणो धारकः, वेदोक्तविधानस्येत्यर्थात् । अत एव सेतुः परं, एतदुभयान्वयि । सरस्वत्या वाग्देव्याः वेगं प्रवाहं, तस्याः सरस्वत्याः पतेः ब्रह्मणः उद्वेगं दुःखं च युगपत् एकदैव न्यरुणत् निरुद्धवान् । तुल्ययोगितालंकारः । “ नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता " इति तल्लक्षणात् । एवं सति भावदर्पणकृता ‘एष सेतुर्विधरण -’ इति प्राचीनबहुपुस्तकानुकूलं पाठमनादृत्य ’ स एष सेतूद्धरणः’ इति एकदेशीयपाठं स्वीकृत्य च ’ उद्धरण इत्यस्य ‘भञ्जकः निष्पादकश्च’ इत्यर्थद्वयं कृत्वा, ‘अत्र सेतोर्भजननिष्पादनयोः श्लेषभित्तिकयाभेदाध्यवसायाद्विरोधाभासः’ इति यदुक्तं तत्तस्य स्थूलबुद्धित्त्वं पिशुनयति । सरलपाठसत्त्वे तस्मात्सरलार्थलाभे च सति बुद्धिपुरःसरं श्लेषार्थकरणस्यास्वारस्यात् । अत एव उद्धरणपदस्य ’ भञ्जकः ’ इत्यर्थश्चिन्त्यः अप्रसिद्धत्वात् । इत्यलमप्रस्तुतपल्लवितेन ॥ २७७ ॥
विश्वास-प्रस्तुतिः
अपि च-
आशामीशानबन्धोश्चरणनखरुचां धारया स्मेरयन्ती
कुम्भीडिम्भस्य20 काष्ठामपि मणिमुकुटन्युप्तमुक्ता21 मयूखैः ॥
पर्यङ्के शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेत्रा
व्यक्तिर्वेगापगायां स्वपिति समुदिता22 काऽपि तापिच्छवर्णा॥२७८॥
सप्रत्यभिज्ञम् -
प्राजापत्यमखान्तरायतटिनीपाथोनिरोधोद्यतः
प्राप्तः पावनहेमतामरसिनीतीरं कृपारम्यधीः ॥
क्षेमं कोमल वल्लिकासहचरः पुष्णातु कृष्णाम्बुद-
च्छायः सोऽयमवातरन्महति यो रङ्गे भुजङ्गेशयः ॥ २७९ ॥
मूलम्
अपि च-
आशामीशानबन्धोश्चरणनखरुचां धारया स्मेरयन्ती
कुम्भीडिम्भस्य20 काष्ठामपि मणिमुकुटन्युप्तमुक्ता21 मयूखैः ॥
पर्यङ्के शब्दविद्यापरिमलसरले पङ्कजस्पर्धिनेत्रा
व्यक्तिर्वेगापगायां स्वपिति समुदिता22 काऽपि तापिच्छवर्णा॥२७८॥
सप्रत्यभिज्ञम् -
प्राजापत्यमखान्तरायतटिनीपाथोनिरोधोद्यतः
प्राप्तः पावनहेमतामरसिनीतीरं कृपारम्यधीः ॥
क्षेमं कोमल वल्लिकासहचरः पुष्णातु कृष्णाम्बुद-
च्छायः सोऽयमवातरन्महति यो रङ्गे भुजङ्गेशयः ॥ २७९ ॥
बाल-कृष्णः
आशामिति । ईशानस्य शंकरस्य बन्धोः कुबेरस्य आशां उत्तरदिशं चरणनखरुचां पादनखकान्तीनां धारया परंपरया, कुम्भीडिम्भस्य कुम्भबालकस्य अगस्त्यस्येत्यर्थः । काष्ठां दक्षिणां दिशमपि, " दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” इति पूर्वत्रात्र चामरः । अगस्त्यो हि गर्वात्प्रवृद्धं विन्ध्यादिं नमयित्वा दक्षिणां दिशं गतः स तत्रैव स्थित इत्यादिकथा काशीखण्डतोऽवगन्तव्या । मणिमयमुकुटे न्युप्तानां खचितानां मुक्तानां मयूखैः किरणैश्च स्मेरयन्ती प्रकाशयन्ती, दक्षिणदिशि शिरः उत्तरदिशि पादौ च कृत्वा शयानेत्यर्थः । पङ्कजस्पर्धिनेत्रा कमलतिरस्कारकर्तृनयना, तापिच्छवर्णा तमालवच्छ्यामवर्णा, अत एव कापि अनिर्वचनीयमाहात्म्या, अत्र समुदिता उत्पन्ना व्यक्तिः श्रीरङ्गनायकरूपा, वेगापगायां तस्यास्तीरे इति लक्षणयार्थः । शब्दविद्यायाः व्याकरणमहाभाष्यरूपायाः परिमलेन सुगन्धेन सरले उदारे पर्यङ्के, अर्थात् शेषशयने स्वपिति शेते । व्याकरणमहाभाष्यकृत् पतञ्जलिर्भगवान् शेषावतार इति प्रसिद्धत्वादियमुक्तिः ॥ २७८ ॥
प्राजापत्येति । कृष्णाम्बुदस्य नीलवर्णमेघस्येव छाया कान्तिर्यस्य सः, मेघवच्छ्यामवर्ण इत्यर्थः । “ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः” इत्यमरः । सः भुजङ्गेशयः शेषशायी, अस्माकमिति शेषः । क्षेमं कुशलं पुष्णातु वर्धयतु । कीदृशः भुजङ्गेशयः । प्रजापतेर्ब्रह्मणः अयं प्राजापत्यः स चासौ मखोऽश्वमेधयज्ञश्च प्राजापत्यमखः तस्य अन्तरायरूपायाः विघ्नरूपायास्तटिन्याः वेगवतीनद्याः, पाथसो जलस्य निरोधार्थम् उद्यतः आविर्भूतः । पावना पवित्रा या हेमतामरसिनी सुवर्णकमलयुक्ता काचित्सरसी तस्यास्तीरं प्राप्तः । अत एव कृपया दयया हेतुभूतया रम्या धीर्बुद्धिर्यस्य सः, कोमलवल्लिकायाः एतन्नाम्न्याः पत्न्याः सहचरः यः अयं महति रङ्गे एतन्नामक्षेत्रे, अवातरत् प्रकटीबभूव । स इति संबन्धः ॥ २७९ ॥
विश्वास-प्रस्तुतिः
पुनरनुध्यायन् सानन्दम्-
शतमखमणिस्तोमश्यामं शयानमहीश्वरे
शशिसखमुखं राजीवाक्षं समुन्नतनासिकम् ॥
महितचरणं धातुः पत्न्या महस्तमसः परम्
हृदि लगतु मे बिम्बोष्ठं तद्यथोक्तकृदाह्वयम्23 ॥ २८० ॥
किंच—
वेगवतीसेतुतया प्रागवतीर्णादिदेवता विनतान् ॥
द्रागवतीयं दुरिताद्रागवती कलशजलधिकन्यायाम् ॥ २८१ ॥
कृ॰ - अहो कथमाशुकविः सन्नपि भवानमुं देवमभिनन्दति24 ? तथाहि ॥ ११०& ॥
अधः करोत्यादिमशाब्दिकोरगं कलानिधिं धिक्कुरुते मुखेन यः ॥
कृतान्तरायस्य सरस्वतीजवे स्तवे रुचिस्तस्य कथं भवेत्कवेः ॥ २८२ ॥
मूलम्
पुनरनुध्यायन् सानन्दम्-
शतमखमणिस्तोमश्यामं शयानमहीश्वरे
शशिसखमुखं राजीवाक्षं समुन्नतनासिकम् ॥
महितचरणं धातुः पत्न्या महस्तमसः परम्
हृदि लगतु मे बिम्बोष्ठं तद्यथोक्तकृदाह्वयम्23 ॥ २८० ॥
किंच—
वेगवतीसेतुतया प्रागवतीर्णादिदेवता विनतान् ॥
द्रागवतीयं दुरिताद्रागवती कलशजलधिकन्यायाम् ॥ २८१ ॥
कृ॰ - अहो कथमाशुकविः सन्नपि भवानमुं देवमभिनन्दति24 ? तथाहि ॥ ११०& ॥
अधः करोत्यादिमशाब्दिकोरगं कलानिधिं धिक्कुरुते मुखेन यः ॥
कृतान्तरायस्य सरस्वतीजवे स्तवे रुचिस्तस्य कथं भवेत्कवेः ॥ २८२ ॥
बाल-कृष्णः
शतमखेति । शतमखमणीनां इन्द्रनीलानां स्तोमः समूह इव श्यामं नीलवर्णं, अहीश्वरे शेषे शयानं खपत्, शशिनः सखि मित्रभूतं मुखं यस्य तत्, चन्द्रतुल्यमुखमित्यर्थः । राजीवाक्षं कमलनेत्रं, समुन्नता नासिका यस्य तत् धातुः प्रजापतेः पत्या सरस्वत्या महितौ पूजितौ चरणौ यस्य तत्, बिम्बमिव ओष्ठौ यस्य तत्, यथोक्तकृत् उक्तमनतिक्रम्य कारीति आह्वयः नाम यस्य तत्, यद्वा, अत्र भावदर्पणकृदर्थान्तरमाह - ‘यथा पूर्वार्द्ध शकारादित्वेन उत्तरार्धं मकारादित्वेन उक्तं शममित्यर्थः । कुर्वन्तीति शमकृतः शान्तिसुखदायका आह्वया नामानि यस्येति । तमसः अज्ञानात् परं ज्ञानरूपमित्यर्थः । तत् महः वैष्णवं तेजः मे हृदि लगतु तिष्ठतु ॥ २८० ॥
वेगवतीति । किंच इयं आदिदेवता श्रीरङ्गनायकमूर्तिः, वेगवत्या नद्याः सेतुतया सेतुवन्निरोधरूपेण प्राक् ब्रह्मकृताश्वमेधकाले अवतीर्णा आविर्भूता, कलशजलधिः क्षीरसागरस्तस्य कन्यायां लक्ष्म्यां रागवती प्रेमवती, विनतान् भक्तिनम्रान् दुरितात् पापात् द्राग् झटिति अवति संरक्षति ॥ २८१ ॥
अथ कृशानुरुपपादितमेवार्थे द्रढयितुं श्लेषरूपं दूषणमाह- अहो इति । अहो इत्याश्चर्ये । भवान् आशुकविः शीघ्रकविः सन्नपि, अनेन तस्य सदसद्विवेकसामर्थ्य सूचितम् । अमुं श्रीरङ्गनायकं देवं कथं अभिनन्दति ? ॥ ११०& ॥
अनभिनन्दनीयत्वमेवोपपादयति - अध इति । यः रङ्गनाथः आदिमः प्रथमश्चासौ शाब्दिकः शब्दशास्त्रवेत्ता व्याकरणशास्त्रज्ञ इत्यर्थः । " तदधीते तद्वेद ” इत्यधिकारे वसन्तादित्वाट्ठक् । स चासौ उरगः शेषः तं तेनैव पतञ्जलिरूपेण महाभाष्यकरणात् । अधः करोति तिरस्करोति शयनार्थमधः प्रदेशे करोतीति तु वास्तवोऽर्थः । तथा मुखेन पक्षे वाचा कलानिधिं चन्द्रं, कलानां निखिलविद्यानां निधिं बृहस्पतिं च धिक्कुरुते धिक्कारं करोतीत्यर्थः । तथा सरखत्याः वाण्याः वेगवत्या नद्याश्च जवे प्रसारणे वेगे च कृतः अन्तरायो विघ्नं येन सः, तस्य स्तवे स्तुतौ विषये, कवेः पण्डितस्य रुचिः कथं भवेत् ? अपि तु नैव भवेदेवेत्यर्थः ॥ २८२ ॥-
विश्वास-प्रस्तुतिः
वि॰—किमेभिः श्लेषैकावलम्बनैर्दोषैरमुं देवमाश्रितेषु जनेषु खल्वप्रत्यूहः25 सरस्वतीप्रवाहो विजयते ॥ १११& ॥
पश्य -
कल्पन्ते कामरामास्फुरदधरसुधागर्वसर्वस्वमोषो-
द्युक्तान्युक्तान्यमीषां रसिकजनमुदे धातृयोषा हि येषाम् ॥
श्लाघावेलासु दोलायितनिजमुकुटाकल्पकल्पद्रुसूनो-
ड्डीनालिघ्वानतानाकलनपरिमिलच्चारुवीणाभिगाना26 ॥२८३ ॥
मूलम्
वि॰—किमेभिः श्लेषैकावलम्बनैर्दोषैरमुं देवमाश्रितेषु जनेषु खल्वप्रत्यूहः25 सरस्वतीप्रवाहो विजयते ॥ १११& ॥
पश्य -
कल्पन्ते कामरामास्फुरदधरसुधागर्वसर्वस्वमोषो-
द्युक्तान्युक्तान्यमीषां रसिकजनमुदे धातृयोषा हि येषाम् ॥
श्लाघावेलासु दोलायितनिजमुकुटाकल्पकल्पद्रुसूनो-
ड्डीनालिघ्वानतानाकलनपरिमिलच्चारुवीणाभिगाना26 ॥२८३ ॥
बाल-कृष्णः
किमिति । एभिस्तवोक्तैः श्लेषैकावलम्बनैः श्लेषेकाश्रयैः दोषैः किम् ? वस्तुतः अमुं श्रीरङ्गेश्वरं देवं आश्रितेषु, भक्त्येति शेषः । जनेषु अप्रत्यूहः निष्प्रतिबन्धः सरस्वतीप्रवाहो वाग्देवताप्रसारः विजयते खलु ॥ १११& ॥
सरस्वतीविजयमेव सविस्तरमाह- कल्पन्त इति । अमीषां श्रीरङ्गनाथाश्रितानाम् उक्तानि भाषणानि कामरामायाः मदनपत्न्या रत्याः स्फुरति शोभने अधरे या सुधा अमृतं तस्य यत् गर्वसर्वस्वम् अभिमानरूपं धनं तस्य मोषे अपहरणे उद्युक्तानि तत्पराणि सन्ति । अर्थात् रत्यधरापेक्षयापि अतीव मधुराणीति ज्ञेयम् । रसिकानां जनानां मुदे आनन्दे कल्पन्ते । तदानन्दसंपादकानि भवन्तीत्यर्थः । “क्लृपि संपद्यमाने च” इति चतुर्थी । हि अत एव येषां भक्तानां तदुक्तीनां वा, श्लाघावेलासु प्रशंसाकालेषु धातुर्ब्रह्मणः योषा पत्नी सरस्वती दोलायितेभ्यः दोलावदाचरद्भ्यः शिरःकम्पनेन चलद्भ्य इत्यर्थः । निजमुकुटस्य स्वकीयकिरीटस्य आकल्पेभ्यः भूषणभूतेभ्यः कल्पद्रुसूनेभ्यः कल्पवृक्षपुष्पेभ्यः उड्डीनाः उत्पतन्तः ये अलयो भ्रमरास्तेषां ध्वानवत् निनादवत् गुञ्जारवशब्दवदिति यावत् । यत्तानं गानोत्कर्ष संपादकस्वराणां आरोहावरोहकरणं तस्य आकलनेन तदनुसरणेनेति यावत् । परिमिलत् विशेषतः शोभमानं चारु वीणया अभिगानं यस्याः सा तथाभूता भवति । एतेषामुक्तानि श्रुत्वा भगवती सरस्वत्यपि सशिरःकम्पाभिनन्दनं गायति, तदा च तच्छिरस्थकुसुमोत्थितभ्रमरारावः तस्याः गानस्वरश्च द्वावप्येकरूपौ भवत इत्यर्थः । यद्येतावत्तद्भक्तानां माहात्म्यं, तर्हि प्रत्यक्षं भगवतः श्रीरङ्गनाथस्य किमु वक्तव्यमिति भावः ॥ २८३ ॥
विश्वास-प्रस्तुतिः
क्षेमारम्भनिदानमाप्लवजुषां हेमाभिरामाम्बुज-
स्तोमायातमरन्दलम्भितपयोभूमा27 स्वभूमानिता ॥
सह्याद्रिप्रभवासमानविभवा मह्यामसह्यार्तिहृत्28
पुह्या29 योगिवरेण्यपुण्यसरसी द्रुह्यादसह्यांहसे ॥ २८४ ॥
इति विमानं दक्षिणतः प्रस्थाप्य सादरमक्षि निक्षिप्य प्राञ्जलिर्भूत्वा -
विश्वाह्लादकरीं करीन्द्रसरसीकल्हारपारम्परी-
भव्यामोदधुरन्धरानिलजडे30 दिव्यालये जाग्रतीम् ॥
कष्टापद्विनिवर्तिनीं घनतपःक्लिष्टात्मनां योगिना-
मिष्टामष्टभुजां भजामि31 विबुधैराराधितां32 देवताम् ॥ २८५ ॥
मूलम्
क्षेमारम्भनिदानमाप्लवजुषां हेमाभिरामाम्बुज-
स्तोमायातमरन्दलम्भितपयोभूमा27 स्वभूमानिता ॥
सह्याद्रिप्रभवासमानविभवा मह्यामसह्यार्तिहृत्28
पुह्या29 योगिवरेण्यपुण्यसरसी द्रुह्यादसह्यांहसे ॥ २८४ ॥
इति विमानं दक्षिणतः प्रस्थाप्य सादरमक्षि निक्षिप्य प्राञ्जलिर्भूत्वा -
विश्वाह्लादकरीं करीन्द्रसरसीकल्हारपारम्परी-
भव्यामोदधुरन्धरानिलजडे30 दिव्यालये जाग्रतीम् ॥
कष्टापद्विनिवर्तिनीं घनतपःक्लिष्टात्मनां योगिना-
मिष्टामष्टभुजां भजामि31 विबुधैराराधितां32 देवताम् ॥ २८५ ॥
बाल-कृष्णः
क्षेमेति । इयं योगिनां तपखिनां वरेण्या स्पृहणीया पुण्या च सरसी सरः, पुह्या नाम, असह्यं सोढुमशक्यं च तत् अंहः पापं तस्मै द्रुह्यात् ।" क्रुध द्रुह- कुध दुह - " इत्यादिना चतुर्थी । असह्यदुःखोत्पादकं पापं नाशयत्वित्यर्थः । कथंभूता पुह्या । आप्लवं स्नानं जुषन्ति सेवन्ते कुर्वन्तीति यावत् । तेषां क्षेमाणां कल्याणानामारम्भे उत्पादने निदानमादिकारणम् । “निदानं त्वादिकारणम् ” इत्यमरः । अत एव स्वभुवा ब्रह्मणा मानिता पूजिता, कुतः । सह्याद्रेः प्रभव उत्पत्तिर्यस्याः सा कावेरी नदी तया समानस्तुल्यः विभवो माहात्म्यं यस्याः सा तथाभूता । अनेन विशेषणत्रयेण तस्याः पापनाशनसामर्थ्यं द्योत्यते । पुनः कीदृशी । हेमवत् सुवर्णवत् अभिरामाणि मनोहराणि यान्यम्बुजानि कमलानि तेषां स्तोमात् समूहात् आयातः उत्पन्नः मरन्दः मकरन्दः तेन लम्भितः संप्राप्तः पयोभूमा उदकातिशयो यस्याः सा । अत एव मह्यां पृथिव्यां असह्या सोढुमशक्या पिपासादिरूपा आर्तिः पीडा तां हरतीति हृत् । सर्वदा जलपूर्णत्वात् पिपासादिनिखिलदुःखनाशिनीत्यर्थः ॥ २८४ ॥
इतीति । दक्षिणतो दक्षिणस्यां दिशि प्रस्थाप्य गमयित्वा । अक्षि नेत्रं निक्षिप्य प्रेरयित्वा, अवलोक्येत्यर्थः
विश्वेति । विबुधैर्देवैः पण्डितैर्वा आसेविताम् अष्टभुजां देवतां देवीं लक्ष्मीं भजामि आराधयामि । कीदृशीमष्टभुजाम् । विश्वस्य जगतः आह्लादकरीं आनन्दकरीम् । कष्टानां दुःखरूपाणां आपदां विनिवर्तिनीं नाशयित्रीम् । घनं संततं च तत् तपः तेन क्लिष्टः श्रान्तः आत्मा चित्तं येषां तेषां योगिनां इष्टां स्पृहणीयां तपःकर्तॄणामिच्छितफलदात्रीमित्यर्थः । तत्र हेतुमाह करीन्द्रसरसी हस्तिसरो नाम तीर्थं तस्यां या कल्हाराणां रक्तकमलानां पारंपरी पङ्क्तिः तस्याः भव्यस्य मनोहरस्य आमोदस्य सुगन्धस्य धुरंधरेण धूर्वहेण तद्वाहकेनेत्यर्थः । अनिलेन वायुना जडे
शिशिरे, शीतले इत्यर्थः । “शिशिरो जडः" इत्यमरः । दिव्यालये दिव्यमन्दिरे जाग्रतीं प्रत्यक्षरूपेण सदा भक्तेष्टफलप्रदामित्यर्थः । तामिति संबन्धः ॥ २८५ ॥
विश्वास-प्रस्तुतिः
अथ प्रतीच्यां दिशि किंचिदन्तरं विमानमानीय सहर्षम् –
त्रिदशाकलितस्नेहस्फूर्तिमान्33 शमयंस्तमः ॥
भाति दीपप्रकाशोऽत्र शरणागतबोधकृत् ॥ २८६ ॥
कृ॰ - दीपप्रकाशसंज्ञा देवेऽस्मिन्नुत्तमस्फुरणे ॥
रात्रिचरप्रतिकूले नदीपजातोल्लसद्रुचौ नार्हा ॥ २८७ ॥
वि॰ - मन्दमते मैवं भाणीः ॥ ११२&॥
मूलम्
अथ प्रतीच्यां दिशि किंचिदन्तरं विमानमानीय सहर्षम् –
त्रिदशाकलितस्नेहस्फूर्तिमान्33 शमयंस्तमः ॥
भाति दीपप्रकाशोऽत्र शरणागतबोधकृत् ॥ २८६ ॥
कृ॰ - दीपप्रकाशसंज्ञा देवेऽस्मिन्नुत्तमस्फुरणे ॥
रात्रिचरप्रतिकूले नदीपजातोल्लसद्रुचौ नार्हा ॥ २८७ ॥
वि॰ - मन्दमते मैवं भाणीः ॥ ११२&॥
बाल-कृष्णः
त्रिदशेति । तृतीया तारुण्यरूपा दशा अस्ति येषां ते त्रिदशाः देवास्तेषु आकलिता उत्पन्ना स्नेहस्य प्रेम्णः स्फूर्तिः आविर्भावः अस्यास्तीति स्फूर्तिमान् । “सदा युवानो देवासः” इति श्रुत्या देवानामेव सदा तरुणत्वं प्रोक्तम् । पक्षे तिसृभिः दशाभिर्वर्तिभिः आकलितेन संबद्धेन स्नेहेन तैलघृतादिना स्फूर्तिः कान्तिरस्यास्तीति च । तमः अज्ञानं अन्धकारं च शमयन् निवारयन् सन्, अत एव शरणं रक्षणार्थं गृहं च “शरणं गृहरक्षित्रोः” इत्यमरः । आगतानां प्राप्तानां बोधं ज्ञानं स्वप्रकाशेन यथास्थानस्थितवस्त्ववगमं च करोतीति तत्कृत् दीपप्रकाशः एतन्नामा भगवान् दीपस्य प्रकाशश्च अत्र पुरोवर्तिस्थले भाति प्रकाशते ॥ २८६ ॥
दीपेति । अस्मिन् त्वया प्रशंसिते उद्गतं उत्पन्नं तमसः अज्ञानस्य अन्धकारस्य च स्फुरणं यस्मात्, पक्षे उत्तमम् इतरविलक्षणं स्फुरणं प्रकाशो यस्य तस्मिन् इति चार्थः । " यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् " " भीषास्माद्वातः पवते भीषोदेति सूर्यः” इत्यादिश्रुति-स्मृतिवचनात् । रात्रौ निशायां चरन्ति परिभ्रमन्ति ते रात्रिचराश्चोरादयः राक्षसाश्च " राक्षसः कोणपः क्रव्यात् क्रव्यादोस्रप आशरः । रात्रिंचरो रात्रिचरः " इत्यमरः । तेषां प्रतिकूले विरुद्धे, दीपाज्जाता उत्पन्ना उल्लसन्ती प्रकाशमाना च रुचिः कान्तिः न विद्यते यस्य तस्मिन् पक्षे नदीः पाति रक्षतीति नदीपः समुद्रः तस्माज्जाता उत्पन्ना लक्ष्मीः तस्याम् उल्लसन्ती अनुदिनं वर्धमाना रुचिः प्रीतिर्यस्य तस्मिन्निति च । देवे श्रीविष्णुरूपे दीपप्रकाश इति संज्ञा नाम " संज्ञा स्याच्चेतना नाम " इत्यमरः । नार्हा न योग्या । अत्र निन्दायाः श्लेषार्थेन स्तुतौ पर्यवसानाद् व्याज- स्तुतिरलंकारः ॥ २८७ ॥
मैवं भाणीः एवं मा वदेत्यर्थः । भणधातोर्लुङि " न माङ्योगे "
॥ ११२& ॥
विश्वास-प्रस्तुतिः
प्रकटितदशावतारे
प्रचुराज्याकलन-भावित-स्फुरणे ॥
दीप-प्रकाश-नाम
क्षमं विभावर्य्-उदित-भीति-हरे ॥ २८८ ॥
मूलम्
प्रकटितदशावतारे प्रचुराज्याकलनभावितस्फुरणे ॥
दीपप्रकाशनाम क्षमं विभावर्युदितभीतिहरे ॥ २८८ ॥