२० चन्नपट्टण (मद्रास) वर्णनम्

विश्वास-प्रस्तुतिः

अथ चन्नपट्टण (मद्रास) वर्णनम्॥

इति विमानम् अन्यतः प्रस्थापयन्न्
अग्रतो दृष्ट्वा –

एषा कैरविणी विशल्यकरणी दोषाशुगार्तात्मना -
मेतद्रोधसि पार्थसारथिरिति ख्यातः समिन्धे हरिः ॥
यत्पादाम्बुजचुम्बिनां सुरपतेः कोटीरगारुत्मत-
स्तोमानां तुलसीदलप्रकरतो नो वेद भेदं जनः ॥ २६० ॥

मूलम्

अथ चन्नपट्टण (मद्रास) वर्णनम्॥

इति विमानमन्यतः प्रस्थापयन्नग्रतो दृष्ट्वा –
एषा कैरविणी विशल्यकरणी दोषाशुगार्तात्मना -
मेतद्रोधसि पार्थसारथिरिति ख्यातः समिन्धे हरिः ॥
यत्पादाम्बुजचुम्बिनां सुरपतेः कोटीरगारुत्मत-
स्तोमानां तुलसीदलप्रकरतो नो वेद भेदं जनः ॥ २६० ॥

बाल-कृष्णः

अथ चन्नपट्टणवर्णनं सूचयन्नाह कविः - इतीत्यादि ।

एषेति । एषा कैरविणी सरसी, अत्र विराजते इति शेषः । कथंभूता सा । दोषाः पापान्येव आशुगा बाणास्तैः आर्तः आत्मा अन्तःकरणं येषां तेषां संसारदोषखिन्नचित्तानामिति यावत् । विशल्यकरणी शरीरनिर्विष्टबाणाग्रनिस्सारिणी । एतद्रोधसि अस्याः कैरविण्यास्तीरे, पार्थसारथिः इति नाम्ना ख्यातः प्रसिद्धः हरिः विष्णुः समिन्धे सम्यक् प्रकाशते । कीदृशः सः । यस्य पार्थसारथेः पादाम्बुजं चरणकमलं चुम्बन्ति स्पृशन्ति ते तथाभूतास्तेषां सुरपतेरिन्द्रस्य कोटीरगारुत्मतस्तोमानां किरीटस्थमरकतमणिसमूहानां तुलसीदलानां तुलसीपत्राणां प्रकरः समूहः तस्मात् भेदं भिन्नत्वं जनः नो वेद नैव जानाति । वर्णसाम्यात् मरकतमणीनपि तुलसीपत्राण्यवगच्छतीत्यर्थः ॥ २६० ॥

विश्वास-प्रस्तुतिः

अत्र वसन्तः सन्तश्चिरंतनोक्त्यन्तचिन्तनाश्रान्ताः ॥
आतन्वन्तं सुचरितमातन्वन्तो विभान्ति मानधनाः1 ॥ २६१ ॥
कृशानुः– अस्तु तथापि परिकलितगुणप्रहाणहूणप्रायहेयजननिबिडनगरविशेषसन्निकर्ष2 एवात्र महान् दोषः । दुर्लभाः खलु हूणेभ्यः कुत्सिततमा लोके ॥ १०४& ॥
हूणाः करुणाहीनास्तृणवद्ब्राह्मणगणं न3 गणयन्ति ।
तेषां दोषाः पारे वाचां ये नाचरन्ति शौचमपि ॥ २६२ ॥
पुनः सनिर्वेदं विधिमुद्दिश्य-4
शौचत्यागिषु हूणकादिषु धनं शिष्टेषु च क्लिष्टताम्
दुर्मेधस्सु धराधिपत्यमतुलं दक्षेषु भिक्षाटनम् ॥
लावण्यं ललनासु दुष्कुलभवास्वग्र्यासु नीरूपताम्
कष्टं सृष्टवता त्वया हतविधे किं नाम लब्धं फलम् ॥ २६३ ॥

अत्रेति । किंच अत्र कैरविणीतीरे वसन्तो वासं कुर्वन्तः सन्तः सज्जनाः, चिरंतनस्य ब्रह्मण उक्तयो वेदास्तेषामन्ता उपनिषदस्तेषां चिन्तनेन विचारेण अश्रान्ताः विश्रामरहिताः सततमुपनिषद्विचारासक्ता इत्यर्थः । अत एव आतन्वन्तं शरीरावसानपर्यन्तं सुचरितं सत्कर्म आतन्वन्तो विस्तारयन्तः कुर्वन्त इति यावत् । मानधनाः सन्तः विभान्ति प्रकाशन्ते ॥ २६१ ॥

अथ कृशानुहीनजनसांनिध्यादिरूपं दोषमुद्घाटयन्नाह - अस्त्विति । पूर्वोक्त- प्रकारं सर्वमस्तु नाम, तथापि परिकलितं स्वीकृतं गुणानां दयादाक्षिण्यादीनां प्रहाणं त्यागो यैस्तथाभूता हूणाः श्वेतवर्णाः म्लेच्छादिहीनकुलोद्भवा नराः प्रायाः बहवो येषु तादृशैः अत एव हेयैस्त्याज्यैः जनैः निबिडस्य परिपूर्णस्य नगरविशेषस्य चन्नपट्टणस्य सन्निकर्षः सान्निध्यमेव अत्र क्षेत्रे, महान् दोषः । यतः हूणेभ्यः कुत्सिततमाः अतिनिन्दनीयाः लोके जनाः दुर्लभाः खलु ॥ १०४& ॥

कुत्सिततमत्वमेव स्पष्टयति-हूणा इति । करुणया दयया हीनाः हूणाः ब्राह्मणगणं ब्राह्मणसमुदायं तृणवत् तृणमिव न गणयन्ति । तुच्छीकुर्वन्तीत्यर्थः । किंच ये हूणाः शौचं पुरीषोत्सर्गानन्तरं गुदप्रक्षालनादिरूपमपि न आचरन्ति, किमुत मृज्जलादिना स्नानादिरूपं, अत एव तेषां दोषाः पापानि पारे वाचां वाचा वक्तुमशक्या इत्यर्थः । सन्तीति शेषः ॥ २६२ ॥

पुनरिति । सनिर्वेदं सखेदं विधिं ब्रह्माणमुद्दिश्य —-

शौचेति । हे हतविधे मन्द प्रजापते, शौचं त्यक्तुं शीलं येषां तेषु हूणकादिषु हूण-म्लेच्छादिषु धनं द्रव्यं, शिष्टेषु सदाचरणसंपन्नेषु जनेषु च क्लिष्टतां दारिद्र्यं दुष्टा मेधा बुद्धिर्येषां तेषु " नञ्- दुस्- सुभ्यः" इत्यनुवर्तमाने “नियमसिच् प्रजामेधयोः" इत्यसिच् समासान्तः । धरायाः पृथ्व्याः अतुलं अनन्यसदृशं आधिपत्यं स्वामित्वं, दक्षेषु बुद्धिमत्सु च भिक्षाटनं भिक्षार्थ संचारम्, तथा दुष्कुलभवासु यवनम्लेच्छादिहीनकुलोत्पन्नासु ललनासु स्त्रीषु लावण्यं सौन्दर्यम् अग्र्यासु श्रेष्ठब्राह्मणादिकुलोत्पन्नासु स्त्रीषु च नीरूपतां कुरूपत्वं एतादृशं परस्परविरुद्धं सृष्टवता उत्पादयता त्वया किं नाम फलं लब्धं प्राप्तम् ? कष्टम् अन्याय्यम् ॥ २६३ ॥

विश्वास-प्रस्तुतिः

विश्वावसुः - पश्य5 त्वमेतेष्वपि गुणग्राहित्वम् ॥ १०५ ॥
प्रसह्य न हरन्त्यमी परधनौघमन्यायतो
वदन्ति न मृषावचो विरचयन्ति वस्त्वद्भुतम् ॥
यथाविधि कृतागसां विदधति स्वयं दण्डनम्
गुणानवगुणाकरेष्वपि गृहाण हूणेष्वमून् ॥ २६४ ॥

  1. शान्तिधनाः ↩︎ ↩︎

  2. परिकल्पित ↩︎ ↩︎

  3. विगणयन्ति ↩︎ ↩︎

  4. दैव ↩︎ ↩︎

  5. अवेहि,एहि ↩︎ ↩︎