२० चञ्जीपुरी-(तंजावूर्)-वर्णनम्

विश्वास-प्रस्तुतिः

अथ चञ्जीपुरी (तञ्जावूर् ) वर्णनम्॥

इति दक्षिणतो विमानमानयन्1 सशिरःकम्पम्-

खञ्जीकृताखिलहृदां रमणीमणीनाम्
मञ्जीरमञ्जुतरशिञ्जितरञ्जितेन ॥
चञ्जीपुरी युवगणेन चकास्ति पूर्णा
सञ्जीवितोग्रपरिवञ्चितपञ्चबाणा ॥ ३७३ ॥

मूलम्

अथ चञ्जीपुरी (तञ्जावूर् ) वर्णनम्॥

इति दक्षिणतो विमानमानयन्1 सशिरःकम्पम्-
खञ्जीकृताखिलहृदां रमणीमणीनाम्
मञ्जीरमञ्जुतरशिञ्जितरञ्जितेन ॥
चञ्जीपुरी युवगणेन चकास्ति पूर्णा
सञ्जीवितोग्रपरिवञ्चितपञ्चबाणा ॥ ३७३ ॥

बाल-कृष्णः

अथ चञ्जीपुरीं वर्णयति – खञ्जीकृतेति । खञ्जीकृतं निरभिमानीकृतम् अखिलानां स्त्रीजनानां हृन् मनो याभिस्तासां रमणीमणीनां स्त्रीरत्नानां मञ्जीराणां नूपुराणां मञ्जुतरम् अतिमञ्जुलं यत् शिञ्जितं शब्दः तेन रञ्जितः अनुरक्तीकृतः तेन, यूनां तरुणानां गणेन समूहेन पूर्णा, अत एव सञ्जीवितः उग्रेण शिवेन परिवञ्चितः भस्मीकृतः पञ्चबाणो मदनो यया सा चञ्जीपुरी ’ तञ्जावूर ’ इति भाषाप्रसिद्धा नगरी चकास्ति शोभते ॥३७३ ॥

विश्वास-प्रस्तुतिः

ऋक्सामयोश्च यजुषां च निवासभूता
पूता द्विजाः स्मृतिपुराणकलाधुरीणाः ॥
कुर्वन्ति वासमिह कर्कशतर्कशब्द-
तन्त्रत्रयीशिखरशिन्धुतलस्पृशोऽमी ॥ ३७४ ॥
कृ॰ – ( सहासम् )
नैतद्विभाति नगरं नगरम्यदुर्ग-
प्राकारसाधनदशासु विशां पतीनाम् ॥
युद्धोन्नमद्भटशिरस्तट2निस्सुतास्रुक्-3
स्रोतःसहस्रभरविस्रपलास्थिसान्द्रम्4 ॥ ३७५ ॥

मूलम्

ऋक्सामयोश्च यजुषां च निवासभूता
पूता द्विजाः स्मृतिपुराणकलाधुरीणाः ॥
कुर्वन्ति वासमिह कर्कशतर्कशब्द-
तन्त्रत्रयीशिखरशिन्धुतलस्पृशोऽमी ॥ ३७४ ॥
कृ॰ – ( सहासम् )
नैतद्विभाति नगरं नगरम्यदुर्ग-
प्राकारसाधनदशासु विशां पतीनाम् ॥
युद्धोन्नमद्भटशिरस्तट2निस्सुतास्रुक्-3
स्रोतःसहस्रभरविस्रपलास्थिसान्द्रम्4 ॥ ३७५ ॥

बाल-कृष्णः

किञ्च वेद-शास्त्रनिपुणा विद्वांसोऽप्यत्र सन्तीत्याह - ऋक्सामयोश्चेति । ऋग् ऋग्वेदश्च साम सामवेदश्च तयोः “ अचतुर- विचतुर - " इत्यादिनिपातनादच् समासान्तः । यजुषां यजुर्वेदस्येत्यर्थः । इति त्रयाणामपि वेदानामित्यर्थः । निवासभूताः गृहरूपाः सम्पूर्णवेदानामध्येतार इति यावत् । अत एव पूताः पवित्राः, न तु केवलं वैदिका एव, किन्तु स्मृतयः मन्वादयश्च पुराणानि पाद्म-वैष्णवादीनि च कलाश्चतुःषष्टिसङ्ख्याकाः प्रसिद्धाः ताश्च तासु धुरीणाः प्रवीणाः, अपि च कर्कशाः अर्थगाम्भीर्येण कठिनाः ये तर्काः न्यायशास्त्रं शब्दो व्याकरणं तन्त्रं मीमांसा त्रय्याः वेदत्रितयस्य शिखरं वेदान्तशास्त्रं च तान्येव सिन्धवः समुद्राः तेषां तलं स्पृशन्तीति तादृशाः, तेष्वप्यत्यन्तं निपुणा इत्यर्थः । अनेन सर्वज्ञत्वं तेषां सूचितम् । अमी द्विजा ब्राह्मणाः इह चञ्जीपुर्यां वासं कुर्वन्ति ॥ ३७४ ॥

अथ कृशानुः सत्यप्येवं बहुवारं युद्धादिप्रसङ्गान् नैतत्पुरं विभातीत्याह- नैतद्विभातीति । विशां मनुजानां ‘द्वौ विशौ वैश्य - मनुजौ ” इत्यमरः । पतीनां राज्ञां नगवत्पर्वतवद् रम्यस्य रमणीयस्य पर्वत इवोन्नतस्येत्यर्थः । अत एव दुर्गस्य गन्तुमशक्यस्य प्राकारस्य सालस्य ‘किल्ला’ इति महाराष्ट्रभाषाप्रसिद्धस्य " प्राकारो वरणः सालः इत्यमरः । साधनदशासु स्वीकारावसरेषु युद्धे समरे उन्नमन्तः जयावेशेन शत्रुषूत्पतन्तः ये भटाः योधास्तेषां शिरस्तटेभ्यः मस्तकप्रान्तेभ्यः निःसृतानि निर्गलितानि असृजां रक्तानां स्रोतः सहस्राणि प्रवाहसहस्राणि तेषां भरेण अतिशयेन विस्राणि आमगन्धीनि “ विस्रं स्यादामगन्धि यत्" इत्यमरः । यानि मांसानि “पलमुन्मान -मांसयोः” इति रुद्रः । अस्थीनि च तैः सान्द्रं निविडं विभाति विशेषेण न शोभते । युद्धव्यग्रचित्तत्वादतिनिन्द्यत्वाच्च स्वास्थ्याभावादिति भावः ॥३७५ ॥

विश्वास-प्रस्तुतिः

वि॰ - वयस्य गुणान्वयस्य पुनरस्य नगरस्य निन्दाच्छद्मना
प्रशंसामेव भवान् कृतवान् ॥ १६०& ॥
यतः-
पुरातनानां हि पुरान्तराणां प्रशासितारोऽपि5 दिशासु भूपाः ॥
पुरं तदेतद्वपुरन्तमाजौ हन्ताभ्युपेत्याप्यलमर्थयन्ति6 ॥ ३७६ ॥
कृशा० – निरूपणमभिनीय सास्वरसम्—7
हन्त चिरन्तनानामिदानीन्तनानां च वसुन्धराधुरन्धराणामवारणीयोऽसावविवेकः ॥ १६१& ॥
पश्य-
प्राज्ये हन्त घने स्थितेऽपि नृवरो राज्येऽपि सत्यूर्जिते
सम्भोगानुगुणा विलोचनगुणैरम्भोजदम्भद्रुहः ॥
कल्याणीस्तरुणीरुपेक्ष्य8 करुणाहीनः ससेनः स्वयं
हर्तुं शत्रुधरां चिरादभिलषन् मर्तु रणे जृम्भते ॥ ३७७ ॥

मूलम्

वि॰ - वयस्य गुणान्वयस्य पुनरस्य नगरस्य निन्दाच्छद्मना
प्रशंसामेव भवान् कृतवान् ॥ १६०& ॥
यतः-
पुरातनानां हि पुरान्तराणां प्रशासितारोऽपि5 दिशासु भूपाः ॥
पुरं तदेतद्वपुरन्तमाजौ हन्ताभ्युपेत्याप्यलमर्थयन्ति6 ॥ ३७६ ॥
कृशा० – निरूपणमभिनीय सास्वरसम्—7
हन्त चिरन्तनानामिदानीन्तनानां च वसुन्धराधुरन्धराणामवारणीयोऽसावविवेकः ॥ १६१& ॥
पश्य-
प्राज्ये हन्त घने स्थितेऽपि नृवरो राज्येऽपि सत्यूर्जिते
सम्भोगानुगुणा विलोचनगुणैरम्भोजदम्भद्रुहः ॥
कल्याणीस्तरुणीरुपेक्ष्य8 करुणाहीनः ससेनः स्वयं
हर्तुं शत्रुधरां चिरादभिलषन् मर्तु रणे जृम्भते ॥ ३७७ ॥

बाल-कृष्णः

वयस्येति । हे वयस्य मित्र, गुणानां शम - दमादीनां पूर्वश्लोकप्रतिपादितानां

शौर्य-तेजः आदीनां च अन्वयः सम्बन्धो यस्मिन् तस्य पुनरस्य नगरस्य चञ्जीपुरस्य निन्दायाः छद्मना निमित्तेन, प्रशंसामेव स्तुतिमेव भवान् कृतवानकरोः ॥ १६०& ॥

पुरातनानामिति । हि यस्माद् दिशासु दशदिक्षु, स्थितानामिति शेषः । पुरातनानां पुराणानां, पुराशब्दाट् ट्युः तुडागमश्च “पुराणे प्रतन प्रत्न पुरातन-चिरन्तनाः । " इत्यमरः । पुरान्तराणाम् अन्यनगराणां प्रशासितारोऽपि रक्षितारोऽपि सन्तः, सर्वे भूपा राजानः, हन्तेत्यानन्दे । आजौ युद्धे वपुषः शरीरस्य अन्तं नाशम् अभ्युपेत्य स्वीकृत्यापि, तत् प्रसिद्धमेतत्पुरं नगरम् अलम् अत्यर्थ अर्थयन्ति इच्छन्ति । ‘युद्धे मरणमपि भवतु, परं च बहुतरसम्पद्युक्तेऽस्मिन्नेव पुरेऽस्माभिर्वर्तितव्यं ’ इति वाञ्छन्तीत्यर्थः ॥ ३७६ ॥

निरूपणमिति । सास्वरसम् अस्वरसेन असन्तोषेण सहितं यथा तथा- हन्तेति । चिरन्तनानां पुरातनानाम् इदानीन्तनानां च अत्राप्युभयत्र " सायं चिरं-’ इति सूत्रेण ट्युः तुट् च । वसुन्धरायाः पृथ्व्याः धुरन्धराणां भारभृतां राज्ञां, असौ वक्ष्यमाणः अवारणीयः निवारयितुमशक्यः अविवेकः अविचारः । अस्तीति शेषः॥१६१&॥

अविवेकमेवोपपादयति—प्राज्य इति । हन्तेति खेदे । प्राज्ये बहुले “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ।” इत्यमरः । धने स्थिते सत्यपि तथा राज्ये ऊर्जिते धनादिसम्पन्ने च सत्यपि, तथैव सम्भोगस्य सुरतस्य अनुगुणाः अनुरूपाः, सुरतयोग्या इत्यर्थः । विलोचनयोर्नेत्रयोर्गुणैः विशालत्व- सुभगत्वादिरूपैः, अम्भोजानां कमलानां दम्भद्रुहः गर्वविनाशयित्रीः, किञ्च कल्याणीः कल्याणगुणयुक्ताः राज्यसम्पत्तिवर्धकसलक्षणैर्युक्ता इत्यर्थः । एतादृशोऽपि तरुणीः स्त्रीः उपेक्ष्य अनादृत्य, अत एव करुणया दयया हीनः रहितः नृवरः राजा, शत्रोः धरां पृथ्वीं चिराच् चिरकालपर्यन्तं हर्तुम् अपहर्तुमभिलषन् काङ्क्षमाणः सन्, ससेनः सेनया सहितः स्वयं रणे युद्धे मर्तुं प्राणांस्त्यक्तुं समुज्जृम्भते उद्युक्तो भवति । बहुलधनदारादिसम्पन्नं स्वराज्यमुपेक्ष्य परराज्याभिलाषकरणमविवेकमूलमिति भावः ॥ ३७७ ॥

विश्वास-प्रस्तुतिः

वि॰—विरुद्धबुद्धे ! विवेकमेव तावदविवेकमाकलयसि9 ॥ १६२& ॥
तथाहि-
सम्पद्वन्यसरिज्झरीसहचरी शम्पासमं प्राभवं
नार्यः सूर्यकरावलीढरजनीच्छायासुहृद्यौवनाः ॥
देहः स्नेहविहीनदीपसख इत्यालोच्य पृथ्वीश्वराः
प्राणान् जुह्वति नाकमाकलयितुं शुद्धा हि युद्धानले ॥ ३७८ ॥

मूलम्

वि॰—विरुद्धबुद्धे ! विवेकमेव तावदविवेकमाकलयसि9 ॥ १६२& ॥
तथाहि-
सम्पद्वन्यसरिज्झरीसहचरी शम्पासमं प्राभवं
नार्यः सूर्यकरावलीढरजनीच्छायासुहृद्यौवनाः ॥
देहः स्नेहविहीनदीपसख इत्यालोच्य पृथ्वीश्वराः
प्राणान् जुह्वति नाकमाकलयितुं शुद्धा हि युद्धानले ॥ ३७८ ॥

बाल-कृष्णः

विरुद्धेति । विरुद्धा युक्तायुक्त विवेकशून्या वस्तुस्थित्यननुरूपा वा बुद्धिर्यस्य तत्सम्बुद्धौ हे विरुद्धबुद्धे इति । विवेकमेव क्षत्रियं प्रति त्वदुक्तरीत्या एव विहितत्वादिति भावः । तावत्साकल्येन अविवेकमाकलयसि कथयसि । त्वमिति शेषः ॥ १६२& ॥

सम्पदिति । हि यस्मात् कारणात् शुद्धाः शास्त्रविहिताचरणेन निर्मलान्तः करणाः पृथ्वीश्वरा राजानः, सम्पत् सम्पत्तिः वने भवा वन्या सा चासौ सरितो नद्याः झरी प्रवाहः वर्षाकालोत्पन्नवन्यक्षुद्रसरित्प्रवाह इत्यर्थः । तस्याः सहचरी सदृशी, तद्वच्चञ्चलेत्यर्थः । प्रभोः भावः प्राभवं प्रभुत्वं, शम्पया विद्युता “शम्पा शतह्रदा-ह्लादिन्यैरावत्यः क्षणप्रभा । तडित् सौदामिनी विद्युत् ” इत्यमरः । समं तुल्यं, तद्वत् क्षणिकमित्यर्थः । तथा नार्यः स्त्रियः, सूर्यस्य करैः किरणैः अवलीढायाः व्याप्तायाः, तत्प्रसरपर्यन्तस्थायिन्या इत्यर्थः । रजन्याः रात्रेः छायायाः सुहृन् मित्रभूतं सदृशमिति यावत् । यौवनं तारुण्यं यासां तास्तथोक्ताः, सूर्योदयपर्यन्तस्थायिरजनीवत् स्वल्पकालपर्यन्तस्थायितारुण्यावस्था इत्यर्थः । अपि च देहः स्नेहविहीनः तैलरहितः यो दीपस्तस्य सखा, तद्वदकालनश्वर इत्यर्थः । एवं च धन- दारा- शरीरादिकं सर्वमप्यनित्यमित्यर्थः । इति एवं प्रकारेणालोच्य ज्ञात्वा न विद्यते अकं दुःखं यस्मिन्निति नाकः स्वर्गः “ नम्राण्-नपान्-नवेदा- ” इत्यादिसूत्रेण निपातनान्नञः प्रकृत्यावस्थानम् । तम् आकलयितुं सम्पादयितुं युद्धानले युद्धाग्नौ प्राणान् जुह्वति त्यजन्ति । अयमेव राज्ञां मुख्यो धर्म इति ज्ञेयम् । तदुक्तम् - " द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्यैकोऽपरावृत्तमृतः परः ।" इति । भगवद्गीतायामपि – “ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् । " इति । एवं च विवेक एवायमिति भावः ॥ ३७८ ॥

विश्वास-प्रस्तुतिः

शृणु चेमं चमत्कारम् ॥ १६३& ॥
रक्ते भटे रणमुखे रुधिरेण तस्मिन् रक्ता भवत्यमरयोषिदनुव्रतेव ॥
शूरः स चेदतनुसायकखण्डिताङ्गः साऽप्युच्चकैरतनुसायकखण्डितेव10 ॥ ३७९ ॥
किञ्च-
दीप्रोतिप्रभमाश्रितक्षितितलं11 दिव्ये विमाने स्थितो
गाढाश्लिष्टकृपाणपाणि च करग्रस्तामरस्त्रीस्तनः ॥
तत्सन्दत्तनखक्षतो बहुतरप्रत्यर्थिबाणक्षतं
युद्धानौ हुँतजीवितं12 निजवपुर्वीरो मुदा वीक्षते ॥ ३८० ॥

मूलम्

शृणु चेमं चमत्कारम् ॥ १६३& ॥
रक्ते भटे रणमुखे रुधिरेण तस्मिन् रक्ता भवत्यमरयोषिदनुव्रतेव ॥
शूरः स चेदतनुसायकखण्डिताङ्गः साऽप्युच्चकैरतनुसायकखण्डितेव10 ॥ ३७९ ॥
किञ्च-
दीप्रोतिप्रभमाश्रितक्षितितलं11 दिव्ये विमाने स्थितो
गाढाश्लिष्टकृपाणपाणि च करग्रस्तामरस्त्रीस्तनः ॥
तत्सन्दत्तनखक्षतो बहुतरप्रत्यर्थिबाणक्षतं
युद्धानौ हुँतजीवितं12 निजवपुर्वीरो मुदा वीक्षते ॥ ३८० ॥

बाल-कृष्णः

अपि च रक्त इति । रणस्य युद्धस्य मुखे प्रारम्भे रुधिरेण रक्तेन " रुधिरेऽसृ- ग्लोहितास्र-रक्त-क्षतज-शोणितम् । ” इत्यमरः । रक्ते वक्तवर्णे सति, तस्मिन् पुरुषे अमरयोषित् स्वर्गाङ्गना स्वर्वेश्येत्यर्थः । अनुव्रतेव पतिव्रतेव रक्ता रक्तवर्णा अनुरागयुक्ता च भवति । किं च सः शूरः पुरुषः अतनुभिर्बहुभिः सायकैः बाणैः खण्डितानि छिन्नान्यङ्गानि यस्य सः तथाभूतश्चेद् भवति, तर्हि सापि स्वर्गाङ्गनापि उच्चकैः अतिशयेन अतनुसायकैः बहुभिर्बाणैः अतनोः मदनस्य च बाणैः खण्डितेव छिन्नेव भवति ॥ ३७९ ॥

किञ्च दीप्र इति । वीरः अत एव दीप्रः तेजस्वी, दिव्ये विमाने स्थितः कराभ्यां ग्रस्तौ धृतौ अमरस्त्रियाः देवाङ्गनायाः स्तनौ येन सः, तया अमरस्त्रिया दत्तानि नखानां क्षतानि व्रणानि यस्मै सः तथाभूतश्च सन् पूर्व आश्रितं क्षितितलं पृथ्वीतलं येन तत्, गाढं यथा तथा आश्लिष्टः कृपाणः खड्गः येन तथाभूतः पाणिर्हस्तो यस्मिन् तत्, बहुतराणाम् अतिबहूनां प्रत्यर्थिनां शत्रूणां “ दस्यु - शात्रव - शत्रवः । अभिघाति-पराराति प्रत्यर्थि- परिपन्थिनः । " इत्यमरः । बाणानां क्षतानि यस्मिन् तत्, तदेव युद्धाग्मौ हुतं जीवितं यस्य तद् अत एव अतिप्रभम् अतिशयकान्तियुक्तं निजवपुः स्वकीयशरीरं मुदा आनन्देन वीक्षते अवलोकयति ॥ ३८० ॥


  1. मानीय ↩︎ ↩︎

  2. युद्धोन्नटत् ↩︎ ↩︎

  3. निस्सृतास्र ↩︎ ↩︎

  4. पलाब्धि ↩︎ ↩︎

  5. प्रशाधितारो हि ↩︎ ↩︎

  6. मर्थयन्ते ↩︎ ↩︎

  7. साश्रुरसं, ससाध्वसं ↩︎ ↩︎

  8. कल्याणी रुदती ↩︎ ↩︎

  9. माकलयति भवान् ↩︎ ↩︎

  10. खण्डिताङ्गा ↩︎ ↩︎

  11. दीप्रो विप्रभमाश्रितक्षितितलं, ‘दीप्तोपि प्रभयाश्रितक्षितितरुं ↩︎ ↩︎

  12. जीवितो, जीवते ↩︎ ↩︎