विश्वास-प्रस्तुतिः
अथ श्रीरामानुजवर्णनम्॥
इत्य् अन्यतो विमानं प्रेङ्खयन्न्
अग्रतो वीक्ष्य स–प्रत्य्-अभिज्ञम् —
एषा भूतपुरी निरीक्षित-चरी दोषापहन्त्री मया1
श्रीमान् अत्र गुणाब्धिर् आविर् अभवद् रामानुजार्यो2 मुनिः ॥
त्रय्य्-अन्तामृत-सिन्धु-मन्थन-भवद्+हय्यङ्गवीनात्मकं
विज्ञानं यद्-उपज्ञम् एव विदुषाम् अद्यापि विद्योतते ॥ २२३ ॥
मूलम्
अथ श्रीरामानुजवर्णनम्॥
इत्यन्यतो विमानं प्रेङ्खयन्नग्रतो वीक्ष्य सप्रत्यभिज्ञम् —
एषा भूतपुरी निरीक्षितचरी दोषापहन्त्री मया1
श्रीमानत्र गुणाब्धिराविरभवद्रामानुजार्यो2 मुनिः ॥
त्रय्यन्तामृतसिन्धुमन्थनभवद्धय्यङ्गवीनात्मकम् ।
विज्ञानं यदुपज्ञमेव विदुषामद्यापि विद्योतते ॥ २२३ ॥
बाल-कृष्णः
इतीति । अन्यतो विमानं प्रेङ्खयन् गमयन्, सप्रत्यभिज्ञं सानुस्मरणम्- एषेति । एषा पुरोदृश्यमाना, दोषाणाम् अपहन्त्री विनाशयित्री भूतपुरी ‘श्री- पेरुम्बुरू’ इति प्रसिद्धा, मया निरीक्षितचरी पूर्व अवलोकिता । “ भूतपूर्वे चरट् " इति चरट् प्रत्ययः । टित्त्वान्ङीप् । अत्र भूतपुर्यां गुणानाम् अब्धिः सागरः श्रीमान् रामानुजार्यो मुनिः, आविरभवत् प्रकटीबभूव । कीदृशः स रामानुजार्यः । त्रय्यन्ता उपनिषद्विद्या एव अमृतसिन्धुः क्षीरसागरः तस्य मन्थनेन विलोडनेन भवदुत्पद्यमानं यत् हय्यङ्गवीनं नवनीतम् आत्मा स्वरूपं यस्य तत्तदात्मकम् । सर्वो- पनिषदां सारभूतमिति तात्पर्यम् । विज्ञानं विशिष्टाद्वैतप्रतिपादकं शारीरकभाष्यं, यस्य रामानुजार्यस्य उपज्ञा आद्यज्ञानविषयः यदुपज्ञं ‘उपज्ञोपक्रमं तदाद्याचिख्यासायाम्’ इति नपुंसकत्वम् । रामानुजायेण्णैव प्रथमं निर्मितमित्यर्थः । " उपज्ञा ज्ञानमाद्यं स्यात् ” इत्यमरः । विदुषां पण्डितानां मध्ये अद्यापि विद्योतते प्रकाशते ॥ २२३ ॥
विश्वास-प्रस्तुतिः
+++(अश्वधाटी-च्छन्दः)+++
कामादि-वैरि-गण–भीम+अनवद्य-निज–नामाभिलाष-गरिमा3
वैमानिकार्य+++(=देवगुरु)+++-सम–भूमा मतौ4 वचन-सीमातिलङ्घि-महिमा ॥
श्रीमान् अनून-कल-सोमाननो विमल-धामा ऽवमानित-रविः
क्षेमाणि जृम्भयतु भूमाव् अमुत्र स च रामानुजो यतिपतिः ॥२२४॥
मूलम्
कामादिवैरिगणभीमानवद्यनिजनामाभिलाषगरिमा3
वैमानिकार्यसमभूमा मतौ4 वचनसीमातिलङ्घिमहिमा ॥
श्रीमाननूनकलसोमाननो विमलधामावमानितरविः
क्षेमाणि जृम्भयतु भूमावमुत्र स च रामानुजो यतिपतिः ॥२२४॥
बाल-कृष्णः
कामादीति । कामः आदिः प्रथमो येषु क्रोध-लोभादिषु तेषां वैरिणाम् अन्तःशत्रूणां गणस्य समुदायस्य भीमः भयङ्करः अनवद्यः निर्दोषः निजस्य स्वकीयस्य नाम्नः अभिलाषगरिमा इच्छाप्रभावः यस्य सः । यस्य नामग्रहणस्येच्छामात्रेणापि कामादीनां विनाशो भवति, किमुत प्रत्यक्षनामग्रहणे कृते इति तात्पर्यम् । तथा मतौ बुद्धौ विषये वैमानिकानां देवानामार्यः गुरुः बृहस्पतिः तेन समस्तुल्यः भूमा माहात्म्यं यस्य सः, अनूनाः सम्पूर्णाः कला यस्य तस्य सोमस्य चन्द्रस्येवाननं मुखं यस्य सः, किञ्च विमलधाम्ना स्वकीय निर्मलप्रकाशेन अवमानितस्तिरस्कृतः रविः सूर्यो येन तथाभूतः, अत एव वचनानां सीमा मर्यादा तस्याः अतिलङ्घी उल्लङ्घनशीलः महिमा माहात्म्यं यस्य सः
श्रीमान् रामानुजो यतिपतिः, भूमौ भूलोके, अमुत्र परलोके च क्षेमाणि कल्याणानि जृम्भयतु वर्धयतु ।
सर्वजनानामिति शेषः ।
अश्वघाटी वृत्तम् । अस्य लक्षणं वृत्तरत्नाकरे नैवोपलभ्यते । चित्रवृत्तेष्वस्यान्तर्भावः ॥ २२४ ॥
विश्वास-प्रस्तुतिः
अपि च-
स जयति रामानुज-यतिर्
अजयति+++(←अज गति क्षेपणयोः)+++ परवादिनं यदीयोक्तिः ।
सञ्जयति बोधम् अनघं
रञ्जयति बुधान्, व्यथां च भञ्जयति ॥ २२५ ॥
मूलम्
अपि च-
स जयति रामानुजयतिरजयति परवादिनं यदीयोक्तिः ।
सञ्जयति बोधमनघं रञ्जयति बुधान् व्यथां च भञ्जयति ॥ २२५ ॥
बाल-कृष्णः
स इति । स रामानुजयतिर्जयति सर्वोत्कर्षेण वर्तते । कथम्भूतः सः । यदीया यस्य सम्बन्धिनी उक्तिः भाष्यरूपा, परवादिनं मतान्तरस्थवादिनं अजयति क्षेपयति तिरस्करोतीति यावत् । ‘अज गति क्षेपणयोः’ इत्यस्य ण्यन्तस्य रूपम् । अथवा अजमिव छागमिव तुच्छीकरोति । एतत्पक्षे अजशब्दात् ’ तत्करोति इति णिच् । न केवलं तिरस्करोत्येव, किन्तु अनघं निर्मलं बोधं ज्ञानं च सञ्जयति उत्पादयति । बुधान् पण्डितांश्च रञ्जयति रमयति । तेषां व्यथां दुःखं च भञ्जयति विनाशयति ॥ २२५ ॥
विश्वास-प्रस्तुतिः
अन्यच्च-
ते मीमांसा-शास्त्र-
प्रमथन-परिकलित-बुध-जनानन्दाः ॥
लक्ष्मण-मुनेः प्रबन्धा
लक्ष्मण-पूर्वज-शरा इव जयन्ति ॥ २२६ ॥
मूलम्
अन्यच्च-
ते मीमांसाशास्त्रप्रमथनपरिकलितबुधजनानन्दाः ॥
लक्ष्मणमुनेः प्रबन्धा लक्ष्मणपूर्वजशरा इव जयन्ति ॥ २२६ ॥
बाल-कृष्णः
ते इति । मीमांसाशास्त्रस्य प्रमथनेन आलोडनेन सर्वशास्त्रपर्यालोचनेनेति यावत् । पक्षे ते अमी मांसाशानां राक्षसानाम् अस्त्राणां शस्त्राणां प्रमथनेन विनाशनेन च परिकलितः उत्पादितः बुधजनानां पण्डितजनानां देवसमूहानां च आनन्दो यैस्ते, लक्ष्मणमुनेः रामानुजयतेः प्रबन्धाः ग्रन्थाः, लक्ष्मणस्य पूर्वजो रामस्तस्य शराः बाणाः इव, जयन्ति ॥ २२६ ॥
विश्वास-प्रस्तुतिः
अत्र कश्चिद् अपश्चिमो विपश्चिताम् इत्थम् एनम् अनुदिनं प्रणमति ॥ ९०& ॥
‘रामानुजाय गुरवे नरवेष-भाजे
शेषाय धूत-कलये कलये प्रणामान् ॥
यो मादृशान् अपि कृशान् परिपातु-कामो
भूमाव् अवातरद् उदञ्चित-बोध-भूमा’ ॥ २२७ ॥
इति ।
एतच् चाकर्ण्यताम् —
रामानुजौ यामुनतीर्थ-सेवा-
पराव् उदीतौ नरकं निरोद्धुम् ।
तयोः पुराणः प्रणिनाय गीतां
तस्या नवीनस्तु ततान टीकाम् ॥ २२८ ॥
मूलम्
अत्र कश्चिदपश्चिमो विपश्चितामित्थमेनमनुदिनं प्रणमति ॥ ९०& ॥
‘रामानुजाय गुरवे नरवेषभाजे शेषाय धूतकलये कलये प्रणामान् ॥
यो मादृशानपि कृशान् परिपातुकामो भूमाववातरदुदञ्चितबोधभूमा’ ॥ २२७ ॥ इति ।
एतच्चाकर्ण्यताम् —
रामानुजौ यामुनतीर्थसेवापरावुदीतौ नरकं निरोद्धुम् ।
तयोः पुराणः प्रणिनाय गीतां तस्या नवीनस्तु ततान टीकाम् ॥ २२८ ॥
बाल-कृष्णः
अत्रेति । अत्रास्मिन् देशे कश्चिद् विपश्चितां विदुषां मध्ये, अपश्चिमः अत्युत्तमः एनं श्रीरामानुचाजार्यम्, अनुदिनं प्रतिदिनम् इत्थं वक्ष्यमाणप्रकारेण, प्रणमति नमस्करोति ॥ ९०& ॥
रामानुजायेति । नरवेषं मनुष्यस्वरूपं भजति आश्रयतीति नरवेषभाक् तस्मै, शेषाय सर्पराजाय, रामानुजाय, धूतः निरस्तः कलिः पापं येन तस्मै, पापरहितायेत्यर्थः । अत एव गुरवे आचार्याय प्रणामान् नमस्कारान् कलये करोमि । यः मादृशान् कृशान् अतिदीनानपि परिपातुकामः रक्षितुमिच्छुः सन् उदञ्चितः स्वभावत एवोत्पन्नः बोधभूमा ज्ञानातिरेको यस्य सः, भूमौ अवातरत् प्रकटीबभूव ॥ २२७ ॥
रामेति । यमुनैव यामुनं, स्वार्थेऽण् । यामुनं च तत्तीर्थं च तस्य, पक्षे यामुनतीर्थस्य गुरोश्च सेवापरौ सेवासक्तौ नरकम् एतन्नामकमसुरं दुर्गतिं च निरोद्धुं निवारयितुं, रामस्य बलरामस्य अनुजः कृष्णः, रामानुजाचार्यश्च, रामानुजश्च, रामानुजश्च तौ इत्येकशेषसमासः । उदीतौ उत्पन्नौ । दीर्घत्वं छन्दोऽनुरोधात् । तयोः यो रामानुजयोर्मध्ये पुराणः प्रथमः कृष्णः गीतां भगवद्गीतां प्रणिनाय विरचितवान् । नवीनो रामानुजाचार्य, तस्या गीतायाः टीकां व्याख्यां ततान चकार ॥ २२८ ॥
कृशानुः
विश्वास-प्रस्तुतिः
कृशानुः – सत्यम् एवम्। तथापि तत्-पथानुविधायिनां5 मेधाविनाम् अपि
परावमन्तृत्वादयो दोषाः प्रसिद्धाः ॥ ९१& ॥
मूलम्
कृशानुः – सत्यम् एवम्। तथापि तत्-पथानुविधायिनां5 मेधाविनाम् अपि
परावमन्तृत्वादयो दोषाः प्रसिद्धाः ॥ ९१& ॥
बाल-कृष्णः
सत्यमिति । सत्यमेवं तथापि तस्य रामानुजाचार्यस्य पन्थानं प्रवृत्तिमनुविदधति अनुसरन्तीत्यनुविधायिनः तेषां बुद्धिमतामपि, परेषां भिन्नमतानुयायिनाम् अवमन्तृत्वम् अपमानः आदिर्येषां मात्सर्यादीनां ते दोषाः प्रसिद्धाः । सन्तीति शेषः ॥ ९१& ॥
साधारणम्
विश्वास-प्रस्तुतिः
तथाहि-
श्रीरामानुज-दर्शनैक-रसिकः,, शिष्टः, प्रकृष्टैर् गुणैः
पूर्णानां विदुषां मतान्तर-जुषां पङ्क्तौ न भुङ्क्ते क्वचित् ॥
हा हन्तौदनम् अन्ततः शुचितमं तद्-दृष्टम् आशु त्यजत्य्,
आस्तां तत्त्व-मत-स्थितैर् अपि समं प्रायेण नाश्नात्य् असौ ॥ २२९ ॥
किञ्च-
नैषां न्याय्य इह द्विजान्वय-जुषां भाषा-प्रबन्धे श्रमो6
वेदे विश्व-पुम्-अर्थ-साधन-विधौ बद्धोदरे7 जाग्रति ॥
तीरं क्षीरपयोनिधेर् उपगतो दैत्यारि-दीप्त्य्-आवृतं
को वा धावति दुग्ध-लब्धि-चपलो गोपालकस्यालयम् ॥ २३०॥
मूलम्
तथाहि-
श्रीरामानुजदर्शनैकरसिकः शिष्टः प्रकृष्टैर्गुणैः
पूर्णानां विदुषां मतान्तरजुषां पङ्क्तौ न भुङ्क्ते क्वचित् ॥
हा हन्तौदनम् अन्ततः शुचितमं तद्-दृष्टम् आशु त्यजत्य्
आस्तां तत्त्वमतस्थितैरपि समं प्रायेण नाश्नात्यसौ ॥ २२९ ॥
किञ्च-
नैषां न्याय्य इह द्विजान्वयजुषां भाषाप्रबन्धे श्रमो6
वेदे विश्वपुमर्थसाधनविधौ बद्धोदरे7 जाग्रति ॥
तीरं क्षीरपयोनिधेरुपगतो दैत्यारिदीप्त्यावृतं
को वा धावति दुग्धलब्धिचपलो गोपालकस्यालयम् ॥ २३०॥
बाल-कृष्णः
तानेव दोषान् दर्शयति - श्रीरामानुजेति । श्रीरामानुजस्य दर्शने एव एकं मुख्यं यथा तथा रसिकः रसज्ञः प्रकृष्टैः विद्वत्त्वाचारसम्पन्नत्वादिभिरुत्तमैर्गुणैः शिष्टः श्रेष्ठश्च सन् मतान्तरजुषां शाङ्कराद्यन्यमतानुयायिनां पूर्णानां विद्याचरणादिभिः परिपूर्णानामपि किमुतापूर्णानाम् । पङ्क्तौ भोजनपङ्क्तौ क्वचित् कदाचिदपि न भुक्तं भोजनं नैव करोति । किञ्च नैतावदेव अन्यदपि मात्सर्यं कथयति । अन्ततो वस्तुतः शुचितमम् अतिपवित्रमपि ओदनम् अन्नं तैर् दृष्टं मतान्तरस्यैरवलोकितं सत्, आशु शीघ्रमेव त्यजति । तत्तु आस्तां नाम, किन्तु स्वमतस्थितैर् अपि समं सह असौ रामानुजीयः प्रायेण न अश्नाति नैव भुङ्क्ते । कदाचित् तु भुङ्क्ते ॥ २२९ ॥
नैषामिति । एषां रामानुजीयानां द्विजान्वयं ब्राह्मणवंशं जुषन्ति आश्रयन्ति तेषां ब्राह्मणकुलोत्पन्नानामिति यावत् । विश्वेषां सकलानां पुमर्थानां धर्मादिपुरुषार्थानां साधनविधौ सम्पादन कर्मणि, बद्धादरे स्वीकृतादरे वेदे जाग्रति सति, भाषाप्रबन्धे द्राविडभाषानिर्मिते ग्रन्थे श्रमः अभ्यासः इह न न्याय्यः नैव युक्तः । तत्र दृष्टान्तमाह-तीरमिति । दैत्यारेः श्रीविष्णोः दीप्त्या कान्त्या आवृतं वेष्टितं क्षीरपयोनिधेः क्षीरसमुद्रस्य तीरम् उपगतः प्राप्तः सन् को वा पुरुषः दुग्धस्य लब्धौ प्राप्तौ चपलः आसक्तः गोपालकस्य नीचगोपालस्य, अल्पार्थे कन् । आलयं गृहं धावति शीघ्रं गच्छति ? अपि तु कोपि नैव गच्छतीत्यर्थः ॥ २३० ॥
दक्षिणकलार्येषु
विश्वास-प्रस्तुतिः
किञ्च-
एतन्-मतानुवर्तिनां केषाञ्चिद् एषां चेष्टा
नेष्टा वैदिकानाम् । पश्य ॥९२&॥
मूलम्
किञ्च-
एतन्-मतानुवर्तिनां केषाञ्चिद् एषां चेष्टा
नेष्टा वैदिकानाम् । पश्य ॥९२&॥
बाल-कृष्णः
एतदिति । एतन्मतानुवर्तिनां रामानुजमतानुसारिणां केषाञ्चिदेषां पुरुषाणां, अविदुषामित्यर्थः । चेष्टा आचरणं वैदिकानां वेदानुयायिनां नेष्टा न प्रिया ॥ ९२& ॥
विश्वास-प्रस्तुतिः
मुञ्चन्तः पञ्च-यज्ञान्, द्रविड-भणितिभिर् मोहयन्तो ऽनभिज्ञान्
निन्दन्तो हन्त यज्ञान्, असकृद् अपि हरेर् वन्दनं वारयन्तः +++(“सकृदेव नमनम्” इति समयेन)+++ ॥
लुम्पन्तः श्राद्ध-चर्यां, यतिम् अपि गृहिणां वन्दनं कारयन्तः
सद्-द्वेषं धारयन्तः कतिचिद् अविहितैर् एव8 कालं क्षिपन्ति ॥ २३१ ॥
किञ्च—–
घण्टाघोषं त्यजन्तो हरिपरि-चरणे सर्वलोकाविगीतं
ख्यातं त्रैलोक्य-मातुः श्रुतिभिर् अभिहितं वैभवं खण्डयन्तः ॥
+++(स्वोपमत-)+++सङ्केत-श्रद्धयैव - स्व-चरण-सलिलं +++(सर्वेषाम् अप्य् एकीकृत्य)+++ स्वीय-गोष्ठ्यां पिबन्तः
केचिद् विप्लावयन्ते जगद्, अभिदधतः+++(=कथयन्तः)+++ केशवं दोष-भोग्यम् +++(वत्सं लिहन्ती गौर् इव)+++ ॥ २३२ ॥+++(5)+++
मूलम्
मुञ्चन्तः पञ्चयज्ञान् द्रविडभणितिभिर्मोहयन्तोऽनभिज्ञान्
निन्दन्तो हन्त यज्ञानसकृदपि हरेर्वन्दनं वारयन्तः ॥
लुम्पन्तः श्राद्धचर्यां यतिमपि गृहिणां वन्दनं कारयन्तः
सद्द्वेषं धारयन्तः कतिचिदविहितैरेव8 कालं क्षिपन्ति ॥ २३१ ॥
किञ्च—–
घण्टाघोषं त्यजन्तो हरिपरिचरणे सर्वलोकाविगीतं
ख्यातं त्रैलोक्यमातुः श्रुतिभिरभिहितं वैभवं खण्डयन्तः ॥
सङ्केतश्रद्धयैव स्वचरणसलिलं स्वीयगोष्ठ्यां पिबन्तः
केचिद्विप्लावयन्ते जगदभिदधतः केशवं दोषभोग्यम् ॥ २३२ ॥
बाल-कृष्णः
मुञ्चन्त इति । पञ्चयज्ञान् ब्रह्मयज्ञ - देवयज्ञ- भूतयज्ञ-पितृयज्ञ-मनुष्ययज्ञाख्यान् मुञ्चन्तस्त्यजन्तः, यजन्तीत्यर्थः । एवमेव सर्वत्र शत्रन्तस्यार्थो ज्ञेयः । द्रविडभणितिभिः द्रविडभाषावाक्यैः अनभिज्ञान् वेद-शास्त्रादिज्ञानरहितान् मोहयन्तः स्वमतग्रहणे भ्रामयन्तः, हन्तेति खेदे । यज्ञान् अग्निष्टोमादीन् निन्दन्तः काम्या इति मत्वा निन्दां कुर्वन्तः, हरेः श्रीविष्णोरपि वन्दनम् असकृत् वारं वारं वारयन्तः निषेधयन्तः, श्राद्धचर्यां श्राद्धानुष्टानं लुम्पन्तः अकुर्वन्तः, यतिं स्वसन्न्यासिनमपि किमुत इतरं, गृहिणां गृहस्थाश्रमिणां वन्दनं कारयन्तः, सत्सु सत्पुरुषेषु द्वेषम् अप्रीतिं धारयन्तः । एवं कतिचिद् रामानुजीयाः अविहितैः वेद-शास्त्रनिषिद्धैः कर्मभिरेव कालं क्षिपन्ति नयन्ति ॥ २३१ ॥
किञ्च पूजादिष्वपि विधिवदनुष्ठानं नैव भवतीत्याह - घण्टाघोषमिति । सर्वेषु लोकेषु अविगीतमनिन्दितं प्रशस्तमित्यर्थः । हरिपरिचरणे श्रीविष्णुपूजने घण्टाघोषं देवताह्वानार्थं विहितं घण्टानादं त्यजन्तः, त्रैलोक्यमातुः श्रीलक्ष्म्याः श्रुतिभिः " सा हि श्रीरमृता सताम्" इत्याद्यनेकाभिः अभिहितमुक्तं ख्यातं प्रसिद्धं वैभवं स्वातन्त्र्यरूपं खण्डयन्तः, लक्ष्मीस्तावद्भगवतो मायेत्युक्त्वा दूषयन्तः, किञ्च स्वीयानां रामानुजीयानां गोष्ठ्यां सभायां, सङ्केते स्वकल्पितविधौ या श्रद्धा विश्वासस्, तयैव स्वचरणसलिलं स्वपादोदकं सर्वेषाम् अप्य् एकीकृत्य पिबन्तः, प्राशयन्तः । एतदेव तेषां मतस्य सर्वस्वम् । केचित् केशवं श्रीविष्णुं दोषभोग्यं नियामकतया कृतानां दोषाणां भोक्तारम् अभिदधतः कथयन्तः सन्तः, जगद् विप्लावयन्ते अधर्मप्रचारेण विनाशप्रवणं कुर्वन्तीत्यर्थः ॥ २३२ ॥
विश्वास-प्रस्तुतिः
अपि च-
यज्ञाः पञ्च महत्-पदेन सहिता, ये चापरे विश्रुता
यत् कर्म ग्रह-सङ्क्रमादि-समये सर्वे बुधाः कुर्वते ॥
तत् सर्वं विसृजन्ति काम्यम् इति ये, त्रय्य्-अन्त-विध्वंसकास्9
तैर् द्वे नित्यतया ऽऽश्रिते यद् अशनं या च व्यवाय+++(=मैथुनं)+++-क्रिया ॥२३३॥
अन्यच्च-
विदुषाम् अपि मोहम् आवहन्तो
वितथैतिह्य-सहस्र-वर्णनेन
+++(यथा - “तद्भूताधिकरणे स्ववचनं विरुन्धन् रामानुजो दण्डकाषायादीन् त्यक्त्वा श्रीनारायण-पुरम् अगमद्” इति)+++॥
विनयाभिनयात् खलाः किलाऽमी
विजयन्ते कपटालया जगन्ति10 ॥२३४॥
किञ्च —
यस्यां नास्ति पुरस्कृतिर् नय-विदां, यज्वा तु हासास्पदम्
पूज्यन्ते च निरक्षराः, पुनर् अमी साङ्केतिकाचार्यकाः ॥
वेदानाम् अवहेलनं11, व्यतिहता वर्णाश्रम-प्रक्रिया
गोष्ठ्यै दुष्कलि-पुष्कली-कृत-पुषे12 कस्यैचिद् अस्यै नमः ॥ २३५ ॥
मूलम्
अपि च-
यज्ञाः पञ्च महत्पदेन सहिता ये चापरे विश्रुता
यत्कर्म ग्रहसङ्क्रमादिसमये सर्वे बुधाः कुर्वते ॥
तत्सर्वं विसृजन्ति काम्यमिति ये त्रय्यन्तविध्वंसका-9
स्तैर्द्वे नित्यतयाऽऽश्रिते यदशनं या च व्यवायक्रिया ॥२३३॥
अन्यच्च-
विदुषामपि मोहमावहन्तो वितथैतिह्यसहस्रवर्णनेन ॥
विनयाभिनयात्खलाः किलाऽमी विजयन्ते कपटालया जगन्ति10 ॥२३४॥
किञ्च —
यस्यां नास्ति पुरस्कृतिर्नयविदां यज्वा तु हासास्पदम्
पूज्यन्ते च निरक्षराः पुनरमी साङ्केतिकाचार्यकाः ॥
वेदानामवहेलनं11 व्यतिहता वर्णाश्रमप्रक्रिया
गोष्ठ्यै दुष्कलिपुष्कलीकृतपुषे12 कस्यैचिदस्यै नमः ॥ २३५ ॥
बाल-कृष्णः
यज्ञा इति । ये पञ्च यज्ञाः ब्रह्मयज्ञादयः महद् इति पदेन सहिताः महायज्ञा इत्यर्थः । ये त्वपरे यज्ञाः ज्योतिष्टोमादयः विश्रुताः प्रसिद्धाः, इदं पूर्वत्रापि योज्यम् । चस्त्वर्थः । सर्वे बुधाः श्रुति-स्मृतिज्ञाः, ग्रहः चन्द्र-सूर्योपरागः, “उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च" इत्यमरः । सङ्क्रमः रवेर्मेषादिषु प्रवेशः तदादौ समये यत्कर्म देवपित्राद्युद्देशेन कुर्वते तत्सर्वं नित्यं नैमित्तिकं च कर्म काम्यं, कामहेतुकमिति अपलप्येति शेषः । ये त्र्य्यन्तस्य वेदान्तमार्गस्यापि विध्वंसकाः सन्तः, अमी विसृजन्ति मुञ्चन्ति । तैर्दूषकैः, अशनं भोजनं यत्, या च व्यवायक्रिया मैथुनं ते द्वे कर्मणी नित्यतया नित्यकर्तृत्वेन साश्रिते अङ्गीकृते । शिश्नोदरमात्रपरायणा एत इत्यर्थः ॥ २३३ ॥
विदुषामिति । वितथानामसत्यानाम् ऐतिह्यानां कल्पित पूर्वतनमिथ्यावादानां ‘एतन्मतं स्वीकृत्य ते कृतार्थाः ’ ‘एते च कृतार्थाः अभवन्’ इत्यादिरूपाणां सहस्रस्य वर्णनेन कथनेन विदुषामपि किमुत अज्ञानां, मोहं स्वमताभिनिवेशम् आवहन्तः कुर्वन्तः । वस्तुतः खलाः पापाः कपटस्य आलयाः गृहरूपाः दाम्भिका इत्यर्थः । अत एव अमी रामानुजीयाः विनयस्य आरोपितस्य अभिनयात् प्रकटनाद्धेतोः जगन्ति विजयन्ते किल ॥ २३४ ॥
यस्यामिति । यस्यां गोष्ठ्याम् । इदं सर्वत्र योज्यम् । नयविदां शास्त्रज्ञानां पुरस्कृतिः पूजा नास्ति । यज्वा विधिवद्यज्ञाद्यनुष्ठानकर्ता तु " यज्वा तु विधिनेष्टवान् " इत्यमरः । हासास्पदम्, निरक्षराः वेद-शास्त्रग्रन्थाक्षरस्यापि ज्ञानरहिताः अमी साङ्केतिका सङ्केतसिद्धा आचार्य इति सञ्ज्ञा येषां ते आचार्यकाः सञ्ज्ञायां कन् । आचार्यपुरुषाश्च पुनः पूज्यन्ते । वेदानामवहेलनं काम्यकर्मानुष्ठापका इत्यवमाननं भवति । वर्णानामाश्रमाणां च प्रक्रिया आचारः व्यतिहता ध्वस्ता । दुष्टस्य कलेः पापस्य पुष्कलीकृतं वर्धनं पुष्णातीति तत्पुषे कस्यैचिदस्यै गोष्ठ्यै तेङ्गलीयायै नमः । सर्वथा त्याज्या गोष्ठीयमित्यर्थः ॥ २३५ ॥
विश्वास-प्रस्तुतिः
किं बहुना -
प्रायो येषां सकृद् अकरणे प्रत्यवायोऽस्ति भूयान्
यज्ञादींस् तान् इह विजहति स्पष्ट-वेदोपदिष्टान् ॥
कर्मैवामी विदधति जडाः किन्तु सङ्केत-सिद्धं
कष्टं कष्टं बत हतकलेः कश्चिद् उन्मेष एषः ॥ २३६॥
न गाहन्ते गङ्गाम् अपि नटजटासार13 इति ये
न मज्जन्त्य् अम्भोधौ लवण-रस-वेशन्तक+++(=पल्वलम्)+++ इति ॥
न पञ्चैवं गव्यान् अपि पशु-शकृत्-सार इति हा
पिबन्त्य् एषां दोषान् क इह निपुणः स्याद् गणयितुम् ॥ २३७ ॥
मूलम्
किम्बहुना -
प्रायो येषां सकृदकरणे प्रत्यवायोऽस्ति भूयान्
यज्ञादींस्तानिह विजहति स्पष्टवेदोपदिष्टान् ॥
कर्मैवामी विदधति जडाः किन्तु सङ्केतसिद्धं
कष्टं कष्टं बत हतकलेः कश्चिदुन्मेष एषः ॥ २३६॥
न गाहन्ते गङ्गामपि नटजटासार13 इति ये
न मज्जन्त्यम्भोधौ लवणरसवेशन्तक इति ॥
न पञ्चैवं गव्यानपि पशुशकृत्सार इति हा
पिबन्त्येषां दोषान्क इह निपुणः स्याद्गणयितुम् ॥ २३७ ॥
बाल-कृष्णः
प्राय इति । येषां यज्ञादीनां सकृद् एकदाप्यकरणे अननुष्ठाने सति, भूयान् प्रत्यवायः पापम् अस्ति भवति, तान् स्पष्टं वेदैरुपदिष्टान् चोदितान् यज्ञादीन् ब्रह्मयज्ञादिपञ्चसङ्ख्याकान् इह लोके अमी रामानुजीयाः विजहति त्यजन्ति । किन्तु अत एव जडाः मूर्खाः सङ्केतसिद्धमेव कर्म । एवकारेण श्रौतस्मार्तव्यवच्छेदः । विदधति कुर्वन्ति । कष्टं कष्टम् अन्याय्यमन्याय्यम् । बतेति खेदे । एषः विहितत्यागः अविहितानुष्ठानं च हतकलेः सम्बन्धी कश्चिदनिर्वाच्यः उन्मेषः प्रभाव एव ॥ २३६ ॥
नेति । ये तेङ्गलाख्याः गङ्गामपि लोकपावनीं नटस्य नर्तकस्य शिवस्य जटानाम् आसारः वर्षमिति विगर्थेति शेषः । न गाहन्ते न स्नान्ति । अम्भोधौ समुद्रे, लवण- रसः क्षाररसस्तस्य वेशन्तकः पल्वलम् इति “वेशन्तः पल्वलं चाल्पसरः” इत्यमरः । न मज्जन्ति न स्नान्ति । एवं पञ्चगव्यान्यपि पशोः शकृत्सारः पूरीषभाग इति न पिबन्ति । एवं सति एषां दोषान् गणयितुं सङ्ख्यातुम् इह कः निपुणः स्यात् ? न कोऽपीत्यर्थः, हेति खेदे ॥ २३७ ॥
विश्वास-प्रस्तुतिः
विश्वावसुः - किमरे कलङ्कलेशरहितेषु श्रीमद्रामानुजदर्शनैकनिष्ठेषु गरिष्ठेष्वपि सन्नह्यसि ? अथवा भवादृशानां कृशविवेकानां14 का नाम मर्यादा? ॥ ९३& ॥
विश्वावसुः
मूलम्
विश्वावसुः - किम् अरे कलङ्क-लेश-रहितेषु श्रीमद्-रामानुज-दर्शनैक-निष्ठेषु गरिष्ठेष्व् अपि सन्नह्यसि ?
अथवा भवादृशानां कृश-विवेकानां14 का नाम मर्यादा? ॥ ९३& ॥
बाल-कृष्णः
किमिति । कलङ्कस्य दोषस्य लेशेन यत्किञ्चिदंशेनापि रहितेषु श्रीमतो रामानुजाचार्यस्य दर्शने शास्त्रे एका अनन्या निष्टा श्रद्धा येषां तेषु अत एव गरिष्ठेषु श्रेष्ठेषु सन्नह्यसि दोषारोपणे प्रवर्तसे ? अथवा भवादृशानां त्वादृशानां कृशविवेकानाम् अल्पविचाराणां का नाम मर्यादा स्थितिः ? कापि नैवेत्यर्थः ॥ ९३& ॥
भोजने
विश्वास-प्रस्तुतिः
उक्तं हि—
अनल्पकं धरायां हि
सर्वज्ञस्यापि दारुणाः ॥
आरोपयन्ति मालिन्यं
का-कोला+++(=वराहा)+++ इव ते खलाः ॥२३८ ॥
इति ।
पश्य तावद् एतेषां पवित्रतमं15 चरित्रम् ॥ ९४& ॥
उच्छिष्टान्य् अतिदूरतः16 परिहरन्त्य्, उज्झन्त्य् असत्-सङ्गतिं
प्राणापत्स्व् अपि बान्धवेतर-गृहे प्राश्नन्ति नापो ऽप्य् अमी ॥
काम्यं निर्मिमते17 न कर्म, भगवत्-कैङ्कर्य एव स्थिताः
सत्त्वस्थैः स्पृहणीय एष जयति18 श्रीवैष्णवानां क्रमः॥२३९॥
किं च-
भाले शुद्ध-मृद्-ऊर्ध्व-पुण्ड्र-तिलकः, पद्माक्ष-माला गले
दिव्यं शङ्ख-रथाङ्ग-चिह्नम् अनिशं दीप्तं भुजा-मूलयोः ॥
वक्त्रे शौरि-गुणैक-वर्णन-परा वाचस् तद्-एनो-मुचाम्
एतेषां हरि-भक्ति-तुन्दिल-हृदां वीक्षापि मोक्षावहा ॥ २४० ॥
मूलम्
उक्तं हि—
‘अनल्पकं धरायां हि सर्वज्ञस्यापि दारुणाः ॥
आरोपयन्ति मालिन्यं काकोला इव ते खलाः ॥२३८ ॥ इति ।
पश्य तावदेतेषां पवित्रतमं15 चरित्रम् ॥ ९४& ॥
उच्छिष्टान्यतिदूरतः16 परिहरन्त्युज्झन्त्यसत्सङ्गतिं
प्राणापत्स्वपि बान्धवेतरगृहे प्राश्नन्ति नापोऽप्यमी ॥
काम्यं निर्मिमते17 न कर्म भगवत्कैङ्कर्य एव स्थिताः
सत्त्वस्थैः स्पृहणीय एष जयति18 श्रीवैष्णवानां क्रमः॥२३९॥
किं च-
भाले शुद्धमृदूर्ध्वपुण्ड्र तिलकः पद्माक्षमाला गले
दिव्यं शङ्खरथाङ्गचिह्नमनिशं दीप्तं भुजामूलयोः ॥
वक्त्रे शौरिगुणैकवर्णनपरा वाचस्तदेनोमुचा-
मेतेषां हरिभक्तितुन्दिलहृदां वीक्षापि मोक्षावहा ॥ २४० ॥
बाल-कृष्णः
अनल्पकमिति । धरायां भूमौ ते खलाः काकोला द्रोणकाका इव " द्रोणकाकस्तु काकोलः" इत्यमरः । सर्वज्ञस्यापि अनल्पकं मालिन्यं दोषमशुद्धिं च आरोपयन्ति प्रापयन्ति हि । पक्षे सर्वज्ञस्य शिवस्यापि अनल्पायां कन्धरायां ग्रीवायां मालिन्यं नैल्यं काकोलाः कालकूटा इव ॥ २३८ ॥
पश्येति । पवित्रतममतिपवित्रम् ॥ ९४& ॥
तत्राद्यं शिष्टपङ्क्तौ अभुक्तिरूपं दोषं निवारयति - उच्छिष्टानीति । अमी रामानुजीयाः उच्छिष्टान्यन्नानि अतिदूरतः परिहरन्ति, असद्भिः सङ्गतिं सहभोजनादिरूपाम् उज्झन्ति त्यजन्ति, प्राणापत्सु सतीष्वपि बान्धवेतरगृहे अपोऽपि उदकान्यपि न प्राश्नन्ति, काम्यं स्वर्गादिहेतुकं कर्म न निर्मिमते न कुर्वन्ति । किन्तु भगवतः कैङ्कर्ये पूजादिरूपसेवायामेव स्थिताः । अत एव एषः उक्तविधः श्रीवैष्णवानां क्रमः रीतिः सत्त्वस्थैः सात्त्विकैः स्पृहणीयः कामनीयः सन् जयति ॥ २३९ ॥
भाल इति । यस्मादेतेषां भाले शुद्धमृदा श्वेतमृत्तिकया गोपीचन्दनरूपया ऊर्ध्वपु- ण्ड्रात्मकस्तिलकः, गले पद्मबीजमयी अक्षमाला, भुजामूलयोर्बाह्वग्रयोः अनिशं दिव्यं दीप्तं शङ्खस्य रथाङ्गस्य चक्रस्य च चिह्नम्, वक्त्रे शौरिगुणैकवर्णनपराः श्रीकृष्णगुणवर्णनासक्ताः वाचः । सर्वत्र यथायोग्यमस्तीत्यादिवचनानुसारेण क्रियापदं योज्यम् । तत्तस्मात् हरिभक्तितुन्दिलहृदां श्रीकृष्णभक्त्या पूर्णमानसानाम् अत एव एनोमुचां निष्पापानामेतेषां वीक्षा दर्शनमपि मोक्षावहा भवति ॥ २४० ॥
विश्वास-प्रस्तुतिः
दोषारोपणं चैतेषु त्वदीयम् अपहास्यम् ॥ ९५& ॥
तथाहि-
इष्टात् स्वबान्धव-जनाद् इतरैर् अदृष्टं
यद् भुञ्जते ऽन्नम् इह लक्ष्मण-पक्ष-निष्ठाः ॥
किञ्च-
दोषः किम् एष दुरितापहरो गुणो वे-
त्य् एवं विविच्य परिपृच्छ गुणागुणज्ञान् ॥ २४१ ॥
दृष्टं बन्ध्व्-इतरैः सताम् अन्-अदतां दोषो य एषोऽपरैः
शिष्टैः स्पृष्टम् अन्-अश्नताम् इह महाराष्ट्रादिकानां समः ॥
एषां दूषयिता न कोऽपि नियताहारः, परन्तु द्विजः
सर्वाशी, न तु दूषणं हितभुजां19 तेषाम् इदं भूषणम् ॥ २४२ ॥
मूलम्
दोषारोपणं चैतेषु त्वदीयमपहास्यम् ॥ ९५& ॥
तथाहि- इष्टात्स्वबान्धवजनादितरैरदृष्टं
यद्भुञ्जतेऽन्नमिह लक्ष्मणपक्षनिष्ठाः ॥
किञ्च-
दोषः किमेष दुरितापहरो गुणो वे-
त्येवं विविच्य परिपृच्छ गुणागुणज्ञान् ॥ २४१ ॥
दृष्टं बन्ध्वितरैः सतामनदतां दोषो य एषोऽपरैः
शिष्टैः स्पृष्टमनश्नतामिह महाराष्ट्रादिकानां समः ॥
एषां दूषयिता न कोऽपि नियताहारः परन्तु द्विजः
सर्वाशी नतु दूषणं हितभुजां19 तेषामिदं भूषणम् ॥ २४२ ॥
बाल-कृष्णः
दोषेति । अपहसितुं योग्यम् अपहास्यम् । परिहासास्पदमित्यर्थः ॥ ९५& ॥
इष्टादिति । इह लक्ष्मणपक्षे रामानुजमते निष्ठाः स्थिताः इष्टात् स्वमतस्थात् स्वबान्धवजनात्, इतरैः मतान्तरस्यैः अबान्धवैरदृष्टमन्नं भुञ्जत इति यत्, एष उक्त विधान्न भोजनरूपः, दोषः ? किं वा दुरितं पापम् अपहरति विनाशयतीति दुरि- तापहरो गुणः ? इति उक्तप्रकारं विविच्य आलोक्य गुणानगुणान् दोषांश्च जानन्तीति तज्ज्ञानं परिपृच्छ विचारय ॥ २४१ ॥
अथ ‘विदुषां मतान्तरजुषां पङ्क्तौ न भुङ्क्ते’ - इत्यादि दूषणमुद्धारयन्नाह दृष्टमिति । बन्ध्वितरैर्दृष्टम् अन्नम् अनदताम् अभक्षयतां सतां, य एष दोषः कथितः, स एष दोषः अपरैः शिष्टैः स्पृष्टम् अनश्नताम् अभक्षयतां महाराष्ट्रादिकानां महाराष्ट्रादीतरदेशवासिनामपि समः तुल्यः । नियताहारः मितभोजनः कोऽपि द्विजः एषां रामानुजीयानां दूषयिता दूषकः न भवति । परन्तु किन्तु सर्वत्राश्नातीति सर्वाशी द्विजः दूषयिता स्यात् । इदम् अनियमभोजनकृतदूषणं तु हितभुजां शरीरसुखकरभोजिनां तेषां भूषणमेव न तु दूषणमिति योज्यम् ॥ २४२ ॥
भाषाप्रबन्धे
विश्वास-प्रस्तुतिः
यश् च शठारि-प्रभृति-सत्त्व-स्थ-मुनि-विनिर्मित-दिव्य-प्रबन्धाध्ययने20 दोष उद्घाटितः21
सोऽयम् इतिहास-पुराणादिभिर् वेदम् उपबृंहयद्भ्यः सद्भ्यः22 न रोचते । शृणु तावत् ॥ ९६& ॥
मूलम्
यश्च शठारिप्रभृतिसत्त्वस्थमुनिविनिर्मितदिव्यप्रबन्धाध्ययने20 दोष उद्घाटितः21 सोऽयमितिहास-पुराणादिभिर्वेदमुपबृंहयद्भ्यः सद्भ्यः22 न रोचते । शृणु तावत् ॥ ९६& ॥
बाल-कृष्णः
भाषाप्रबन्धाध्ययनरूपं दोषं निराकर्तुमाह-यश्चेति । शठारिः एतन्नामा कश्चिन्मुनिः सः प्रभृतिर्मुख्यो येषु तैः सत्त्वस्थमुनिभिः सत्त्वगुणयुक्तऋषिभिः, एतेन तेषां शमदमादिसाधनसम्पत्तिमत्त्वं, काम-क्रोधादिराहित्यं च सूचितम् । निर्मितदिव्यप्रबन्धानाम् अज्ञजनज्ञानार्थं विरचितदिव्यभाषाग्रन्थानाम् अध्ययने यश्च दोषः उद्घाटितः प्रकटीकृतः सोयम् इतिहास - पुराणादिभिर्वेदमुपबृंहयद्भ्यो वर्धयद्भ्यः सद्भयः, व्यासवसिष्ठसदृशसज्जनेभ्यो न रोचते । अनेन इतिहास-पुराणानि यथा वेदोपबृंहणानि तथैवैतेषां भाषाप्रबन्धा अपीति सूचितम् ॥ ९६& ॥
विश्वास-प्रस्तुतिः
बकुल-विभूषणेन गुरुणा करुणानिधिना
श्रुति-मुकुटाभिसन्धिम् अवधार्य परं गहनम् ॥
रचितम्, इह प्रबन्धम् अनुसन्दधतां कथितम् +++(यद् दूषणम्)+++,
समम् अपि +++(तद् एव)+++ दूषणं स्मृति-पुराणम् अधीतवताम् ॥ २४३ ॥
मूलम्
बकुलविभूषणेन गुरुणा करुणानिधिना
श्रुतिमुकुटाभिसन्धिमवधार्य परं गहनम् ॥
रचितमिह प्रबन्धमनुसन्दधतां कथितं
सममपि दूषणं स्मृतिपुराणमधीतवताम् ॥ २४३ ॥
बाल-कृष्णः
एतदेव सविस्तरमुपपादयति- बकुलेति ।
करुणानिधिना अत एव बकुल विभूषणेन शठकोपेन गुरुणा,
श्रुतिमुकुटानाम् उपनिषदां अभिसन्धिं तात्पर्यं परमुत्कृष्टं गहनं दुर्ज्ञेयम् अवधार्य निश्चित्य रचितम् ।
द्राविडभाषयेति शेषः ।
प्रबन्धम् अनुसन्दधतां पठतां यत् दूषणं कथितं, तद् दूषणं स्मृतिः मानवादिः पुराणानि वैष्णव-भाग- वतादीनि च । " नपुंसकमनपुंसकेन” इत्यादिना एकवद्भावः । अधीतवतां तत्पठनं कुर्वतामपि समं, वेदार्थोपबृंहकत्वाविशेषादिति भावः ॥ २४३ ॥
विश्वास-प्रस्तुतिः
किञ्च-
उपादेयं प्राज्ञैर् उचितविषयं द्राविडवचो -
ऽप्ययुक्तार्थं हेयं भवति वचनं संस्कृतम् अपि ॥
हरिं बिभ्रच् चेतस्य् अनति-सुभगोऽपि स्तुतिपदं
न सद्-रूपोऽप्यन्तःकरण-धृत-नारी-स्तन-भरः ॥ २४४ ॥
वस्तुतस् त्व् अगस्त्य-व्याकरणानुशिष्टानाम्
अनवद्य-शिष्ट-परिग्रह-विशेष-प्रकृष्टानां द्राविड-शब्दानां
को नाम संस्कृताद् अपकर्षः ॥ ९७& ॥
मूलम्
किञ्च-
उपादेयं प्राज्ञैरुचितविषयं द्राविडवचो -
ऽप्ययुक्तार्थं हेयं भवति वचनं संस्कृतमपि ॥
हरिं बिभ्रच्चेतस्यनतिसुभगोऽपि स्तुतिपदं
न सद्रूपोऽप्यन्तःकरणधृतनारीस्तनभरः ॥ २४४ ॥
वस्तुतस्त्वगस्त्यव्याकरणानुशिष्टानामनवद्यशिष्ट परिग्रह विशेषप्रकृष्टानां द्राविडशब्दानां को नाम संस्कृतादपकर्षः ॥ ९७& ॥
बाल-कृष्णः
ननु तथात्वेऽपि प्रबन्धस्य द्रविडदेशभाषामयत्वेन “देशभाषामयं काव्यं श्रोतव्यं जातु न द्विजैः ।” इति स्मरणादनुचितमेव तत्पठनमित्याशङ्कयाह - उपादेय- मिति । उचितः योग्यः विषयः प्रतिपाद्यं यस्य तद् द्राविडवचः प्रबन्धरूपमपि, प्राज्ञैर्मनीषिभिः उपादेयं स्वीकार्यम् भवति । अयुक्तार्थम् अनुचितविषयं संस्कृतमपि वचनं भाणप्रहसनादिरूपं हेयं त्याज्यं च भवति । उक्तेऽर्थे दृष्टान्तमाह-न अतिसुभगः सुन्दरः अनतिसुभगः कुरूपोऽपि, हरिं चेतसि अन्तःकरणे बिभ्रद् धारयन् जनः स्तुतेः पदं स्थानं भवति । सद्रूपोऽपि सुरूपसम्पन्नोऽपि अन्तःकरणे चेतसि धृतः नारीस्तनभरः स्त्रीस्तनसौन्दर्यं येन तादृशः जनः स्तुतिपदं न भवति । दृष्टान्तालङ्कारः ॥ २४४ ॥
वस्तुतस्त्विति । अगस्त्यव्याकरणं ‘इलक्कणं’ इति भाषानामप्रसिद्धं तेनानुशिष्टानां व्युत्पन्नानां, अनवद्याः स्तुत्याः ये शिष्टाः तेषां परिग्रहविशेषेण आदरातिशयेन प्रकृष्टानामुत्तमानां द्राविडशब्दानां प्रबन्धगतानामिति शेषः । को नाम संस्कृतादपकर्षः निकृष्टत्वम् ॥ ९७& ॥
विश्वास-प्रस्तुतिः
पश्य-
स यासां व्याकर्ता चुलुकित-समुद्रो मुनिवरः
प्रबन्धारः प्रौढाः शठ-मथन-मुख्याः शम-धनाः ॥
प्रवक्तारः शुद्धाः प्रथित-यशसः पूर्वगुरवो
गिरां-पारे तासां जयति गरिमा द्राविड-गिराम् ॥ २४५ ॥
यश् चैकदेश-विषय-दूषणोपन्यासस् तत्राप्य् आकर्ण्यताम् ॥ ९८& ॥
मूलम्
पश्य-
स यासां व्याकर्ता चुलुकितसमुद्रो मुनिवरः
प्रबन्धारः प्रौढाः शठमथनमुख्याः शमधनाः ॥
प्रवक्तारः शुद्धाः प्रथितयशसः पूर्वगुरवो
गिराम्पारे तासां जयति गरिमा द्राविडगिराम् ॥ २४५ ॥
बाल-कृष्णः
स इति । यासां द्राविडवाणीनामिति वाक्यत्रयेऽपि योज्यम् । व्याकर्ता व्याकरणेन संस्कारकर्ता तु, चुलुकितः आचमनमात्रेणैव प्राशितः समुद्रो येन तथाभूतः, सः प्रसिद्धः मुनिवरोऽगस्त्यः, प्रबन्धारः भाषाग्रन्थकर्तारश्च प्रौढाः प्रगल्भाः शठमथन मुख्याः शठकोपादयः, शमो बाह्येन्द्रियनिग्रहस्तद्रूपमेव धनं येषां तथाभूता मुनयः, किञ्च प्रवक्तारः अध्यापकाश्च शुद्धाः अन्तर्बाह्येन्द्रियदमनेन शुद्धान्तःकरणाः, प्रथितयशसश्च, पूर्वे गुरवः रामानुजादयः । सर्वत्र भवतीत्यादि यथायोग्यं वचनविपरिणामेनानुसन्धेयम् । तासां द्राविडगिरां गरिमा महत्त्वं, गिराम्पारे जयति । वाचामविषय इत्यर्थः ॥ २४५ ॥
दक्षिणकलाचारेषु
विश्वास-प्रस्तुतिः
यश् चैकदेश-विषय-दूषणोपन्यासस्,
तत्राप्य् आकर्ण्यताम् ॥ ९८& ॥
मूलम्
यश्चैकदेशविषयदूषणोपन्यासस्तत्राप्याकर्ण्यताम् ॥ ९८& ॥
बाल-कृष्णः
इदानीं ‘घण्टाघोषं त्यजन्तः -’ इत्यादिश्लोकैरुपन्यस्तदूषणमुद्धारयन्नाह - य इति । एकदेशः पूजायां घण्टानादाकरण-यज्ञादिकर्मत्यागादिरूपः विषयः येषां तेषां दूषणानामुपन्यासः कथनम् ॥ ९८& ॥
बाल-कृष्णः - टिप्पनी
इतः परं दश पद्यानि
सप्त गद्यानि चात्र मुद्रितपुस्तके अधिकान्य् उपलभ्यन्ते,
प्राचीन पुस्तकेषु, अस्मत्-सम्पादितादर्शपुस्तके च
तानि नोपलभ्यन्त एव ।
तस्मात् तानि केनचित् प्रक्षिप्तानीति भाति ।
एतद्विषये च मुद्रितपुस्तके टीकाकारः,
‘ग्रन्थकर्त्रा वेङ्कटाध्वरिणा ‘तेङ्गले’-इत्याख्यानां दोषान् उद्घाट्य तन्-निवारणं सम्यक्तया न कृतम् इति मत्वा
ऽन्येन केनचित् तेङ्गल-सम्प्रदायिना स्व-सम्प्रदायोपर्य्-आरोपित-दोष-निरसनार्थम्
अयमंशः प्रक्षिप्तः’
इति वदति च ।
अतस् तेषां मूले निवेशो ऽयुक्त इति
अत्रैव वाच-कानां परिज्ञानार्थं निवेश्यन्ते ।
तेषां टीका च टिप्पणी-स्थले यथावलोकनं निवेशिता ।
मूल-बहिर्-भूतत्वान् न मया पृथक् टीकाकरणे यतितम् ।
यथा-
विश्वास-प्रस्तुतिः
किञ्च–
यज्ञान् पञ्च च सञ्चितात्मधिषणा मान्यान् अथान्याध्वरान्
तत्-तद्-देव-शरीर-माधव-मुखोल्लासावहान् अप्य् अमी ॥
सन्त्यज्याप्य् अवधानतः प्रभुतमं स्वाराधनैस् तोषयन्त्य्
एषां सच्-चरितं यशांसि भजतां सूते पुनीते जगत् ॥ प्र१ ॥
सर्वाभ्यर्हित वैष्णवाङ्घ्रि-पयसां पानेन पूतात्मभिर्
बह्वायास-निषेव्य-पावन-जटा गङ्गापि नाङ्गीकृता ॥
सामीप्ये ऽपि पयोनिधिः परिहृतः पश्वादि-काम्याद् विधेः
सारासार-विवेचने समुचिता सन्दृश्यते चातुरी ॥ प्र२ ॥
हन्त एतेष्व् एव सांसिद्धिकाम् अच्युत-भक्तिम् अपेक्ष्य
विजयते तद्-भक्त-भक्तिर् अनितर-साधारणी ॥ प्र१& ॥
दृष्टे झटित्य् अखिल-लोक-निदान-भक्ते
साष्टाङ्गम् अत्रपम् अपाकृत-सर्व-गर्वम् ॥
अस्पृष्ट-देश-समयं प्रणमन्ति, तेषां
धन्यात्मनां वद किम् अन्यद् उपास्यम् अस्ति ॥ प्र३ ॥
मूलम्
किञ्च–
यज्ञान् पञ्च च सञ्चितात्मधिषणा मान्यानथान्याध्वरान्
तत्तद्देवशरीरमाधवमुखोल्लासावहानप्यमी ॥
सन्त्यज्याप्यवधानतः प्रभुतमं स्वाराधनैस्तोषय-
त्येषां सच्चरितं यशांसि भजतां सूते पुनीते जगत् ॥ प्र१ ॥
सर्वाभ्यर्हित वैष्णवाङ्घ्रिपयसां पानेन पूतात्मभि—
र्बह्वायास निषेव्यपावनजटा गङ्गापि नाङ्गीकृता ॥
सामीप्येऽपि पयोनिधिः परिहृतः पश्वादिकाम्याद्विधेः
सारासारविवेचने समुचिता सन्दृश्यते चातुरी ॥ प्र२ ॥
हन्त एतेष्वेव सांसिद्धिकामच्युतभक्तिमपेक्ष्य विजयते तद्भक्तभक्तिरनितरसाधारणी ॥ प्र१& ॥
दृष्टे झटित्यखिललोकनिदानभक्ते साष्टाङ्गमत्रपमपाकृतसर्वगर्वम् ॥
अस्पृष्टदेशसमयं प्रणमन्ति तेषां धन्यात्मनां वद किमन्यदुपास्यमस्ति ॥ प्र३ ॥
बाल-कृष्णः
यज्ञानिति । सञ्चिता आत्मधिषणा आत्मज्ञानसाक्षात्कारः यैस्ते । ज्ञानिन इत्यर्थः । अमी रामानुजीयाः । “पञ्च वा महायज्ञा ब्रह्मयज्ञो देवयज्ञो भूतयज्ञः पितृयज्ञो मनुष्ययज्ञ इति" इत्यादिश्रुत्युक्ताः तान् । अथ मान्यान् अन्यानध्वरान् ज्योतिष्टोमादीन्, तत्तद्यज्ञस्थदेवतारूपत्वेन माधवस्य विष्णोः मुखम् अग्निः “अग्निमुखा वै देवाः" इति श्रुतेः । तस्य उल्लासः तृप्तिः तामावहन्तीति तानपि एतादृशान् यज्ञानू, सन्त्यज्य विहाय, अमी अवधानतः सावधानतया प्रभुतमं सर्वेश्वरं विष्णुं स्वाराधनैः पूजन-भजनादिभिः तोषयन्ति । एतादृशानामेषां हरिं भजतां सत् साधु चरितम् आचरितं यशांसि सूते, जगत् पुनीते पवित्रयति च ॥ प्र१ ॥
सर्वेति । सर्वेभ्य इतरेभ्यो जलेभ्यः अभ्यर्हितानां सन्निधानां सुखलभ्यानां पूज्यानां वा वैष्णवाङ्घ्रिपयसां वैष्णवपादोदकानां पानेन पूतः आत्मा शरीरं येषां तैः एभिः, बह्वायासेन निषेव्या पावना जटा मूलम् उगमश्च यस्याः । “मूले लग्नकचे जटा" इत्यमरः । तुषारपिहितात्युच्च हिमाचलनिर्गतत्वाद् अतिदूरत्वाद्वा बह्वायासनिषेव्यत्वम् । गङ्गापि नाङ्गीकृता पावित्र्यार्थे न स्वीकृता । अनायासलभ्यवैष्णवपादतीर्थेनैव पावित्र्यलाभात् । तीरोपान्त निवासित्वात् सामीप्येऽपि पयोनिधिः समुद्रः स्नानादिषु परिहृतः । पशुबन्धादिकाम्यकर्मविधेः सारासारविवेचने कर्तव्याकर्तव्यविवेके समुचिता चातुरी नैपुण्यं दृश्यते । एषामिति शेषः ॥ प्र२ ॥
हन्तेति । सांसिद्धिकां जन्मान्तरसुकृतलब्धाम् अच्युतस्य भगवतो भक्तिमपेक्ष्य, तद्भक्तानां वैष्णवानां भक्तिः, अनितरसाधारणी असदृशी विजयते सर्वोत्कर्षेण वर्तते । भगवतोऽप्यधिकं तद्भक्तानेवामी भजन्तीति भावः । हन्तेति हर्षे ॥ प्र१& ॥
कथमित्याकाङ्क्षायामाह – दृष्टे इति । अखिललोकस्य विश्वस्य निदानम् आदिकारणं “निदानं त्वादिकारणम्” इत्यमरः । भगवान् विष्णुः तस्य भक्ते दृष्टे सति, साष्टाङ्गम्
“उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥”
इत्युक्तलक्षणम् अत्रपं लज्जारहितम् अपाकृतः दूरीकृतः सर्वोऽपि गर्वः यस्मिन्नेतादृशं च यथा स्यात्तथा प्रणमन्ति नमस्कुर्वन्ति । एतादृशानां तेषां भगवद्भक्तादन्यत् किम् उपास्यमस्ति ? न किमपीत्यर्थः ॥ प्र३ ॥
विश्वास-प्रस्तुतिः
यच् च यति-वन्दन-विषये ऽप्य् अवहितोऽसि तत्राप्य् आकर्ण्यताम् ॥ प्र२& ॥
उत्कर्षं चरमाश्रमी जडमतिः स्वेनैव +++(आश्रमेण)+++ जानाति चेत्
नेदिष्टेष्व् अपि सर्वलोक-गमितुर् +++(विष्णोर्)+++ भक्तेषु भित्तीयते ॥
अन्येऽमी यतयः प्रबोध-मतयः सर्वस्य चोत्कर्ष-दा
भक्तिर् भागवतीति सस्पृहम् अमून् अर्चन्ति नृत्यन्ति च ॥ प्र४ ॥
इदं चावधेयम् -
चतुर्वेदाध्यायी सकल-विहिताचार-निपुणो
निषिद्धाचारान् अप्य् अथ परिहरन् छास्त्र-पदवीम् +++(अनुतिष्ठन्)+++ ॥
यतिर् वाप्य् अन्यो वा हरिचरण-भक्तान् यदि जनान्
उपेक्षेत क्षान्तैर् न भवति पदं विश्व-गमितुः ॥ प्र५ ॥
तद्-अनतिक्रान्त-लोक-मर्यादम्
आश्रम-त्रयस्यैव न केवलं,
निखिलाश्रमिणाम् अपि परस्पर-भक्ति-प्रकर्ष-प्रकटितदास्यमुक्तिप्रत्युद्गमाभिवादनादिकमवश्यानुष्ठेयमेवेति साधु
जानीहि ॥प्र३&॥
यदपि प्रपन्नजनजीवनप्रधाननिदानपावनपादावनेजनावलम्बिदूषणं तदपि
तन्महिमाऽपरिज्ञानविजृम्भितं बुद्धेः पिशुनयति दौर्भाग्यम् ॥ प्र४& ॥
मूलम्
यच्च यतिवन्दनविषयेऽप्यवहितोऽसि तत्राप्याकर्ण्यताम् ॥ प्र२& ॥
उत्कर्षं चरमाश्रमी जडमतिः स्वेनैव जानाति चेन्
नेदिष्टेष्वपि सर्वलोकगमितुर्भक्तेषु भित्तीयते ॥
अन्येऽमी यतयः प्रबोधमतयः सर्वस्य चोत्कर्षदा
भक्तिर्भागवतीति सस्पृहममूनर्चन्ति नृत्यन्ति च ॥ प्र४ ॥
इदं चावधेयम् -
चतुर्वेदाध्यायी सकलविहिताचारनिपुणो
निषिद्धाचारानप्यथ परिहरञ्छास्त्रपदवीम् ॥
यतिर्वाप्यन्यो वा हरिचरणभक्तान्यदि जना-
नुपेक्षेत क्षान्तैर्न भवति पदं विश्वगमितुः ॥ प्र५ ॥
तदनतिक्रान्तलोकमर्यादमाश्रमत्रयस्यैव न केवलं, निखिलाश्रमिणामपि परस्प- रभक्तिप्रकर्षप्रकटितदास्यमुक्तिप्रत्युद्गमाभिवादनादिकमवश्यानुष्ठेयमेवेति साधु
जानीहि ॥प्र३&॥
यदपि प्रपन्नजनजीवनप्रधाननिदानपावनपादावनेजनावलम्बिदूषणं तदपि
तन्महिमाऽपरिज्ञानविजृम्भितं बुद्धेः पिशुनयति दौर्भाग्यम् ॥ प्र४& ॥
बाल-कृष्णः
यच्चेति । अवहितोऽसि बद्धकटाक्षोऽसि ॥ प्र२&॥
तथाहि- उत्कर्षमिति । जडा मतिर्यस्य सः अपण्डितः चरमाश्रमी सन्यासिकः स्वेनैव अर्थात् स्वस्य उत्तमाश्रमेणैव उत्कर्षम् इतरेभ्यः श्रेष्ठत्वं जानाति चेत् तर्हि, सर्वेषां लोकानां गमितुः सर्वलोकव्यापिनः भगवतः भक्तेषु भित्तीयते भित्तिवदाचरति । इतराश्रमिषु भगवद्भक्तेषु नमत्खपि जडमतिरयं स्वात्मानमेव पूज्यतमं मन्वानो यतिः भित्तिवत् स्थाणुरिव भवति, प्रतिवन्दनादिकं किमपि न करोतीत्यर्थः । ये त्वन्ये अमी यतयः प्रबोधमतयः प्राज्ञाः, ते तु सर्वस्यापि प्राणिनः उत्कर्षदा महत्त्वप्रदा भागवती भगवत्सम्बन्धिनी भक्तिरेव भगवद्भक्यैव पूज्यत्वं महत्त्वं च नान्यैः आश्रमादिभि- लिङ्गैरिति मत्वा सस्पृहम् अमूनन्यान् वैष्णवान् वानप्रस्थ- गृहस्थ- ब्रह्मचारि- स्त्री-शूद्रानपि अर्चन्ति पूजयन्ति तदानन्देन नृत्यन्ति च ॥ प्र४ ॥
चतुर्वेदेति । चतुर्णाम् ऋग्यजुःसामाथर्वाख्यानां वेदानाम् अध्यायी अध्ययन- कर्ता सकले समग्रे विहिताचारे शास्त्रचोदितानुष्ठाने निपुणः कुशलोऽपि, निषिद्धान् वर्णाश्रमाद्यधिकृत्य शास्त्रेषु वर्जितान् आचारान् लशुन- गृञ्जनभक्षणादिरूपान् परिहरन् वर्जयन्नपि, शास्त्रपदवीं शास्त्रोदितमार्गं, चरन्न् इति शेषः । यतिः अन्यः गृहस्थोऽपि वा हरिचरणभक्तान् वैष्णवान् यदि उपेक्षेत अवज्ञायेत चेत्, तस्य तत् कर्म विश्वगमितुः विश्वपतेर्भगवतः क्षान्यै क्षमायै पदम् आस्पदं न भवति । विद्यादिसकलगुणविशिष्टोऽपि पुमान् वैष्णवापमानकृदपराधी भवतीत्यर्थः ॥ प्र५ ॥
तदिति । तत् तस्मात् हेतोः अनतिक्रान्तलोकमर्यादं लोकमर्यादाम् अनतिक्रम्य यथा स्यात्तथा ब्रह्मचारि-गृहस्थ- वानप्रस्थ रूपस्य आश्रमत्रयस्यैवायं परस्पर- वन्दनादिरूपो धर्म इति न तर्हि निखिलाश्रमिणां सन्न्याससहितानां चतुर्णामपि आश्रमाणां परस्परस्य भक्तिप्रकर्षेण प्रकटितं दास्यं प्रश्रयोक्तिः प्रत्युद्गमनाभिवादनादिकं च सर्वैरनुष्ठेयमेवेति साधु सम्यक् जानीहि बुध्यस्व ॥ प्र३& ॥
एवं यतिवन्दनदूषणं परिहृत्य वैष्णवपादोदकसेवनदूषणं परिहरति– यदपीति । यदपि प्रपन्नानां प्रपत्तिधर्मेण भगवते शरणागतानां जीवनस्य प्रधानं मुख्यं निदानं
यत् पावनं पवित्रं पादावनेजनं पादोदकं तद् अवलम्बते इति तदवलब्बितत्सम्बन्धि । पादोदकवन्दनरूपं यद्दूषणं, त्वयोपन्यस्तमिति शेषः । तदपि तस्य पादतीर्थस्य महिमा महत्वं तस्य अपरिज्ञानेन अज्ञानेन विजृम्भितं सद् बुद्धेः धियः दौर्भाग्यं दुर्बलत्वम् आकुञ्चितत्वमित्यर्थः । पिशुनयति प्रकटयति ॥ प्र४& ॥
विश्वास-प्रस्तुतिः
तथा हि
स्वातन्त्र्यं परिवर्जयन् निजगुरोर् अङ्घ्रि-द्वयांशीभवन्
प्रीत्यै स्वामि-जनस्य निःस्पृहतया तन्वीत तीर्थान्वयम् ॥
गोष्ठीभूय समार्जितं निपुणधीः श्रीपाद-तीर्थं स्वयम्
स्वीकुर्याद् यदि पाञ्चरात्र-पदवी-भाजां न तद् दूषणम् ॥ प्र६ ॥
वद रहसि पदाम्बु स्वीयम् आपीयते वा,
विगत-निज-पदाम्भो नार्थ्यते वा ऽङ्घ्रितीर्थम् ॥
अपि तु तद्-अभिलाषा स्वामिनां+++(→विष्णोः, यतः)+++ - स्वाङ्घ्रि-सङ्गे
ऽप्य् अधिकतर-पवित्रं +++(गाङ्गम्)+++ सेव्यते पाद-तीर्थम् ॥प्र७॥ +++(5)+++
तद् अवधेहि
+उपेक्षणीय-निज-पद-पयः-सङ्गे ऽप्य् अङ्गीकरणम्
अधिकतर-पवित्र-बहुलतर-हरि-चरण-सन्ततान्तरङ्ग-जन-चरणावनेजनस्य समुचितम् एवेति ॥ प्र५& ॥
मज्जन् जनः स्व-चरण-द्वय-सङ्ग-भाजि
गङ्गा-झरे निज-कलङ्क-निरास हेतोः ॥
पूर्णोपमानम् अवधेहि निजाङ्ग-सङ्गि
-भक्ताग्र-गण्य-पद-पद्म-पयः पिपासोः ॥ प्र८ ॥ +++(5)+++
आस्ताम् इदं वाचनिके वितण्डायमानाः
सन्ध्यासु विहितम् आत्म-प्रदक्षिणम् अध्यधिक्षिपन्तु ।
हन्तैतेषाम् अनपाय-सत्-सम्प्रदाय-प्रवर्तकः
सकल-गुरु-तिलक–लोक-गुरु-हृदयानुसारी
स एष विजयते सौम्योपयातानां देशिक-सार्वभौमः +++(मनवाळमहामुनिः)+++ ॥ प्र६& ॥
पुण्यश्लोकः परम् अभिमतः +++(स्वर्गादिषु)+++ स्वःस्थलेष्व् आस्थया ऽसौ,
यस्य श्लोक-प्रथम-पठन-श्लाघना-कम्पमानैः ॥
चूडा-सूनैः स्नपयति मधु-स्यन्दिभिश् चञ्चरीकैर्+++(=भ्रमरेः)+++
दत्त-स्वस्ति-प्रवचन-मुरो नित्य+++(पुष्प)+++-भूषां स्वयोषाम् ॥ प्र९॥
खल-कृत-परिभाषाकर्णनोद्यज्-जिगीषा
वितत-निज-मनीषा विस्तृत-ब्रह्म-योषा+++(→वाणी)+++ ॥
जयति दलित-दोषा दत्त-तत्त्वाभिलाषा
वर-वर-मुनि-वेषा कापि वैकुण्ठ-भूषा ॥ प्र१० ॥
आकर्णय तावद् एतदीयानां पवित्रतमं चारित्रम् ॥ प्र७& ॥
मूलम्
तथा हि
स्वातन्त्र्यं परिवर्जयन्निजगुरोरङ्घ्रिद्वयांशीभवन्
प्रीत्यै स्वामिजनस्य निःस्पृहतया तन्वीत तीर्थान्वयम् ॥
गोष्ठीभूय समार्जितं निपुणधीः श्रीपादतीर्थं स्वयं
स्वीकुर्याद्यदि पाञ्चरात्रपदवीभाजां न तद्दूषणम् ॥ प्र६ ॥
वद रहसि पदाम्बु स्वीयमापीयते वा
विगतनिजपदाम्भो नार्थ्यते वाऽङ्गितीर्थम् ॥
अपि तु तदभिलाषा स्वामिनां स्वाङ्गिसङ्गे
ऽप्यधिकतरपवित्रं सेव्यते पादतीर्थम् ॥प्र७॥
तदवधेहि उपेक्षणीयनिजपदपयः सङ्गेऽप्यङ्गीकरणमधिकतरपवित्रबहुलतरहरि- चरणसन्ततान्तरङ्गजनचरणावनेजनस्य समुचितमेवेति ॥ प्र५& ॥
मज्जन् जनः स्वचरणद्वयसङ्गभाजि
गङ्गाझरे निजकलङ्कनिरास हेतोः ॥
पूर्णोपमानमवधेहि निजाङ्गसङ्गि
-भक्ताग्रगण्यपदपद्मपयः पिपासोः ॥ प्र८ ॥
आस्तामिदं वाचनिके वितण्डायमानाः सन्ध्यासु विहितमात्मप्रदक्षिणमध्यधिक्षिपन्तु । हन्तैतेषामनपायसत्सम्प्रदायप्रवर्तकः सकलगुरुतिलकलोकगुरुहृदयानुसारी स एष विजयते सौम्योपयातानां देशिकसार्वभौमः ॥ प्र६& ॥
पुण्यश्लोकः परमभिमतः स्वःस्थलेष्वास्थयासौ
यस्य श्लोकप्रथमपठनश्लाघनाकम्पमानैः ॥
चूडासूनैः स्नपयति मधुस्यन्दिभिश्चञ्चरीकै–
र्दत्तस्वस्तिप्रवचनमुरो नित्यभूषां स्वयोषाम् ॥ प्र९॥
खलकृतपरिभाषाकर्णनोद्यज्जिगीषा
विततनिजमनीषा विस्तृत ब्रह्मयोषा ॥
जयति दलितदोषा दत्ततत्त्वाभिलाषा
वरवरमुनिवेषा क्वापि वैकुण्ठभूषा ॥ प्र१० ॥
आकर्णय तावदेतदीयानां पवित्रतमं चारित्रम् ॥ प्र७& ॥
बाल-कृष्णः
तदेवोपपादयति - स्वातन्यमिति । स्वातन्त्र्यं स्वच्छन्दतां कामचारित्वमिति यावत् । परिवर्जयन् दूरतस्त्यजन्, निजगुरोः भगवतः अङ्घ्रिद्वयस्य अंशी - भवन् स्वात्मानं भगवच्चरणांशभूतमिति मन्वानः सन् स्वामिजनस्य सन्न्यासिजनस्य प्रीत्यै तदुक्तकरणेन तत्सन्तोषजननार्थं निःस्पृहतया फलाभिसन्धिराहित्येन तीर्थान्वयं तीर्थयात्रां तन्वीत आचरेद् वा आचरणं कुर्यादित्यर्थः । गोष्ठीभूय वैष्णवसमाजरूपेण स्थित्वा, गृह एवेति शेषः । समार्जितं सम्पादितं श्रीपादतीर्थं प्रपन्नजनपादोदकं निपुणधीः कुशलबुद्धिः स्वयं स्वीकुर्याद् यदि स्वीकरोति चेत्, तर्हि तत् पादतीर्थग्रहणं मतान्तरस्थायिनां दूषणं भविष्यति चेद् भवतु नाम । परं पाञ्चरात्रपदवीभाजां पञ्चरात्रागमं प्रमाणीकुर्वतां रामानुजीयानां तद्दूषणं न भवति, अपि तु भूषणमेवेति फलितोऽर्थः ॥ प्र६॥
अन्यदप्याह-वदेति । रहसि वैष्णवगोष्ठ्यां , स्वीयं स्वकीयं पदाम्बु पादतीर्थमेव आपीयते प्राश्यते वेति वद । विगतनिजपदाम्भः विगतं निजं पदं स्थानं यस्य तादृशम् अम्भः स्वस्थानभ्रष्टमुदकं अङ्घ्रितीर्थं चरणतीर्थं च नार्थ्यते न याच्यते वा अपि तु याच्यत एवेत्यर्थः । तस्य चरणतीर्थस्य अभिलाषां स्वामिनां प्रभूणां विष्णोरित्यर्थः । बहुवचनं पूजायाम् । अस्त्यैव । यतः स्वाङ्घ्रिसङ्गे ऽपि अधिकतरपवित्रं स्वचरणादपि तद्-उद्भवं गाङ्गम् उदकं भगवतापि सेव्यते । अतस्तद्भक्तानां वैष्णव-पादोदकसेवने न कोऽपि दोषः । भगवदनुष्ठितत्वादस्य मार्गस्येति भावः ॥ प्र७ ॥
तदिति । उपेक्षणीयस्य निजपदपयसः स्वीयपादोदकस्य सङ्गेऽपि तस्य अङ्गी- करणं गोष्ठ्यां हि सर्वेषां तत्रत्यानां पादोदकग्रहणे स्वस्यापि पादावनेजनादेकं तत्र वर्तत एव । तथापि तस्य अङ्गीकरणं प्राशनं वन्दनं वा स्वस्मादपि अधिकतर पवित्राणां विशेषतया पावनानां बहुलानां हरिचरणयोः भगवत्पादयोः सततम् आसक्त अन्तःकरणं येषां तेषां वैष्णवानां जनः समूहः तस्य चरणावनेजनस्य पादप्रक्षालनस्य यदुदकं तस्य सेवनं समुचितमेव युक्तमेव । स्वाधिकभगवद्भक्तपादतीर्थमिश्रत्वात् स्वपादतीर्थम्बुद्ध्या तस्याग्रहणाच्च स्वपादोदकस्पर्शनेऽपि न कोऽपि दोष इति भावः ॥ ५&॥
मज्जन्निति । स्वस्य चरणद्वयस्य सङ्गभाजि स्वचरणद्वयसङ्गते गङ्गाझरे भागीरथीप्रवाहे निजकलङ्कस्य स्वीयपापस्य निरासहेतोः दूरीकरणार्थं मज्जन् स्नानं कुर्वन् जनः, भगवद्भक्तेषु अग्रगण्यानां मान्यानां यत् पदपद्मं पादकमलं तत्सम्बन्धि पयः उदकं तस्य पिपासुः पातुमिच्छुः तस्य प्रपन्नपादतीर्थसेविनः रामानुजीयस्य गङ्गास्नानकृदयं जनः पूर्णम् उपमानम् अवधेहि । पूर्णोपमेति तत्समानमिति जानीहि ॥ प्र८ ॥
आस्तामिति । वाचनिके शब्दकोट्यां वितण्डायमानाः सम्प्रदायान्तरास्थायिन इति शेषः स्वपादतीर्थसेवनमधिक्षिपन्ति, तर्हि ते सन्ध्यासु सन्ध्यावन्दनसमयेषु विहितमात्मप्रदक्षिणमपि अधिक्षिपन्तु तत्तु नाधिक्षिपन्ति । प्रत्युत अहरहराचरन्त्येव । अत उभयत्र साम्यात् स्वपादतीर्थसेवने तदधिक्षेपे न कापि हानिरिति भावः । हे सौम्य साधो, उपयातानां शरणागतानां, अनपायः अपायरहितः निर्विघ्न इत्यर्थः । तादृशस्य सतः सम्प्रदायस्य सन्मार्गस्य प्रवर्तकः प्रवृत्तिकर्ता सकलानां गुरूणाम् आचार्याणां तिलकः श्रेष्ठः । लोकगुरोः भगवतः श्रीविष्णोः हृदयम् अभिप्रायः तम् अनुसरति भगवदभिप्रायानुसारिमार्गस्थापका इत्यर्थः । स एष प्रसिद्धः रामानुजः विजयते सर्वोत्कर्षेण वर्तत इति भावः । देशिकानाम् उपदेशकर्तॄणाम् आचार्याणां सार्वभौमः श्रेष्ठः ॥ प्र६& ॥
तम् एव रामानुजं वर्णयति - पुण्येति ।
पुण्यकारकं श्लोकः यशः यस्य स पुण्यश्लोकः इति
परम् अत्यर्थम् अभिमतः स्वस्थलेषु स्वर्गलोकप्रदेशेषु यस्य श्लोकस्य यशसः यत्कृतपद्यस्य च प्रथमपाठने या श्लाघना स्तुतिः तथा कम्पमानैः चञ्चलैः मधुस्यन्दिभिः मकरन्दस्रुभिः चूडासूनैः वेणीकुसुमैः चञ्चरीकैः भ्रमरैः दत्तस्वस्तिप्रवचनं दत्तस्वस्त्युत्तरं दत्तशान्तिकमिति यावत् । नित्यभूषाम् अयातयामकुसुम-धारिणीं स्वयोषां रूपयति ॥ प्र९ ॥
खलेति । खलैः दुर्जनैः कृतायाः परिभाषायाः निन्दायाः आकर्णनेन उद्यन्ती जिगीषा जेतुमिच्छा तया वितता विस्तृता निजमनीषा स्वेच्छा तया विस्तृता प्रपञ्चिता ब्रह्मणः योषा वाणी यस्याः सा दलिताः खण्डिताः दोषाः यया, दत्तः तत्त्वे परतत्त्वे अभिलाषः यया, वरः श्रेष्टो यो मुनिः तस्य वरः वेषो यस्याः रामानुजरूपेत्यर्थः । वैकुण्ठलोकस्य भूषा भूषणं विष्णुः कापि जयति सर्वोत्कर्षेण वर्तते ॥ प्र१० ॥
विश्वास-प्रस्तुतिः
कतिचिद् अलसाः कर्मायासाऽसहा23 यदि निश्चलास्
तद् अपि भगवद्-भक्तिस् तेषां धुनोति भव-व्यथाम् ॥
श्रम-सह-जन+एकार्हैर् नॄणां विनैव हि लङ्घनैर्
+++(लङ्घन-श्रमासहेष्व् एव)+++ ज्वर-निरसनायालं वीर्योत्तरं परम् औषधम् ॥ २४६ ॥
किञ्च—
रहस्य-व्याख्यानै, रघुवर-चरित्रानुकथनैस्,
त्रयी-सध्रीचीनां+++(=सखीनां)+++ बकुल-धर+++(=शठकोप)+++-वाचां प्रवचनैः ॥
अमी भाष्याख्यानैर् हरि-चरण-कैङ्कर्य-विधिभिः
प्रणामैश् चार्याणां क्षणम् इव नयन्त्य् अत्र दिवसान् ॥ २४७ ॥+++(4)+++
मूलम्
कतिचिदलसाः कर्मायासासहा23 यदि निश्चला
स्तदपि भगवद्भक्तिस्तेषां धुनोति भवव्यथाम् ॥
श्रमसहजनैकार्हैर्नॄणां विनैव हि लङ्घनै-
र्ज्वरनिरसनायालं वीर्योत्तरं परमौषधम् ॥ २४६ ॥
किञ्च—
रहस्यव्याख्यानै रघुवरचरित्रानुकथनै-
स्त्रयीसध्रीचीनां बकुलधरवाचां प्रवचनैः ॥
अमी भाष्याख्यानैर्हरिचरणकैङ्कर्यविधिभिः
प्रणामैश्चार्याणां क्षणमिव नयन्त्यत्र दिवसान् ॥ २४७ ॥
बाल-कृष्णः
कतिचिदिति । एषां रामानुजीयानां मध्ये इति शेषः । कतिचित् जनाः अलसाः कर्माणि कर्तुमशक्ताः सन्तः कर्मणां सन्ध्यादीनाम् आयासं श्रमं न सहन्ते ते तथाभूताः अपि, यदि भगवद्भक्तौ निश्चलाः स्थिरचित्ताः भवन्ति, तदपि तावन्मात्रेणापि भगवद्भक्तिः तेषां रामानुजीयानां भवस्य संसारस्य व्यथां धुनोति विनाशयति ।
अत्र दृष्टान्तं प्रमाणयति–
श्रमं क्षुत्-तृड्-जन्यं सहन्ते इति तत्-सहास्
तथाभूतानां जनानाम् एकं मुख्यं यथा तथा
अयोग्यैः लङ्घनैः भोजन-निवृत्तिभिः विनैव हि,
नॄणां रोगिजनानां वीर्योत्तरं बलवत्तरं परमम् उत्तमं च तद् औषधं च तज् ज्वरस्य निरसनाय विनाशाय अलं समर्थम् भवति ।
वैद्यशास्त्रे हि रुग्णजनानां रोगशान्त्यै लङ्घनं प्रधानत्वेनोक्तं,
परं यदि लङ्घने अशक्ताः केचिज् जना भवेयुस्
तर्हि केवलम् औषधेनैव तेषां रोग-शान्तिर् भवतीति भावः ।
तथैवैतेषां भक्ति-सामर्थ्यम् ॥ २४६ ॥
रहस्येति । किञ्च अमी रामानुजीयाः, रहस्यानाम् ईश्वरस्वरूपप्रतिपादकानां व्याख्यानैः अर्थप्रकाशपरैः, रघुवरस्य श्रीरामचन्द्रस्य चरित्रानुकथनैः चरित्रवाचनैः त्रयीसध्रीचीनां वेदानुसारिणीनां बकुलधरवाचां श्रीरामानुजवचनानां प्रवचनैः कथनैः, भाष्यस्य श्रीरामानुजप्रणीतस्य आख्यानैः, हरेः श्रीविष्णोः चरणयोः कैङ्कर्यविधिभिः दास्यकरणैः, आर्याणां तन्मतस्थश्रेष्ठजनानां प्रणामैर्वन्दनैश्च अत्र क्षणमिव दिवसान् नयन्ति निर्यापयन्ति ॥ २४७ ॥
विश्वास-प्रस्तुतिः
पुनः क्षणम् अनुध्याय सश्लाघम्-
अन्यद् आस्तां नाम
ताम् एव कामम् अन्योन्यं कलहायमानानां नाना-विधानां श्रुतीनाम्
अविरोध-साधनेन24 साधु-भावं प्रकटयन्तीम्
अखिल-गुणाभिरामां रामानुज-सरस्वतीम् अभिनन्दामि ।
प्रसिद्धं हि “सन्धिम् इच्छन्ति साधवः " इति ॥ ९९& ॥
पश्य -
+++(“अनादि-मध्यान्त-विहीनम् एकम्”, “न रूपमस्येह तथोपलभ्यते” इत्यादयः)+++
नित्यं हेय-गुणावधूनन-परा नैर्-गुण्य-वादाः श्रुतौ
+++(“सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्” इत्यादयः)+++
मुख्यार्थाः स-गुणोक्तयः शुभ-गुण-प्रख्यापनाद् ब्रह्मणः ॥
+++(“तत्त्वमसि” “अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि” इत्यादयः)+++
अ-द्वैत-श्रुतयो +++(सच्चिदानन्दात्मकता–असज्-जड-सुख-दुःखात्मकतादि-)+++विशिष्ट-विषया, निष्कृष्ट+++(→अविशिष्ट)+++-रूपाश्रया
भेदोक्तिस्, तद् इहाखिल-श्रुति-हितं रामानुजीयं मतम् ॥ २४८ ॥
मूलम्
पुनः क्षणमनुध्याय सश्लाघम्-
अन्यदास्तां नाम तामेव काममन्योन्यं कलहायमानानां नानाविधानां श्रुतीनामविरोधसाधनेन24 साधुभावं प्रकटयन्तीम् अखिलगुणाभिरामां रामानुजसरस्वतीमभिनन्दामि । प्रसिद्धं हि “ सन्धिमिच्छन्ति साधवः " इति ॥ ९९& ॥
पश्य -
नित्यं हेयगुणावधूननपरा नैर्गुण्यवादाः श्रुतौ
मुख्यार्थाः सगुणोक्तयः शुभगुणप्रख्यापनाद्ब्रह्मणः ॥
अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया
भेदोक्तिस्तदिहाखिलश्रुतिहितं रामानुजीयं मतम् ॥ २४८ ॥
बाल-कृष्णः
अन्यदिति । अन्यद् दूषणनिराकरणम्, आस्तां नाम, किन्तु नानाविधानाम् ईश्वरस्य साकारत्व-निराकारत्व-जीवात्मनोरैक्य- भिन्नत्वप्रतिपादकत्वेनानेकप्रकाराणां श्रुतीनाम् अन्योन्यं कलहायमानानां कलहं कुर्वन्तीनामिव स्थितानाम् अविरोधसाधनेन विरोधं परिहृत्येत्यर्थः । साधुभावं सर्वासां सत्यतात्पर्यं प्रकटयन्तीं, अत एवाखिलैर्गुणैरभिरामां मनोरमां तां प्रसिद्धां रामानुजस्य सरखतीं वाणीमेवाभिनन्दामि । अत्रार्थे सहजं साधूनां चेष्टितमाह – प्रसिद्धं हीति ॥ ९९& ॥
यदुक्तं ‘श्रुतीनाम् अविरोधेन साधुभावं प्रकटयन्तीम्’ इति तदेव प्रतिपादयति- नित्यमिति ।
ये श्रुतौ निर्गुणस्य भावो नैर्गुण्यं तस्य वादाः, ईश्वरस्य निर्गुणत्वबोधकानि वाक्यानीत्यर्थः । तानि च “अनादि-मध्यान्त-विहीनम् एकम्”, “न रूपमस्येह तथोपलभ्यते” इत्यादीनि ।
ते नित्यं निरन्तरं हेयगुणानां त्याज्यगुणानां दोषाणामिति यावत् ।
अवधूननपराः विनाशप्रतिपादकाः सन्तीति सर्वत्रानुसन्धेयम् ।
तथा सगुणोक्तयः “सर्वतः पाणि-पादं तत् सर्वतोऽक्षिशिरोमुखम्" “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्” इत्यादयः सन्ति ताश्च ब्रह्मणः आत्मनः शुभ-गुणानां लोक-विलक्षण-सृष्टि-स्थिति-लय-कर्तृत्वादीनां प्रख्यापनात् प्रसिद्धिकरणात् मुख्यार्थाः शक्यार्थप्रतिबोधिकाः,
तथा अद्वैतश्रुतयः “तत्त्वमसि” “अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि” इत्यादयः जीवात्मपरमात्मनोर् अभेदप्रतिपादनपराः तास् तु, विशिष्टः सच्चिदानन्दात्मकस्य परमात्मनः असज्-जड-सुख-दुःखात्मकस्य जीवस्य च अभेद-प्रतिपादन-रूपः विषयः यासां तथाभूताः,
तथा भेदोक्तिः जीवेश्वरयोः परस्परं भेदवचनं तु निष्कृष्टं पूर्व-प्रतिपादित-विशेषण-रहितं रूपं ययोर् जीवात्मनोस् तौ आश्रयौ प्रतिपाद्यौ यस्यास् तादृशी विद्यते ।
तत् तस्माद् इह लोके रामानुजस्येदं रामानुजीयं मतम् अखिलानां सकलानां श्रुतीनां हितम् । सर्वभेदनिराकरणेनैकवाक्यताकरणादिति भावः । एतत्प्रतिपादनेन रामानुजीये मते ग्रन्थकर्तुः पक्षपातः प्रकटीभवति ।
नहि तावत्तत्त्वतः सर्वत्रेदृश्येव विवेचनरीतिर् दृश्यते ।
अन्यथा पूर्वत्र माध्ववर्णनेऽपि तथैव कुर्यात् ।
तत्र तु ‘चन्द्रालोकचयान्धकार- ’ इत्यादिकृशानु-प्रतिपादितदोषारोपणेनैव तद्वर्णनं समापितम् ।
एतच् च यथार्थ-गुण-दोष-प्रतिपादनपरे ग्रन्थे अयुक्तमिति प्रतिभाति ॥२४८॥
कृशानुः
विश्वास-प्रस्तुतिः
कृशानुः —
अवितथम् एतत्।
अथापि य इमे सञ्चरन्त्य् आचार्य-पुरुष-समाख्याता
एतन्-मताभिनिविष्टाः शिष्टास्
तेषाम् एषा रीतिर् न रोचते विवेचकेभ्यः25 ।
पश्य तावत् ॥ १००& ॥
हत्वा मार्गे द्विजादीन् अखिलम् अपि धनं हन्त हृत्वाऽतिदृप्ता26
दुर्वृत्तास् तस्करा ये वन-गिरि-निलया ये च नीचा इहान्ये ॥
कृत्वा चक्राङ्कम् एषां झटिति विदधतः किञ्च मन्त्रोपदेशं
तद्-दत्तैर् एव वित्तैर् दधति तनुम् अमी वंश-पारम्परीभिः27 ॥ २४९ ॥ +++(4)+++
मूलम्
कृशानुः — अवितथमेतदथापि य इमे सञ्चरन्त्याचार्यपुरुषसमाख्याता एतन्मताभिनिविष्टाः शिष्टास्तेषामेषा रीतिर्न रोचते विवेचकेभ्यः25 । पश्य तावत् ॥ १००& ॥
हत्वा मार्गे द्विजादीनखिलमपि धनं हन्त हृत्वाऽतिदृप्ता26
दुर्वृत्तास्तस्करा ये वनगिरिनिलया ये च नीचा इहान्ये ॥
कृत्वा चक्राङ्कमेषां झटिति विदधतः किञ्च मन्त्रोपदेशं
तद्दत्तैरेव वित्तैर्दधति तनुममी वंशपारम्परीभिः27 ॥ २४९ ॥
बाल-कृष्णः
अथ कृशानुरर्धाङ्गीकारपूर्वकमाह - अवितथमिति । एतत्पूर्वोतम वितथं सत्यं, अथापि य इमे आचार्य पुरुषसमाख्याताः आचार्यनाम्ना प्रसिद्धाः एतन्मते श्रीरा मानुजमते अभिनिविष्टाः अत्यन्तासक्ताः शिष्टाः सन्तश्च सञ्चरन्ति तेषामेषा वक्ष्यमाणा रीतिराचारः विवेचकेभ्यो विचारशीलेभ्यो न रोचते । का सा रीतिरित्याशङ्काया- माह – पश्येत्यादि ॥ १००& ॥
हृत्वेति । ये लोकाः वनानि च गिरयः पर्वताश्च निलयः वसतिस्थानं येषां ते तथोक्ताः तस्कराः चोराः अर्थात् किरातादयो लोकाः, मार्गे वनपथे द्विजादीन् ब्राह्मणादिश्रेष्ठजातीयान् जनान् हत्वा एतेन ब्रह्महत्या करणं सूचितम् । तेषाम् अखिलं सम्पूर्णमपि धनं हृत्वा परिहृत्य, हन्तेति खेदे । अतिदृप्ताः अतिशय गर्वयुक्ताः अनेन स्वर्णस्तेयरूपं द्वितीयं महापातकं सूचितम् । अत एव दुर्वृत्ताः दुराचाराः ये च इह अन्ये उक्तेभ्य इतरे नीचाः सद्गुण-सत्कुलोत्पत्त्यादिहीनाः सन्ति तेषामेषां ब्रह्मह- त्यादिमहापातकयुक्तानामपि, झटिति तेषां कुलशीलादिकमविचार्यैवेत्यर्थः । अङ्ग- मिति शेषः । चक्राङ्कं मुद्रादानेन चिह्नितं कृत्वा, नैतावदेव किञ्च मन्त्रस्य रामायणा- ष्टाक्षरस्य उपदेशं विदधतः कुर्वन्तः सन्तः, तद्दत्तैः तैः किरातादिदुर्जनैः समर्पितै- रेव वित्तैः द्रव्यैः, तनुं शरीरम् अमी रामानुजीयाः वंशपारम्परीभिः कुलपरम्पराभिः दधति धारयन्ति एतदतीव निन्यमिति भावः ॥ २४९ ॥
विश्वास-प्रस्तुतिः
किञ्च-
जारान् चोरान् किरातान् जन-पद-दमनान्28 राज-पाशान् महीशान्29
शिष्यान् कृत्वाति-दृप्ताः श्रुति-पथ-विधुराः30, श्रोत्रियैर् ब्रह्मनिष्ठैः ॥
साकं नो भुञ्जते ऽमी सकृद् अपि विनतिं कुर्वते ऽग्रे न तेषां
सङ्केतेनैव सिद्धं तद् इदम् अविदुषां श्लाघ्यम् आचार्य-पुंस्त्वम् ॥ २५० ॥,
मूलम्
किञ्च-
जारान् चोरान् किरातान् जनपददमनान्28 राजपाशान्महीशान्29
शिष्यान्कृत्वातिदृप्ताः श्रुतिपथविधुराः30 श्रोत्रियैर्ब्रह्मनिष्ठैः ॥
साकं नो भुञ्जतेऽमी सकृदपि विनतिं कुर्वतेऽग्रे न तेषां
सङ्केतेनैव सिद्धं तदिदमविदुषां श्लाघ्यम् आचार्यपुंस्त्वम् ॥ २५० ॥,
बाल-कृष्णः
जारानिति । किञ्च अमी रामानुजीयाः जारान् परस्त्रीसक्तपुरुषान्, चोरानू, किरातान् म्लेच्छजातिविशेषान्, जनपददमनान् दुस्तरकरभारग्रहणादिना देशविध्वंसकान्, अत एव राजपाशान् कुत्सितराजन्यान् । कुत्सितेऽर्थे पाशप् । महीशान् राज्ञश्च शिष्यान् कृत्वा, श्रुतिपथविधुराः वेदविहितमार्गत्यागिनः, अत एवातिदृप्ता गर्विताश्च सन्तः, ब्रह्मनिष्ठैः आत्मनिष्ठैः श्रोत्रियैः विधिवदग्निहोत्रानुष्टानयुक्तैश्च जनैः साकं सह, सकृदेकवारमपि नो भुञ्जते भोजनं नैव कुर्वन्ति । एतावदेव न, किन्तु तेषां श्रोत्रियादीनामग्रे नतिं नमस्कारमपि न कुर्वते । अपि च सङ्केतेनैव सिद्धं निष्पन्नं, अविदुषामज्ञानां मूर्खाणामिति यावत् । आचार्यपुंस्त्वम् आचार्य पुरुषत्वं तदिदं श्लाघ्यं किमिति काकुः । अपि तु अतीव गर्हणीयमेवेति भावः ॥ २५० ॥
विश्वास-प्रस्तुतिः
अहो महान् अयम् अभिजन-विद्या-वृत्त-सम्पन्नानाम् अन्येषाम् अप्य् अनिवृत्तो31 व्यामोहः ॥ १०१& ॥
आचारस्य दवीयसां+++(←दूर)+++ धन-तृषाम् अज्ञात-वेदाध्वनां
कामातङ्क-कलङ्क-पङ्किल-हृदां केषाञ्चिद् एषाम् अमी ॥
शुद्धाचार-जुषो जितेन्द्रियतया श्रेष्ठाः स्वयं सूरयः
शिष्यत्वं यद् उशन्ति+++(=इच्छन्ति)+++ तत्-किल कलेः साम्राज्यम् अत्रोर्जितम्32 ॥ २५१॥
मूलम्
अहो महानयमभिजनविद्यावृत्तसम्पन्नानामन्येषामप्यनिवृत्तो31 व्यामोहः ॥ १०१& ॥
आचारस्य दवीयसां धनतृषामज्ञातवेदाध्वनां
कामातङ्ककलङ्कपङ्किलहृदां केषाञ्चिदेषाममी ॥
शुद्धाचारजुषो जितेन्द्रियतया श्रेष्ठाः स्वयं सूरयः
शिष्यत्वं यदुशन्ति तत्किल कलेः साम्राज्यमत्रोर्जितम्32 ॥ २५१॥
बाल-कृष्णः
एतत्तु अविदुषामाचरणं, विदुषामपि निन्द्यमिति वक्तुमवतारयति - अहो- इति । अभिजनः सत्कुलं च विद्या वेद-शास्त्रादिज्ञानं च वृत्तं वर्तनं च तैः सम्पन्नानां युक्तानामन्येषां पूर्वेभ्य इतरेषां, एषां लोकानामपि अयं वक्ष्यमाणः महान् व्यामोहो विवेकराहित्यं, अनिवृत्तः नैव गतः ॥ १०१& ॥
व्यामोहानिवृत्तत्वमेव प्रतिपादयति - आचारस्येति ।
अमी शुद्धं वेद-शास्त्रायुक्तमाचारं जुषन्ति सेवन्ते इति तथोक्ताः जितेन्द्रियतया बाह्यान्तरिन्द्रियदमनेन श्रेष्ठाश् च, स्वयं सूरयः पण्डिताः अपि “पण्डितः कविः । धीमान् सूरिः” इत्यमरः । आचारस्य यथोक्ताचरणस्य दवीयसां दूरतराणां, दूरशब्दाद् अतिशयार्थे ईयसुनि “स्थूल-दूर-युव-हख-" इत्यादिना रकारलोपे पूर्वस्य गुणः ।+++(5)+++ अत एव अज्ञातवेदाध्वनाम् अज्ञातवेदमार्गाणां, धनतृषां द्रव्याशापराणां, कामातङ्कः कामविकार एव कलङ्कः मलिनत्वं तेन पङ्किलं दूषितं हृद् अन्तःकरणं येषां तेषां केषाञ्चित् एषाम् आचार्याणां शिष्यत्वं यत् उशन्ति इच्छन्ति, तद् अत्र लोके कलेः साम्राज्यम् अप्रतिहतं स्वातन्त्र्यं ऊर्जितं प्रवृद्धम् । किल निश्चयेन ॥ २५१ ॥
विश्वास-प्रस्तुतिः
अपि च-
“स्वयं तरितुम् अक्षमः, किम् अपरान् असौ तारयेद्”
इति स्वयम् अचिन्तयन्न्, अगणयन् धनानां व्ययम् ॥
जडं गुरुर् इति भ्रमन् श्रयति पुस्तकाडम्बरे-
बहूपकरणान्वितैर् बहुल-देवता-विग्रहैः ॥ २५२ ॥
अपि च—
अ-मल-पतिषु लोके जागरूकेष्व् अनेकेष्व्
अपि, निज-गुरु-वंशोत्पत्तिम् एवावलोक्य ॥
विगत-शुभ-चरित्रं वेद-शास्त्रानभिज्ञं
कम् अपि गुरुर् इतीमे कष्टम् आराधयन्ति ॥ २५३ ॥
मूलम्
अपि च-
स्वयं तरितुमक्षमः किमपरानसौ तारये -
दिति स्वयमचिन्तयन्न गणयन् धनानां व्ययम् ॥
जडं गुरुरिति भ्रमन् श्रयति पुस्तकाडम्बरे-
बहूपकरणान्वितैर्बहुलदेवताविग्रहैः ॥ २५२ ॥
अपि च—
अमलपतिषु लोके जागरूकेष्वनेके-
ष्वपि निजगुरुवंशोत्पत्तिमेवावलोक्य ॥
विगतशुभचरित्रं वेद-शास्त्रानभिज्ञं
कमपि गुरुरितीमे कष्टमाराधयन्ति ॥ २५३ ॥
बाल-कृष्णः
स्वयमिति । स्वयं तरितुं पारं गन्तुम् अक्षमः असमर्थः असौ आचार्यः, अपरानन्यान् किं कथं तारयेत् ? भवसागरमिति शेषः । इति स्वयं विद्वानपि अचिन्तयन् अविचारयन्, धनानां व्ययं च अगणयन् सन्, पुस्तकानामाडम्बरैः बहुपुस्तकभारैरित्यर्थः, तथा बहुभिरुपकरणैरलङ्कारादिभिः अन्वितैर्युक्तः, बहुलदेवताविग्रहैः पुष्कलदेवमूर्तिभिश्च भ्रमन्, मोहं प्राप्नुवन् । पुस्तकभारं देवतार्चनाडम्बरं च दृष्ट्वाऽयं मां भवसागरमुत्तारयेदिति भ्रान्तः सन्नित्यर्थः । जडं विद्यादिरहितं, गुरुरिति मत्वा श्रयति आश्रयति ॥ २५२ ॥
अमलेति । किञ्च लोके अमला वेदोक्तकर्मानुष्ठानतया परिशुद्धा मतिर्बुद्धिर्येषां ते तथाभूतेषु अनेकेषु बहुषु लोकेषु जागरूकेषु वर्तमानेषु सत्खपि, निजगुरोः पितृ-पितामहादिपरम्परया आचार्यस्य वंशे उत्पत्तिं केवलं जन्मैव, न तु विद्यादिसं- पन्नत्वं, अवलोक्य, वेद-शास्त्रयोः अनभिज्ञम् अनिपुणं, वेदादिज्ञानशून्यमित्यर्थः । तत एव च विगतं नष्टं शुभचरित्रम् इह-परलोकयोः श्रेयः सम्पादकं चेष्टितं यस्य तथोक्तं कमपि पुरुषं गुरुः आचार्य इति मत्वा, इमे जनाः आराधयन्ति सेवन्ते । कष्टम् अन्याय्यमेतत् ॥ २५३ ॥
विश्वास-प्रस्तुतिः
अपरम् अपि कलेर् आकर्णय चमत्कारम् ॥ १०२& ॥
सम्यक् शिष्यजनं परीक्ष्य बहुभिः संवत्सरैर् उत्सुकं
शुश्रूषाभिर् उपादिशन् प्रमुदिताः पूर्वे भुवीति33 श्रुतम् ॥
आराध्येष्ट-समर्पणैर् अविनतान् आचार्य34 एवादराद्
अर्थैर् भूरितमैः35 प्रसह्य36 लभते शिष्यान् श्रमेणाऽधुना37 ॥ २५४ ॥
भुवीत्यश्रुमः
आराध्यैव
दब्दै
प्रशस्य
क्रमेणा
मूलम्
अपरम् अपि कलेर् आकर्णय चमत्कारम् ॥ १०२& ॥
सम्यक् शिष्यजनं परीक्ष्य बहुभिः संवत्सरैर् उत्सुकं
शुश्रूषाभिर् उपादिशन् प्रमुदिताः पूर्वे भुवीति33 श्रुतम् ॥
आराध्य+इष्ट-समर्पणैर् अविनतान् आचार्य34 एवादराद्
अर्थैर् भूरितमैः35 प्रसह्य36 लभते शिष्यान् श्रमेणाऽधुना37 ॥ २५४ ॥
भुवीत्यश्रुमः
आराध्यैव
दब्दै
प्रशस्य
क्रमेणा
बाल-कृष्णः
अपरमिति । अपरमन्यं कलेश्चमत्कारम् आश्चर्यावहं प्रभावं, आकर्णय शृणु ॥ १०२& ॥
सम्यगिति । पूर्वे युगान्तरस्थाः वसिष्ठ - वामदेव - पिप्पलादादयः गुरुवः, भुवि
पृथिव्याम् उत्सुकं विद्याग्रहणे उत्कण्ठितं, बहुभिः संवत्सरैः वर्षेः न तु द्वित्र दिवसैः शुश्रूषाभिः सेवाभिः शिष्यजनं सम्यक् परीक्ष्य
“नापरिज्ञात-कुल-शील-रूपाय नासंवत्सर-रात्रोषिताय-” इत्यादि-श्रुत्य्-उक्त-नियमम् अनुसृत्य शिष्यस्य परीक्षां कृत्वेत्यर्थः ।
तथाच प्रश्नोपनिषदि पिप्पलादस्य सुकेशादीन् ब्रह्मविद्यार्थम् आगतान् षट् शिष्यान् प्रति वाक्यम् -
" भूय एव तपसा ब्रह्मचर्येण
संवत्सरं संवत्स्यथ
यथाकामं प्रश्नान् पृच्छत
यदि विज्ञास्यामः सर्वं ह वो वक्ष्यामः"
इति । छान्दोग्ये च गौतमहारिद्रुमतस्य ऋषेः सत्यभामं प्रति — “किङ्गोत्रो नु सोम्यासि” इत्यादि । ततः प्रमुदिताः सन्तः उपादिशन् विद्याम् अध्यापयामासुः इति श्रुतम् । उपनिषदादिषु पुराणेषु चेति शेषः ।
अधुना साम्प्रतं तु एष रामानुजीयाचार्यः अविनतान् उन्मत्तान् इष्टसमर्पणैः तेषाम् इच्छितवस्त्रादिप्रदानैः भूरितमैः अति बहुभिः अब्दैः, आदराद् आराध्यैव प्रसह्य बलात्कारेण, शिष्यान् श्रमेण बहुप्रयत्नेन लभते सम्पादयतीत्यर्थः ॥ २५४ ॥
विश्वावसुः
विश्वास-प्रस्तुतिः
वि॰ - मन्दमनीष[^318] महतः38 पुरुषान् एवं मा दूदुषः ॥ १०३& ॥
भव-जल-धि-निमज्जत्-सज्जनोज्जीवनार्थं
जगति महति वंशे जातवन्तो महान्तः ॥
प्रपदन-धन-तुष्टः39 पञ्च-संस्कार-दानात्
कति न कृतिन एते ज्ञान-हीनान् पुनन्ति ॥ २५५ ॥
किं च-
आचार्याः पुरुषा महत्तर-कुलेष्व् अब्जाक्ष-दास्योज्ज्वला
नावः संसृति-वारिधेः परम् अमी नावातरिष्यन् यदि ॥
अप्राप्ताच्युत-दास्य-वृत्तय इहाऽविज्ञात-मन्त्रोत्तमाः
सर्वे तर्हि कलावतप्त-तनवो40 हन्तापतिष्यन्न् अधः ॥ २५६ ॥
मूलम्
वि॰ - मन्दमनीष[^318] महतः38 पुरुषानेवं मा दूदुषः ॥ १०३& ॥
भवजलधिनिमज्जत्सज्जनोज्जीवनार्थं
जगति महति वंशे जातवन्तो महान्तः ॥
प्रपदनधनतुष्टः39 पञ्चसंस्कारदानात्
कति न कृतिन एते ज्ञानहीनान् पुनन्ति ॥ २५५ ॥
किं च-
आचार्याः पुरुषा महत्तरकुलेष्वब्जाक्षदास्योज्ज्वला
नावः संसृतिवारिधेः परममी नावातरिष्यन्यदि ॥
अप्राप्ताच्युतदास्यवृत्तय इहाऽविज्ञातमन्त्रोत्तमाः
सर्वे तर्हि कलावतप्ततनवो40 हन्तापतिष्यन्नधः ॥ २५६ ॥
बाल-कृष्णः
भवेति । भवजलधौ संसारसमुद्रे निमज्जतां सज्जनानाम् उज्जीवनार्थमुद्धारणार्थे, जगति महति वंशे कुले जातवन्तः उत्पन्नाः, अत एव महान्तः कृतिनः पुण्यवन्तश्च एते आचार्यपुरुषाः, प्रपदनं शरणगमनमेव धनं तेन तुष्टाः सन्तः, ज्ञानहीनान् वेद-शास्त्रज्ञानशून्यान् आत्मानात्मविवेकरहितान् वा, पञ्चसंस्काराणां दानाद् अर्पणात्, पञ्चसंस्काराश्च - " तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः” इति प्रसिद्धाः । कति कियन्तो वा न पुनन्ति पवित्रयन्ति ? । अत्र ‘सज्जनोज्जीवनार्थ’ इत्युक्त्या, चोराणां मध्ये च प्रायशः सज्जनानां दौर्लभ्याच्च ‘हत्वा मार्गे -’ इत्यादेः सम्यक्तया नैव दूषणोद्धारः । अत एव ग्रन्थकर्तुः पक्षपातित्वं रामानुजीये मते इत्युक्तं प्रागस्माभिः ॥ २५५ ॥
आचार्या इति । अमी रामानुज-मतानुसारिणः संसृतिवारिधेः संसारसमुद्रस्य नावः तारकत्वान्नौरूपाः, अब्जाक्षस्य श्रीविष्णोः दास्येन दास्यरूपभक्त्येत्यर्थः । उज्ज्वलास्तेजखिनः आचार्याः आचार्यसञ्ज्ञकाः पुरुषाः, महत्तरेषु तत्सम्प्रदायप्रवर्तकोच्चतमकुलेषु यदि न अवातरिष्यन् न प्रादुरभिष्यन् तर्हि सर्वे जनाः इह लोके कलौ युगे च अप्राप्ता अलब्धा अच्युतस्य विष्णोर्दास्यवृत्तियैस्ते तथाभूताः अत एव अज्ञाताः मन्त्रोत्तमाः विष्णोः प्राप्तिकरत्वादुत्तमा मन्त्रा यैस्ते तथोक्ताः, तत एव च अतप्ता चक्रशङ्खादिमुद्राभिः, विष्णोः पूजन-स्तवन -कथाश्रवणादिराहित्येन च अपरिशुद्धा तनुर्येषां ते तथाभूताश्च अधः अपतिष्यन् नरके पतिष्यन्तीत्यर्थः । अत्र तरति -पत- त्योः “लिङ्गिमित्ते—” इत्यादिना क्रियाया अनिष्पत्तिरूपेऽर्थे लृङ् ॥ २५६ ॥
विश्वास-प्रस्तुतिः
तापादिभिः सपापां
जनतां पुनतां महात्मनाम् एषाम् ॥
दोषश् चेद् एष,
समो दुष्टान् पुनतो ऽपि गाङ्गपूरस्य ॥ २५७ ॥+++(5)+++
मूलम्
तापादिभिः सपापां जनतां पुनतां महात्मनामेषाम् ॥
दोषश्चेदेष समो दुष्टान् पुनतोऽपि गाङ्गपूरस्य ॥ २५७ ॥
बाल-कृष्णः
यच्च ‘आराध्येष्टसमर्पणैः -’ इत्यादिना नीचोद्धतजनप्रपत्तिरूपं दूषणमुक्तं तन्निराकर्तुमाह-तापादिभिरित्यादि । सपापां पापयुक्तां जनतां जनसमूहं, तापादिभिः तप्तमुद्रादिसंस्कारैः, आदिशब्देन मन्त्रोपदेशादेर्ग्रहणम् । पुनतां पवित्रीकुर्वताम् अत एव महात्मनामुदारचित्तानां, एषाम् आचार्यपुरुषाणां दोषः अनधिकारिशिष्यस्वीकाररूपः अस्ति चेत्, तर्हि दुष्टान् जनान् पुनतः पवित्रीकुर्वतः गाङ्गपूरस्य गङ्गाप्रवाहस्यापि एष दोषः, समस्तुल्य एव । गङ्गाप्रवाहस्य यथा यस्यकस्यापि पवित्रीकरणं नाधिकारिविशेषावलम्बं तथैवैतेषामिति भावः । इदमेव च महतां महत्त्वभूषणं, यत् सूर्य इव आनीचजनमहाजनपर्यन्तं सर्वत्र पक्षपातं विना समबुद्धित्वमित्यप्यवधेयम् ॥ २५७ ॥
विश्वास-प्रस्तुतिः
इदं चावबोद्धव्यम् +++(आचार्य-पुरुष-गोरवम्)+++-
सद्-वंश-प्रभवश् चरित्र-रहितो ऽप्य् आदृत्य+++(=आ + दृ + कर्म्मणि क्यप्)+++ एवोत्तमैः
साध्वाचार-युतो ऽपि दुष्कुल-भवः सभ्येषु नाभ्यर्हितः41 ॥
शालग्रामम् अकृत्रिमं पटु-मतिः42 सल्-लक्षणायुक्तमप्य्
आदत्ते, न तु लक्षणाढ्यम् अपि तं चक्रोज्ज्वलं कृत्रिमम् ॥२५८॥
मूलम्
इदं चावबोद्धव्यम्-
सद्वंशप्रभवश्चरित्ररहितोऽप्यादृत्य एवोत्तमैः
साध्वाचारयुतोऽपि दुष्कुलभवः सभ्येषु नाभ्यर्हितः41 ॥
शालग्राममकृत्रिमं पटुमतिः42 सल्लक्षणायुक्तम-
प्यादत्ते न तु लक्षणाढ्यमपि तं चक्रोज्ज्वलं कृत्रिमम् ॥२५८॥
बाल-कृष्णः
सदिति । किञ्च सद्वंशे उत्तमवंशे प्रभव उत्पत्तिर्यस्य सः उत्तमकुलप्रसूत इत्यर्थः ।
चरित्र-रहितोऽपि सदाचरणशून्योऽपि, उत्तमैः श्रेष्ठजनैर् आदृत्य एव स्वीकार्य एव ।
अपि च साध्वाचारयुतः सदाचारसम्पन्नोऽपि सः दुष्कुलभवः नीचकुलोत्पन्नश्चेत्, सभ्येषु मध्ये नाभ्यर्हितः न पूज्यः । भवतीति शेषः ।
अत्र दृष्टान्तः - पट्टी कार्याका- र्यकुशला मतिर्बुद्धिर्यस्य तथाभूतः पुरुषः, सद्भिः शङ्ख-चक्रायुत्तमैर्लक्षणैश्चिहैः अयुक्त- मपि, अकृत्रिमं सहजोत्पन्नं शालग्रामम् आदत्ते स्वीकरोति । किन्तु तं कृत्रिमं केनापि पुरुषेण निर्मितं शालग्रामं चक्रोज्ज्वलं चक्रादिचिह्नः सुशोभितमपि, अत एव लक्षणाढ्यम् अन्यैः सर्वसलक्षणैः सम्पन्नमपि न स्वीकरोति । एतत् ‘अमलमतिषु लोके जागरूकेषु -’ इत्याद्युक्तदूषणोद्धारमात्रपरमिति ज्ञेयम् ॥ २५८ ॥
विश्वास-प्रस्तुतिः
सविनयमञ्जलिं बद्ध्वा-
शिष्यार्पितेन शुचिना द्रविणेन तुष्टाः
शिष्टा मुकुन्द-शरणागति-धर्म-निष्ठाः ॥
सत्-सम्प्रदाय नियम-प्रयताः सदा ये
तेभ्यो नमांसि करवै वर-वैष्णवेभ्यः ॥ २५९ ॥
मूलम्
सविनयमञ्जलिं बद्ध्वा-
शिष्यार्पितेन शुचिना द्रविणेन तुष्टाः
शिष्टा मुकुन्दशरणागतिधर्मनिष्ठाः ॥
सत्सम्प्रदाय नियमप्रयताः सदा ये
तेभ्यो नमांसि करवै वरवैष्णवेभ्यः ॥ २५९ ॥
बाल-कृष्णः
एवं सर्वाणि दूषणानि परिहृत्य
सर्वथा एते वन्द्या एवेति सूचयन्नाह -
शिष्यार्पितेनेति । ये शिष्यैः अर्पितेन दत्तेन शुचिना न्यायसम्पादितेन स्वल्पेनापीति शेषः । द्रविणेन धनेन तुष्टाः, मुकुन्दस्य विष्णोः शरणागतिः शरणप्रपत्तिरेव धर्मस्तस्मिन्निष्ठा आसक्तिर्येषां ते तथाभूताः सदा निरन्तरं सतां सम्प्रदाये ये नियमाः सन्ध्या-पूजादयः तैः प्रयताः पवित्राः “पवित्रः प्रयतः पूतः” इत्यमरः । अत एव शिष्टाः, तेभ्यः वरवैष्णवेभ्यः श्रेष्ठवैष्णवेभ्यः नमांसि नमस्कारान् करवै कुर्याम् । ‘नमस्’ इति सान्तोऽयं शब्दः ॥ २५९ ॥