विश्वास-प्रस्तुतिः
अथ वीक्षारण्यवर्णनम्॥
इति विमानमन्यतः सञ्चोदयन् सहर्षम् –
वीक्षारण्यमिदं वदन्ति सरसी हृत्तापनाशिन्यसा-
वस्या रोधसि वीरराघव इति प्रख्यातनामा हरिः ॥
व्यक्तं राजति वीतिहोत्र इव यो विस्तीर्णहेतिद्युतिः
क्षेत्रं प्राप्तकुशस्थलं1 प्रभजति श्रीशालिहोत्राञ्चितम् ॥ २१९ ॥
आकलयतु भवानत्रेमं चमत्कारम् ॥ ८७& ॥
द्विरेफवर्णी सुमनोरमां तनुं बिभर्ति सञ्ज्ञामिव वीरराघवः ॥
सुपर्वराजेन यदीयमर्चितं2 मुखं पदद्वन्द्वमिवोपशोभते ॥ २२० ॥
मूलम्

बाल-कृष्णः
अथ वीक्षारण्यप्रस्तावमाह - इतीति । सञ्चोदयन् गमयन्-
वीक्षारण्यमिति । इदं पुरोदृश्यमानं वीक्षारण्यमेतन्नामकं वनं वदन्ति कथयन्ति । जना इति शेषः । तथा असौ सरसी सरोवरम् एतद्वनमध्ये वर्तमानेत्यर्थः । हृत्तापनाशिनी हृदयसन्तापहारिणी विद्यते । अस्याः सरस्याः रोधसि तीरे, " कूलं रोधश्च तीरं च " इत्यमरः । वीरराघवः इति प्रख्यातम् अतिपावनत्वेन प्रसिद्धं नाम यस्य तथाभूतः, व्यक्तं प्रत्यक्षं यथा तथा यः, विस्तीर्णा आसमन्तात् प्रसृता हेतीनां शङ्ख-चक्राद्यायुधानां शिखानां च द्युतिः कान्तिर्यस्य तथाभूतः, " रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः " इत्यमरः । वीतिहोत्र इव अग्निरिव “अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः । " इत्यमरः । राजति शोभते । पुनश्च यो वीरराघवः, प्राप्तं कुशानां स्थलं स्थानं येन तत्, अत एव श्रीशालिहोत्रमुनिना अञ्चितमाश्रितं क्षेत्रं स्थानं प्रभजति सेवते । तत्र तिष्ठतीत्यर्थः ॥ २१९ ॥
आकलयत्विति । अत्र वीक्षारण्ये, इमं पुरोदृश्यमानं चमत्कारं भवान् आकलयतु अवलोकयतु ॥ ८७& ॥
द्विरेफेति । वीरराघवो भगवान्, द्विरेफस्य भ्रमरस्येव वर्णो यस्याः सा तां श्यामवर्णामित्यर्थः । पक्षे द्वौ रेफवर्णौ रकाराक्षरे यस्यां तां, “द्विरेफ-पुष्पलिङ्-भृङ्ग-षट्- पद-भ्रमरालयः" इति “रवर्णे पुंसि रेफः स्यात्” इति चोभयत्राप्यमरः । सुमनस्सु सदाचरणेन शुद्धचित्तेषु, सुमनस्सु पुष्पेषु च रमते क्रीडति तां सुमनोरमां, " स्त्रियः सुमनसः पुष्पं" इत्यमरः । अत एव सञ्ज्ञां ‘वीरराघव’ इति नामेव " सञ्ज्ञा- स्याच्चेतना नाम" इत्यमरः । तनुं शरीरं विभर्ति । किञ्च यदीयं मुखं यदीयं पदद्वन्द्व- मित्र सुपर्वराजेन सुष्ठु पर्वणि पूर्णिमायां राजते तेन चन्द्रेण, सुपर्वणां देवानां राज्ञा इन्द्रेण चेति क्रमेणोभयत्र योज्यम् । अर्चितं पूजितम् । एकपदोपात्ततयाऽभेदाध्यवसायेन सुपर्वराजार्चितत्वस्य साधारणधर्मता बोध्या । उपशोभते ॥२२०॥
विश्वास-प्रस्तुतिः
- वयस्य किं सन्नह्यसि वीरराघवस्तवने3 : यदस्मिन्नपि पन्नगनगनाथ इव परधनग्रहणपरत्वादयः प्रादुःष्यन्ति दोषाः ॥ ८८ ॥
वि॰ - तत्रास्मदुक्तेनैव तत्समाधानेन पुनरत्रापि सन्तोष्टव्यमायुष्मता भवता । पामरमते रमते न कस्य मनो वीरराघवे देवे ! ॥ ८९ ॥
स्वेक्षासाध्यजगज्जनिः4 सुतनुपल्लाक्षाङ्कितोरःस्थलः
साक्षादेष5 परः पुमान् कृतनुतिर्दाक्षायणीशादिभिः ॥
वीक्षारण्यपतिर्विराजति गतिद्राक्षासदृक्साहिती
धी- क्षान्त्यायुररोगता-धन- यशो - मोक्षाद्यपेक्षावताम् ॥ २२१ ॥

वयस्येति । हे वयस्य मित्र, वीरराघवस्तवने विषये किं कुतो हेतोः सन्नह्यसि उद्युक्तो भवसि ? यद् यतः अस्मिन् वीरराघवेऽपि पन्नगनगस्य शेषशैलस्य नाथः श्रीनिवासः तस्मिन्निव परधनग्रहणे परत्वम् आसक्तत्वं तदादयः दोषाः प्रादुःष्यन्ति उद्भविष्यन्ति ॥ ८८& ॥
तत्रेति । तत्र दोषप्रादुर्भावे, अस्मदुक्तेनैव पूर्व मया कथितेनैव तत्समाधानेन शेषाचलाधिपतिसमाधानेन, पुनरत्रापि सन्तोष्टव्यमायुष्मता भवता । पामरमते हे क्षुद्रबुद्धे, वीरराघवे देवे, कस्य पुरुषस्य मनः न रमते आसक्तं न भवति ? अपि तु सर्वस्यापि रमते इत्यर्थः ॥ ८९& ॥
स्वक्षेति । स्वस्य ईक्षया पर्यालोचनेन साध्या कर्तुं शक्या जगतो जनिः सृष्टि- र्यस्य सः । एतेन “ स ऐक्षत लोकान्नु सृजा इति ” इत्याद्यैतरेयोपनिषच्छ्रुतिः स्मारिता । अत्र ’ जगज्जनिः ’ इत्युक्तिरुपलक्षणपरा । तेन स्थितिसंहारावपि ज्ञेयौ । सुतनोः लक्ष्म्याः पल्लाक्षया पदसम्बन्धिलाक्षारसेन अङ्कितं चिह्नितम् उरःस्थलं वक्षःस्थलं यस्य सः । सर्वदा लक्ष्म्यास्तत्र विद्यमानत्वादित्यर्थः । किञ्च साक्षात् परः शरीर-वाङ्-मनो-बुद्धयहङ्कारादिसङ्घातेभ्यः परः पुमान्, अत एव दाक्षायणीशः पार्वतीपतिः शिवः आदिः प्रमुखो येषु तैर्ब्रह्मेन्द्रादिभिः कृता नुतिः स्तुतिर्यस्य तथाभूतः । धीः बुद्धिश्च क्षान्तिः क्षमा च आयुर्जीवनकालश्च अरोगता आरोग्यं च धनं च यशश्च मोक्षश्च ते आदयो येषु तेषु अपेक्षावतामिच्छावतां द्राक्षया सदृशी सुखसेव्य- तयेति भावः । साहिती साहित्यमाराधनमिति यावत् । यस्याः तादृशी गतिरुपायः । अल्पमाराधितोऽपि सकलाभीष्टपूरक त्यर्थः । वीक्षारण्यपतिर्वीरराघवाख्यः, विराजति शोभते ॥ २२१ ॥
विश्वास-प्रस्तुतिः
किञ्च-
उपेत्य वीक्षावनमुन्नतः सदा सुवर्णवल्ल्या सुमनः पुषाश्रितः ॥
अहीनसेव्यो हरिचन्दनस्तनोत्युपाश्रितानामुचितां सुवासनाम् ॥ २२२ ॥
मूलम्
किञ्च-
उपेत्य वीक्षावनमुन्नतः सदा सुवर्णवल्ल्या सुमनः पुषाश्रितः ॥
अहीनसेव्यो हरिचन्दनस्तनोत्युपाश्रितानामुचितां सुवासनाम् ॥ २२२ ॥
बाल-कृष्णः
उपेत्येति । सुष्ठु मनांसि येषां ते सुमनसः पण्डितास्तान्, सुमनसः पुष्पाणि च पुष्णातीति तथा तया, अत एव सुष्ठु वर्णो यस्यास्तया वल्ल्या मल्लिकादिपुष्पवल्ल्येति यावत् । पक्षे सुवर्णस्य वल्लीव वल्ली तया लक्ष्म्या आश्रितः सदा आलिङ्गितः, अहीनां सर्पाणाम् इनाः श्रेष्ठा महासर्पा इत्यर्थः । अहीनः सर्पस्वामी शेषश्च तेन, न हीना अहीनाः श्रेष्टजनास्तैश्च सेव्यः सेवितुं योग्यः, हरिः, श्रीविष्णुरेव चन्दनः, हरिचन्दनो वृक्षश्च वीक्षावनम् उपेत्य सम्प्राप्य, उन्नतः उच्चः श्रेष्ठश्च सन् उपाश्रितानां भक्तानाम् उचितां योग्यां, सुवासनां मनोऽभिलषितं तनोति विस्तारयति ॥ २२२ ॥