१७ घटिकाचलवर्णनम्

विश्वास-प्रस्तुतिः

अथ घटिकाचलवर्णनम्॥

इति व्योमयानं दक्षिणतः प्रापयन् पुरतो निर्दिश्य-
कण्ठोपरि कण्ठीरवशुचिदंष्ट्रा रुचि विचित्रचन्द्रिकया ॥
स्फटिकाचल इव नयने घटिकाचल एष सम्प्रति धिनोति ॥ २११ ॥

मूलम्

अथ घटिकाचलवर्णनम्॥

इति व्योमयानं दक्षिणतः प्रापयन् पुरतो निर्दिश्य-
कण्ठोपरि कण्ठीरवशुचिदंष्ट्रा रुचि विचित्रचन्द्रिकया ॥
स्फटिकाचल इव नयने घटिकाचल एष सम्प्रति धिनोति ॥ २११ ॥

बाल-कृष्णः

अथ घटिकाचलवर्णनं प्रस्तौति - इतीति । निर्दिश्य अवलोक्य, सुगममन्यत् । कण्ठोपरीति । कण्ठस्य उपरि ऊर्ध्वभागे, कण्ठीरवस्य सिंहस्य “सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कण्ठीरवः" इत्यमरः । अर्थात् कण्ठपर्यन्तं मनुष्या- कारस्य तदुपरि च सिंहाकारस्येति ज्ञेयम् । शुचीनां शुभ्राणां दंष्ट्राणां स्थूलदन्तानां या रुचिः कान्तिः सैव विचित्रा आश्चर्यावहा चन्द्रिका ज्योत्स्ना तया स्फटिकाचल इव स्फटिकमणिमयपर्वत इव, एक दृश्यमानो घटिकाचलः नृसिंहनिवासः पर्वतः, सम्प्रति नयने नेत्रे, धिनोति प्रीणयति ॥ २११ ॥

विश्वास-प्रस्तुतिः

सभक्तिप्रकर्षमञ्जलिं बद्ध्वा-
वरकेतुस्थतार्क्ष्याय स्मरकेलिपुषे श्रियः ॥
नरकेक्षणविघ्नाय नरकेसरिणे1 नमः ॥ २१२ ॥
किञ्च—-
स्थिरशङ्खादिचिह्नाय सुरसङ्घार्चिताङ्घ्रये ॥
परसंहारदक्षाय नरसिंहाय मङ्गलम् ॥ २१३ ॥
जम्भदम्भहरक्षेमारम्भलम्भनमूर्तये2
शम्भुसम्भावनीयाय स्तम्भडिम्भाय मङ्गलम् ॥ २१४ ॥

मूलम्

सभक्तिप्रकर्षमञ्जलिं बद्ध्वा-
वरकेतुस्थतार्क्ष्याय स्मरकेलिपुषे श्रियः ॥
नरकेक्षणविघ्नाय नरकेसरिणे1 नमः ॥ २१२ ॥
किञ्च—-
स्थिरशङ्खादिचिह्नाय सुरसङ्घार्चिताङ्घ्रये ॥
परसंहारदक्षाय नरसिंहाय मङ्गलम् ॥ २१३ ॥
जम्भदम्भहरक्षेमारम्भलम्भनमूर्तये2
शम्भुसम्भावनीयाय स्तम्भडिम्भाय मङ्गलम् ॥ २१४ ॥

बाल-कृष्णः

वरेति । वरे श्रेष्ठे केतौ ध्वजे तिष्ठतीति वरकेतुस्थः तार्क्ष्यः गरुडः यस्य तस्मै, श्रियः लक्ष्म्याः स्मरकेलिपुषे मदनक्रीडावर्धनाय सम्भोगेच्छोत्पादकायेति यावत् । नरकस्य ईक्षणे अवलोकनेऽपि किमुत गमने, विघ्नाय प्रतिबन्धरूपाय । तद्भक्तानां नरकदर्शनमपि नैव भवतीति भावः । नरकेसरिणे श्रीनृसिंहाय नमः अस्तु ॥ २१२ ॥

स्थिरेति । स्थिराणि सर्वदा सन्ति शङ्खादिचिह्नानि शङ्ख-चक्राद्यायुधानि यस्मिन् तस्मै, सुराणां देवानां सन्धैः समुदायैः अर्चितौ पूजितौ अङ्गी चरणौ यस्य तस्मै, परेषां शत्रूणां संहारे विनाशे दक्षश्चतुरः समर्थो वा तस्मै, नरसिंहाय मङ्गलम् । अस्त्विति शेषः ॥ २१३ ॥

जम्भेति । जम्भस्य एतन्नाम्नो दैत्यस्य दम्भं गर्व हरतीति तद्धरः, अर्थाज्जम्भ- दैत्यविनाशकः इन्द्रः, तस्य क्षेमस्य, दैत्यहृतस्वर्गस्थानस्य पुनः प्रापणरूपस्य कल्याणस्य आरम्भाणाम् उद्योगानां लम्भनं सम्पादनं यस्यास्तादृशी मूर्तिर्यस्य तथाभूताय । हिर- ण्यकशिपुविनाशेन तद्धृतं स्वर्गसाम्राज्यं पुनरिन्द्राय समर्पितमिति भावः । शम्भोः शिवस्यापि सम्भावनीयाय मान्याय, स्तम्भस्य डिम्भाय बालकाय, स्तम्भादुत्पन्नायेत्यर्थः । मङ्गलम् ॥ २१४॥

विश्वास-प्रस्तुतिः

कृ॰ - किमरे क्रोधमयेऽपि नरमृगेन्द्रे स्तववचनं विरचयसि ॥८५& ॥
प्रह्लादमाह्लादयितुं तमेकं सर्वस्य कुर्वन् भुवनस्य भीतिम् ॥
सैंहं दधे3 संहननं पुरा यस्तव स्तवस्तत्र कथं प्रवृत्तः ॥ २१५ ॥

मूलम्

कृ॰ - किमरे क्रोधमयेऽपि नरमृगेन्द्रे स्तववचनं विरचयसि ॥८५& ॥
प्रह्लादमाह्लादयितुं तमेकं सर्वस्य कुर्वन् भुवनस्य भीतिम् ॥
सैंहं दधे3 संहननं पुरा यस्तव स्तवस्तत्र कथं प्रवृत्तः ॥ २१५ ॥

बाल-कृष्णः

किमिति । अरे हे विश्वावसो, क्रोधमये कोपप्रचुरेऽपि, प्राचुर्ये मयट् । नर-मृगेन्द्रे नृसिंहे विषये, स्तववचनं स्तोत्रभाषणं, किं कुतो हेतोर्विरचयसि करोषि ॥ ८५& ॥ प्रह्लादमिति । यः नृसिंहः तं प्रसिद्धभक्तं, एकमेव प्रह्लादं हिरण्यकशिपुपुत्रम् आह्लादयितुं सन्तोषयितुं, सर्वस्य भुवनस्य लोकस्य भीतिं कुर्वन्नुत्पादयन् सन्, सैंह सिंहसम्बन्धि, संहननं शरीरं " गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।" इत्यमरः । पुरा कृतयुगे दधे धृतवान् । तत्र तस्मिन्विषये, तव त्वत्कृत इत्यर्थः । स्तवः स्तुतिः, कथं प्रवृत्तः ? ॥ २१५ ॥

विश्वास-प्रस्तुतिः

वि॰- - वयस्य मैवं वादीः ॥ ८६& ॥
यतः-

अपुण्यधौरेयहिरण्यदूनत्रिलोकशोकक्षपणाय शौरिः ॥
कायाधवायासनिरासदम्भः4 स्तम्भादिहोज्जृम्भत सम्भ्रमेण ॥ २१६ ॥

मूलम्

वि॰- - वयस्य मैवं वादीः ॥ ८६& ॥
यतः-

अपुण्यधौरेयहिरण्यदूनत्रिलोकशोकक्षपणाय शौरिः ॥
कायाधवायासनिरासदम्भः4 स्तम्भादिहोज्जृम्भत सम्भ्रमेण ॥ २१६ ॥

बाल-कृष्णः

वयस्येत्यादि सुलभम् ॥ ८६& ॥

अपुण्येति । न विद्यते पुण्यं सुकृतं येषु तेषां पापिनां धौरेयोऽग्रेसरः यः हिरण्यः हिरण्यकशिपुस्तेन दूनानां पीडितानां ‘दु गतौ’ इत्यस्मात् क्तप्रत्यये “दुग्वो- दीर्घश्च” इति वार्तिकेन निष्ठातकारस्य नो दीर्घश्च । त्रिलोकानां शोकस्य क्षपणाय विनाशं कर्तुम् । “तुमर्थाच्च भाववचनात् " इति चतुर्थी । शौरिः विष्णुः, कयाधोः हिरण्यकशिपुपत्न्याः अपत्यं कायाधवः प्रह्लादः तस्य आयासस्य पितृकृतत्रासस्य निरासो विनाश एव दम्भो निमित्तं यस्य तथाभूतः सन् इह लोके स्तम्भात् सम्भ्रमेण त्वरया अजृम्भत प्रकटीबभूव । एतेन ‘सर्वस्य भुवनस्य भीतिं कुर्वन्’ इत्यादिदूषणं परास्तमिति ज्ञेयम् ॥ २१६ ॥

विश्वास-प्रस्तुतिः

इदं चावधार्यताम् -
मनुष्यतिर्यक्त्वमुपेत्य नित्यो5 देवः स्वयं स्थावरतोऽभ्युदञ्चन् ॥
विचित्रशक्त्यन्वयमत्र वेदैः प्रत्याय्यमानं प्रकटीकरोति ॥ २९७ ॥
पुनः सविश्रम्भम्—
घटिकाचलं वपुरवेक्ष्य6 तत्त्वतो घटिकाचलं समधिरुह्य भक्तितः ॥
नरकेसरीन्द्रचरणौ विलोकयन् नरके सरिष्यति न जातु मानवः ॥२१८॥

मूलम्

इदं चावधार्यताम् -
मनुष्यतिर्यक्त्वमुपेत्य नित्यो5 देवः स्वयं स्थावरतोऽभ्युदञ्चन् ॥
विचित्रशक्त्यन्वयमत्र वेदैः प्रत्याय्यमानं प्रकटीकरोति ॥ २९७ ॥
पुनः सविश्रम्भम्—
घटिकाचलं वपुरवेक्ष्य6 तत्त्वतो घटिकाचलं समधिरुह्य भक्तितः ॥
नरकेसरीन्द्रचरणौ विलोकयन् नरके सरिष्यति न जातु मानवः ॥२१८॥

बाल-कृष्णः

मनुष्येति । यः नित्यः सर्वदैकरूपः सन्नपि देवः भक्तपालनार्थं विविधक्रीडाकारकः, मनुष्यश्चासौ तिर्यञ्च मनुष्यतिर्यङ् तस्य भावः नरसिंहरूपत्वमित्यर्थः । उपेत्य स्वीकृत्य, स्थावरतः स्तम्भान् न त्वितरवन्मातृतः । अभ्युदञ्चन् प्रकटीभवन् सन्, वेदैः प्रत्याय्यमानं वर्ण्यमानं, विचित्रायाः इतरसुरदुष्करत्वेन अघटितघटनाकारित्वेन च आश्चर्योत्पादिकायाः शक्तेः सामर्थ्यस्य अन्वयं सम्बन्धम् अत्र भूलोके प्रकटीकरोति आविष्करोति । वेदवर्णितं विविधं चरित्रं प्रत्यक्षतया प्रदर्शयतीत्यर्थः ॥ २१७॥

अत एवास्य स्थानस्यातिशयपुण्यसम्पादकत्वमस्तीति द्योतयन्नाह - घटिकाचल- मिति । घटिकाचलं घटिकाकालमात्रमप्यस्थिरं, विनश्वरमित्यर्थः । वपुः शरीरं, तत्त्वतः स्वभावादेवावेक्ष्य दृष्ट्रा ज्ञात्वेत्यर्थः । दृशिरत्र ज्ञानार्थकः । भक्तितः घटिकाचलं पर्वतम् अधिरुह्याऽऽरुह्य, नरकेसरीन्द्रचरणौ नरसिंहचरणौ, विलोकयन् अवलोकयन् ‘लक्षण हेत्वोः-’ इति हेतावत्र शता । मानवः जातु कदाचिदपि, नरके निरये न सरिष्यति नैव पतिष्यति । ’ सृ गतौ ’ इत्यस्मालृट् ॥ २१८ ॥


  1. नरसिंहाय मङ्गलम् ↩︎ ↩︎

  2. लम्भक ↩︎ ↩︎

  3. व्यधात् ↩︎ ↩︎

  4. दम्भात् स्तम्भादिहाजृम्भत ↩︎ ↩︎

  5. सद्यो ↩︎ ↩︎

  6. रवेत्य ↩︎ ↩︎