अथ वनवर्णनम्॥
विश्वास-प्रस्तुतिः
इति विमानं दक्षिणतः समानयन् सानन्दं विलोकय सखे विपिनानाममीषां परमं रामणीयकम् ॥ ८२& ॥
पुरः पुरो घनं वनं वने वने महागिरि -
महागिरौ महागिरौ विराजते गुहागृहम् ॥
गुहागृहे गुहागृहे विहारतत्परो हरि-
हरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥ २०७ ॥
मूलम्
इति विमानं दक्षिणतः समानयन् सानन्दं विलोकय सखे विपिनानाममीषां परमं रामणीयकम् ॥ ८२& ॥
पुरः पुरो घनं वनं वने वने महागिरि -
महागिरौ महागिरौ विराजते गुहागृहम् ॥
गुहागृहे गुहागृहे विहारतत्परो हरि-
हरौ हरौ निरङ्कुशः कृतेभसाध्वसो ध्वनिः ॥ २०७ ॥
बाल-कृष्णः
अथ विचित्रवनवर्णनप्रस्तावार्थमाह– इतीत्यादि । -
विलोकयेति । हे सखे अमीषां पुरोदृश्यमानानां विपिनानामरण्यानां “अटव्यरण्यं विपिनं " इत्यमरः । परमं रामणीयकं रमणीयत्वं मनोहरत्वमिति यावत् । मनोज्ञादित्वाद्वुञ् । अवलोकय पश्य ॥ ८२& ॥
रामणीयकमेवाह - पुर इति । पुरः पुरः अग्रे अग्रे घनं निबिडं वनं विराजते शोभते । इदमेव क्रियापदं सर्वत्रान्वेतव्यम् । वने वने प्रतिवनं महागिरिः । वीप्सायां द्वित्वम् । एवमेव सर्वत्रोह्यम् । गुहा गृहमिवेत्युपमितसमासः । विहारे क्रीडायां तत्परः आसक्तः हरिः सिंहः । “विष्णु-सिंहांशु वाजिषु । शुकाहि-कपि-भेकेषु हरि-र्ना कपिले त्रिषु । " इत्यमरः । निरङ्कुशः प्रतिबन्धरहितः कृतमुत्पादितम् इभानां गजानां साध्वसं भयं येन तादृशः ध्वनिः गर्जनम् ॥ २०७ ॥
विश्वास-प्रस्तुतिः
कृ॰ – किमरे वर्णयस्यचक्षुष्याणि मनुष्याङ्गकवलनचपलचण्डपुण्डरीकाननानि काननानि ? ॥ ८३& ॥
इतस्तावद्भावव्यतिकर इतः सन्त्यजगरा
इतो लुण्टाकानां समुदय इतः कण्टकचयः ॥
इतो व्याघ्रा उग्रा ज्वलनजनका वेणव इतो
वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ २०८ ॥
मूलम्
कृ॰ – किमरे वर्णयस्यचक्षुष्याणि मनुष्याङ्गकवलनचपलचण्डपुण्डरीकाननानि काननानि ? ॥ ८३& ॥
इतस्तावद्भावव्यतिकर इतः सन्त्यजगरा
इतो लुण्टाकानां समुदय इतः कण्टकचयः ॥
इतो व्याघ्रा उग्रा ज्वलनजनका वेणव इतो
वनं संलक्ष्यैतन्मन इदमहो मोहमयते ॥ २०८ ॥
बाल-कृष्णः
किमिति । अरे भो विश्वावसो, मनुष्याणाम् अङ्गानाम् अवयवानां कवलने ग्रासने चपलानि लोलुपानि अत एव चण्डानि भयङ्कराणि पुण्डरीकाणां व्याघ्राणां “व्याघ्रेऽपि पुण्डरीको ना” इत्यमरः । आननानि मुखानि येषु तानि । अत एवाचक्षुष्याणि अदर्शनीयानि, काननानि वनानि किं वर्णयसि ? ॥ ८३ ॥
अदर्शनीयत्वमेवाह - इत इति । इतः एकस्मिन्स्थले, तावत्साकल्येन सर्वत्रेत्यर्थः ग्राव्णां पाषाणानां व्यतिकरः समूहः, इतः अन्यत्र अजगराः सन्ति, इतः तदितरत्र लुण्ठाकानां चोराणां समुदयः, इतः कण्टकानां चयः समुदायः, इतः तद्भिन्नस्थले, उग्रा भयङ्करा व्याघ्राः, इतोऽन्यत्र ज्वलनजनकाः परस्परसङ्घर्षणेनाग्न्युत्पादकाः वेणवः कीचकाः सन्तीत्यर्थः । एतदेव वचनविपरिणामेन यथायोग्यं सर्वत्र संयोजनीयम् । एवमेतद्वनं संलक्ष्य दृष्ट्रा, इदं मे मनः मोहं भयजन्यं भ्रमं, अयते प्राप्नोति ॥ २०८ ॥
विश्वास-प्रस्तुतिः
वि॰ - सखे निपुणनिरूपणत एतेषां गुणानपि गृहाण ॥ ८४ ॥
अनायासग्राह्याण्यवनिपतिभोग्यान्यपि फला-
न्ययत्नेन प्राप्या1 नृपसुदृगपेक्ष्याः सुमनसः ॥
असूर्यम्पश्यान्यप्यहह सुलभान्यश्मभवना-
न्यरण्यानीभाजामतिपतति भाग्यं किल गिरः ॥ २०९ ॥
मूलम्
वि॰ - सखे निपुणनिरूपणत एतेषां गुणानपि गृहाण ॥ ८४ ॥
अनायासग्राह्याण्यवनिपतिभोग्यान्यपि फला-
न्ययत्नेन प्राप्या1 नृपसुदृगपेक्ष्याः सुमनसः ॥
असूर्यम्पश्यान्यप्यहह सुलभान्यश्मभवना-
न्यरण्यानीभाजामतिपतति भाग्यं किल गिरः ॥ २०९ ॥
बाल-कृष्णः
सख इति । सखे हे मित्र, निपुणनिरूपणतः विचारयुक्तावलोकनं कृत्वेत्यर्थः । पञ्चम्यर्थे तसिल । सा च त्यब्लोपे । एतेषां वनानां गुणानपि गृहाण, नतु केवलान् दोषानेव ॥ ८४ ॥
तान् गुणानेवाह - अनायासेति । अवनिपतिभी राजभिर्भोक्तुं योग्यानि नतु साधारणैर्जनैः अपि, फलानि आम्रदाडिमादीनि, अत्र वने अनायासेन अयत्नेन ग्राह्याणि भवन्ति । तथा नृपसुदृग्भिः राजपत्नीभिरपि अपेक्ष्याः ईप्सितव्याः किमुतान्याभिः, सुमनसः मालती-मल्लिकादीनां पुष्पाणि” स्त्रियः सुमनसः पुष्पं” इत्यमरः । अयत्नेन प्राप्या लब्धुं शक्याः । तथा असूर्यपश्यानि सूर्यं न पश्यन्तीति विग्रहः । असमर्थसमासोऽयम् । “असूर्य - ललाटयोः-” इत्यादिना खश् । “अरुर्द्विषद - " इत्यादिना च मुमागमः ।अश्मनां पाषाणानां भवनानि गृहाणि सुलभानि यत्नं विनैव लभ्यानि सन्ति । अहहेत्यानन्दे । एवं सति अरण्यानीभाजां महारण्यसेविनां " इन्द्र वरुण भव - " इत्यादिसूत्रेणानुगागमः ङीप् च विधीयते । सच “हिमारण्ययोर्महत्त्वे " इति वार्तिकेन महत्त्व - विवक्षायामेव । " महारण्य मरण्यानी” इत्यमरश्च । भाग्यं दैवं गिरः वाणीः अतिपतति अतिक्रामति । वाण्या वर्णयितुमशक्यमिति भावः । किल निश्चयेन ॥ २०९॥
विश्वास-प्रस्तुतिः
अपि च-
गहनगुहाविहारिहरिपाणिरुहाभिहत-
द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः ॥
अहह विभूषितैरिव चिरं2 विहरन्ति सुखं
सममबलाजनैरतिविलासपराः शबराः ॥ २१० ॥
मूलम्
अपि च-
गहनगुहाविहारिहरिपाणिरुहाभिहत-
द्विरदशिरस्तटोद्गलितमौक्तिकसंहतिभिः ॥
अहह विभूषितैरिव चिरं2 विहरन्ति सुखं
सममबलाजनैरतिविलासपराः शबराः ॥ २१० ॥
बाल-कृष्णः
गहनेति । इह शेषाचले, गहनगुहासु वनस्थगुहासु, गहनेषु अरण्येषु गुहासु चेति वा । विहर्तुं क्रीडितुं शीलं येषां ते विहारिणः तादृशानां हरीणां सिंहानां पाणिरुहैः
भिहतानां विदारितानां द्विरदानां हस्तिनां शिरस्तटाद् गण्डस्थलाद् उद्गलितानि भूमौ निपतितानि यानि मौक्तिकानि तेषां संहतिभिः समूहैः, हारैरिति यावत् । विभूषितैरलङ्कृतैः अबलाजनैः स्त्रीजनैः समं सह, अतिविलासपराः भृशं क्रीडासक्ताः सन्तः, शबराः म्लेच्छविशेषाः सुखं यथा तथा, चिरं वहुकालं विहरन्ति क्रीडन्ति । अहहेत्यानन्दे । नर्दटकं वृत्तम् । “यदि भवतो नजौ भजजला गुरु नर्दटकम्” इति तल्लक्षणात् ॥ २१० ॥