१५ वेङ्कटगिरिवर्णनम्

विश्वास-प्रस्तुतिः

अथ वेङ्कट-गिरि-वर्णनम् ॥

विश्वावसुः - ओम् इत्य् अग्रे विमानम् उपानयन् सानन्दं साञ्जलिबन्धं च —
सुरभितम-तमाल-स्तोम-पुष्यद्-रसाल-प्रकर-तिलक-साल-प्रेष्ठ-सुष्ठु-द्रु-जालः1

श्रित-समवन-शीलः श्रीश लीलानुकूलः
शिथिलित-भव-मूलः सेव्यतां शेष-शैलः ॥ १९१ ॥

मूलम्

अथ वेङ्कटगिरिवर्णनम्॥

विश्वावसुः - ओमित्यग्रे विमानमुपानयन् सानन्दं साञ्जलिबन्धं च- सुरभितमतमालस्तोमपुष्यद्रसाल-

प्रकरतिलकसालप्रेष्ठसुष्ठुद्रुजालः1

श्रितसमवनशीलः श्रीश लीलानुकूलः

शिथिलितभवमूलः सेव्यतां शेषशैलः ॥ १९१ ॥

बाल-कृष्णः

साम्प्रतं वेङ्कटाचलवर्णनार्थं विश्वावसोः कृशानुवचनाङ्गीकारपूर्विकामुक्ति- माह - ओमिति । ओमित्यङ्गीकारे । तद्भाषणमङ्गीकृत्येत्यर्थः । अग्रे इत्यादि स्पष्टम् ।

सुरभीति । सुरभितमाः अतिसुगन्धयुक्ताश्च ते तमालास्तापिच्छवृक्षास्तेषां स्तोमः समूहः । " कालस्कन्धस्तमालः स्यात्तापिच्छः " इत्यमरः । पुष्यन् प्रतिदिनं वृद्धि प्राप्नुवन् रसालानाम् आम्रवृक्षाणां प्रकरः समुदायः । " आम्रभूतो रसालोऽसौ सहकारोतिसौरभः" इत्यमरः । तिलकाः क्षुरकवृक्षाः " तिलकः क्षुरकः श्रीमान्" इत्यमरः । सालाः सर्जसञ्ज्ञका वृक्षाश्च ते प्रेष्ठाः मुख्याः येषु तानि सुष्ठुद्रूणां शोभनवृक्षाणां जालानि वृन्दानि यस्मिन् सः । प्रेष्ठ इत्ययं शब्दः प्रियशब्दाद् इष्ठनि सिध्यति । ततश्च प्रेष्ठ इत्यस्य प्रियतम इत्येवार्थो न्याय्यः, अथाप्यत्र पूर्वापरसम्बन्धान् मुख्य इत्यर्थकरणं युक्तम् । कस्मिंश्चित् पुस्तके ‘प्रष्ठ’ इति पाठान्तरं दृश्यते, तदा तु सुतरां मुख्या इत्यर्थ- लाभः । श्रितानाम् आश्रितानां भक्तानामिति यावत् । समवनं सम्यग्रक्षणं तदनुरूपं शीलं स्वभावो यस्य सः । तथा श्रीशस्य श्रीनिवासाभिधविष्णुमूर्तेः लीलानां क्रीडानाम् अनुकूलः, तथा शिथिलितं भवस्य संसारस्य मूलं मायामोहरूपं येन सः अयं शेषशैलः वेङ्कटावेङ्कटाचलः सेव्यताम् आश्रीयताम् । त्वयेति परिशेषात् ॥ १९१ ॥

विश्वास-प्रस्तुतिः

पुनः स-हर्षम् —
पन्नगेषु च नगेषु खगेषु द्वीपिराजसु2 पृषत्सु दृषत्सु ॥

वल्लरीषु च दरीषु झरीषु जनिम् अत्र प्रार्थयन्ति मुनीन्द्राः ॥ १९२ ॥

मूलम्

पुनः सहर्षम्—

पन्नगेषु च नगेषु खगेषु द्वीपिराजसु2 पृषत्सु दृषत्सु ॥

वल्लरीषु च दरीषु झरीषु प्रार्थयन्ति जनिमत्र मुनीन्द्राः ॥ १९२ ॥

बाल-कृष्णः

पन्नगेष्विति । अत्र शेषशैले पन्नगेषु सर्वेषु, नगेषु वृक्षेषु, खगेषु पक्षिषु, द्वीपिराजसु व्याघ्रराजसु महाव्याघ्रेष्वित्यर्थः । " शार्दूल - द्वीपिनौ व्याघ्रे " इत्यमरः । पृषत्सु मृगेषु " पृषन्मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना" इति कोशः । दृषत्सु, पाषाणेषु, “पाषाण- प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्" इत्यमरः । वल्लरीषु वलीषु, दरीषु गुहासु वा, झरीषु जलप्रवाहेषु, मुनीन्द्राः स्थानान्तरनिवासिनः ऋषयः, जनिं जन्म “जनुर्जनन - जन्मानि जनिरुत्पत्तिरुद्भवः" इत्यमरः । प्रार्थयन्ति । सर्प - वृक्षादिरूपेणाप्यत्रास्माकं जन्म भवतु इति वाञ्छन्तीत्यर्थः । एतेन तत्स्थानस्यातीव श्रेयःसम्पादकत्वं सूचितम् ॥ १९२ ॥

विश्वास-प्रस्तुतिः

विविध-निगम-सारे विश्व-रक्षैकधीरे

वृष-शिखरिविहारे वक्षसाऽऽश्लिष्ट-दारे ॥

भगवति यदु-वीरे भक्त-बुद्धेरदूरे

भवतु चिरम् उदारे भावना निर्विकारे ॥ १९३ ॥

अहो महोन्नता खल्वस्य शैलस्य धन्यता ॥ ७४& ॥

मूलम्

विविधनिगमसारे विश्वरक्षैकधीरे

वृष शिखरिविहारे वक्षसाऽऽश्लिष्टदारे ॥

भगवति यदुवीरे भक्तबुद्धेरदूरे

भवतु चिरमुदारे भावना निर्विकारे । १९३ ॥

अहो महोन्नता खल्वस्य शैलस्य धन्यता ॥ ७४& ॥

बाल-कृष्णः

विविधेति । विविधनिगमानां कर्म-ज्ञानोपासनारूपविविधमार्गप्रतिपादकानां वेदशास्त्राणां साररूपः प्रतिपाद्यस्तस्मिन् विश्वस्य जगतो रक्षायाम् एक एव धीरः समर्थस्तस्मिन् वृषशिखरिः शेषशैलः तस्मिन् विहारः क्रीडा यस्य तस्मिन् वक्षसा हृदयेन आश्लिष्टा दाराः भगवती लक्ष्मीपत्नी येन सः तस्मिन् भक्तानां बुद्धेः अदूरे समीपस्थिते भक्तानामपरोक्षज्ञानविषय इत्यर्थः । उदारे महति, निर्विकारे जन्ममरणादिविकाररहिते, भगवति यदुवीरे श्रीकृष्णे भावना ध्यानरूपाऽsसक्तिः चिरं चिरकालं निरन्तरमित्यर्थः । भवतु ॥ १९३॥

अहो इति । अहो इत्याश्चर्ये । अस्य शैलस्य शेषाचलस्य धन्यता महोन्नता- अतीव श्रेष्ठा किल अस्ति ॥ ७४& ॥

विश्वास-प्रस्तुतिः

यतः
वैकुण्ठेऽपि निरुत्कण्ठम् अकुण्ठ-विभवं महः ॥
तद् अत्र चित्र-चारित्रं रमते रमया समम् ॥ १९४ ॥
इति सानन्दं ध्यायति ।
कृ॰ - हन्त व्यपेत-विषयान्तर-व्यासङ्गं त्वद्-अन्तरङ्गं देव एवास्मिन्ननुभवति दृढ-सङ्गम् ॥ ७५ ॥
वि॰ - सखे सत्यम् एवोदितं3 भवता ॥ ७६& ॥
दधती चिराय सुदतीम् उरः-स्थले तद्-अतीत-सीम ददती सुखं सताम् ॥
रसिकस्य चित्तम् इह कस्य देवता प्रतिपन्न-पन्नग-नगा न गाहते ॥ १९५ ॥
कृ॰ - किम् अरे केवलम् अर्थ-परम् अमुं देवम् अनुसन्धत्से ॥ ७७& ॥

मूलम्

यतः
वैकुण्ठेऽपि निरुत्कण्ठमकुण्ठविभवं महः ॥
तदत्र चित्रचारित्रं रमते रमया समम्4 ॥ १९४ ॥
इति सानन्दं ध्यायति ।
कृ॰ - हन्त व्यपेतविषयान्तरव्यासङ्गं त्वदन्तरङ्गं देव एवास्मिन्ननुभवति दृढसङ्गम् ॥ ७५ ॥
वि॰ - सखे सत्यमेवोदितं भवता ॥ ७६& ॥
दधती चिराय सुदतीमुरःस्थले तदतीतसीम ददती सुखं सताम् ॥
रसिकस्य चित्तमिह कस्य देवता प्रतिपन्नपन्नगनगा न गाहते ॥ १९५ ॥
कृ॰ - किमरे केवलमर्थपरममुं देवमनुसन्धत्से ॥ ७७& ॥

बाल-कृष्णः

कुत एतदित्यत आह– वैकुण्ठे इति । यद् अकुण्ठः लोकत्रयेपि प्रतिबन्धरहितः विभवः नित्यानन्दादिरूपम् ऐश्वर्यं, दुष्टनिराकरणसज्जनपालनादिरूपसामर्थ्य वा यस्य, तन् महः वैष्णवं तेजः, वैकुण्ठेऽपि निरुत्कण्ठम् आसक्तिरहितं सत्, अत्र शेषशैले चित्रं चारित्रं यस्य तथाभूतं च सत्, रमया लक्ष्म्या समं सहितं रमते क्रीडति ॥ १९४ ॥

हन्तेति । हन्तेत्याश्चर्ये । व्यपेतः निर्गतः विषयान्तरस्य एतद्देवताध्यानादन्यविषयस्य व्यासङ्गः विशिष्टग्रहो यस्य तत् त्वदन्तरङ्गं तव चित्तं, अस्मिन् देवे श्रीनिवासे एव दृढसङ्गम् अत्यन्तासक्तिम् अनुभवति ॥ ७५& ॥

अतीवानन्देनाह विश्वावसुः - सखे इति । हे सखे, भवता सत्यमेव उदितं3 कथितम् ॥ ७६& ॥

कुत इति चेत्तदाह- दधतीति । चिराय चिरकालम् उरःस्थले वक्षस्थले सुष्टु शोभनाः दन्ताः यस्याः सा तां लक्ष्मीमित्यर्थः । “सङ्ख्या- सुपूर्वस्य" इत्यनुवर्तमाने “वयसि दन्तस्य दतृ ” इति दत्रादेशः । " उगितश्च” इति ङीप् । दधती धारयित्री, तथा सतां साधूनां तत् प्रसिद्धम् अतीता निर्गता सीमा मर्यादा यस्मात् तन् निरवधीत्यर्थः । अभ्यस्तत्वान्नुमभावः । सतामित्यत्र षष्ठी प्रामादिकी । सम्प्रदानत्वाच्चतुर्थ्या विधानात् । प्रतिपन्नः स्वीकृतः पन्नगनगः शेषशैलः यया सा देवता श्रीनिवासरूपा, इह कस्य रसिकस्य ब्रह्मरसविदः । " रसो वै सः " इति श्रुतेर्ब्रह्मरसस्यैव मुख्यरसत्वम् । चित्तमन्तःकरणं न गाहते न प्रविशति ? अपि तु सर्वस्यापि प्रविशतीत्यर्थः ॥ १९५ ॥

इदानीं कैश्चित् प्रतिश्रुताप्रदाने सा देवता कुप्यतीति प्रसिद्धिपुरस्कारेणाह –

विश्वास-प्रस्तुतिः

इष्ट-प्राप्तिम् अनिष्ट-भङ्गम् अपि वा सम्प्रार्थ्य भक्त्या जनैर्
यद् दातव्यम् इति प्रतिश्रुतम् अभूद्, द्रव्यं तद्, आप्ते फले ॥
ते दास्यन्ति न चेत् स्वयं भयम् असाव् उत्पाद्य तेषां पुनः
कृत्स्नं सार्थ-हिरण्य-हृत्-पद इदं गृह्णाति वृद्ध्या समम् ॥ १९६ ॥

मूलम्

इष्टप्राप्तिमनिष्टभङ्गमपि वा सम्प्रार्थ्य भक्त्या जनै-
र्यद्दातव्यमिति प्रतिश्रुतमभूद्द्रव्यं तदाप्ते फले ॥
ते दास्यन्ति न चेत्स्वयं भयमसावुत्पाद्य तेषां पुनः
कृत्स्नं सार्थहिरण्यहृत्पद इदं गृह्णाति वृद्ध्या समम् ॥ १९६ ॥

बाल-कृष्णः

किमरे इति । अरे विश्वावसो ! केवलमर्थपरं द्रव्यासक्तममुं देवं, एवं, पूर्वोक्तप्रकारेण किं कुतो हेतोरनुसन्धत्से ध्यायसि ? ॥ ७७& ॥

अर्थपरत्वमेवाह - इष्टप्राप्तिमिति ।
जनैः सेवकलोकैः इष्टप्राप्तिम् अनिष्टभङ्गं सङ्कटनाशं वा समुच्चयार्थकः । तदुभयमपि सम्प्रार्थ्य, भक्त्या यद् द्रव्यं दातव्यं देयमिति प्रतिश्रुतं प्रतिज्ञातम् अभूत्,
अथ फले प्रार्थितप्राप्तिरूपे आप्ते प्राप्ते सति,
तत् पूर्वप्रतिज्ञातं ते जनाः स्वयं न दास्यन्ति नार्पयिष्यन्ति चेत्,
असौ देवः तेषां जनानां भयं व्याध्यादिरूपम् उत्पाद्य, तेभ्यः पुनः सार्थ यथार्थ हिरण्यं धनं,
अथवा हिरण्यकशिपुं, नामैकदेशे नामग्रहणात् ।
हरति गृह्णातीति तथाभूतं पदं वाचकः शब्दः यस्य तथाभूतः । पुनः इदं द्रव्यं वृद्ध्या अधमर्णदेयमूलाधिकद्रव्येण समं कृत्स्नं सम्पूर्णमपि गृह्णाति । दीनदयालोर्भगवत एतदनुचितमित्यर्थः ॥ १९६ ॥

विश्वास-प्रस्तुतिः

किं च —

तातेत्यामन्त्र्य कञ्चिद् वनभुवि तृषितस् तोय-बिन्दून्ययाचे
कस्याप्युच्चैस्तटाकं खनतः इह गिरौ हन्त मृद्भारम् ऊहे ॥
दत्तां केनापि सूनावलिम् अधिमुकुटं मृन्मयीम् एव दध्रे
सोऽयं भूयः श्रुतिज्ञैर् भुवन-पतिर् इति स्तूयते ध्यायते च ॥ १९७ ॥

मूलम्

किञ्च—
तातेत्यामन्त्र्य कञ्चिद्वनभुवि तृषितस्तोयबिन्दून्ययाचे
कस्याप्युच्चैस्तटाकं खनत इह गिरौ हन्त मृद्भारमूहे ॥
दत्तां केनापि सूनावलिमधिमुकुटं मृन्मयीमेव दध्रे
सोऽयं भूयः श्रुतिज्ञैर्भुवनपतिरिति स्तूयते ध्यायते च ॥१९७॥

बाल-कृष्णः

किञ्च यद्ययं सर्वशक्तिमान् स्यात्तदेदमत्यन्तानुचितमित्याह - तातेतीति । योऽयं वनभुवि अरण्यभूमौ तृषितः सन् कञ्चिदपि पुरुषं ’ हे तात!’ इति सकरुणमामन्त्र्यसम्बोध्य, तोयबिन्दून् उदककणान् ययाचे याचितवान् । तथा इह गिरौ शेषाचले कस्यापि पुरुषस्य तटाकं खनतः सतः उच्चैरतिमहान्तं हन्तेति विषादे । मृद्भारं मृत्तिकासमूहम् ऊहे धृतवान् । तथा केनाप्यज्ञातकुलगोत्रेण दत्तां समर्पितां मृन्मयीमेव मृत्तिकाप्रचुरामेव । प्राचुर्ये मयट् । सूनावनिं पुष्पमालाम् अधिमुकुटं मुकुटे इत्यर्थः । दध्रेधृतवान् ।

सः अयं भूयः वारंवारं श्रुतिज्ञैः वेदविद्भिः भुवनपतिर् इत्य् उक्त्वा स्तूयते, ध्यायते चेत्यपि ।
एतस्मात्तु दरिद्रसादृश्यं प्रतीयते इति भावः ।
एतत्कथात्रितयमपि श्रीवेङ्कटाचलमाहात्म्यतोऽवगन्तव्यम् । अत्र वाच्यया निन्दया परमकारुणिकत्व-भक्तवात्सल्यादिरूपस्तुतिप्रतीतेर्व्याजस्तुतिरलङ्कारः ॥ १९७ ॥

विश्वास-प्रस्तुतिः

वि॰ - किम् अरे तावत् ॥ ७८& ॥
करुणानिधये वेङ्कटाचल-पतयेऽपि असूयसि ? शृणु
नियन्ता जन्तूनां निखिल-जगद्-उत्पाद-विभव-5 प्रतिक्षेपैः क्रीडन् परम-पुरुषः पन्नग-नगे ॥
परत्वे सौलभ्य-प्रकटन-कृते वेङ्कट-पतिः
कृपासिन्धुः कां कां ननु6 मनुज-लीलां न तनुते ॥ १९८ ॥

मूलम्

वि॰ - किमरे
तावत् ॥ ७८& ॥
करुणानिधये वेङ्कटाचलपतयेऽप्यसूयसि ? शृणु
नियन्ता जन्तूनां निखिलजगदुत्पादविभव-5
प्रतिक्षेपैः क्रीडन् परमपुरुषः पन्नगनगे ॥
परत्वे सौलभ्यप्रकटनकृते वेङ्कटपतिः
कृपासिन्धुः कां कां ननु6 मनुजलीलां न तनुते ॥ १९८ ॥

बाल-कृष्णः

किमिति । अरे, करुणानिधये दयासागराय वेङ्कटाचलपतये श्रीशेषशैलाधिपतये श्रीनिवासायापि, असूयसि गुणेषु दोषानाविष्करोषि ? । “कुध दुहेर्ष्या -” इत्यादिना चतुर्थी । शृणु तावद् वक्ष्यमाणमित्यर्थः ॥ ७८& ॥

नियन्तेति । जन्तूनां प्राणिनां नियन्ता अन्तर्यामित्वेन प्रेरयिता, निखिलस्य सम्पूर्णस्य जगतः उत्पादः उत्पत्तिः विभवः पालनं प्रतिक्षेपो लयस्तैः क्रीडन्, अत एव परमपुरुषः कृपासिन्धुः वेङ्कटपतिः श्रीनिवासः, स्वस्य परत्वे सर्वोत्कृष्टत्वे मनोवाचामगोचरत्वे वा सत्यपि, सौलभ्यस्य भक्त्या सुलभत्वस्य प्रकटनकृते प्रकटनार्थं, पन्नगनगे शेषशैले, कां कां मनुजलीलां मनुष्यचेष्टां न तनुते ननु न करोति ? अपि तु सर्वामपि करोत्येवेत्यर्थः ॥ १९८ ॥

विश्वास-प्रस्तुतिः

किं च —

किम् अप्य् उपादाय दिशन्न् अभीष्टं
कृत्स्नं जनेभ्यः पतिर् अञ्जनाद्रेः ॥
कृष्णावतारीय-कुचैल-सम्पत्-
प्रदान-रीतिं विवरीवरीति+++(←वृ)+++ ॥ १९९ ॥

मूलम्

किञ्च—
किमप्युपादाय दिशन्नभीष्टं कृत्स्नं जनेभ्यः पतिरञ्जनाद्रेः ॥
कृष्णावतारीयकुचैलसम्पत्प्रदानरीतिं विवरीवरीति ॥ १९९ ॥

बाल-कृष्णः

‘इष्टप्राप्तिमनिष्टभङ्गमपि -’ इत्यादिनोक्तं दूषणं परिहरन्नाह - किमपीति । अयमञ्जनाद्रेः शेषशैलस्य पतिः जनेभ्यः भक्तलोकेभ्यः सकाशात्, किमपि स्वल्पं यत्किञ्चिदपि वस्तु उपादाय गृहीत्वा तेभ्यः कृत्स्नं यावत्तैः प्रार्थितं तावत्सर्वम् अभीष्टम् इच्छितं दिशन् अर्पयन्, कृष्णावतारे भवा कृष्णावतारीया सा चासौ कुचैलसम्पत्प्रदानरीतिश्च तां, कुचैलः सुदामा नाम ब्राह्मणः कृष्णस्य सखा आसीत् । तस्मै सम्पदर्पणस्य पद्धतिमित्यर्थः । तद्वृत्तं हि श्रीमद्भागवते उत्तरार्धे अशीत्येकाशीतितमाध्याययोः । तदित्थम् - कुचैलस्त्वतिदारिद्र्ययुक्तो भार्यया प्रार्थितश्च सन् मुष्टिमात्रपृथुकान् गृहीत्वा कृष्णसन्दर्शनार्थ द्वारकां गतः, तत्र च कृष्णेनातीव सत्कृतः तस्माच्च पृथुकमुष्टिं गृहीत्वा महेन्द्रतुल्यमैश्वर्य तस्मै समर्पितवान् इति । विस्तरस्तु भागवतादेवावगन्तव्यः । विवरीवरीति अत्यन्तं प्रकटयतीत्यर्थः। विपूर्वात् ‘वृञ् वरणे’ इत्यस्माद् यङ्लुकि लटि रूपम् ॥ १९९॥

विश्वास-प्रस्तुतिः

प्रिय-सहचरी लक्ष्मीः स्थानं सहस्र-वसुः स्वयं
कुवलय-पतिः श्यालः रत्नाकरः श्वशुरो हरेः ।
तदपि हरति द्रव्यं पूर्णो जगत्-पतिर् एष यत्
तद् इह भजतां कर्तुं नृणाम् उदग्रम् अनुग्रहम् ॥ २०० ॥

मूलम्

प्रियसहचरी लक्ष्मीः स्थानं सहस्रवसुः स्वयं
कुवलयपतिः श्यालो रत्नाकरः श्वशुरो हरेः ।
तदपि हरति द्रव्यं पूर्णो जगत्पतिरेष यत्
तदिह भजतां कर्तुं नृणामुदग्रमनुग्रहम् ॥ २०० ॥

बाल-कृष्णः

‘ताते त्यामध्य-’ इत्यादि दूषणं निराकरोति - प्रियेत्यादि । यस्य हरेः श्री- वेङ्कटाधिपतेः श्रीनिवासस्य प्रिया चासौ सहचरी च सा प्रियपत्नीत्यर्थः । स्वयं साक्षाद् लक्ष्मीः, स्थानं निवासस्थलं च सहस्राणि वसवः धनानि किरणाश्च यस्य सः भगवान् सूर्यनारायण इत्यर्थः । “देवभेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः । कुवलयानां कमलानां पतिश्चन्द्रश्च कु-वलयस्य भूमण्डलस्य पतिः सार्वभौम इति वा । श्यालः पत्नीभ्राता, रत्नाकरः समुद्रः श्वशुरः भार्यापिता । अस्तीति सर्वत्र योज्यम् । एवं पूर्णः सन्नपि अत एव जगतः पतिश्चायम् अस्ति, तथापि एषः द्रव्यं भक्तप्रार्थितं हरतीति यत्, तद् इह लोके भजतां नृणां मनुष्याणाम् उदग्रं महान्तमनुग्रहं कर्तुमेव । तदुक्तं श्रीमद्भागवते दशमस्कन्धपूर्वार्द्धे सप्तविंशेऽध्याये भगवता श्रीकृष्णेनेन्द्रं प्रति- " मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम्" इति ॥ २०० ॥

विश्वास-प्रस्तुतिः

अखिल-हेय-प्रत्यनीकानन्त-कल्याण-गुणैकतानस्य विश्वनाथस्य7 श्रीनिवासाभिधानस्य परब्रह्मणो गुणार्णवामृत-कणानां गणनायाम् अनिपुणधिषणा8 धिषणादयः अपि ॥ ७९& ॥
गाम्भीर्यैकावलम्बे गरिमा-निवसतौ कान्ति-कुल्या-तटाके
कल्याणाम्भोजकल्ये निरवधि-करुणा-सार-कल्लोल-राशौ ॥
चातुर्यौदार्य-लक्ष्मी-विहरण-शरणे सद्-गुणौघान् बभूवे9
देवे श्री-वेङ्कटेशे न जिगणयिषता केन वा ग्लान-वाचा10 ॥ २०१ ॥

मूलम्

अखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य विश्वनाथस्य7 श्रीनिवासाभिधानस्य परब्रह्मणो गुणार्णवामृतकणानां गणनायामनिपुणधिषणा8 धिषणादयोऽपि ॥ ७९& ॥
गाम्भीर्यैकावलम्बे गरिमनिवसतौ कान्तिकुल्यातटाके
कल्याणाम्भोजकल्ये निरवधिकरुणासारकल्लोलराशौ ॥
चातुर्योदार्यलक्ष्मीविहरणशरणे सद्गुणौधान् बभूवे9
देवे श्रीवेङ्कटेशे न जिगणयिषता केन वा ग्लानवाचा10 ॥२०१ ॥

बाल-कृष्णः

अखिलेति । अखिलाः सम्पूर्णा ये हेयप्रत्यनीका दोषनाशका अनन्तकल्याणगुणास्तेषाम् एकतानस्य मुख्याधिष्ठानस्य, विश्वनाथस्य जगदधिपतेः श्रनिवासाभिधानस्य श्रीनिवासनाम्नः परब्रह्मणः गुणार्णवस्य गुणसमुद्रस्य, अमृतकणानां सुधाबिन्दूनां गणनायां सङ्ख्याने विषये, धिषणो बृहस्पतिरादिर्येषां ते देवा ऋषयश्च । “बृहस्पतिः- सुराचार्यो गीष्पतिर्धिषणो गुरुः" इत्यमरः । अनिपुणधिषणाः अकुशलबुद्धयः बुद्धिसामर्थ्यहीना इत्यर्थः । भवन्तीति शेषः ॥ ७९& ॥

किञ्च - गाम्भीर्येति । गम्भीरस्य भावो गाम्भीर्यं प्रापञ्चिकसुखदुःखविकारराहित्यं तस्य एकावलम्बो मुख्याश्रयस्तस्मिन् गरिम्णः गौरवस्य निवसतौ निवासस्थाने । कान्तिरूपा या कुल्या अल्पा नदी “कुल्याल्पा कृत्रिमा सरित् " इत्यमरः । तस्यास्तटाके सरोवरे आश्रये इति यावत् । भगवति हि सकलतेजसामाश्रयत्वम् । “यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चान्दौ तत्तेजो विद्धि मामकम् ॥ ’ इति गीतावचनात् प्रसिद्धम् । कल्याणानि निःश्रेयसान्येव अम्भोजानि कमलानि तेषां कल्ये प्रातःकाले " प्रत्यूषोऽहर्मुखं कल्य उषः- प्रत्युषसी अपि" इत्यमरः । निरवधिर्निःसीमो यः करुणासारः दयासारस्तस्य कल्लोलराशौ महोर्मिनिधौ समुद्रे इत्यर्थः । " अथोर्मिषु । महत्सूल्लोल - कल्लोली” इत्यमरः । चातुर्यं कर्मसु कौशलं च औदार्य दातृत्वं च उदारस्य भावः औदार्यमिति विग्रहः । “उदारो दातृ-महतोः” इत्यमरः । तयोर्लक्ष्म्याः समृद्धेः विहरणशरणं क्रीडागृहं तस्स्मिन् देवे स्वप्रकाशे श्रीवेङ्कटेशे विषये, सतां प्रशस्तानां गुणानाम् ओघान् समूहान् । " सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् । " इत्यमरः । जिगणयिषता गणनां कर्तुमिच्छता । गणयतेः स्वार्थिकण्यन्ताच्चौरादिकात्सनि शतृप्रत्ययः । केन पुरुषेण ग्लानवाचा श्रान्तवचनेन न बभूवे । को वा पुरुषः श्रान्तवान्न बभूवेत्यर्थः । भवतेर्भावे लिट् । अत्र सर्वत्र ’ गाम्भीर्यैकावलम्बे ’ इत्यादौ तादात्म्येन वर्णनाद्रूपकालङ्कारः । तद्रूपकमभेदो यः " इत्यादितल्लक्षणात् ॥ २०१ ॥

विश्वास-प्रस्तुतिः

किं च —
समग्रा हि हरेर् वेदैः समग्राहि गुणावलिः ॥
प्रत्यक्षेऽपि परत्वेऽस्य प्रत्यक्षेऽपि च संशयः ॥ २०२ ॥
अहो महोन्नतस्यापि अस्य सौलभ्यं कनक-कुसुमस्य सौरभ्यम् इव रसिकेभ्य एव वदते ॥ ८०& ॥

मूलम्

किञ्च—
समग्रा हि हरेर्वेदैः समग्राहि गुणावलिः ॥
प्रत्यक्षेऽपि परत्वेऽस्य प्रत्यक्षेपि च संशयः ॥ २०२ ॥
अहो महोन्नतस्याप्यस्य सौलभ्यं कनककुसुमस्य सौरभ्यमिव रसिकेभ्य एव वदते ॥ ८०& ॥

बाल-कृष्णः

समग्रेति । हरेः समग्रा हि सकलैव गुणानाम् आवलिः पङ्क्तिः वेदैः समग्राहि सम्यग्गृहीता । तथा अस्य प्रत्यक्षे दर्शने सति, परत्वे अप्रत्यक्षे विषये संशयोऽपि प्रत्यक्षेपि प्रतिक्षिप्तः । निराकृत इति यावत् । अत्र पूर्वार्धे ग्रहेः उत्तरत्र च क्षिपेः कर्म- णि लुङि " चिण् भावकर्मणोः " इति चिण् ॥ २०२ ॥

अहो इति । अहो इत्याश्चर्ये । महोन्नतस्य अतीवोच्चस्याप्यस्य वेङ्कटेश्वरस्य सौलभ्यं सुलभत्वं सुखेन प्राप्यत्वं, कनकवर्णस्य कुसुमस्य पुष्पस्य कनकमयपुष्पस्येति वा । सुरभेः सुगन्धेः भावः सौरभ्यं सुगन्धित्वं सुन्दरत्वं वा " सुरभिर्हेम्नि चम्पके । जातीफले मातृभेदे रम्ये चैत्र - वसन्तयोः । सुगन्धौ” इति हैमः । रसिकेभ्य एव स्वदते रोचते ॥ ८०& ॥

विश्वास-प्रस्तुतिः

पश्य —
प्रचण्ड-विश्व-कण्टक-प्रखण्डनैक-पण्डितः
पतङ्ग-मण्डले वसन् य एष पाण्डव-प्रियः ॥
अकुण्ठ-रीतिकः प्रसन्न-पुण्डरीक-लोचनः
स कुण्डलीन्द्र-भूधर-प्रकाण्ड-मण्डनायते ॥ २०३ ॥

मूलम्

पश्य-
प्रचण्डविश्वकण्टकप्रखण्डनैकपण्डितः
पतङ्गमण्डले वसन् य एष पाण्डवप्रियः ॥
अकुण्ठरीतिकः प्रसन्नपुण्डरीकलोचनः
स कुण्डलीन्द्रभूधरप्रकाण्डमण्डनायते ॥ २०३ ॥

बाल-कृष्णः

प्रचण्डेति । प्रकर्षेण चण्डा भयङ्करा ये विश्वकण्टकाः कण्टक इव जगत्त्रासोत्पादकाः कंसादयस्तेषां प्रकर्षेण समूलं खण्डने एको मुख्यः पण्डितः कुशलबुद्धियुक्तः अपि च पाण्डवप्रियः । एतद्विशेषणद्वयेन " परित्राणाय साधूनां -" इत्यादि भगवद्गीतोक्तं प्रतिज्ञावचनं स्मारितम् । यः एषः श्रीनारायणः पतङ्गमण्डले सूर्यबिम्बे " पतङ्गौ पक्षि- सूर्यौ च " इति, " बिम्बोऽस्त्री मण्डलं त्रिषु " इति चामरः । वसन् निवसतीत्यर्थः । अकुण्ठा निरन्तरं वर्तमाना रीतिः सत्परिपालनासद्दलनादिरूपा यस्य सः । प्रसन्ने विकसिते पुण्डरीके कमले इव लोचने नयने यस्य सः स एव पूर्वोक्तः कुण्डलीन्द्रभूधरप्रकाण्डस्य प्रशस्तशेषशैलस्य " प्रशंसावचनैश्च ” इति समासः । कुण्डलीन्द्र ’ इत्यादिपदस्योपसर्जनत्वात्पूर्वनिपातः । " मतल्लिका मचर्चिका प्रकाण्ड- मुद्ध-तल्लजौ । प्रशस्तवाचकानि " इत्यमरः । मण्डनायते भूषणवदाचरति । तत्र नित्यं निवसतीत्यर्थः । पञ्चचामरं वृत्तम् । “लघुर्गुरुर्निरन्तरं भजेत पञ्चचामरम्” इत्यादितल्लक्षणात् ॥ २०३ ॥

विश्वास-प्रस्तुतिः

अवलोकय तावद् उरग-वर-धरणीधर-शिरोमणेश् चक्रपाणेर् अतितर-सुकर-वर-निकर-वितरण-कौशलम् अतिपेशलम्11 ॥ ८१& ॥
मूकारब्धं कम् अपि बधिराः लोकम् आकर्णयन्ति
श्रद्धालुस् तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः ॥
अध्यारोहत्यहह सहसा पङ्गुरप्य् अद्रि-शृङ्गं
सान्द्रालस्याः12 शिशु-भरणतो मन्दमन्दन्ति वन्ध्याः ॥ २०४ ॥

मूलम्

अवलोकय तावदुरगवरधरणीधरशिरोमणेश्चक्रपाणेरतितरसुकरवरनिकरवितरणकौशलमतिपेशलम्11 ॥ ८१& ॥
मूकारब्धं कमपि बधिराः लोकमाकर्णयन्ति
श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः ॥
अध्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गं
सान्द्रालस्याः12 शिशुभरणतो मन्दमन्दन्ति वन्ध्याः ॥ २०४॥

मूलम्

अवलोकय तावदुरगवरधरणीधरशिरोमणेश्चक्रपाणेरतितरसुकरवरनिकरवितरणकौशलमतिपेशलम्11 ॥ ८१& ॥
मूकारब्धं कमपि बधिराः लोकमाकर्णयन्ति
श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः ॥
अध्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गं
सान्द्रालस्याः12 शिशुभरणतो मन्दमन्दन्ति वन्ध्याः ॥ २०४॥

बाल-कृष्णः

अवलोकयेति । उरगवरधरणीधरस्य श्रीशेषाचलस्य शिरोमणेः भूषणभूतस्य चक्रपाणेः श्रीविष्णोः, अतिपेशलं सुन्दरम् अतितरसुकरम् अतिशयसुलभं वरनिकराणां वरसमुदायानां वितरणस्य अर्पणस्य कौशलं चातुर्य तावदवलोकय पश्य ॥ ८१& ॥

वरार्पणकौशलमेवोपपादयति - मूकारब्धमिति । बधिराः कर्णरहिताः मूकैः अवाग्भिः वक्तृत्वशक्तिरहितैरिति यावत् । " अवाचि मूकः " इत्यमरः । आरब्धं पठितं कमपि ईश्वरगुणवर्णनपरं श्लोकं पद्यं “ पद्ये यशसि च श्लोकः " इत्यमरः । आकर्णयन्ति शृण्वन्ति । तं च श्लोकं कुणिः छिन्नहस्तः श्रद्धालुः श्रद्धायुक्तः सन् " स्पृहि - गृहि-पति-दयि - निद्रा तन्द्रा-" इत्यादिना आलुच् प्रत्ययः । विलिखति । अन्धो नेत्ररहितश्च श्वाघया प्रशंसया युक्तः, वीक्षते अवलोकयति । अहह इत्याश्रये । पङ्गुः पादरहितोऽपि सहसा त्वरया अद्रिशृङ्गं पर्वतशिखरम् अध्यारोहति । तथा वन्ध्याः स्त्रियस्तु शिशुभरणतः बालधारणतः पोषणतो वा, सान्द्रालस्याः अतिशयालस्ययुक्ताः सत्यः, मन्दमन्दन्ति अतिमन्दा भवन्ति । " सर्वप्रातिपदिकेभ्यः क्विव्वा वक्तव्यः " इति मन्दमन्दशब्दात् क्विपि रूपम् । मूकादयस्त्वीप्सितफलं सम्प्राप्यैवं कुर्वन्तीत्यर्थः । एतच्चरित्राणि श्रीवेङ्कटेश्वरमाहात्म्यादिपुराणतोऽवगन्तव्यानि ॥ २०४ ॥-

विश्वास-प्रस्तुतिः

सर्वतः पर्वतम् आलोक्य स-श्लाघम् —
सर्वोत्तुङ्गः श्रित-शुभ-गुहः13 साध्वभिख्यात-शीलः
भास्वद्-वंशोपचय-जनकः14 सानुजस्फूर्तिकोऽयम् ॥
एनं15 नूनं क्षितिभृतम् इयं जानती जानकीशं
कीश-श्रेणी कलय शरणी-कुर्वती वर्वरीति ॥ २०५ ॥

मूलम्

सर्वतः पर्वतमालोक्य सश्लाघम् -
सर्वोत्तुङ्गः श्रितशुभगुहः13 साध्वभिख्यातशीलो
भास्वद्वंशोपचयजनकः14 सानुजस्फूर्तिकोऽयम् ॥
एनं15 नूनं क्षितिभृतमियं जानती जानकीशं
कीशश्रेणी कलय शरणीकुर्वती वर्वरीति ॥ २०५ ॥

बाल-कृष्णः

सर्वत इत्यादि सुलभम् —

सर्वोत्तुङ्ग इति । अयं शेषाचलः सर्वेभ्यः शैलेभ्यः पक्षे जनेभ्यः उत्तुङ्गः उन्नतः श्रेष्ठश्च, श्रिताः स्थिताः शुभा गुहाः कन्दराः, पक्षे श्रितः आश्रितः शुभगुहः एतन्नामा कश्चिन्निषादश्च येन सः, साधुषु मध्ये अभिख्यातं प्रसिद्धं शीलं सद्वृत्तं यस्य तथाभूतः, भास्वन्तः प्रकाशमानाः ये वंशाः वेणवस्तेषाम् उपचयजनकः वृद्धयुत्पादकः, पक्षे भास्वतः सूर्यस्य वंशोपचयजनकः कुलविस्तारकरः, सानुभ्यः पर्वतशिखरेभ्यो जाता प्रथमोत्पन्ना स्फूर्तिः प्रकाशो यस्य, पक्षे अनुजानां लक्ष्मण भरतादीनां स्फूर्त्या कान्त्या सहितः सानुजस्फूर्तिकः । अस्तीति शेषः । अत एव एनं क्षितिभृतं पर्वत राजानं च नूनं निश्चयेन, जानकीशं सीतापतिं श्रीरामचद्रमेव जानती अवगच्छन्ती इयं कीशानां वानराणां श्रेणी पङ्क्तिः, शरणीकुर्वती रक्षकं गृहं वा कुर्वती सती, वर्वरीति भृशं पुनः पुनर्वावृणोति वेष्टयतीति यावत् । ’ वृज् आवरणे ’ इत्यस्माद्यड्- लुकि रूपम् । कलय अवलोकय । अत्र ‘सर्वोत्तुङ्ग’ इत्यादिश्लिष्टसहेतुकविशेषणैः शैले श्रीरामसम्भावनात् श्लेषविशिष्टोत्प्रेक्षालङ्कारः ॥ २०५ ॥

विश्वास-प्रस्तुतिः

पुनः सानन्दम्-
प्रकाशबहुपाद्रवत्यपि फणिक्षमाभृत्यदः16

प्रकाममवलोक्यते परममन्यदत्यद्भुतम् ॥
निजोरसि पयोधरश्चिरमचञ्चलां17 विद्युतम्
पयोधरमुरस्यसावपि बिभर्ति नित्यं निजे ॥ २०६ ॥

मूलम्

पुनः सानन्दम्-
प्रकाशबहुपाद्रवत्यपि फणिक्षमाभृत्यदः16

प्रकाममवलोक्यते परममन्यदत्यद्भुतम् ॥
निजोरसि पयोधरश्चिरमचञ्चलां17 विद्युतम्
पयोधरमुरस्यसावपि बिभर्ति नित्यं निजे ॥ २०६ ॥

भृत्यतः

पयोधरे, पयोधरं

बाल-कृष्णः

प्रकाशेति । प्रकाशाः दृश्याः बहवः पादाः प्रत्यन्तपर्वताः समन्तात् स्थिताः स्वल्पपर्वता इत्यर्थः । पादाः प्रत्यन्तपर्वताः " इत्यमरः । पक्षे चरणाश्च विद्यन्ते अस्येति तथाभूते, फणिक्षमाभृति शेषशैले सर्पराजे च, अदः इदं वक्ष्यमाणं, अन्यद् वस्तुतो गुप्तचरणस्य सर्पराजस्य प्रकाशबहुपादवत्त्वादितरत् परमं महद् अद्भुतम् आश्चर्ये, प्रकामं यथेच्छम् अवलोक्यते दृश्यते । अस्माभिरिति शेषः । तत्किमित्यपेक्षायामाह - पयोधरो मेघः निजोरसि स्वकीयवक्षःस्थले, चिरम् अचञ्चलां स्थिरां विद्युतं बिभर्ति । मेघसदृशः श्यामवर्णो भगवान् वक्षसि नित्यं लक्ष्मीं बिभ्रदत्र निवसतीति वास्तवोऽर्थः । असावपि विद्युदपि निजे उरसि पयोधरं मेघं वस्तुतः स्तनयुग्मं नित्यं बिभर्ति । इदमेवाश्चर्यमिति भावः । श्लेषमूलकविरोधाभासालङ्कारः । वास्तवार्थेन च तत्परिहारः ॥ २०६ ॥


  1. प्रष्ठ ↩︎ ↩︎

  2. द्वीपिराजिषु ↩︎ ↩︎

  3. विदितं ↩︎ ↩︎

  4. सह ↩︎

  5. दुत्पत्ति ↩︎ ↩︎

  6. इह ↩︎ ↩︎

  7. विश्वनिदानस्य ↩︎ ↩︎

  8. वर्णने ↩︎ ↩︎

  9. दधाने अयं पाठः अस्मत्सम्पादितादर्शपुस्तके उपलभ्यते, परं तस्मिन् अध्याहार - करणत्रासात् स नादृतः ↩︎ ↩︎

  10. मौनभाजा ↩︎ ↩︎

  11. रनितर ↩︎ ↩︎ ↩︎

  12. सान्द्रालस्या शिशुभरणतो मन्दमायाति वन्ध्या ↩︎ ↩︎ ↩︎

  13. सर्वोत्तुङ्गश्रितशुभगुहं साध्वभिख्यातशीतं भास्वद्वंशोपचयजनकं सानुजस्फूर्तिकायम्।एवं नूनं क्षितिभृतममुं, साध्वभिख्यातशीतो ↩︎ ↩︎

  14. द्वंशोच्चयन ↩︎ ↩︎

  15. एवं ↩︎ ↩︎

  16.  ↩︎ ↩︎
  17.  ↩︎ ↩︎