१४ कर्णाटदेशवर्णनम्

विश्वास-प्रस्तुतिः

अथ कर्णाटदेशवर्णनम्॥

इति व्योमयानमन्यतः स्पन्दयन्नग्रतो दृष्ट्वा सप्रत्यभिज्ञम् –
कर्णाटदेशो यः पूर्वं कर्णदेशमभूषयत् ॥
स एष साम्प्रतं पश्य चक्षुषोर्भूषणायते ॥ १६५ ॥

मूलम्

अथ कर्णाटदेशवर्णनम्॥

इति व्योमयानमन्यतः स्पन्दयन्नग्रतो दृष्ट्वा सप्रत्यभिज्ञम् –
कर्णाटदेशो यः पूर्वं कर्णदेशमभूषयत् ॥
स एष साम्प्रतं पश्य चक्षुषोर्भूषणायते ॥ १६५ ॥

बाल-कृष्णः

अथ कर्णाटदेशवर्णनप्रस्तावार्थमाह- इतीति । व्योमयानं विमानं अन्यतः स्पन्द- यन् गमयन्, अग्रतः अग्रभागे दृष्ट्वा प्रत्यभिज्ञा पुरोवर्तिनि पूर्वज्ञानविषयाभेदावगाहि ज्ञानं तत्सहितं यथा तथा । प्राहेतिशेषः ।-

कर्णाटेति । यः कर्णाटो नाम देशः पूर्वं कर्णदेशं श्रोत्रभागं, अभूषत् अलंकृतवान् श्रुत इत्यर्थः । स एषः कर्णाटदेशः चक्षुषोर्भूषणायते अलंकारवदाचरति दृश्यत इति भावः । सांप्रतं इदानीं “एतर्हि संप्रतीदानीमधुना सांप्रतं तथा" इत्य- मरः पश्य । तमिति शेषः ॥ १६५ ॥

विश्वास-प्रस्तुतिः

लोचनासेचनकं किल देशस्यास्य रामणीयकम् ॥ ६२& ॥
युग्मकम्1 -
प्रतिनगरमिहारामाः प्रत्यारामं पचेलिमाः क्रमुकाः ॥
प्रसवाः प्रतिक्रमुकमप्युत्सर्पति2 मधुततिः प्रतिप्रसवम् ॥ १६६ ॥
प्रतिमधुबिन्दु मिलिन्दाः प्रेङ्खन्ति प्रतिमिलिन्दमारावाः ॥
प्रत्यारावं सुदृशां मदा उदाराः प्रतिमदं मदनः ॥ १६७ ॥

लोचनेति । अस्य कर्णाटनाम्नो देशस्य रामणीयकम् रमणीयत्वम् लोचनयोः नेत्रयोः आसेचनकं चिरं दर्शनेपि तृप्त्यजनकं । " तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात्" इत्यमरः । किल निश्चयेन ॥ ६२& ॥

रामणीयकमेव युग्मकेनोपपादयति - प्रतिनगरमिति । इह कर्णाटदेशे नगरे नगरे इति प्रतिनगरम् । वीप्सायामव्ययीभावः । एवमग्रेऽपि । आरामाः उपवनानि । “ आरामः स्यादुपवनं " इत्यमरः । प्रत्यारामं प्रत्युपवनं च वाक्यत्रयेऽपि विलसन्तीति योज्यम् । पचेलिमाः पाकाभिमुखाः, क्रमुकाः पूगवृक्षाः प्रतिक्रमुकं च प्रसवाः पुष्पाणि, “स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने" इत्यमरः । प्रति- प्रसवं च मधुनः मकरन्दस्य ततिः बिन्दुसमूहः, प्रतिमधुबिन्दु च मिलिन्दाः भ्रमराः प्रेङ्खन्ति भ्रमन्ति । प्रतिमिलिन्दं प्रतिभ्रमरं च आरावा गुञजारवाः भवन्तीति शेषः । प्रत्यारावं प्रतिगुञ्जारवं च सुदृशां स्त्रीणां उदाराः महान्तः, मदाः विलासाः प्रतिमदं च मदनः कामः, उद्भवतीत्यर्थः ॥ १६६ ॥ १६७ ॥

विश्वास-प्रस्तुतिः

कृशानुः — हन्त कथमभिनन्दयसि निन्दनीयममुं देशम् ॥ ६३& ॥
तथाहि-
वेदवैदिकविद्वेषदूषिता भस्मरूषिताः ॥
चण्डाः सन्त्यत्र पाखण्डा लिङ्गालिङ्गितवक्षसः ॥ १६८ ॥

मूलम्

कृशानुः — हन्त कथमभिनन्दयसि निन्दनीयममुं देशम् ॥ ६३& ॥
तथाहि-
वेदवैदिकविद्वेषदूषिता भस्मरूषिताः ॥
चण्डाः सन्त्यत्र पाखण्डा लिङ्गालिङ्गितवक्षसः ॥ १६८ ॥

बाल-कृष्णः

हन्तेति । हन्त निन्दनीयं निन्दितुं योग्यं अमुं देशं, कथमभिनन्दयसि आनन्दयसि । एतद्दर्शनेन आनन्दं करोषीत्यर्थः ॥ ६३& ॥

वेदेति । वेदानां वैदिकानां च विद्वेषेण दूषिताः दोषयुक्ताः, भस्मना भूत्या “भूतिर्भसित भस्मनि” इत्यमरः । रूषिताः विलिप्तशरीराः, अत एव चण्डाः भयंकराः कोपयुक्ता वा । पाखण्डाः वेदशास्त्रभ्रष्टाः, लिङ्गैः रूप्यमयैः आलिङ्गितानि वक्षांसि येषां तथाभूताः, अर्थात् ’ लिङ्गाईत ’ इति महाराष्ट्रभाषाप्रसिद्धा लोकाः । एतेषां हि वक्षसि - लिङ्गधारणं कुलपरंपराप्राप्तम् । अत्र कर्णाटदेशे सन्ति ॥ १६८ ॥

विश्वास-प्रस्तुतिः

आकर्णय तावदन्यदप्यमीषामपचरितम् ॥ ६४& ॥
शिरः पुरारेर्द्विजराजपाददिव्यामृतैः सिक्तमितीर्ष्ययेव ॥
शूद्रा इमे लिङ्गधराः स्वयं तत्स्वपादतोयैः स्नपयन्ति कष्टम् ॥ १६९ ॥

मूलम्

आकर्णय तावदन्यदप्यमीषामपचरितम् ॥ ६४& ॥
शिरः पुरारेर्द्विजराजपाददिव्यामृतैः सिक्तमितीर्ष्ययेव ॥
शूद्रा इमे लिङ्गधराः स्वयं तत्स्वपादतोयैः स्नपयन्ति कष्टम् ॥ १६९ ॥

बाल-कृष्णः

आकर्णयेति । अपचरितम् दुराचारः । अन्यत्सुगमम् ॥ ६४& ॥

एते लोका हि स्वपादोदकेन शंकरमभिषिञ्चन्ति, अयमेव तेषां महाननाचारः इति सोत्प्रेक्षमाह - शिर इति । पुरारेः श्रीशंकरस्य शिरः द्विजराजस्य ब्राह्मणश्रेष्ठस्य पादयोः, द्विजराजश्चन्द्रः " द्विजराजः शशधरः" इत्यमरः । तस्य पादानां किरणानां च इति वा । किंवा द्विजस्य पक्षिणः अर्थात् गरुडस्य राजा अधिपतिर्विष्णुः तस्य पादसंबन्धीनि यानि दिव्यामृतानि गङ्गाजलानि तैः, पक्षे पीयूषैः, पक्षे शुद्धजलैरिति च । अत्र मुद्रितैकस्मिन्पुस्तके द्विजराजशब्दस्य ब्राह्मणश्रेष्ठ इत्यर्थान्तरं टीकाकारोक्तं टि- प्पणीकारेण ‘गङ्गायाः ब्राह्मणपादजलत्वेन कुत्रापि प्रसिद्ध्यभावात्’ इति हेतु पुरस्कारेण खण्डितम् । परं च तेन टीका नैवसम्यगवलोकितेति प्रतिभाति । टीकायां ‘द्विजराजपाद- दिव्यामृतैः’ इत्येतद्घटकदिव्यामृतशब्दस्य दिव्यजलैरित्येवार्थः कृतः, नतु गङ्गाजलैरिति । किंच ‘ईर्ष्ययेव’ इत्युत्प्रेक्षास्वारस्यार्थं तादृशार्थकरणमेव युक्ततरम् । न हि तावत् चन्द्रेण सह तेषामीर्ष्या संभवति । नापि विष्णुना सह । शैवमताभिमानिनस्ते श्रीविष्णुं मा भजन्तु परंतु न तस्मै ईर्ष्यन्ति । तादृशसामर्थ्याभावात् । इति ममाभिप्रेतम् । अत्रापि युक्तायुक्तविवेचनं विद्वदधीनम् । सिक्तं अभिषिक्तं इतीर्ष्ययैव अक्षमयैवेत्युत्प्रेक्षा । “अक्षान्तिरीर्ष्यासूया तु” इत्यमरः । इमे शूद्राः अनेन तेषामनधिकारित्वं द्योतितम् । स्वयं लिङ्गधराश्च सन्तः तत् शिवशिरः स्वपादतोयैः स्वकीयचरणोदकैः स्नपयन्ति अभिषिञ्चन्ति । कष्टम् अन्याय्यम् ॥ १६९ ॥

विश्वास-प्रस्तुतिः

वि॰-सखे मैवं संगदिष्ठाः3 । यदस्मिन्देशे यदुशैलप्रभृतीनि दिव्य- क्षेत्राणि दृश्यन्ते ॥ ६५& ॥

मूलम्

वि॰-सखे मैवं संगदिष्ठाः3 । यदस्मिन्देशे यदुशैलप्रभृतीनि दिव्य- क्षेत्राणि दृश्यन्ते ॥ ६५& ॥

बाल-कृष्णः

सख इत्यादि । मैवं संगदिष्ठाः मा वद । ’ गदी देवशब्दे’ इति चौरादेरुभयपदिनो धातोर्माङ्योगे लुङि आत्मनेपदे रूपम् । “ अनित्यण्यन्ताचरादयः " इति पक्षे णिजभावः । यत् यस्मात् अस्मिन् देशे यदुशैलः ’ नारायणपुरम् ’ इति भाषाप्रसिद्धः । प्रभृतिः प्रमुखो येषु तादृशानि दिव्यक्षेत्राणि दृश्यन्ते । अनेन दिव्यक्षेत्रसत्वादेवायं देशो न दूषणीय इति सूचितम् ॥ ६५& ॥

विश्वास-प्रस्तुतिः

‘दुरितमवनतानां दुर्निरोधं4 निरुन्धन्
सितमतिभिरतन्द्रैः5 सेव्यमानो मुनीन्द्रैः ॥
यदु गिरिरयमिन्धे यत्र नारायणात्मा
विलसति6 किल हर्षं नीलमेघः प्रवर्षन् ॥ १७० ॥

मूलम्

‘दुरितमवनतानां दुर्निरोधं4 निरुन्धन्
सितमतिभिरतन्द्रैः5 सेव्यमानो मुनीन्द्रैः ॥
यदु गिरिरयमिन्धे यत्र नारायणात्मा
विलसति6 किल हर्षं नीलमेघः प्रवर्षन् ॥ १७० ॥

बाल-कृष्णः

दुरितमिति । अवनतानां भक्त्या नम्राणां दुर्निरोधं नाशयितुमशक्यं, दुरितं पापं निरुन्धन् विनाशयन्, अतो हेतोरेव सितमतिभिः शुद्धबुद्धिभिः अतन्द्रैः आल- स्यरहितैश्च मुनीन्द्रैः सेव्यमानः सन्, अयं यदुगिरिः यदुशैलः इन्द्धे प्रकाशते । यत्र यस्मिन् पर्वते नारायणात्मा भगवद्विष्णुरूपः नीलमेघः हर्षमानन्दं प्रवर्षन् सन्, विलसति किल शोभते । एतेन भगवतो मेघरूपवर्णनेन “मेघ पर्वतयोरब्धि-चन्द्रयोर्दृष्टिरम्ययोः । शिखितोयदयोर्लोके सिद्धा मैत्री स्वभावतः” इत्यौचिती प्रदर्शिता ॥ १७० ॥

विश्वास-प्रस्तुतिः

सभक्त्युन्मेषम्7 -
यदुगिरितटागारा स्वाराजमौलिपरिस्फुर-
न्मणिगणमहोधारानीराजिताङ्घ्रिसरोरुहा8
नवजलधराकारा नारायणाह्वयभूषिता
निरवधिदयासारा9 सा राजते परदेवता ॥ १७१ ॥

मूलम्

सभक्त्युन्मेषम्7 -
यदुगिरितटागारा स्वाराजमौलिपरिस्फुर-
न्मणिगणमहोधारानीराजिताङ्घ्रिसरोरुहा8
नवजलधराकारा नारायणाह्वयभूषिता
निरवधिदयासारा9 सा राजते परदेवता ॥ १७१ ॥

बाल-कृष्णः

यदुगिरीति । यदुगिरेस्तटं शिखरं अगारं निवासभवनं यस्याः सा " भवनागारमन्दिरम् " इत्यमरः स्वाराजस्य स्वर्गाधिपतेरिन्द्रस्य मौलौ मस्तके परिस्फुरन्तः प्रकाशमाना ये मणिगणा रत्नसमूहास्तेषां यानि महांसि तेजांसि तेषां धाराभिः परंपराभिः नीराजिते प्रदीप्ते अङ्घ्रिसरोरुहे चरणकमले यस्याः सा । अर्थान्नमस्कारावसरे इति ज्ञेयम् । एतेनेन्द्रादयोऽप्येतद्दर्शनार्थमत्रागच्छन्तीत्यतोऽतिशयमाहात्म्यमस्य प० चैतस्य सूचितम् । नवजलधरस्य नूतनमेघस्येवाकारो यस्याः सा, निरवधिर्निःसीमः दयासारः कृपासामर्थ्यं यस्याः सा, नारायण इत्याह्वयेन नाम्ना भूषिता एतादृशी सा परदेवता राजते शोभते ॥ १७१ ॥

विश्वास-प्रस्तुतिः

सभक्त्युन्मेषम् -
यदुगिरितटागारा स्वाराजमौलिपरिस्फुर-
न्मणिगणमहोधारानीराजिताङ्घ्रिसरोरुहा ॥
नवजलधराकारा नारायणाह्वयभूषिता
निरवधिदयासारा सा राजते परदेवता ॥ १७१ ॥

पुनः सविस्मयम्—
यः प्रभुर्यादवक्ष्माभृत्पुरस्कृत्या पुरा बभौ ।
अधुना यादवक्ष्माभृदधःकृत्या10 स भात्यहो ॥ १७२ ॥
सश्लाघम्-
भूभृत्यस्मिन् पक्षिराजेन पूर्व श्वेतद्वीपादाहृतां श्वेतमृत्स्नाम् ॥
धन्या नित्यं धारयन्तो ललाटे मालीमस्यं मानसं11 निर्मृजन्ति ॥ १७३ ॥

किंच य इति । यः प्रभुः नारायणः पुरा कृष्णावतारे यादवानां क्ष्माभृद्राजा उग्रसेनः तस्य पुरस्कृत्या राज्यप्रदानरूपपूजया, यादवानां तु ययातिशापात् राज्यासनानर्हत्वमिति भावः । ययातेः शापप्रकारस्तु श्रीमद्भागवतस्य नवमस्कन्धतो ज्ञातव्यः । कृष्णेनोग्रसेनाय राज्यं कथं समर्पितमित्यपि भागवतदशमस्कन्धपूर्वार्द्धतोऽवगन्तव्यम् । बभौ शुशुभे । स एव नारायणः अधुना सांप्रतं यादवक्ष्माभृतो यदुशैलस्य, अधः- कृत्या अधोभागकरणेन भाति । अहो आश्चर्यमिदम् । श्लेषेण विरोधालंकारः ॥ १७२ ॥

भूभृतीति । अस्मिन् भूभृति पर्वते “ भूभृद्भूमिधरे नृपे इत्यमरः । पूर्वं कृतयुगे श्वेतद्वीपात् पक्षिराजेन गरुडेन आहृतामानीताम्, श्वेतमृत्स्नां श्वेतमृत्तिकाम् गोपीचन्दनरूपाम् । मृत्सा मृत्स्ना च मृत्तिका " इत्यमरः । नित्यं ललाटे मस्तके तिलकरूपेण धारयन्तः अत एव धन्याः पुण्यवन्तः सन्तः, मालीमस्यं मलीमसमेव मालीमस्यं स्वार्थे ष्यञ् । मलिनमित्यर्थः । मानसं मनः ‘मानसात्’ इति पाठे मालीमस्य मलिनत्वमित्यर्थः । निर्मृजन्ति शोधयन्ति ॥ १७३ ॥

विश्वास-प्रस्तुतिः

किंच-
विष्णुपद्याकलनया विश्रुतो12 विमलाशयः ॥
कासारोऽत्र हरत्येनः कविः कंसारिभागिव ॥ ९७४ ॥
इति विमानमितरत्र परिस्पन्दयन् सानन्दम्-
रजतपीठपुरं ननु काञ्चनश्रियमिदं वहते महदद्भुतम् ।
इह वसन् शुभरीतिवहो13 बुधः परमयोगत एव विराजते ॥ १७५ ॥

विष्णुपद्येति । किंच विष्णुपद्याः गङ्गायाः " गङ्गा विष्णुपदी जह्नुतनया" इत्य- मरः । विष्णोः संबन्धिपद्यानां श्लोकानां आकलनया संगत्या रचनया च विमलः निर्मलः आशयः अभिप्रायः स्थानं च यस्य सः, अत एव विश्रुतः प्रसिद्धः । कासारः सरोवरं, अत्र यदुशैले कंसारिं श्रीकृष्णं भजतीति कंसारिभाकू श्रीकृष्णभक्त इत्यर्थः । कविरिव एनः पापं हरति । उपमालंकारः ॥ १७४ ॥

इतीति । परिस्पन्दयन् गमयन् । सुगममन्यत् ।

रजतेति । रजतपीठं नाम पुरं नगरं ’ सुवनूरु ’ इति कर्णाटभाषानाम । इदं काञ्चनस्य सुवर्णस्य श्रियं शोभां पक्षे कांचन अवर्णनीयां श्रियमिति च वहते धारयति । एतन्महदद्भुतम् महदाश्चर्यम् । रजतस्य काञ्चनशोभाधारणत्वमत्यन्ताश्चर्यावहमिति भावः । कुतः इह रजतपीठपुरे वसन् वासं कुर्वन्, शुभां रीतिं आचारं आरकूटं च वहतीति तद्वहः " रीतिः स्त्रियामारकूटः " इत्यमरः । परमश्चासौ योगः समाधिः तेन, सार्वविभक्तिकस्तसिः । पक्षे परं अयसि लोहे गतः प्राप्त एवेति च । बुधः आनन्दतीर्थनामा ज्ञानी विराजते शोभते ॥ १७५ ॥

विश्वास-प्रस्तुतिः

पुनः सश्लाघम्-
अच्छैर्द्विजेन्द्रैरमृताभिलाषादासेवितो14 भुव्यभिजातकीर्तिः ॥
आनन्दतीर्थाह्वयमत्र कश्चिदन्वर्थयन्नाविरभून्मुनीन्द्रः ॥ १७६ ॥
क्रु० – अस्तु तावदेवमथाप्यदसीयदर्शनानुवर्तिनामधुनातनानां द्विजानामपि बहव आकर्ण्यतामपचाराः ॥ ६६& ॥

अच्छैरिति । अच्छैः शुद्धान्तःकरणैः शुभैश्च द्विजेन्द्रेः ब्राह्मणश्रेष्ठैः पक्षिश्रेष्ठैः राजहंसादिभिश्च अमृतस्य मोक्षस्य जलस्य च अभिलाषात् इच्छायाः, हेतौ पञ्चमी । आसेवितः भुवि अभिजाता कीर्तिर्यशः पङ्कश्च यस्य सः अत एव आनन्दतीर्थमिति आह्वयं नाम अन्वर्थयन् यथार्थ कुर्वन्, अत्र कश्चिन्मुनीन्द्रः आविरभूत् प्रकटो बभूव ॥ १७६ ॥

अस्त्विति । अस्तु तावदेवं त्वदुक्तप्रकारं, अथापि अमुष्य आनन्दतीर्थस्य संबन्धि अदसीयं तच्च तद्दर्शनं शास्त्रं च तदनुवर्तिनां तदनुसारिणां अधुनातनानां, इदानींतनानां द्विजानां ब्राह्मणानामपि, आकर्ण्यतां बहवः न तु एकः, अपचाराः अनाचाराः ॥ ६६& ॥

विश्वास-प्रस्तुतिः

सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः
सवितरि गतबाल्ये काव्यसंध्यामुपास्ते ॥
तदपि भुवि न मान्यं मन्यते धन्यमन्यम्
त्यजति विहितहानात्साध्वसं माध्वसंघः ॥ ९७७ ॥

मूलम्

सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः
सवितरि गतबाल्ये काव्यसंध्यामुपास्ते ॥
तदपि भुवि न मान्यं मन्यते धन्यमन्यम्
त्यजति विहितहानात्साध्वसं माध्वसंघः ॥ ९७७ ॥

बाल-कृष्णः

सततमिति । मध्वस्य आनन्दतीर्थस्येमे माध्वाः तेषां संघः समुदायः, सततं निरन्तरं अकृता नाचरिता प्रातःकालविहितायाः संध्यायाः उपास्तिरनुष्ठानं येन तथाभूतः सन्नैव, अभ्यस्तशास्त्रः सन्नपि, न तु अज्ञः, सवितरि सूर्ये, गतं बाल्यं उदयावस्था यस्य तथाभूते सति, काले प्रातःकाले विहिता काल्या सा चासौ संध्या च तां उपास्ते । तथा च एतादृशसंध्यानुष्ठानं निष्फलमेव । “उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातः संध्या त्रिधा स्मृता ॥ " इति स्मृतेः । तदपि एवमनाचारं कुर्वन्नपि, भुवि अन्यं मतान्तरस्थं मान्यं विद्वांसमपि, धन्यं यथोक्तकर्मानुष्ठानादिना पुण्यवन्तं च न मन्यते । तस्य महत्त्वं नैव गणयतीत्यर्थः । अपि च विहितस्य काले संध्याद्यनुष्ठानस्य हानात् त्यागात्, साध्वसं पारलौकिकभयं च त्यजति । अर्थात् शास्त्रादिकमभ्यस्यापि नास्तिक इवाचरतीति तात्पर्यम्॥१७७ ॥

विश्वास-प्रस्तुतिः

किंच-
गायत्रीं सहसा जहद्भगवतीं यज्ञोपवीतं त्यजन्
मुञ्चन् किंच शिखां विरक्त इव यः संप्राप्ततुर्याश्रमः ॥
आरूढश्चतुरन्तयानमभयो हा हन्त देशान्तरे-
ष्वर्थानामुपसंग्रहाय विचरत्येषोऽप्यमीषां गुरुः ॥ १७८ ॥
अहो महानेष व्यामोहो विदुषामपि कलिमाहात्म्यात् ॥ ६७& ॥

गायत्रीमिति । किंच यः सहसा अविवेकेन भगवतीं ज्ञानसंपादयित्रीं गायत्रीं गायत्रीजपं जहत् त्यक्त्वा, यज्ञोपवीतं च त्यजन् त्रोटयित्वेत्यर्थः । किंच शिखामपि मुञ्चन् उत्पाटय, संप्राप्तः स्वीकृतः तुर्याश्रमः चतुर्थाश्रमः संन्यासाश्रम इत्यर्थः । विरक्त इव वस्तुतस्तु अविरक्त एव, चतुरन्तयानं चतुर्भिर्वाह्यं आन्दोलिकारूपमित्यर्थः । आरूढः सन्, अभयः लोक-शास्त्रभयरहितः, देशान्तरेषु अर्थानां द्रव्याणां उपसंग्रहाय विचरति परिभ्रमति । एषः एतादृशाचारभ्रष्टोऽपि, अमीषां माध्वानां गुरुर्भवति हन्तेति खेदे । वस्तुतः संन्यासिना विरक्तेन भाव्यं, विरक्तं प्रत्येव तस्य विधानात् । अयं माध्वसंन्यासी तु दम्भार्थमेव संन्यासाश्रमं स्वीकृत्य शिबिकामारुह्य द्रव्यमर्जयति राजादिवत् । एतेनाचरणेन विरक्तिस्तु नैव परं विषयासक्तिरधिकं वर्धते । तेन चान्ते नरकपात एव स्यादिति भावः ॥ १७८ ॥,

अहो इति । एष वक्ष्यमाणरूपः विदुषामपि व्यामोहो भ्रमः ॥ ६७& ॥

विश्वास-प्रस्तुतिः

पश्य-
यस्य क्वापि विलोकने सवसनं स्नानं बुधैः स्मर्यते
यस्यान्नग्रहणे च निष्कृतितया चान्द्रायणं चोदितम् ॥
तस्य प्रत्युत वाहनस्थितयतेर्दृष्टिर्विमुक्तिप्रदा
तस्यान्नं च समस्तपापहृदिति प्रत्येति विद्वानपि ॥ १७९ ॥

यस्येति । यस्य वाहनस्थितयतेः क्वापि यत्रकुत्रापि नतु विवक्षितस्थलविशेष एव, विलोकने दर्शने सति, बुधैः पण्डितैः सवसनं सचैलं स्नानं स्मर्यते । तच्चेत्थम् -

वाहनस्थं यतिं दृष्ट्वा सचैलस्नानमाचरेत् " इति । यस्य वाहनस्थयतेरेव अन्नग्रहणे अन्नस्वीकारे च सति, निष्कृतितया प्रायश्चित्तरूपेण " ब्रह्मचारियतीनां तु भुक्त्वा चान्द्रायणं चरेत् " इत्यादिस्मृत्या चान्द्रायणं शुक्लपक्षे प्रतिपद्दिनमारभ्य एकैकान्नग्रासवृद्ध्या, कृष्णपक्षे चैकैकग्रासहान्या च भोजनरूपं, चोदितमुक्तम् । तस्य प्रत्युत विरुद्धाचरणशीलस्येत्यर्थः । वाहने स्थितस्य यतेः संन्यासिनः दृष्टिर्दर्शनं विमुक्तिं प्रददातीति तथाभूता, तस्यान्नं च समस्तानि निखिलानि पापानि हरतीति हत् इति विद्वानपि न तु अविद्वानेव । प्रत्येति जानाति निश्चिनोतीत्यर्थः ॥ १७९ ॥

व्याख्या

पश्य तावत्कलिकालनरपालस्य गृहस्थेषु प्रद्वेषं भिक्षुषु पक्षपातं च ॥ ६८& ॥
भिक्षां कष्टमन्ति कुक्षिभृतये पादौ गतैः क्लेशय-
न्त्याच्छन्नाः शिथिलैः पटैश्च गृहिणो जीर्णे गृहे शेरते ॥
राजत्सूक्ष्मपटाः प्रशस्तशिबिकारूढा गृहिभ्योऽन्नदा
ग्रावव्यूहदृढे मठे स्थितिजुषो धन्या हि संन्यासिनः ॥ १८० ॥

पश्येति । तावत्कलिकालरूपस्य नरपालस्य राज्ञः गृहस्थेषु गृहस्थाश्रमिषु प्रद्वेषं, भिक्षुषु संन्यासिषु “भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी” इत्यमरः । पक्षपातं च पश्य ॥ ६८& ॥

भिक्षामिति । गृहिणी गृहस्थाश्रमिणः कुक्षिभृतये उदरपोषणार्थं भिक्षां भिक्षार्थम् अटन्ति संचरन्ति । गतैः गमनैः पादौ क्लेशयन्ति च । शिथिलैर्जीर्णैः पटैर्वस्त्रैश्चाच्छन्नाः सन्तः जीर्णे गृहे शेरते शयनं कुर्वन्ति निवसन्तीत्यर्थः । " शीङो रुट्” इति झस्य रुडागमः । संन्यासिनो हि संन्यासिनस्तु गृहिभ्यो गृहस्थाश्रमिभ्योऽन्नदा अन्नप्रदातारः, भिक्षुभ्यो गृहस्थैरन्नं देयमिति हि वास्तवो धर्मः । राजन्तः शोभमानाः सूक्ष्माश्च पटा वस्त्राणि येषां ते तथाभूताः, बहिर्गमन वेलायामिति शेषः । प्रशस्तायां विस्तृतायां शिविकायामान्दोलिकायाम् आरूढाश्च सन्तः, ग्राव्णां पाषाणानां “पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् " इत्यमरः । व्यूहैः समूहैः दृढे अभेद्ये मठे, स्थितिं वासं जुषन्ति कुर्वन्तीति तथोक्ताः ते धन्याः । धन्यपदमेतन्निन्दाद्योतकम् ॥ १८० ॥

विश्वास-प्रस्तुतिः

अन्यच्च-
अनभ्यस्य वेदानहो शास्त्रवादान्
पठन्तः स्फुटं ये बतैतन्मतस्थाः ॥
अधीशाननादृत्य तद्भृत्यपूजा-15
पराणां नराणां पदं ते भजन्ते ॥ १८१ ॥

मूलम्

अन्यच्च-
अनभ्यस्य वेदानहो शास्त्रवादान्
पठन्तः स्फुटं ये बतैतन्मतस्थाः ॥
अधीशाननादृत्य तद्भृत्यपूजा-15
पराणां नराणां पदं ते भजन्ते ॥ १८१ ॥

बाल-कृष्णः

अनभ्यस्येति । ये लोकाः वेदान् अनभ्यस्य वेदाभ्यासमकृत्वेत्यर्थः । अहो केवलं शास्त्रवादानेव पठन्तः सन्तः, एतन्मतस्थाः माध्वमताभिमानिनः, वेदाध्ययनाभावे केवलं शास्त्राध्ययने दोषमाहुर्मन्वादयः । यथा - " योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ " इति । ते लोकाः अधीशाननादृत्य तिरस्कृत्य तद्भृत्यपूजापराणां तेषां अधीशानां भृत्यपूजायां सेवकपूजायां परा आसक्तास्तेषां नराणां पदं स्थानं, स्फुटं स्पष्टं यथा तथा लभन्ते । बतेति खेदे । यथा तावत्प्रभुसेवामुपेक्ष्य तद्धृत्य सेवका निन्द्याः दण्डार्हाश्च भवन्ति, तथा एते माध्वा अपि निखिलपुरुषार्थसाधकं वेदमनादृत्य केवलं शास्त्रपठनपरा इहलोके निन्द्याः, परलोके च तीक्ष्णयमयातनाभुज एवेति भावः ॥१८१ ॥

विश्वास-प्रस्तुतिः

किंच-
एकादश्यां कालयोर्होमहाना-
देषामग्निर्लौकिकत्वं यदागात् ॥
तस्मादेषां व्यर्थहिंसानिवृत्त्यै
स्यादुत्कृष्टः पिष्टपश्वादरोऽपि ॥ १८२ ॥

मूलम्

किंच-
एकादश्यां कालयोर्होमहाना-
देषामग्निर्लौकिकत्वं यदागात् ॥
तस्मादेषां व्यर्थहिंसानिवृत्त्यै
स्यादुत्कृष्टः पिष्टपश्वादरोऽपि ॥ १८२ ॥

बाल-कृष्णः

एकादश्यामिति । किंच एकादश्यां एकादशीदिने कालयोः प्रातः सायमित्युभयोः, सप्तमीयम् । होमहानात्, यतस्तन्मते स्नान-संध्या-विष्ण्वर्चनत्रयातिरिक्तस्य कर्ममात्रस्यैकादश्यां त्यागावश्यकत्वम् । एषां माध्वानां यदा अग्निः गार्हपत्यादिः लौकिकत्वं आगात् प्राप्तः एककालहोमाकरणे अलौकिकत्वं श्रुतिस्मृतिविहितम् । तस्मात्कारणादेषां व्यर्थहिंसायाः प्राकृताग्नौ कृतहविस्त्यागस्य व्यर्थत्वात् निष्फल - पशुहिंसायाः निवृत्त्यै निवारणार्थं पिष्टपशोः आदरोऽङ्गीकारोऽपि उत्कृष्टः स्यात् । एवं च एकादश्यां होमत्यागात् यज्ञसमये च कुत्रापि शास्त्रे अविहितस्य पिष्टपश्वालम्भनस्य च करणात् निन्द्या एवैते इति भावः ॥ १८२ ॥

विश्वास-प्रस्तुतिः

वि॰—किमरे केशवभक्तिप्रकर्षदीप्रानपि विप्रान् दूषयसि ? शुद्धा16 किल मध्वसिद्धान्तनिष्ठानामियं हृदयं17 जरीहरीति रीतिः ॥ ६९& ॥

आबालस्थविरं स्थिरं हरिदिने शुद्धोपवासव्रतम् ॥
निष्प्रत्यूहमहर्निशं18 विजयते नारायणाराधनम् ॥
श्लाघ्या भागवतेषु भक्तिरमिता19 श्रद्धा च येषां दृढा
शास्त्रे स्वीयगुरूदिते20 न चरितं साध्वेषु माध्वेषु किम्? ॥ १८३ ॥

किमिति । किमरे केशवभक्तेर्विष्णुभक्तेः प्रकर्षेणाधिक्येन दीप्रान् तेजोयुक्तानपि “नमि-कम्पि- " इत्यादिना रः । विप्रान् दूषयसि ? परंतु मध्वसिद्धान्ते मध्वाचार्य प्रोक्तशास्त्रे निष्टा आसक्तिर्येषां तेषां इयं वक्ष्यमाणा शुद्धा दूषणानर्हा रीतिराचारः, हृदयं जरीहरीति वारंवारं भृशं वा हरति । अतिमनोहरेत्यर्थः । ’ हृञ् हरणे’ इत्यस्माद्यङ्लुकि लटि रूपम् । " यङो वा " इतीडागमः । " ऋतश्च " इत्यभ्यासस्य रीगागमश्च ॥ ६९& ॥

आबालेति । येषां माध्वानां आबालस्थविरं बालमारभ्य वृद्धपर्यन्तं “आङ्मर्यादा - " इति समासः । हरिदिने एकादशीदिने स्थिरं शुद्धं उपवासस्य निराहारस्य व्रतं नियमः । विजयते सर्वत्रेदमेव क्रियापदमन्वेतव्यम् । अहर्निशं निष्प्रत्यूहं निर्विघ्नं यथा तथा नारायणस्य विष्णोः आराधनं सेवनं, भागवतेषु भगवद्भक्तेषु च श्लाघ्या स्तुत्या अमिता अतुला भक्तिः, स्वीयगुरुभिः उदिते कथिते शास्त्रे दृढा कदापि विनाशरहिता, श्रद्धा आस्तिक्यबुद्धिश्च विजयते सर्वोत्कर्षेण विद्यते । तस्मात् एषु माध्वेषु साधु शोभनं चरितं न किम् ! अपि तु अस्त्येवेत्यर्थः ॥ १८३ ॥

विश्वास-प्रस्तुतिः

एतद्गुरूणां पुनर्यतीनामेषामाकलितदोषवैधुर्या एषा शुभचर्या ॥७०&॥
दनुजभिदभिषेकैः सत्पुराणावलोकैः21
पुनरपहतमोहैः पुण्यतीर्थावगाहैः ॥
भवकथनविदूरैर्ब्रह्मविद्याविचारैः22
क्षणमिव शुभचर्याः23 कालमेते नयन्ति ॥ १८४ ॥

एतदिति । एतेषां माध्वानां गुरवस्तेषां पुनर्यतीनां संन्यासिनां एषां, आकलितं प्राप्तं दोषाणां पूर्वोक्तानां वैधुर्यमभावो यस्याः सा तथोक्ता एषा वक्ष्यमाणा शुभचर्या शुभाचरणम् ॥ ७० ॥

दनुजेति । दनुजान् दैत्यान् " असुरा दैत्य- दैतेय - दनुजेन्द्रारि - दानवाः " इत्यमरः । भिनत्ति नाशयति तथोक्तो विष्णुस्तस्याभिषेकैः, भवस्य संसारस्य कथनेन विदूरैः रहितैः पुनश्च अपहतो नष्टो मोहोऽज्ञानं यैस्तथाभूतैः, यच्छ्रवणादिना सद्योमोहनिराकरणं भवति तथोक्तैरित्यर्थः । सत्पुराणानां भगवच्चरितप्रतिपादकत्वेन प्रशस्तपुराणग्रन्थानां अवलोकैः विचारैः, ब्रह्मविद्याया वेदान्तशास्त्रस्य विचारैश्च । अपहृतमोहैः ’ ’ भवकथन –’ इत्यादिविशेषणद्वयमत्राप्यनुषञ्जनीयम् । पुण्यतीर्थानां गङ्गादीनामवगाहैः स्नानैश्च शुभा निर्मला चर्या आचरणं येषां तथाभूता एते संन्यासिनः क्षणमिव कालं नयन्ति निर्यापयन्ति ॥ १८४ ॥

विश्वास-प्रस्तुतिः

यदपि तदुपरि त्वया दूषणमुपन्यस्तं तदपि मदपिहितहृदयेभ्यो24 भवादृशेभ्य एव रोचते न तु गुणग्राहिभ्यः ॥ ७१& ॥
तत्तद्देशनिवासिशिष्यनिवहत्राणाय गुर्वाज्ञया
संचाराक्षम एष विन्दति यतिश्चेद्वाहनं का क्षतिः ? ॥
दत्तं वित्तमशेषमास्तिकजनैर्दैत्यारिनित्यार्चना-
सात्कृत्य स्वयमस्पृशन् वसति चेन्निन्दास्ति किं तावता? ॥ १८५ ॥

यदपीति । यदपि त्वया ’ सततमकृत संध्योपास्तिः’ इत्यादिना तदुपरि माध्व-संन्यासिषु दूषणमुपन्यस्तमारोपितं, तदपि मदेनाज्ञानेन पिहितमाच्छादितं हृदयमन्तःकरणं येषां तेभ्यो भवादृशेभ्यस्त्वत्सदृशेभ्य एव " आ सर्वनाम्नः” इति भवच्छब्दस्याकारादेशः । रोचते । गुणग्राहिभ्यस्तु न, रोचते इत्यनुषञ्जनीयम् ॥ ७१& ॥.

अथ ’ भिक्षां कष्टमटन्ति -’ इत्यादिनोक्तं दूषणं निराकरोति तत्तद्देशेति । एष यतिः माध्वसंन्यासी गुरोः मध्वाचार्यस्य आज्ञया ’ देशान्तरनिवासिनः शिष्यान् मन्त्रोपदेशेनानुगृहाण इत्यात्मिकया तत्तद्देशनिवासिनः निकृष्टदेशवासिनः शिष्यनिवहस्य शिष्यसमूहस्य " समूहे निवह-व्यूह” इत्यमरः । त्राणाय मन्त्रोपदेशद्वारेण रक्षणाय संचारे केवलं पादमात्रेण गमने अक्षमः सन् वाहनं शिबिकादिरूपं विन्दति चेत् का क्षतिः हानिः ? तथा अस्ति परलोक ईश्वरो वा इति बुद्धिर्येषां तैर्जनैः दत्तं समर्पितं अशेषं संपूर्णमपि वित्तं दैत्यारेः श्रीविष्णोः नित्यार्चनायाः नित्यपूजायाः सात्कृत्य अधीनं कृत्वा " तदधीनवचने” इति सातिः । स्वयं अस्पृशन् सन् वसति चेत्, तावता निन्दा अस्ति किम् ? नास्त्येवेत्यर्थः । गुर्वाज्ञया परोपकारार्थं वाहनेन देशान्तरसंचारादौ न कोऽपि दोष इति भावः ॥ १८५ ॥

विश्वास-प्रस्तुतिः

किंच-
स्वामिनि विनियुक्तानां स्वत्वेनानध्यवस्यता25 यतिना ॥
क्वत्यं यत्यन्नत्वं प्रत्यवयन्त्यत्र तद्भुजश्च26 कुतः॥१८६ ॥

मूलम्

किंच-
स्वामिनि विनियुक्तानां स्वत्वेनानध्यवस्यता25 यतिना ॥
क्वत्यं यत्यन्नत्वं प्रत्यवयन्त्यत्र तद्भुजश्च26 कुतः॥१८६ ॥

बाल-कृष्णः

इदानीं ’ यस्य क्वापि विलोकने’ इत्यादिनोक्तं दूषणं परिहरन्नाह - स्वामिनीति । किंच स्वत्वेन स्वकीयत्वेन अनध्यवस्यता अनभिमन्यमानेन यतिना माध्वसंन्यासिना, स्वामिनि विष्णौ विनियुक्तानां समर्पितानां अन्नानां यत्यन्नत्वं क्वत्यं कुतः प्राप्तम् ? तथा तत् ईश्वरसमर्पितमन्नं भुञ्जन्ति ते तद्भुजः तेऽपि, अत्र भक्षणे कृते सति कुतो हेतोः प्रत्यवयन्ति दोषयुक्ता भवन्ति ? अपि तु नैव भवन्तीत्यर्थः ॥ १८६॥

विश्वास-प्रस्तुतिः

एतेन मतान्तरस्था अपि मठाधिपतयो यतयो व्याख्याताः ।
इदं चावधेयम् ॥ ७२& ॥
यदि कतिपये जात्वालस्याद्यथासमयं27 द्विजा
बत न तनुयुः संध्योपास्तिं भविष्यति किं ततः ॥
निगमचरितानङ्गीकारो हि दूषणमङ्गिना-
मशकनवशाद्दोषायैषां न जात्वननुष्ठितिः ॥ १८७ ॥

एतेनेति । एतेन स्वामिनीत्यादिवचनेन मतान्तरस्थाः शांकर - रामानुजीयादयः मठाधिपतयो यतयः संन्यासिनो व्याख्याताः दोषरहिताः कृताः । इदं वक्ष्यमाणं अवधेयं

च ॥ ७२& ॥

अथ ‘सततमकृतसंध्योपास्तिरभ्यस्तशास्त्रः–’ इत्यादिश्लोकोक्तदूषणं निवारयन्नाह - यदीति । कतिपये कतिचन नतु सर्वे, द्विजाः मध्वमतस्था ब्राह्मणाः यदि जातु कदाचित् नतु सर्वकालं, आलस्यात् अलसस्य अशक्तेर्भावः आलस्यं तस्मात्, यथा- समयं कालमनतिक्रम्य, संध्योपास्ति संध्यानुष्ठानं न तनुयुः बत न कुर्युः, तर्हि ततः किं भविष्यति ? न किमपीति भावः । ननु कालातिक्रमे दोष एव शास्त्रेण विहितः, एवं सति कथमिदमुच्यते इति चेत्तत्राह - निगमेति । हि यस्मात् कारणात् निगम- चरितस्य श्रुति स्मृति विहितकर्मणः अनङ्गीकारः नास्तिकत्वादस्वीकरणं, अङ्गिनां मनुष्याणां दूषणं भवति । किंतु अशकनवशात् अशक्तिपारतन्त्र्यात् अननुष्ठितिः कालातिक्रमणरूपा, जातु कदाचिदपि एषां माध्वानां दोषाय न भवति ॥ १८७ ॥

विश्वास-प्रस्तुतिः

किंच—

‘पन्थानमनुरुन्धानः पित्रादेर्नैव दुष्यति’ ।

इति स्मृतिमधीयानैरेषां दोषो हि दुर्वचः ॥ १८८ ॥

मूलम्

किंच—

‘पन्थानमनुरुन्धानः पित्रादेर्नैव दुष्यति’ ।

इति स्मृतिमधीयानैरेषां दोषो हि दुर्वचः ॥ १८८ ॥

बाल-कृष्णः

अथ ‘एकादश्यां कालयोर्होमहानात् -’ इत्यादि दूषणं परिहरति– पन्थानमिति । ‘पित्रादेः पितृ-पितामह-प्रपितामहादिगुरुजनस्य पन्थानं आचरणमार्गमनुरुन्धानः अनुसरन्, नैव दुष्यति’ इत्यर्थिकां स्मृतिं अधीयानैः, अभ्यसमानैः ज्ञानिभिः, एषां माध्वानां दोषः एकादशीदिने होमाकरणादिरूपः, दुर्वचः वक्तुमशक्यः । हिरवधारणे । त्वादृशैः पुरोभागिभिस्तु सुशक इति भावः ॥ १८८ ॥

विश्वास-प्रस्तुतिः

इति विमानं दूरतः समानयन् परितो दृष्ट्वा -

भाषा-वेषाचारैर्भूषाभिः पूरुषाश्च योषाश्च ॥

वीक्षस्व प्रतिदेशं विलक्षणा एव हन्त लक्ष्यन्ते28 ॥ १८९ ॥

मूलम्

इति विमानं दूरतः समानयन् परितो दृष्ट्वा -

भाषा-वेषाचारैर्भूषाभिः पूरुषाश्च योषाश्च ॥

वीक्षस्व प्रतिदेशं विलक्षणा एव हन्त लक्ष्यन्ते28 ॥ १८९ ॥

बाल-कृष्णः

इतीति । इत्युक्त्वा विमानं दूरतः दूरे । सार्वविभक्तिकस्तसिः । समानयन् परितः आसमन्तात् दृष्ट्वा आहेति शेषः ।-

भाषेति । भाषाश्च वेषाश्व आचाराश्च तैः, भूषाभिः कटक - कुण्डल- हाराद्यलं- कारैः करणैः, विलक्षणाः भिन्नभिन्नप्रकाराः पूरुषाः “पुरुषाः पूरुषा नराः" इत्यमरात् दीर्घादिरपि । योषाः स्त्रियश्च “स्त्रीयोषिदबला योषा” इत्यमरः । प्रतिदेशं देशे देशे । हन्तेत्यानन्दे । लक्ष्यन्ते दृश्यन्ते वीक्षस्व । अवलोकय ॥ १८९ ॥

विश्वास-प्रस्तुतिः

कृ॰ - सखे29 वीक्षस्वेति मा वोचः । किंतु सत्वरमतिक्राम30 कीशकल्पजनानिमान् जनपदान् ॥७३& ॥

चन्द्रालोकचयान्धकारभरयोश्चाम्पेय-किम्पाकयो-

राजत्कुण्डलिराजराजिलकयो राजीवधत्तूरयोः ॥

खेलत्कोकिललोककाककुलयोः क्षीरार्णवान्ध्वोरिव

व्यक्तं पण्डित-मूर्खयोः समदृशो व्रात्या इहत्या अमी ॥ १९० ॥

एवमुक्ते अतीव निर्वेदयुक्तः कृशानुराह - सखे इति । हे सखे, ‘वीक्षस्व’ इति मा वोचः मा वद । ‘वच परिभाषणे’ इत्यस्माल्लुङि “अस्यति वक्ति” इत्या- दिना अङि “वच उम्” इति उम् । माड्योगादडागमाभावः । किंतु सत्वरं कीशकल्पाः वानरसदृशाः " ईषदसमाप्तौ कल्पपू - " इत्यादिना कल्पप्प्रत्ययः । जनाः येषु तान् जनपदान् देशान् अतिक्राम अतिक्रम्य गच्छ । क्रमेर्लोण्मध्यमपुरुषैकवचनम् । “वा भ्राश- भ्लाश " इत्यादिना श्यन्विकल्पात् पक्षे शप् ॥ ७३& ॥

सत्वरमतिक्रमणे को हेतुरित्याह-चन्द्रालोकेति । चन्द्रालोकचयः चन्द्रप्रकाशसमूहश्च अन्धकारभरः अन्धकारातिशयश्च तयोः, चाम्पेय- किम्पाकयोः केसर- विषवृक्षयोः, सर्वत्र द्वन्द्वः । " चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः " । महाकाललतायां च किम्पाकः” इत्यमर-रत्नमालयोः । राजत्कुण्डलिराज-राजिलकयोः सुशोभितसर्पराज-डुण्डुभयोः । डुण्डुभो नाम द्विमुखो निर्विषश्च हीनसर्पः । “कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी" । “अलगर्दो जलव्यालः समौ राजिल-डुण्डुभौ ” इत्युभयत्राप्यमरः । राजीव- धत्तूरयोः कमलोन्मत्तपुष्पयोः । “ उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः” इत्यमरः । खेलन् मधुरविरावादिलीलां कुर्वन् यः कोकिलानां लोकः समूहः काकानां कुलं च तयोः, क्षीरार्णवान्ध्वोः क्षीरसमुद्र - कूपयोश्चेव । अयं व्यवहितोऽपि इवशब्दः उपरि सर्वत्र योज्यः । इहत्याः कर्णाटदेशीयाः अमी व्रात्याः जनाः विधिवदध्ययनादिसंस्कारहीनाः, " वात्यः संस्कारहीनः स्यात् " इत्यमरः । व्यक्तं स्फुटं यथा तथा पण्डित - मूर्खयोः, समं न्यूनाधिकभावरहितं यथा स्यात्तथा पश्यन्तीति ते तथोक्ताः सन्तीति शेषः । तस्मादचिरादेवेतः स्थानादतिकमणं श्रेय इति भावः ॥ १९० ॥

  1. “द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कालापकं चतुर्भिः स्यात् तदूर्ध्व कुलकं स्मृतम्।” ↩︎ ↩︎

  2. उत्सर्जति ↩︎ ↩︎

  3. मैवं वादीः, मैवं सङिगिरिष्ठाः ↩︎ ↩︎

  4. दुर्निवारम् ↩︎ ↩︎

  5. अतन्त्रैः ↩︎ ↩︎

  6. निवसति ↩︎ ↩︎

  7. पुनः सविस्मयम् ↩︎ ↩︎

  8. मरकत ↩︎ ↩︎

  9. निरुपम, निरुपधि ↩︎ ↩︎

  10. अधःकृत्वा ↩︎ ↩︎

  11. मानसान्नि, मानसे ↩︎ ↩︎

  12. विस्तृतो ↩︎ ↩︎

  13. शुभरीतिरहो ↩︎ ↩︎

  14. उच्चै ↩︎ ↩︎

  15. तद्भक्तपूजापराणाम् ↩︎ ↩︎

  16. शुद्धा हि ↩︎ ↩︎

  17. हृदयरञ्जनी रीतिः ↩︎ ↩︎

  18. अहर्दिवम् ↩︎ ↩︎

  19. अधिका ↩︎ ↩︎

  20. सा च ↩︎ ↩︎

  21. तत्पु ↩︎ ↩︎

  22. कदन ↩︎ ↩︎

  23. यतिवर्याः ↩︎ ↩︎

  24. मदविहित, मदनपिहित ↩︎ ↩︎

  25. सत्त्वेना ↩︎ ↩︎

  26. तद्भुजस्तु ↩︎ ↩︎

  27. जाता ↩︎ ↩︎

  28.  ↩︎ ↩︎
  29. वयस्य ↩︎ ↩︎

  30. अतिक्रमावः ↩︎ ↩︎