१३ आन्ध्रदेशवर्णनम्

विश्वास-प्रस्तुतिः

अथ आन्ध्रदेशवर्णनम्॥

इति विमानमन्यतः समानयन् निपुणं विभाव्य-
सुशोभनक्रमकरैः सेवितो जीवनार्थिभिः ॥
मध्यस्थवाडवो राजत्यान्ध्रदेशो नदीशवत्1 ॥ १५३ ॥

मूलम्

अथ आन्ध्रदेशवर्णनम्॥

इति विमानमन्यतः समानयन् निपुणं विभाव्य-
सुशोभनक्रमकरैः सेवितो जीवनार्थिभिः ॥
मध्यस्थवाडवो राजत्यान्ध्रदेशो नदीशवत्1 ॥ १५३ ॥

बाल-कृष्णः

सुशोभनेति । अयम् आन्ध्रदेशः जीवनम् उपजीविकां जलं च अर्थयन्ति इच्छन्तीति जीवनार्थिनः तैः सु उत्तमानि शोभनानि कल्याणानि येभ्यस्तान् क्रमान् आचारान् कुर्वन्तीति तत्करास्तैर्जनैः, पक्षे सुष्ठु शोभा येषां ते सुशोभाः ते च ते नक्रा मत्स्यविशेषाश्च मकराश्च तैर्जलजन्तुभिश्च सेवितः अधिष्ठितः, मध्यस्था मध्ये वर्तमानाः वाडवाः ब्राह्मणा यस्य पक्षे मध्ये स्थितो वाडवो वाडवाग्निश्च यस्येत्यर्थः । नदीशवत् समुद्रवद् राजति शोभते । अत्र ‘नदेशवत्’ इति पाठान्तरं प्रकल्प्य ‘नदेशवत् समुद्रवत्’ इति, ‘आन्ध्रदेशः देशवद् अन्यदेशवन् न राजति, अपि तु सर्वोत्तमतया राजति’ इत्यप्यर्थान्तरं कुर्वन्ति केचित् । अत्र श्लिष्टोपमालङ्कारः ॥ १५३॥

विश्वास-प्रस्तुतिः

कृ॰-अये किं प्रशंसस्यपयातमर्यादममुं देशम् ? ॥ ५३& ॥
पश्य-
ग्रामे ग्रामे निवसति चिरात्स्वामिभावेन शूद्रो
भृत्यो भूत्वा पठति गणनां ब्राह्मणस्तस्य पार्श्वे ॥
वेदाध्यायी सर इव मरौ क्वापि कश्चि यदि स्याद्
अत्रामत्रप्रकरकरणे2 वर्ततेऽसौ नियुक्तः ॥ १५४ ॥

मूलम्

कृ॰-अये किं प्रशंसस्यपयातमर्यादममुं देशम् ? ॥ ५३& ॥
पश्य-
ग्रामे ग्रामे निवसति चिरात्स्वामिभावेन शूद्रो
भृत्यो भूत्वा पठति गणनां ब्राह्मणस्तस्य पार्श्वे ॥
वेदाध्यायी सर इव मरौ क्वापि कश्चि यदि स्याद्
अत्रामत्रप्रकरकरणे2 वर्ततेऽसौ नियुक्तः ॥ १५४ ॥

बाल-कृष्णः

अये इति । अये भो, अपयातमर्यादं त्यक्तवर्णाश्रमरीतिममुं देशम् आन्ध्रदेशं, किं कुतो हेतोः प्रशंससि ? ॥ ५३ ॥

ग्राम इति । शूद्रः स्वामिभावेन प्रभुत्वेन उपलक्षितः, ग्रामे ग्रामे, वीप्सायां द्विर्भावः । चिरान् निवसति । तस्य शूद्रस्य पार्श्वे भृत्यः गणकसञ्ज्ञया उपलक्षितः, सेवको भूत्वा ब्राह्मणः गणनां ग्रामायव्ययसङ्ख्यां पठति । मरौ देशे सर इव क्वापि कुत्रापि वेदाध्यायी कश्चिदेकः स्याद् यदि वर्तते चेत्, असौ वेदपाठकः अत्र आन्ध्रदेशे अमत्राणां मलिनपात्राणां प्रकरे सङ्क्षालने करणे कर्मणि नियुक्तः सन् वर्तते । अतिनीचवृत्त्या जीवतीत्यर्थः ॥ १५४ ॥

विश्वास-प्रस्तुतिः

किञ्च महाराष्ट्रे दृष्टा दोषा अत्राप्यतिदेष्टव्याः ॥ ५४& ॥
विश्वावसुः - वयस्य, मैवं वादीः ॥ ५५& ॥
मा नाम यक्षत मखैरनघैरिहामी
मा3 चाधिगीषत वचांसि चिरन्तनानि ॥
देवेषु भक्तिरवनित्रिदशेषु चैषां
विश्राणनं च विविधान् विधुनोति दोषान् ॥ १५५ ॥

मूलम्

किञ्च महाराष्ट्रे दृष्टा दोषा अत्राप्यतिदेष्टव्याः ॥ ५४& ॥
विश्वावसुः - वयस्य, मैवं वादीः ॥ ५५& ॥
मा नाम यक्षत मखैरनघैरिहामी
मा3 चाधिगीषत वचांसि चिरन्तनानि ॥
देवेषु भक्तिरवनित्रिदशेषु चैषां
विश्राणनं च विविधान् विधुनोति दोषान् ॥ १५५ ॥

बाल-कृष्णः

वयस्येति । वयस्य भो मित्र, एवमुक्तप्रकारं दूषणं मा वादीः मा वद व्यक्तायां वाचि, इत्यस्मान् माङ्योगे “माङि लुङ्” इति लुङि “न माङ्योगे”

इत्यडागमाभावः ॥ ५५& ॥

मेति । इह आन्ध्रदेशे अभी ब्राह्मणादयः त्रयोवर्णाः, अनघैः मखैर्यज्ञैः मा यक्षत न यजन्तु । नामेत्यनादरे । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । किञ्च चिरन्तनानि पुरातनानि वचांसि वेदवाक्यानि च माधिगीषत न पठन्तु नाम । तथापि देवेषु श्रीविष्ण्वादिषु भक्तिः, अवनित्रिदशेषु ब्राह्मणेषु निषये[???] विश्राणनं दानं च “विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्” इत्यमरः । एषामान्ध्रदेश्यानां समस्तान् दोषान् सर्वान् पूर्वोक्तान् विधुनोति निवारयति ॥१५५ ॥

विश्वास-प्रस्तुतिः

पश्य तावदेतेषां भाग्यवत्ताम् ॥ ५६& ॥ -
रोमावल्या तपनसुतया रम्यहारद्युनद्या4
हृद्यास्तुङ्गस्तनगिरिजुषो5 नाभिवापीमनोज्ञाः ॥
भूमेर्मूर्तीरिव वसुमतीर्भुञ्जते भाग्यवन्तः
क्षोणीपाला इव युवजनाः काममान्ध्रीः पुरन्ध्रीः ॥ १५६ ॥

मूलम्

पश्य तावदेतेषां भाग्यवत्ताम् ॥ ५६& ॥ -
रोमावल्या तपनसुतया रम्यहारद्युनद्या4
हृद्यास्तुङ्गस्तनगिरिजुषो5 नाभिवापीमनोज्ञाः ॥
भूमेर्मूर्तीरिव वसुमतीर्भुञ्जते भाग्यवन्तः
क्षोणीपाला इव युवजनाः काममान्ध्रीः पुरन्ध्रीः ॥ १५६ ॥

बाल-कृष्णः

पश्येति । एतेषाम् आन्ध्रदेशीयानाम् अन्यामपीति शेषः । भाग्यवत्ताम् अग्रे वक्ष्यमाणां पश्य तावत् ॥ ५६& ॥

रोमावल्येति । अत्र उपमाप्रायपाठात्, तपनसुतया यमुनयेवेति व्यवहितोऽपि इवशब्दोऽनुषञ्जनीयः । रोमावल्या, रम्येण हारेण द्युनद्या गङ्गयेवेत्युपमितसमासः । एवमग्रेऽपि । हृद्याः मनोज्ञाः तुङ्गौ स्तनौ गिरी इव तौ जुषन्त इति तथोक्ताः । नाभिः वापीव तया मनोज्ञाः वसुः कान्तिः वसु धनं च तद्वतीः, “वसुर्ना देवभेदाग्नि भा योक्त्र बक राजसु । क्लीबं वृद्धयौषधे श्याले रै रत्ने मधुरे त्रिषु" इति मेदिनी । अत एव भूमेः मूर्तीरिव स्थिताः आन्ध्रीः आन्ध्रदेशजाः पुरन्ध्रीः कुटुम्बिनीः स्त्रियः, क्षोणीपाला इव स्थित्वा भाग्यवन्तः युवजनाः अत्रत्याः तरुणाः, कामं भुञ्जते अनुभवन्ति । अत्रत्यानां स्त्रीपुंसानां सौन्दर्यं लोकोत्तरमिति भावः । उपमालङ्कारः ॥ १५६ ॥

विश्वास-प्रस्तुतिः

शृणु तावत्-
को वा कल्पतरोर्गुणः6 सुमनसां यत्स्वाश्रितानामसौ
सारांशान् हरतः7 प्रसह्य मधुपान् धत्ते महामोदतः8
कर्णे त्वर्जुनकीर्तिहानिपरता कालाम्बुदे गर्जनं
नीरन्ध्रं पुनरान्ध्रदेशनृपतिष्वास्तेऽनघं9 स्पर्शनम् ॥ १५७ ॥
समन्तादवलोक्य—
वयस्यात्र10 गोदावरीतीरे केषाञ्चिदेषामवनीदिविषदामतिशिवपूजालोलुपतां पश्य ॥ ५७& ॥

मूलम्

शृणु तावत्-
को वा कल्पतरोर्गुणः6 सुमनसां यत्स्वाश्रितानामसौ
सारांशान् हरतः7 प्रसह्य मधुपान् धत्ते महामोदतः8
कर्णे त्वर्जुनकीर्तिहानिपरता कालाम्बुदे गर्जनं
नीरन्ध्रं पुनरान्ध्रदेशनृपतिष्वास्तेऽनघं9 स्पर्शनम् ॥ १५७ ॥
समन्तादवलोक्य—
वयस्यात्र10 गोदावरीतीरे केषाञ्चिदेषामवनीदिविषदामतिशिवपूजालोलुपतां पश्य ॥ ५७& ॥

बाल-कृष्णः

क इति । असौ कल्पवृक्षः स्वमात्मानम् आश्रितानां सुमनसां विदुषां देवानां पुष्पाणां च । सारान् श्रेष्ठान् अंशान् धनरूपान् मकरन्दरूपांश्च भागान् प्रसह्य बलात्कृत्य, हरतः मधुपान् मद्यपायिनः भृङ्गांश्च महामोदतः अतिसुगन्धेन च अतिसन्तोषेणेति वा उपलक्षितः धत्ते । शिरसीति शेषः । सम्मानयतीत्यर्थः । इति यत्, असौ शिरसि मधुपधारणरूपः कल्पतरोः को वा गुणः न कोऽपि । किन्तु दोष एवेत्यर्थः। स्वसेवकैः विद्वद्धनापहरणस्य किरातराजप्रायतासूचकत्वादिति भावः । कर्णे सूर्यपुत्रे तु दातरि अर्जुनायाः शुभ्रायाः, अर्जुनस्य पार्थस्य च कीर्तेर्हानौ परता आसक्तिरस्ति । अयं दोषस्तस्मिन्नास्तीत्यर्थः । एवमग्रेऽपि कालाम्बुदे वार्षिकमेघे गर्जनं स्वकत्थनं स्तनितं च अस्ति । आन्ध्रदेशनृपतिषु पुनः नीरन्ध्रम् अविच्छिन्नं स्पर्शनं दानं, अनघम् उक्तदोषरहितं सद् आस्ते जागर्ति । व्यतिरेकालङ्कारः “( उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।) " इति तल्लक्षणात् ॥ १५७ ॥

वयस्येति । वयस्य भो मित्र, अत्रास्मिन् गोदावरीतीरे । केषाञ्चिदेषां दृश्यमानानाम् अवनीदिविषदां ब्राह्मणानां, अति अत्यन्तं शिवपूजायां लोलुपताम् आसक्तिं पश्य ॥ ५७& ॥

विश्वास-प्रस्तुतिः

गोदावरीविमलतीर्थकृतावगाहा
लिङ्गेषु सैकतमयेषु शिवं विभाव्य ॥
भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै-
रर्चामिहावनिसुराः परिकुर्वतेऽमी ॥ १५८ ॥
सभक्त्युद्रेकम् —
नमामि गिरिनन्दिनीरमणपादपूजाहृता
मिताघनिकरान् कराञ्चितवराक्षमालान् सदा ॥
अमूनमलचेतसश्शमदमादियोगावहान्
श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान् ॥ १५९ ॥
अहो कृष्णा-गोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्दनीयोऽयमनपायः सम्प्रदायः ॥ ५८& ॥

मूलम्

गोदावरीविमलतीर्थकृतावगाहा
लिङ्गेषु सैकतमयेषु शिवं विभाव्य ॥
भक्त्या तिलाक्षतसुमैरपि बिल्वपत्रै-
रर्चामिहावनिसुराः परिकुर्वतेऽमी ॥ १५८ ॥
सभक्त्युद्रेकम् —
नमामि गिरिनन्दिनीरमणपादपूजाहृता
मिताघनिकरान् कराञ्चितवराक्षमालान् सदा ॥
अमूनमलचेतसश्शमदमादियोगावहान्
श्रुतेर्गुणनिकानिकामपरिपूतवक्त्राम्बुजान् ॥ १५९ ॥
अहो कृष्णा-गोदावरीमध्यमध्यासीनानाममीषां वैदिकानामभिनन्दनीयोऽयमनपायः सम्प्रदायः ॥ ५८& ॥

बाल-कृष्णः

गोदावरीति । इह गोदावरीतीरे अमी अवनीसुराः ब्राह्मणाः, गोदावरीनामनद्याः विमले तीर्थे जले कृतावगाहाः कृतस्नानाः सन्तः सैकतमयेषु वालुकानिर्मितेषु लिङ्गेषु । " सिकताः स्युर्वालुकापि” इत्यमरः । शिवं भक्तकल्याणदायिनं श्रीशङ्करं विभाव्य ध्यात्वा, भक्त्योपलक्षिताः तिलमिश्रैः अक्षतैः सुमैः पुष्पैः, बिल्वपत्रैरपि करणैः । अर्चां पूजां परितः कुर्वते । तिलादिभिः शिवपूजनम् अत्यन्तश्रेयःसम्पादकम् । तदुक्तम् — “बिल्वपत्रैः प्रशस्तैर्वा पुष्पैर्वा तुलसीदलैः । तिलाक्षतैर्यजेद्देवं जीवन्मुक्तो न संशयः ॥” इति ॥ १५८ ॥

नमामीति । गिरिनन्दिनीरमणस्य पार्वतीपतेः पादयोः पूजया हृतः अमितानाम् अपरिमितानाम् अघानां पापानां दुःखानां वा निकरः राशिः येषां तान् । सदा करे अञ्चिता सङ्गता वरा च अक्षमाला अकारादिहकारान्तवर्णप्रतिनिधिर्माला रुद्राक्षस्फटिकादिनिर्मिता येषां तान् । श्रुतेर्वेदस्य गुणनिकया अध्ययनावृत्त्या निकामम् अत्यन्तं परिपूतं पवित्रितं वक्त्राम्बुजं मुखकमलं येषां तान् । अमलचेतसः अत एव शमः अन्तरिन्द्रियनिग्रहः, दमःबाह्येन्द्रियनिग्रहः तावादिर्येषां तादृशान् योगान्, मुक्त्युपायान् आवहन्ति सम्पादयन्तीति तथोक्तानमून् गोदावरीतीरवासिनः, नमामि ॥ १५९ ॥

अहो इति । अहो इत्याश्चर्ये । कृष्णा च गोदावरी च तयोर्मध्यं मध्यभागमध्यासीनानाम् अधिष्ठितानाम् अमीषां वैदिकानां वेदविदां, अनपायः अपायरहितः सततप्रचलित इत्यर्थः । अयं सम्प्रदायः आचारः अभिनन्दनीयः प्रशंसार्हः । अस्तीति शेषः ॥ ५८& ॥

विश्वास-प्रस्तुतिः

निगमपाठनिराकृतदुष्कृता
नयविदो बहवोऽत्र धरासुराः ॥
प्रतिवसन्तमुपात्तमखाः सुखम्
प्रतिवसन्ति मुकुन्दपरायणाः ॥ १६० ॥

मूलम्

निगमपाठनिराकृतदुष्कृता
नयविदो बहवोऽत्र धरासुराः ॥
प्रतिवसन्तमुपात्तमखाः सुखम्
प्रतिवसन्ति मुकुन्दपरायणाः ॥ १६० ॥

बाल-कृष्णः

निगमेति । निगमानां वेदानां पाठेन निराकृतं दूरीकृतं दुष्कृतं पापं यैस्तथाभूताः । नयविदः शास्त्रज्ञाः अत एव मुकुन्दः श्रीविष्णुरेव परं मुख्यम् अयनं प्राप्यस्थानं येषां ते तादृशाः, बहवः धरासुराः ब्राह्मणाः, अत्र गोदावरीतीरे वसन्ते वसन्ते ऋतौ प्रतिवसन्तं, उपात्तमखाः कृतयज्ञाः सन्तः, सुखं यथा तथा प्रतिवसन्ति । " वसन्ते. वसन्ते ज्योतिषा यजेत” इत्यादिश्रुत्या वसन्तादिऋतुभेदेन यज्ञकर्म विहितम् ॥ १६० ॥

विश्वास-प्रस्तुतिः

अत्रत्यानामधिकारव्यापारनिरतानामप्ययं11 खल्वकलङ्को नियमः ॥ ५९& ॥
आश्रयितव्यो नरपतिरार्जयितव्यानि12 भूरिवित्तानि ॥
आरब्धव्यं वितरणमानेतव्यं यशो दशस्वपि13 दिशासु ॥ १६१ ॥

मूलम्

अत्रत्यानामधिकारव्यापारनिरतानामप्ययं11 खल्वकलङ्को नियमः ॥ ५९& ॥
आश्रयितव्यो नरपतिरार्जयितव्यानि12 भूरिवित्तानि ॥
आरब्धव्यं वितरणमानेतव्यं यशो दशस्वपि13 दिशासु ॥ १६१ ॥

बाल-कृष्णः

किञ्च अत्रत्यानामिति । अत्रत्यानामधिकारव्यापारनिरतानां राजकीयकार्यतत्पराणामपि, अयं दृश्यमानः खलु अकलङ्की निर्मलः नियमः व्रतनिष्ठा ॥ ५९& ॥

आश्रयितव्य इति । नरपतिः राजा आश्रयितव्यः, भूरीणि बहूनि " प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च" इत्यमरः । वित्तानि धनानि आर्जयितव्यानि वितरणं दानम् आरब्धव्यं कर्तव्यं यशः दशदिशासु आनेतव्यं प्रापयितव्यं च । इति नियम इति सम्बन्धः ॥ १६१ ॥

विश्वास-प्रस्तुतिः

कृ॰ – समन्तादवलोक्य-
हन्त सन्ततमत्यन्तदुरितनिरता यवना एव तावदमीषु विषयेषु प्राचुर्यतः पर्यटन्ति । पश्य सखे ॥ ६०& ॥
अवनावतीतपवनाश्वशोभिनो भवनागशायिभवनावमर्दिनः ॥
सवनादिधर्मलवनाय दीक्षिता यवनाश्चरन्ति भुवनातिभीषणाः॥ १६२ ॥

मूलम्

कृ॰ – समन्तादवलोक्य-
हन्त सन्ततमत्यन्तदुरितनिरता यवना एव तावदमीषु विषयेषु प्राचुर्यतः पर्यटन्ति । पश्य सखे ॥ ६०& ॥
अवनावतीतपवनाश्वशोभिनो भवनागशायिभवनावमर्दिनः ॥
सवनादिधर्मलवनाय दीक्षिता यवनाश्चरन्ति भुवनातिभीषणाः॥ १६२ ॥

बाल-कृष्णः

हन्तेति । हन्तेति खेदे । सन्ततं निरन्तरम् अत्यन्ते दुरिते देव-ब्राह्मणद्रोहरूपे महापापकर्मणि निरता आसक्ताः यवना म्लेच्छजातीया एव तावदमीषु विषयेषु आन्ध्रदेशेषु, प्राचुर्यतः बाहुल्येन पर्यटन्ति परिभ्रमन्ति ॥ ६० ॥

अवनाविति । अतीतः वेगेन निर्जितः पवनः वायुः यैस्तैरेवैः शोभन्त इति शोभिनः । भवस्य शिवस्य, नागशायिनः विष्णोश्च भवनानाम् आलयानाम् अवमर्दिनः पातयितारः । सवनादीनां यज्ञप्रमुखानां धर्माणां वर्णाश्रमधर्माणां, लवनाय नाशाय दीक्षिताः कृतनिश्चयाः, अत एव भुवनस्य लोकस्य अतिभीषणाः यवनाः म्लेच्छाः, अवनौ आन्ध्रदेशभूमौ सर्वत्र चरन्ति ॥ १६२ ॥

विश्वास-प्रस्तुतिः

वि॰ - सत्यमेवमथाप्येतेषु तुरुष्कयवनेष्वनन्यसाधारणविक्रमं गुणममुं गृहाण ॥ ६१&॥

सत्यमिति । सत्यमेव ‘भव - नागशायि’ इत्यादिना प्रतिपादितं दूषणम् अस्त्येव, अथापि एतेषु तुरुष्कयवनेषु तुरुष्कदेशीययवनजनेषु, अन्यसाधारणः इतरजनसदृशः न भवतीत्यनन्यसाधारणः स चासौ विक्रमः पराक्रमस्तद्रूपम् अमुं गुणं गृहाण ॥ ६१॥

युद्धाय प्रमिलन्तु हन्त पटवो14 योधाः सहस्राधिका
यद्येकोऽपि बलात्तुरुष्क-यवनेष्वारूढघोटो भटः ॥
निस्त्रिंशं परिकम्पयन् स्वकटकान्निष्क्रामति क्रोधतः
सर्वे ते कृपणास्तृणान्यशरणा खादन्ति सीदन्ति च ॥ १६३ ॥

मूलम्

वि॰ - सत्यमेवमथाप्येतेषु तुरुष्कयवनेष्वनन्यसाधारणविक्रमं गुणममुं गृहाण ॥ ६१&॥

सत्यमिति । सत्यमेव ‘भव - नागशायि’ इत्यादिना प्रतिपादितं दूषणम् अस्त्येव, अथापि एतेषु तुरुष्कयवनेषु तुरुष्कदेशीययवनजनेषु, अन्यसाधारणः इतरजनसदृशः न भवतीत्यनन्यसाधारणः स चासौ विक्रमः पराक्रमस्तद्रूपम् अमुं गुणं गृहाण ॥ ६१॥

युद्धाय प्रमिलन्तु हन्त पटवो14 योधाः सहस्राधिका
यद्येकोऽपि बलात्तुरुष्क-यवनेष्वारूढघोटो भटः ॥
निस्त्रिंशं परिकम्पयन् स्वकटकान्निष्क्रामति क्रोधतः
सर्वे ते कृपणास्तृणान्यशरणा खादन्ति सीदन्ति च ॥ १६३ ॥

बाल-कृष्णः

युद्धायेति । पटवः रणे समर्थाः सहस्रादधिकाः असङ्ख्याताः योधाः तुरुष्क- यवनभिन्नजातीयाः योद्धारः, युद्धाय युद्धं कर्तुम् " क्रियार्थोपपद – " इत्यादिना चतुर्थी । प्रमिलन्तु सङ्गच्छन्ताम् । अतिसर्गे लोट् । हन्तेत्याश्चर्ये तदा तुरुष्केषु यवनेषु मध्ये, निर्धारणे सप्तमी । एकोऽपि किमुत द्वित्रादयः । भटः योद्धा आरूढः घोटः अश्वः येन स तथोक्तः सन् निस्त्रिंशं खङ्गं “तूण्यां खड्ने तु निस्त्रिंश- चन्द्रहासा- सिरिष्टयः” इत्यमरः । परिकम्पयंश्च सन् स्वकटकात् स्वसैन्यात्, बलाद् वेगात्, क्रोधतः क्रोधेन च निष्क्रामति निर्गच्छति यदि । तदा ते पूर्वोक्ताः सर्वे भटाः अशरणाः रक्षकरहिताः अत एव कृपणाः दीनाश्च सन्तः, तृणानि खादन्ति भक्षयन्ति, सीदन्ति विषण्णा भवन्ति च । तृणभक्षकान् वल्मीकारूढांश्च वीरास्त्यजन्तीति प्रसिद्धेरिति भावः ॥ १६३ ॥

विश्वास-प्रस्तुतिः

पिबन्तु मदिराममी परितुदन्तु देशानहो
हरन्तु परसुन्दरीरपलपन्तु वेदानपि ॥
तथापि च मृधाङ्गणे15 तृणवदेव मुक्त्वा तनुं
हठाद्विदधते मरुत्पुरकपाटिकोद्घाटनम् ॥ १६४ ॥

मूलम्

पिबन्तु मदिराममी परितुदन्तु देशानहो
हरन्तु परसुन्दरीरपलपन्तु वेदानपि ॥
तथापि च मृधाङ्गणे15 तृणवदेव मुक्त्वा तनुं
हठाद्विदधते मरुत्पुरकपाटिकोद्घाटनम् ॥ १६४ ॥

बाल-कृष्णः

पिबन्त्विति । यद्यपि अमी तुरुष्का यवनाश्च मदिरां मद्यं पिबन्तु, देशान् परि- तुदन्तु त्रासयन्तु परेषां सुन्दरीः स्त्रियः हरन्तु, वेदान् तदुक्तकर्माणि अपलपन्तु दूषयन्तु । अपिः समुच्चये । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । तथापि मृधाङ्गणे युद्धदेशे तनुं शरीरम् । चस्त्वर्थः । तृणमिव तृणवन् मुक्त्वा त्यक्त्वा, हठाद् बलान् मरुतां देवानां पुरं स्वर्गस्तस्य कपाटिकायाः कपाटस्य उद्घाटनं विदधते कुर्वन्त्येव । भगवता श्रीकृष्णेनाप्येतदेवोक्तमर्जुनं प्रति - “हतो वा प्राप्स्यसि स्वर्ग जित्वा वा भोक्ष्यसे महीम्” इति ॥ १६४ ॥


  1. ‘न- देशवत् ' ↩︎ ↩︎

  2. क्वचित्पुस्तके ’ पत्रामत्रप्रकरकरणे’ इति पाठो दृश्यते । अस्मिंश्च पाठे- " पत्रं पलाशं छदनम् ’ " पात्रामत्रं च भाजनम्" इति कोशात् पत्राणां पलाशानाम् अमत्रं पात्रं ‘पत्रावली’ इति महाराष्ट्रभाषायां प्रसिद्धं तस्य प्रकरः समुदायः तस्य करणे इति व्याख्येयम् । क्वचित्कचिद् दृश्यन्ते चाधुनातनानां धनिकानां गृहस्थानां गृहे मुखेन वेदपाठं कुर्वन्तः पत्रावलीकरणे नियुक्तास्तदाश्रिता वैदिकाः । ↩︎ ↩︎

  3. मावाधिगीतवचनानि ↩︎ ↩︎

  4. हारा ↩︎ ↩︎

  5. स्तनगिरिजुषिर् ↩︎ ↩︎

  6. कल्पतरौ ↩︎ ↩︎

  7. दधतः ↩︎ ↩︎

  8. मोहतः ↩︎ ↩︎

  9. समं,स्फुटं,घनं ↩︎ ↩︎

  10. इत आरभ्य १५९ श्लोकपर्यन्तो ग्रन्थस्तावन्नोपलभ्यते आदर्शपुस्तके । अत्रैव मुद्रिते एकस्मिन् पुस्तके उपलब्धः स तथैवास्माभिः सङ्गृहीतः । ↩︎ ↩︎

  11. धर्मनिरतानाम् ↩︎ ↩︎

  12. भूपति ↩︎ ↩︎

  13. दशापि दिशः ↩︎ ↩︎

  14. बहवो ↩︎ ↩︎

  15. रणाङ्गणे ↩︎ ↩︎