विश्वावसुः
विश्वास-प्रस्तुतिः
अथ महाराष्ट्रवर्णनम्॥
इति विमानं सुदूरम् आनयन्
वन-जनपद-सरित्-गिरि-प्रभृतीन् अवेक्ष्य
सविस्मयम् ईश्वरम् उद्दिश्य-1
कत्यौषधीः कति तरून् कति वो2 महीध्रान्
कत्य् अम्बुधीन् कति नदीः कति पुंस एतान् ॥
कत्य् अङ्गनास् त्वम् असृजः कति नाथ देशान्
मन्ये तवैष महिमा नहि माति बुद्धौ ॥ १३१ ॥
मूलम्
अथ महाराष्ट्रवर्णनम्॥
इति विमानं सुदूरमानयन् वन- जनपद-सरित्गिरिप्रभृतीनवेक्ष्य सविस्मयमीश्वरमुद्दिश्य-1
कत्यौषधीः कति तरून् कति वो2 महीध्रान्
कत्यम्बुधीन् कति नदीः कति पुंस एतान् ॥
कत्यङ्गनास्त्वमसृजः कति नाथ देशान्
मन्ये तवैष महिमा नहि माति बुद्धौ ॥ १३१ ॥
बाल-कृष्णः
अथ महाराष्ट्रदेशवर्णनं सूचयन्नाह - इतीति । इत्युक्त्वा सुदूरं विमानमानयन् प्रापयन् वनानि च जनपदा देशाश्च सरितो नद्यश्च गिरयः पर्वताश्च ते प्रभृतयो मुख्या येषु तान् देशानवेक्ष्य दृष्ट्वा, सविस्मयमाश्चर्यसहितं यथा तथा ईश्वर मुद्दिश्याहेति ।
कतीति । हे नाथ जगदुत्पादक प्रभो, त्वं कति कियत्संख्याकाः औषधीर्वल्लीस- स्यमुख्या फलपाकान्ताः, तथा तरून् वृक्षांश्च कति, महीधान् पर्वतान्, अम्बुधीन् समुद्रान् नदीः, एतान् दृश्यमानान् पुंसः पुरुषान्, तथा अङ्गनाः स्त्रियश्च, देशांश्च, कति असंख्यातानित्यर्थः । असृजः सृष्टवानसि ? । तस्मात् हे प्रभो, एष तव अगाधसर्गकर्तृत्वरूपो महिमा माहात्म्यं, बुद्धौ नहि माति न प्रवेष्टुं शक्नोति, इति मन्ये, इति निश्चिनोमीत्यर्थः ॥ १३१ ॥
इतीति । इत्यन्यतोऽन्यत्र गच्छन् पुरतोऽग्रभागेऽवलोक्य बहुमानेन सहितं
यथा तथा प्राह-
विश्वास-प्रस्तुतिः
इत्य् अन्यतो गच्छन् पुरतोऽवलोक्य सबहुमानम् –
महाराष्ट्राभिख्यो मधुर-जल-सान्द्रो निरुपमः
प्रकाशो देशो ऽयं सुर-पुर-निकाशो विजयते ॥
गृहस्था यत्रामी गुण-जलधयः केऽपि विभवैः
समृद्धाः श्रद्धातो मुहुर् अतिथिपूजां विदधते ॥ १३२ ॥
मूलम्
इत्यन्यतो गच्छन् पुरतोऽवलोक्य सबहुमानम् –
महाराष्ट्राभिख्यो मधुरजलसान्द्रो निरुपमः
प्रकाशो देशोऽयं सुरपुरनिकाशो विजयते ॥
गृहस्था यत्रामी गुणजलधयः केऽपि विभवैः
समृद्धाः श्रद्धातो मुहुरतिथिपूजां विदधते ॥ १३२ ॥
बाल-कृष्णः
महाराष्ट्रेति । मधुरं स्वादु च तज्जलं च तेन सान्द्रः पूर्णः अत एव निरुपमः उपमारहितः प्रकाशः प्रसिद्धः " प्रकाशोऽतिप्रसिद्धेऽपि " इत्यमरः । अत एव च सुरपुरस्य स्वर्गलोकस्य निकाशः सदृशोऽयं महाराष्ट्र इति अभिख्या नाम यस्य सः “अभिख्या नाम - शोभयोः" इत्यमरः । विजयते सर्वोत्कर्षेण वर्तते । यत्र महाराष्ट्र- देशे, अमी गुणजलधयः विद्यादिसद्गुणसमुद्राः, विभवैरैश्वर्यैश्व समृद्धाः परिपूर्णाः, केऽप्यनिर्वाच्यप्रभावाः विद्यादिगुणानामैश्वर्यस्य चैकत्र वासस्य दुर्लभत्वादित्यर्थः । गृहस्था लोकाः, श्रद्धातः आस्तिक्यबुद्ध्या मुहुर्वारंवारं अतिथिपूजामभ्यागतसत्कारं विदधते कुर्वते । न त्वैश्वर्यस्य व्यसनादिना विषयासक्त्या वा दुरुपयोगं कुर्वन्तीत्यर्थः ॥ १३२ ॥
विश्वास-प्रस्तुतिः
कृ॰ - सखे, किं प्राक्-कालीन-चरित्रमधुना3 कथयसि4 ?
अधुना किल कलि-मालिन्याद्
ईदृशी5 रीतिर् एतद्-देश-वासिनाम् आसीत् ॥ ४३& ॥
कृशानुः
मूलम्
कृ॰ - सखे किं प्राक्कालीनचरित्रमधुना3 कथयसि4 ? अधुना किल कलिमालिन्यादीदृशी5 रीतिरेतद्देशवासिनामासीत् ॥ ४३& ॥
बाल-कृष्णः
सख इति । हे सखे, प्राक्कालीनं कृतयुगादिपूर्वकालभवं चरित्रमधुना सांप्रतं किं कुतो हेतोः कथयसि ? कुतो वा प्राक्कालीनचरित्रमधुना न कथनीयमित्याशङ्कयाह- अधुना किल सांप्रतं तु, कलेः कलियुगस्य मालिन्यात् मलिनत्वात् पापप्रचुरत्वादित्यर्थः । एतद्-देशवासिनां महाराष्ट्रवासिनामीदृशी वक्ष्यमाणप्रकारा रीतिर् आचारः आसीत् अस्तीत्यर्थः । प्रकृतवर्णनस्य वर्तमानकालीनत्वाल्लङ् प्रामादिक इति भाति ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तथाहि-
अपारैर् व्यापारैर् अहर् इह नयन्तो, ऽशन-दशास्व्6
अथ स्नाताः (न सन्ध्याकाले), संध्यां विदधति न जातु स्वसमये ॥
त्यजन्तः स्वां वृत्तिं द्विज-कुल-भवा7 ग्राम-गणकी-
भवन्तो हन्तामी कथम् अपि च जीवन्ति बहवः ॥ १३३ ॥
मूलम्
तथाहि-
अपारैर्व्यापारैरहरिह नयन्तोऽशनदशा-6
स्वथ स्नाताः संध्यां विदधति न जातु स्वसमये ॥
त्यजन्तः स्वां वृत्तिं द्विजकुलभवा7 ग्रामगणकी-
भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥ १३३ ॥
बाल-कृष्णः
अपारैरिति । तथाहि अपारैर् बहुभिर् व्यापारैर् ग्रामाय-व्यय-लेखन-कृषि-वाणिज्यादि-रूपैः कर्मभिः इह देशे, अहः दिवसं नयन्तः सन्तः,
अथ अशनदशासु भोजनावसरेषु न तु संध्याकालसमये, स्नाताः कृतस्नानाः अत एव जातु कदापि स्वसमये शास्त्रविहितकाले, संध्यां न विदधति नानुतिष्ठन्ति ।
किंच अमी बहवः न तु द्वित्राः द्विजकुलभवाः ब्राह्मणान्वयोत्पन्ना अपि, स्वां स्वकीयां याजनाध्यापनप्रतिग्रहादिरूपां वृत्तिं जीविकां “वृत्तिर्वर्तनजीवने” इत्यमरः । त्यजन्तः सन्तः, ग्रामेषु गणकीभवन्तः ग्रामायव्ययलेखकरूपा भवन्तः सन्तश्च, कथमपि निषिद्धाचरणादिरूपया तुच्छवृत्त्या जीवन्ति । एतादृशनीचजनाधिष्ठितदेशस्य का नाम प्रतिष्ठेति भावः ॥ १३३ ॥
विश्वास-प्रस्तुतिः
किंच—
उपनयन-विवाहाव् उत्सवैकप्रधानौ
कलि-विभवत एषां काल-भेदानभिज्ञौ (स्तः)॥
विजहति न कदाचिद् वेदपाठैक-योग्ये
वयसि च यवनानी-वाचनाभ्यासम् एते ॥ १३४ ॥
मूलम्
किंच—
‘उपनयन - विवाहावुत्सवैकप्रधानौ’
कलिविभवत एषां कालभेदानभिज्ञौ8 ॥
विजहति9 न कदाचिद्वेदपाठैकयोग्ये
वयसि च यवनानीवाचनाभ्यासमेते10 ॥ १३४ ॥
बाल-कृष्णः
उपनयनेति । किंच उपनयनं व्रतबन्धश्च विवाहश् च तौ, एषां लोकानां कलिविभवतः कलिमाहात्म्यात्, कालस्य “गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम्” इत्यादि-शास्त्रविहितस्य, भेदः ब्राह्मण-क्षत्रियादिभेदेन विशेषः “गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः" इत्यादिरूपः, अथवा “ब्रह्मवर्चसकामस्य कार्ये विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” इत्यादिकामनाभेदेन विशेषः तस्य न विद्यते अभिज्ञा ज्ञानं ययोस् तौ, अत एव उत्सवः एव एकं मुख्यं प्रधानं प्रयोजनं ययोस्तौ तथाभूतौ संवृत्ताविति ।
अनेन निमित्तेन सुहृत्-संबन्धि-जनान् एकीकृत्य मिष्टान्न-भोजनादि-रूप-समारम्भार्थम् एवोपनयन-विवाह करणमित्यर्थः । न तु वेदोपदेशाद्यर्थमिति भावः ।
कुत एतज्ज्ञायते इत्यत आह- एते जनाः वेदस्य पाठः पठनं विधिवदध्ययनमिति यावत् । तदेकयोग्ये वेदाध्ययनमात्रपरतया नेतुमुचिते वयसि कदाचिदपि यवनान्याः यवनलिपेः “इन्द्र- वरुण भव- शर्व - " इत्यादिसूत्रस्थेन " यवनाल्लिप्याम्” इति वार्तिकेन यवनशब्दालिप्यर्थे आनुगागमो ङीप् च । वाचनाभ्यासं सततपरिशीलनरूपं न विजहति न त्यजन्ति ॥ १३४ ॥
विश्वास-प्रस्तुतिः
अपि च—
अज्ञानाम् अ-विराम-लौकिक-वचो-भाजाम् अमीषां पुनर्
मन्त्रोच्चारण(य्) एव पर्यवसितं मौन-व्रतं कर्मसु ॥
ग्रामाय-व्यय-लेखनेन नयतां कालान् अशेषान् अहो
पारंपर्यत ईदृशाम् इह नृणां ब्राह्मण्यम् अन्यादृशम् ॥ १३५ ॥
मूलम्
अपि च—
अज्ञानामविरामलौकिकवचोभाजाममीषां पुन-
र्मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ॥
ग्रामायव्ययलेखनेन नयतां कालानशेषानहो
पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ १३५ ॥
बाल-कृष्णः
अज्ञानामिति । अपि च अज्ञानां कर्तव्याकर्तव्यज्ञानरहितानामत एव अविरामं विश्रामरहितं यथा स्यात्तथा लौकिकवचांसि लोकवार्तालापान् भजन्ति कुर्वन्ति तथाभूतानां
न तु वेदशास्त्रभाजां
अमीषां लोकानां कर्मसु श्रौत-स्मार्तादि-कर्मसु मन्त्रोच्चारणे तत्-तत्-कर्माङ्गभूत-मन्त्रपठने एव, मौनव्रतं पर्यवसितं अवसन्नं आश्रितमिति यावत् ।
लौकिकवचांसि तु बहूनि भाषन्ते इत्यर्थः ।
किंच पुनः ग्रामस्य संबन्धिनौ यौ आय-व्ययौ तयोर्लेखनेन अशेषान् प्रातःकालमारभ्य सायंकालपर्यन्तमित्यर्थः । कालान् नयतां गमयतां, पारंपर्यतः वंशपरंपरया ईदृशां नृणां लोकानां, इह महाराष्ट्रदेशे ब्राह्मण्यं ब्राह्मणकर्म, अन्यादृशं अन्यब्राह्मणविलक्षणं शूद्रप्रायमिति यावत् ॥ १३५ ॥
विश्वास-प्रस्तुतिः
अन्यच्च-
कुक्षेः पूर्त्यै यवन-विततेर् भृत्य-कृत्यानि कर्तुम्
विक्रीणीते वपुर् अपि निजं वेतनैर् एतद् आस्ताम् ॥
विप्रो भूत्वाप्य् अहह गणना-नैपुणैर् वञ्चयित्वा
स्वर्ण-स्तेयं रचयति जनः स्वामिनां पोषकाणाम् ! ॥ १३६ ॥
मूलम्
अन्यच्च-
कुक्षेः पूर्त्यै यवननृपतेर्भृत्यकृत्यानि11 कर्तुम्
विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम् ॥
विप्रो भूत्वाप्यहह गणनानैपुणैर्वञ्चयित्वा
स्वर्णस्तेयं रचयति जनः12 स्वामिनां पोषकाणाम् ! ॥ १३६ ॥
बाल-कृष्णः
अन्यच्चापि निन्द्यतमं कृत्यमाह - कुक्षेरिति । अयमेतद्देशनिवासी जनः, विप्रो ब्राह्मणो भूत्वापि, यवननृपतेर्म्लेच्छजातीयराज्ञः भृत्यकृत्यानि सेवककृत्यानि कर्तु, तच्च केवलं कुक्षेः पूयै स्वोदरभरणायैव न तु स्वामिभक्त्यर्थं, वेतनैः मासिकद्रव्यस्वीकारैः, निजं स्वीयं वपुः शरीरमपि विक्रीणीते । एतत्तु आस्तां तावत् । परंतु अहह इति खेदे । गणनानैपुणैः आय-व्ययद्रव्यसंख्या कौशल्येः वञ्चयित्वा, अयं जनः पोषकाणां मासिकभृतिदानेन पोषणं कुर्वतां स्वामिनामपि किमुतान्येषां स्वर्णस्तेयं द्रव्यचौर्यं रचयति करोति । स्वामिवञ्चनस्य नरकपातहेतुत्वादेतदतीव निन्द्यमित्यर्थः ॥ १३६ ॥
विश्वास-प्रस्तुतिः
अहो बत कलि-महिम्ना
सद्-असद्-विवेक-वैधुर्यम् अखिल-जनानाम् ! ॥ ४४& ॥
ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात् काननं13
नैते स्वामि-धनं हरन्ति ननु तान् निन्दन्ति चोरा इति14 ॥
सद्यो हन्त हरन्ति पोषक-धनं संख्यां विपर्यस्य ये
कष्टं तान् अपि वञ्चकान् इह पुरस्-कुर्वन्ति सर्वे जनाः ॥ १३७ ॥
‘अयं खल्वनुपमो देशः’ इति त्वदुक्तं युक्तम् एव ।
यद् अत्र स्वल्पेनापि यत्नेन15 महती प्रतिष्ठा सिध्यति ॥ ४५& ॥
मूलम्
अहो बत कलिमहिम्ना सदसद्विवेकवैधुर्यमखिलजनानाम् ! ॥ ४४& ॥
ये मुष्णन्ति निशि प्रविश्य भवनं ये वा बलात्काननं13
नैते स्वामिधनं हरन्ति ननु तान्निन्दन्ति चोरा इति14 ॥
सद्यो हन्त हरन्ति पोषकधनं संख्यां विपर्यस्य ये
कष्टं तानपि वञ्चकानिह पुरस्कुर्वन्ति सर्वे जनाः ॥ १३७ ॥
‘अयं खल्वनुपमो देशः’ इति त्वदुक्तं युक्तमेव । यदत्र स्वल्पेनापि यत्नेन15 महती प्रतिष्ठा सिध्यति ॥ ४५& ॥
बाल-कृष्णः
अहो इति । अहो इत्याश्चर्ये । बतेति खेदे । कलिमहिम्ना कलिमाहात्म्येन अखिलानां सर्वेषामपि जनानां सदसतोः उत्तमाधमयोः विवेकस्य विचारस्य वैधुर्यं राहित्यम् ॥ ४४& ॥
कथं तावद्विवेकवैधुर्यमिति चेत्तदेवं विवृणोति – य इति । ये निशि रात्रौ परस्य भवनं गृहं प्रविश्य, ये वा काननमरण्यं प्रविश्य, दिवापि बलात् मुष्णन्ति द्रव्यादिकं चोरयन्ति एते तु स्वामिधनं निजपोषकद्रव्यं नैव हरन्ति, परंतु तान् गृहं प्रविश्य चौर्यकर्मकर्तृन् प्रति ‘चोराः’ इति उक्त्वा निन्दन्ति । ये च संख्यां विपर्यस्य आयव्ययगणनावैपरीत्यं कृत्वा, पोषकधनं सद्यः तत्कालं हरन्ति, हन्तेति खेदे । तानपि वञ्चकान् स्वामिप्रतारकानू, इह देशे सर्वेऽपि जनाः पुरस्कुर्वन्ति मानयन्ति । कष्टमेतदतीवान्याय्यमित्यर्थः ॥ १३७ ॥
अयमिति । किंच ‘अयं महाराष्ट्राभिख्यो देशः अनुपमः खलु’ इति, पूर्वमिति शेषः । त्वया उक्तं प्रतिपादितं युक्तमेव योग्यमेव । कुतः । यद्यस्मात् अत्र देशे स्वल्पेनापि स्तोकेनापि यत्नेन महती प्रतिष्ठा सिध्यति ॥ ४५& ॥
विश्वास-प्रस्तुतिः
वेदव्यासः स इह दश यो वेद वेदाक्षराणि,
लोकं त्व् एकं परिपठति यः स स्वयं जीव(=बृहस्पतिः) एव ॥
आपस्तम्बः स किल कलयेत् सम्यग् औपासनं यः
कष्टं शिष्ट-क्षति-कृति कलौ कार्श्यम् ऋच्छन्ति विद्याः ॥ १३८ ॥
मूलम्
वेदव्यासः स इह16 दश यो वेद वेदाक्षराणि
लोकं त्वेकं परिपठति यः स स्वयं जीव एव ॥
आपस्तम्बः स किल कलयेत्सम्यगौपासनं यः
कष्टं शिष्टक्षतिकृति कलौ कार्श्यमृच्छन्ति विद्याः ॥ १३८ ॥
बाल-कृष्णः
कथमित्युपपादयति– वेदव्यास इति । इह महाराष्ट्रदेशे, यः विप्रः दश वेदस्य अक्षराण्य् एव केवलं, न तु संपूर्णमन्त्रमपि । वेद जानाति “विदो लटो वा” इति लटो णलादेशः । सः वेदव्यासः भवति । एतदग्रेऽपि योज्यम् ।
यश् च एकम् एव न तु अनेकान् श्लोकं परिपठति, सः स्वयं जीवो बृहस्पतिर् एव । “बृहस्पतिः सुराचार्यो गीष्पतिर् धिषणो गुरुः । जीव आङ्गिरसः” इत्यमरः ।
यस्तु सम्यक् औपासनं सायं प्रातर्होमरूपं कर्म कलयेत् कुर्यात्, सः किलेति गर्हायाम् । आपस्तम्बः ऋषिर्भवति । एवं शिष्टानां सभ्यानां क्षतिं नाशं करोतीति तत्कृत् तस्मिन् कलौ युगे, विद्याः वेद-शास्त्रादिज्ञानानि, कार्श्यं कृशत्वं ऋच्छन्ति प्राप्नुवन्ति । कष्टमिति खेदे ॥ १३८ ॥
विश्वावसुः
विश्वास-प्रस्तुतिः
वि॰ - किम् अरे भूसुरेष्व् एवं17 दोषम् उद्घोषयसि ? ॥ ४६ ॥
अत्रापि सन्ति बहवः कलिताग्निहोत्राः
शास्त्रार्थ-बोध-कुशलाः किल शान्तिमन्तः ॥
अन्तर्मुखाः सततम् आत्मविदो महान्तो
निर्धूत-बाह्य-विषया निगमाध्व-निष्ठाः ॥ १३९ ॥
मूलम्
वि॰ - किमरे भूसुरेष्वेवं17 दोषमुद्घोषयसि ? ॥ ४६ ॥
अत्रापि सन्ति बहवः कलिताग्निहोत्राः
शास्त्रार्थबोधकुशलाः किल शान्तिमन्तः ॥
अन्तर्मुखाः सततमात्मविदो महान्तो
निर्धूतबाह्यविषया निगमाध्वनिष्ठाः ॥ १३९ ॥
बाल-कृष्णः
किमिति । अरे कृशानो ! भूसुरेषु ब्राह्मणेष्वपि एवं दोषमुद्धोषयसि आरोपयसि ! ॥ ४६ ॥
वस्तुतस्तु नैवायं देशो दूषणार्ह इत्याह- अत्रेति । अत्र महाराष्ट्रदेशेऽपि, बहवो बुधाः जनाः न तु द्वित्राः । शास्त्रस्य अर्थबोधे अर्थज्ञाने कुशलाः निपुणाः मार्मिका इति यावत् । अत एव निगमाध्वनि वेदविहितकर्मानुष्ठानरूपमार्गे निष्टा आसक्तिर्येषां तथाभूताः, अत एव च कलितं स्वीकृतं अग्निहोत्रं त्रेताग्निसाध्यः कर्मविशेषः यैस्ते ता- दृशाः । केचित्तु निर्धूताः निरस्ताः बाह्यविषयाः शब्दादिविषया यैस्ते तथाभूताश्च, अतो हेतोरेव अन्तः हृदयपुण्डरीके आत्मोपलब्धिस्थले एवं मुखं सांमुख्यं येषां ते, सततमात्मानुध्यानासक्ता इति यावत् । सततं निरन्तरं आत्मानं विदन्ति स्वानुभूत्या साक्षात् कुर्वन्तीति तथाभूताः । किलेत्यवधारणे, हेतौ वा । अव्ययानामनेकार्थत्वात् । शान्तिमन्तो बाह्येन्द्रियनिग्रहतत्परा इत्यर्थः । अत एव महान्तः महत्त्वलक्षणसंपन्नाः । महत्त्वलक्षणमुक्तं श्रीमद्भागवते - " महान्तस्ते समचित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये " इति । एवं च कर्म-ज्ञाननिष्ठा उभयविधा अपि जनाः अत्र देशे सन्ति ॥ १३९ ॥
विश्वास-प्रस्तुतिः
अन्यच्च –
शुचीभूताः स्नानैः श्रुत-हित-पुराणाश् च नियमाद्
अपूतानां स्पर्शान् अवहित-हृदो ऽमी विजहतः ॥
सुराभ्यर्चां कृत्वा शुचिकृतम् अदन्त्य् अन्नम् अनघं
महाराष्ट्रे देशे विलसति महान् एष हि गुणः ॥ १४० ॥
मूलम्
अन्यच्च –
शुचीभूताः18 स्नानैः श्रुतहितपुराणाश्च19 नियमा-
दपूतानां स्पर्शानवहितहृदोऽमी विजहतः ॥
सुराभ्यर्चां कृत्वा शुचिकृतमदन्त्यन्नमनघं
महाराष्ट्रे देशे विलसति महानेष हि गुणः ॥ १४० ॥
बाल-कृष्णः
शुचीभूता इति । किंच स्नानैः शुचीभूताः पवित्रीकृताः । नैतावदेव, किंतु नियमात् श्रुतानि आकर्णितानि हितानि हितकराणि पुराणानि श्रीमद्भागवतादीनि भक्तिज्ञानादिविषयप्रतिपादकानि यैस्तथाभूताः । अत्र श्रुतपुराणग्रहणमुपलक्षणम् । तेन न केवलं श्रुतानि, किंतु सम्यगधीतानि मीमांसितानि च । वेद शास्त्र-पुराणानीत्यपि ज्ञेयम् । अत एव अवहितं श्रुतिस्मृत्यादिविहितप्रतिषिद्धविषये प्रमादरहितं हृत् चित्तं येषां ते तथाभूताः सावधानचित्ता इत्यर्थः । एतादृशा अमी जनाः अपूतानां अपवित्राणां चाण्डालादीनां स्पर्शान् शरीरसंपर्कान्, विजहतः त्यजन्तः सन्तः, सुराणां विष्णुशिवादिदेवानामभ्यर्चां पूजां कृत्वा शुचिभिः पवित्रजनैः कृतं पक्तं अत एव अनघं निर्मलमन्नं अदन्ति भुञ्जन्ति । न तु येन केनापि कृतमित्यर्थः । तस्मादेष पूर्वोक्तः महान् गुणः महाराष्ट्र देशे हि एव विलसति प्रकाशते दृश्यते । नान्यत्रेत्यर्थः ॥ १४० ॥
विश्वास-प्रस्तुतिः
किंच-
चमू-नियमनेन वा जनपदाधिकारेण वा
द्विज-व्रज उपव्रजन् प्रभु-पदं महाराष्ट्र-जः ॥
न वृत्तिम् इह पालयेद् यदि धरासुराणां ततो
भवेद् यवन-वेष्टितं भुवनम् एतद् अब्राह्मणम् ॥ १४१ ॥
यच् च दोषान्तरं भवता परिभाषितं
तद् अशेषम् अपि साधुजनोपकारेण परिहीयते ॥ ४७& ॥
मूलम्
किंच-
चमूनियमनेन वा जनपदाधिकारेण वा
द्विजव्रज उपव्रजन्प्रभुपदं महाराष्ट्रजः ॥
न वृत्तिमिह पालयेद्यदि धरासुराणां ततो
भवेद्यव॑नवेष्टितं20 भुवनमेतदब्राह्मणम् ॥ १४१ ॥
यच्च दोषान्तरं भवता परिभाषितं तदशेषमपि साधुजनोपकारेण परिहीयते21 ॥ ४७ ॥
बाल-कृष्णः
‘कुक्षेः पूर्त्यै यवननृपतेः’ इत्यादिनोक्तं दूषणं परिहरति-चम्विति । किंच महाराष्ट्रजः तद्देशोत्पन्नः द्विजानां ब्राह्मणानां व्रजः समूहः, चम्वाः सेनायाः नियमनेन सेनाधिपत्यं स्वीकृत्येत्यर्थः । जनपदस्य देशस्य अधिकारेण आय-व्ययलेखनादिरूपेण वा, प्रभुपदं तत्तदधिकारस्थानमुपव्रजन् प्राप्नुवन्, यदि धरासुराणां ब्राह्मणानां वृत्तिं जीविकां न पालयेत् न रक्षेच्चेत्, ततस्तर्हि एतद्भुवनं सर्वोऽप्ययं भूलोक इत्यर्थः । यवनैः म्लेच्छैः वेष्टितं सर्वत्र व्याप्तं, ततश्च अब्राह्मणं ब्राह्मणरहितमपि भवेत् संपद्येत । यवनानामेव सर्वत्र प्राबल्यात् ते वर्णाश्रमधर्मं विनाश्य ब्राह्मणादीनपि भ्रंशयिष्यन्तीति भावः ॥ १४१ ॥
अथ ‘उपनयन विवाहौ -’ इत्यादिनोक्तं दूषणं परिहरति- यच्चेति । भवता यच्च दोषान्तरं ‘विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यास’ इत्यादिरूपं परिभाषितं, तत् अशेषं सकलमपि साधुजनानां उपकारेण परिहीयते निवार्यते ॥ ४७& ॥
विश्वास-प्रस्तुतिः
अलं मङ्क्षु(=तूर्णम्) संहर्तुम् अंहस् सहस्रं
स एकोऽपि विप्र-प्रवेक(=प्रमुख)+उपकारः ॥
कठोरः कुठारः किलैकोऽपि तिग्मो
विनिर्भेत्तुम् ईष्टे विष-द्रून् अनेकान्॥ १४२ ॥
मूलम्
अलं मङ्क्षु संहर्तुमंहस्सहस्रं
स एकोऽपि विप्रप्रवेकोपकारः ॥
कठोरः कुठारः किलैकोऽपि तिग्मो
विनिर्भेत्तुमीष्टे विषद्रूननेकान्॥ १४२ ॥
बाल-कृष्णः
कथमिति चेत्तदाह-अलमिति । सः प्रसिद्धः एकोऽपि किमुतानेके ? विप्राणां ब्राह्मणानां मध्ये ये प्रवेकाः संध्यादिकर्मानुष्ठानेनोत्तमाः तेषां, “प्रवेकानुत्तमोत्तमाः” इत्यमरः । उपकारः अंहसां पापानां सहस्रं, मङ्क्षु शीघ्रमेव “द्राक् मङ्क्षु सपदि दुते” इत्यमरः । संहर्तुं विनाशयितुं अलं समर्थः । दृष्टान्तमाह- कठोरः दण्डादिना दृढः तिग्मः धारया च तीक्ष्णः " तिग्मं तीक्ष्णं खरं तद्वत् -" इत्यमरः । एकोऽप्येक एव किल कुठारः, अनेकान् बहून् विषद्रून् विषवृक्षान् विनिर्भेत्तुं विशेषेण आमूलादित्यर्थः । भेत्तुं छेत्तुं ईष्टे समर्थो भवति । दृष्टान्तालंकारः । भुजंगप्रयातं वृत्तम् । “भुजंगप्रयातं भवेद्यैश्चतुर्भिः” इति तल्लक्षणात् ॥ १४२ ॥
कृशानुः
विश्वास-प्रस्तुतिः
कृ॰ – अस्त्व् एवम्।
अथाप्य् अत्रत्यानाम् आद्येतर22वर्णप्रभवानां23
पुनर् अति-दुस्सहं24 चेष्टितम् ॥ ४८& ॥
पश्य-
देशे देशे लम्पटाः पर्यटन्तो
भञ्जं भञ्जं ब्राह्मणादीन् अशेषान् ॥
हारं हारं हन्त सर्वस्वम् एषां
पापा एते स्वोदरं पूरयन्ति ॥ १४३ ॥
मूलम्
कृ॰ –अस्त्वेवमथाप्यत्रत्यानामाद्येतर22वर्णप्रभवानां23 पुनरतिदुस्सहं24 चेष्टितम् ॥ ४८& ॥
पश्य-
देशे देशे लम्पटाः पर्यटन्तो भञ्जं भञ्जं ब्राह्मणादीनशेषान् ॥
हारं हारं हन्त सर्वस्वमेषां पापा एते स्वोदरं पूरयन्ति ॥ १४३ ॥
विस्तारः (द्रष्टुं नोद्यम्)
इदानीं क्षत्रियादीनां दोषानाह कृशानुः - अस्त्विति । एवं भवदुक्तं अस्तु नाम, अथापि भवदुक्तरीत्या ब्राह्मणानामुपकारकर्तृत्वे सत्यपि, अत्रत्यानामेतद्देशी- यानां आद्यात् इतरे क्षत्रियादयस्तेषु वर्णेषु प्रभव उत्पत्तिर्येषां तेषां पुनरतिदुःसहं अत्यन्तं सोढुमशक्यं चेष्टितं आचरणम् । अस्तीति शेषः ॥ ४८& ॥
दुःसहचेष्टितत्वमेव प्रतिपादयति-देशे देश इति । लम्पटाः परद्रव्यापहारतत्पराः अत एव पापाः पापकारिणः एते एतद्देशीयाः क्षत्रियादयः देशेदेशे प्रतिदेशं पर्य- टन्तः परिभ्रमन्तः सन्तः, ब्राह्मणादीन् अशेषान् सर्वान् भजं भजं द्रव्यवाञ्छया भङ्क्त्वा भङ्क्त्वा एषां ब्राह्मणादीनां सर्वस्वं, हारं हारं हत्वा हृत्वा । पूर्वत्रात्र च ‘भजो आमर्दने’ ‘हृञ् हरणे’ इति धातुभ्यां " आभीक्ष्ण्ये णमुल् च" इति णमुल् । स्वोदरं पूरयन्ति । हन्तेति खेदे ॥ १४३ ॥
विश्वावसुः
विश्वास-प्रस्तुतिः
वि॰ - सत्यम् एवम्।
अथापि25 महनीयम् एव तेषाम् एवं चेष्टितम् ॥ ४९& ॥
मूलम्
वि॰ - सत्यमेवमथापि25 महनीयमेव तेषामेवं चेष्टितम् ॥ ४९& ॥
विस्तारः (द्रष्टुं नोद्यम्)
सत्यमिति । एवं ‘देशे देशे -’ इत्यादिप्रकारेणोक्तं दूषणं सत्यं, अथापि तेषां क्षत्रियादीनां एवमग्रे वक्ष्यमाणरीत्या चेष्टितमाचरणं महनीयमेव पूज्यमेव ॥ ४९& ॥
विश्वास-प्रस्तुतिः
माया-चञ्चुतया भयावह-गतिः प्रत्यर्थि-पृथ्वी-भुजाम्
माहाराष्ट्र-भट-च्छटा रण-पटुर् नो पर्यटाट्येत चेत् ॥
देव-ब्राह्मण-वर्ग-निग्रह-कृतो देशांस् तुरुष्का इमे
निष्प्रत्यूह-मनोरथा वितनुयुर् निर्देव-भूमीसुरान् ॥ १४४ ॥(5)
मूलम्
मायाचञ्चुतया26 भयावहगतिः प्रत्यर्थिपृथ्वीभुजाम्
माहाराष्ट्रभटच्छटा रणपटुर्नोपर्यटाट्येत27 चेत् ॥
देव-ब्राह्मणवर्गनिग्रहकृतो देशांस्तुरुष्का इमे
निष्प्रत्यूहमनोरथा वितनुयुर्निर्देव-भूमीसुरान्28 ॥ १४४ ॥
बाल-कृष्णः
कथं महनीयम् इत्य् एतद् एवोपपादयति– मायाचुञ्चुतयेति । रणे पटुः कुशला महाराष्ट्रे भवा माहाराष्ट्रास्तेषां भटानां योधानां “भटा योधाश्व योद्धारः” इत्यमरः । छटा समूहः, मायया वित्ता प्रसिद्धा मायाचुञ्चुः तस्याः भावः मायाचुञ्चुता तया " तेन वित्तश्रुचुप चणपौ” इति चुञ्चुप्प्रत्ययः । युद्धकापट्यज्ञानप्रसिद्धत्वेनेत्यर्थः । प्रत्यर्थिनां शत्रुभूतानां क्षितिभुजां राज्ञां " दस्यु - शात्रव - शत्रवः । अभिघाति-परा- राति - प्रत्यर्थि- परिपन्थिनः" इत्यमरः । भयावहा भयोत्पादका गतिः संचारो यस्यास्तथाभूता सती, नो पर्यटाट्येत भृशं पुनः पुनर्वा परिभ्रमणं न कुर्यात् चेत्, परिपूर्वकस्य ‘अट गतौ’ इत्यस्य यङन्तस्य विधिलिङि रूपम् । तदा देवाश्च ब्राह्मणाश्च तेषां वर्गः समुदायः तस्य निग्रहं भ्रष्टकरण-धनग्रहणादिच्छलरूपं कुर्वन्तीति तथाभूताः इमे तुरुष्काः तुरुष्कदेशीया नृपाः, निष्प्रत्यूहः निर्विघ्नः " विनोऽन्तरायः प्रत्यूहः " इत्यमरः । मनोरथः परधनग्रहणादिरूपो येषां तथाभूताः सन्तः सर्वान् देशान् निर्देवभूमीसुरान् देव-ब्राह्मणरहितान् वितनुयुः कुर्युरेव ॥ १४४ ॥
विश्वास-प्रस्तुतिः
ततश्च-
देव-क्षोणी-सुर-हित-कृते दारित-म्लेच्छ-पङ्क्तेर्
मह्यां सह्या कथम् अपि महाराष्ट्र-यूथस्य चेष्टा ॥
व्याधि-व्यूह-प्रतिहति-कृतां व्यक्तम् उग्रौषधानां
कायारोग्य-प्रणयि-हृदयैः काटवं मर्षणीयम् ॥ १४५ ॥ (4)
मूलम्
ततश्च-
देवक्षोणी सुरहितकृते दारितम्लेच्छपङ्क्ते
र्मह्यां सह्या कथमपि महाराष्ट्रयूथस्य चेष्टा ॥
व्याधिव्यूहप्रतिहतिकृतां29 व्यक्तमुग्रौषधानां
कायारोग्यप्रणयिहृदयैः काटवं मर्षणीयम् ॥ १४५ ॥,
बाल-कृष्णः
तत इति । ततश्च पूर्वोक्तत्रासनिवारणहेतोरेव -
देवेति । देव- क्षोणीसुरहितकृते देव-ब्राह्मणहितार्थं दारिता विनाशिता म्लेच्छानां पङ्क्तिः समुदायो येन तथोक्तस्य महाराष्ट्रयूथस्य महाराष्ट्रनृपसैन्यस्य मह्यां पृथिव्यां कथमपि सोढुमशक्यत्वे सत्यपि संकटेनैव, चेष्टा कृतिः सह्या सहनीया । लोकैरिति परिशेषात् । यथा व्याधिव्यूहस्य रोगसमूहस्य प्रतिहतं नाशं कुर्वन्तीति तथाभूतानां उग्राणि खराणि च तानि औषधानि च तेषां व्यक्तं प्रसिद्धं काटवं कटुत्वं कायस्य देहस्य आरोग्ये प्रणयि अनुरागयुक्तं हृदयमन्तःकरणं येषां तैर्जनैः कथमपि मर्षणीयम् सहनीयम् दृष्टान्तालंकारः ॥ १४५ ॥
विश्वास-प्रस्तुतिः
इत्यन्यतो विमानं गमयन्न्
अग्रतो दृष्ट्वा
क इमे बहवः समवेता मानुषा
मार्गान् अशेषान् अप्य् अशून्ययन्ति30 ॥ ५०& ॥
निपुणं निरूप्य सश्लाघम् -
अङ्गान् वङ्गान् कलिङ्गान् अथ मगध-कुरून् कोसलान् केकयान् वा
काश्मीरान् कुन्तलान् वा यवन-जन-पदान् किंच पाञ्चाल-देशान् ॥
नेपालान् केरलान् वा कतिचन कृतिनः पाण्ड्य-तुण्डीर-चोलान्
कर्नाटान् गौड-लाटान् पर-गति-घटना-लम्पटाः पर्यटन्ति ॥ १४६॥
मूलम्
इत्यन्यतो विमानं गमयन्नग्रतो दृष्ट्वा क इमे बहवः समवेता मानुषा मार्गानशेषानप्यशून्ययन्ति30 ॥ ५० ॥
निपुणं निरूप्य सश्लाघम् -
अङ्गान् वङ्गान् कलिङ्गानथ मगध - कुरून् कोसलान् केकयान् वा
काश्मीरान् कुन्तलान्वा यवनजनपदान् किंच पाञ्चालदेशान् ॥
नेपालान् केरलान्वा कतिचन कृतिनः पाण्ड्य - तुण्डीर चोलान्31
कर्नाटान् गौड - लाटान् परगतिघटनालम्पटाः पर्यटन्ति32 ॥ १४६॥
बाल-कृष्णः
इतीति । अन्यतोऽन्यत्र स्थले विमानं गमयन्नग्रतः पुरोभागे दृष्ट्वा आह- क इति । इमे बहवः समवेता एकत्र मिलिताः मानुषाः अशेषान् सर्वानपि मार्गान् अशून्ययन्ति इतस्ततः परिभ्रमणेन सर्वदा परिपूरयन्ति, ते के ? ॥ ५० ॥
निपुणमवलोक्य निश्चित्याह- अङ्गानिति । एते कतिचन कतिपयाः कृतिनः पुण्यवन्तो ( जनाः) परस्य स्वर्गादिलोकस्य गतेः प्राप्तेः घटनायां संपादने लम्पटाः आसक्ताः अङ्गादीन् देशान् पर्यटन्ति परिभ्रमन्ति । तत्र तत्र देशे यानि तीर्थानि याश्च देवताः सन्ति तेषां स्नानदर्शनादिकर्मभिरात्मानं पवित्रीकर्तुमिति भावः ॥ १४६ ॥
कृशानुः
विश्वास-प्रस्तुतिः
कृ॰ - अरे किमेतान् निन्दनीयान् अभिनन्दसि33 ! ॥ ५१ ॥
नाना-जाति-भवा इमे कलि-बलाद् एकीभवन्तो नरा
वैराग्याभिनयं चिराद् विदधतो वर्णाश्रम-त्यागिनः ॥
निर्धूतानघ-वैदिक-प्रणमनानिष्किंचना वञ्चना-
दक्षा दिक्षु विदिक्षु कुक्षि-भृतये भिक्षाटनं कुर्वते ॥ १४७ ॥
मूलम्
कृ॰ - अरे किमेतान्निन्दनीयानभिनन्दसि33 ! ॥ ५१ ॥
नानाजातिभवा इमे कलिबलादेकीभवन्तो नरा
वैराग्याभिनयं चिराद्विदधतो वर्णाश्रमत्यागिनः ॥
निर्धूतानघवैदिकप्रणमना34 निष्किंचना वञ्चना-
दक्षा दिक्षु विदिक्षु कुक्षिभृतये भिक्षाटनं कुर्वते ॥ १४७ ॥
बाल-कृष्णः
अरे इति । अरे विश्वावसो, एतान् वस्तुतो निन्दनीयान्निन्दायोग्यान् किं कुतो हेतोः अभिनन्दसि ? ॥ ५१ ॥
कुतो वा नाभिनन्दनीया इत्याह- नानेति । इमे नानाजातिभवाः अनेकवर्णसंभवा अपि कलेर्बलात् माहात्म्यात् एकीभवन्तः एकत्र संमिलन्तः, तर्हि युक्तमेवैतत्, एकीभूय किमपि महत्कार्यं कुर्वन्तीति चेत्तत्राह - वर्णाश्रमत्यागिनः वर्णाश्रमधर्मत्यागशीलाः, एतेन स्वस्वधर्मं त्यक्त्वैवैकीभूतास्ते धर्महानिं विना नान्यत्किमपि कर्तुं शक्ताः इति सूचितम् । एतादृशा नराः चिरात् बहुकालपर्यन्तं वैराग्यस्य इन्द्रियदमनादिरूपस्य अभिनयं प्रकटीकरणं विदधतः, अभ्यस्तत्वान्नुमभावः । कुर्वन्तः, किंच निर्धूतं सर्वथा त्यक्तं अनघानां निष्पापानां वैदिकानां वेदज्ञानां प्रणमनं अभि- वादनं यैस्तथाभूताः वेदज्ञान् जनान् तिरस्कुर्वन्त इति यावत् । निष्किंचना नास्ति किंचन धनादिकं येषां ते, दरिद्रा इत्यर्थः । अत एव वञ्चनायां परप्रतारणायां दक्षा निपुणाः सन्तः, दिक्षु पूर्वादिषु विदिक्षु आग्नेय्यादिषूपदिशासु, कुक्षिभृतये उदरभरणार्थं भिक्षाटनं कुर्वते ॥ १४७ ॥
विश्वास-प्रस्तुतिः
किंच-
विमल-चरिता,, विश्वामित्रा,,दयः परमर्षयो
बहुभिर् अतुलैर्,, ब्राह्मण्यं यत्,, तपोभिर् उपार्जयन् ॥
तद् इह जहतो,, जन्म-प्राप्तं,, त्रयी-विमुखेष्व् अमीष्व्
अहह कतिचित्,, पाखण्डेषु,, प्रविश्य हता जनाः ॥ १४८ ॥
मूलम्
किंच-
विमलचरिता विश्वामित्रादयः परमर्षयो
बहुभिरतुलैर्ब्राह्मण्यं यत्तपोभिरुपार्जयन् ॥
तदिह जहतो जन्मप्राप्तं त्रयीविमुखेष्वमी-
ष्वहह कतिचित्पाखण्डेषु प्रविश्य हता जनाः ॥ १४८ ॥
बाल-कृष्णः
किंच - विमलेति । विमलं निर्मलं चरितं आचरणं येषां ते, विश्वामित्रः “मित्रे वर्षों" इति विश्वशब्दस्य दीर्घः । आदिः प्रमुखो येषां ते परमर्षयः श्रेष्ठा ऋषयः अतुलैः इतरैः कर्तुमशक्यैः बहुभिः षष्टिवर्षसहस्रसदृश बहुकालसाध्यैः तपोभिस्तपश्चर्याभिः यत् ब्राह्मण्यं ब्राह्मणत्वं उपार्जयन् संपादितवन्तः, तत् ब्राह्मण्यं इह लोके जन्मतः प्राप्तं, न तु तपआदिप्रयत्नैः, जहतः त्यजन्तः सन्तः त्रयीविमुखेषु ऋगादिवेदत्रयपराङ्मुखेषु पाषण्डेषु वेद-शास्त्रविहितकर्मभ्रष्टेषु अमीषु वैरागिषु प्रविश्य, तैः सहैकीभूयेत्यर्थः । एते जनाः हताः भ्रष्टाः । अहहेति खेदे ॥ १४८ ॥ कथमिति । अरे कृशानो ! हरेर्विष्णोर्भक्तेषु विरक्तेषु शब्दादिविषयपराड्युखेष्वपि, अमीषु दूषयितुमिति शेषः । संनह्यसि उद्युक्तो भवसि ॥ ५२& ॥
विश्वावसुः
विश्वास-प्रस्तुतिः
वि॰ – कथमरे35 हरेर्भक्तेषु विरक्तेष्व् अप्य् अमीषु36 सन्नह्यसि37 ॥ ५२& ॥
दोषेभ्यो नैव भेतव्यं
दृढा चेद् भक्तिर् अच्युते ॥
तिमिरेभ्यो नहि भयं
दीपश् चेल् लभ्यते महान् ॥ १४९ ॥
मूलम्
वि॰ – कथमरे35 हरेर्भक्तेषु विरक्तेष्वप्यमीषु36 सन्नह्यसि37 ॥ ५२& ॥
दोषेभ्यो नैव भेतव्यं दृढा चेद्भक्तिरच्युते ॥
तिमिरेभ्यो नहि भयं दीपश्चेल्लभ्यते महान् ॥ १४९ ॥
विस्तारः (द्रष्टुं नोद्यम्)
भक्तिसंपन्नेषु विरागयुक्तेषु च धर्मत्यागादिरूपं दूषणम् किंचित्करमित्याह- दोषेभ्य इति । अच्युते श्रीभगवति विष्णौ दृढा भक्तिश्चेत्, दोषेभ्यः पूर्वोक्तेभ्यो नैव भेतव्यं, दृढभक्तेः पुरतः इतरे सर्वेऽपि दोषास्तुच्छा इत्यर्थः । एतद्भगवता श्रीकृष्णेनैव भगवद्गीतायां स्वमुखेन प्रतिपादितम् - “सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः” इति । एतदेव प्रतिवस्तूपमयाह - तिमिरेभ्य इति । महान् प्रज्वलितः दीपः लभ्यते चेत्, तिमिरेभ्यः अन्धकारेभ्यः भयं नहि नास्त्येव । प्रतिवस्तूपमालंकारः । लक्षणमुक्तं प्राक् ॥ १४९ ॥
विश्वास-प्रस्तुतिः
किंच-
दुःखं च जन्म-दुरितं च दृढाम् अविद्याम्
हा हन्त हन्ति परमा हरिभक्तिर् एका ॥
एकोऽपि राघव-शरः किल सप्त-तालान्38
शैलं रसातलम् अपि त्वरया बिभेद ॥ १५० ॥
मूलम्
किंच-
दुःखं च जन्मदुरितं च दृढामविद्याम्
हा हन्त हन्ति परमा हरिभक्तिरेका ॥
एकोऽपि राघवशरः किल सप्ततालान्38
शैलं रसातलमपि त्वरया बिभेद ॥ १५० ॥
बाल-कृष्णः
किंच- दुःखमिति । परमोत्तमा हरिभक्तिः श्रीकृष्णभक्तिः एकैव, दुःखं आधि-
भौतिकादिकं, जन्मदुरितं जन्मनः आरभ्य संपादितं पापमित्यर्थः । दृढां त्यक्तुमशक्यां अविद्यां अज्ञानं च हन्ति विनाशयति । हा हन्तेत्याश्चर्ये । अत्र दृष्टान्तमाह-राघवस्य श्रीरामचन्द्रस्य शरो बाणः एकोऽपि एक एव, सप्ततालान् सप्तसंख्याकांस्तालवृक्षान्, शैलं पर्वतं च रसातलं पातालमपि, त्वरया शीघ्रमेव विभेद । किलेत्यैति । वालिवधात् पूर्व सुग्रीवप्रार्थितेन श्रीरामचन्द्रेणैतत् स्वसामर्थ्य प्रकटनार्थं कृतमिति श्रीरामायणकथात्रानुसंधेया । दृष्टान्तालंकारः ॥ १५० ॥
विश्वास-प्रस्तुतिः
अपि च-
धुनोति निबिडं तमः परिलुनाति पापाटवीं
तनोति च मनोरथान् उपचिनोति नानोत्सवान् ॥
अनक्ति च पुनःपुनर् ननु मनः सुधा-निर्झरैर्
व्यनक्ति परिपक्त्रिमं वृषगिरीश-भक्तिः शुभम् ॥ १५१ ॥
मूलम्
अपि च-
धुनोति निबिडं तमः परिलुनाति पापाटवीं
तनोति च मनोरथानुपचिनोति नानोत्सवान् ॥
अनक्ति च पुनःपुनर्ननु मनः सुधानिर्झरै-
र्व्यनक्ति परिपक्त्रमं वृषगिरीशभक्तिः शुभम् ॥ १५१ ॥
बाल-कृष्णः
किंच - धुनोतीति । वृषगिरीशः श्रीवेङ्कटाचलनिवासी श्रीनिवासः अथवा वृषस्य गिरिः पर्वतः श्रीशैलः तस्येशो मल्लिकार्जुनः, वृष इव गिरिः शुभ्रः कैलासः तस्य ईशः श्रीशंकर इति वा । तस्मिन् कस्मिन्नपि भक्तिः कर्त्री । निबिडं सान्द्रं तमः अज्ञानं धुनोति विनाशयति । पापानां अटवी अरण्यं तत्सदृशं समूहमित्यर्थः परिलुनाति सर्वतश्छिनत्ति । मनोरथान् तनोति विस्तारयति । नानोत्सवान् अनेकविधानानन्दान् उपचिनोति वर्धयति । पुनः पुनः मनः सुधानिर्झरैः अमृतप्रवाहैः सह अनक्ति संयोजयति । ननु निश्चयेन । ईशभक्त्या स्वर्गप्राप्तिर्भवतीति भावः ।
परिपक्त्रिमं फलाभिमुखं सत्, पचेः “ड्वितः क्त्रिः” इति क्त्रि-प्रत्ययः । तदन्ताच “र्मपू-” इति मपू । शुभं शुभफलावहं व्यनक्ति संपादयति । समुच्चयनामालंकारः । " तत्सिद्धिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युपगद्या गुणक्रिया" इति तल्लक्षणात् ॥ १५१ ॥
विश्वास-प्रस्तुतिः
किंबहुना -
पूताङ्गानां पुण्य-गङ्गादि-सिन्धु-
स्नानान् नाना-क्षेत्र-यात्रा-पराणाम् ॥
दारागारापत्य-वैराग्य-भाजां
साराभिज्ञैर् आदरः कार्य एषाम् ॥ १५२ ॥
मूलम्
किंबहुना -
पूताङ्गानां पुण्यगङ्गादिसिन्धुस्नानान्नानाक्षेत्रयात्रापराणाम् ॥
दारागारापत्यवैराग्यभाजां साराभिज्ञैरादरः कार्य एषाम् ॥ १५२ ॥
बाल-कृष्णः
किमिति । बहुनाधिकेन उक्तेनेति शेषः । किं किं फलं, सारमेव संक्षेपेण कथयामीति भावः । -
पूतेति । नानाक्षेत्रेषु काशीप्रयागादिबहुषु पुण्यक्षेत्रेषु यात्रायां गमनरूपायां पराणामासक्तानां त एव पुण्यासु पवित्ररूपासु गङ्गा आदिर्मुख्या यासु तासु सिन्धुषु नदीषु स्नानात् पूतं शुद्धियुक्तं ‘पूञ् पत्रने’ इत्यस्मात् भावे कप्रत्यये अर्श- आदित्वान्मत्वर्थीयोऽच्प्रत्ययः । अङ्गं शरीरं येषां तेषाम् । तत एव च दाराः स्त्रियश्च अगारं गृहं च, एतद्धनादेरप्युपलक्षणम् । अपत्यानि पुत्राश्च तेषु वैराग्यं अनासक्तिं भजन्ति कुर्वन्तीति तथाभूतानां, एषां जनानां साराभिज्ञैः सदसद्विवेकयुक्तैर्जनैः आदरः कार्यः कर्तव्यः ॥ १५२ ॥