विश्वास-प्रस्तुतिः
अथ यमुनानदीवर्णनम्॥
इत्यलं प्रसक्तानुप्रसक्त्येति दूरतो विमानमानयन् साञ्जलिबन्धम्1 –
कृष्णाश्लेषविशेषिताऽसितरुचे कालिन्दि तुभ्यं नमः
कुञ्जेभ्यः श्रिततावकाम्बुकणिकापुञ्जेभ्य एषोऽञ्जलिः ॥
गोपीभ्यः परिरिप्सया2 मुररिपोस्तेषु स्थिताभ्यो नति-
र्नाथायाभिरुपासिताय च नमोवाकानधीयीमहि ॥ १२३ ॥
मूलम्
अथ यमुनानदीवर्णनम्॥
इत्यलं प्रसक्तानुप्रसक्त्येति दूरतो विमानमानयन् साञ्जलिबन्धम्1 –
कृष्णाश्लेषविशेषिताऽसितरुचे कालिन्दि तुभ्यं नमः
कुञ्जेभ्यः श्रिततावकाम्बुकणिकापुञ्जेभ्य एषोऽञ्जलिः ॥
गोपीभ्यः परिरिप्सया2 मुररिपोस्तेषु स्थिताभ्यो नति-
र्नाथायाभिरुपासिताय च नमोवाकानधीयीमहि ॥ १२३ ॥
बाल-कृष्णः
अथ यमुनावर्णनमाक्षिपति - इतीति । इत्येवमुक्त्वा प्रसक्तस्य प्रकृतस्य गुर्जर- देशवर्णनस्य अनुप्रसक्त्या तत्रत्यपुरुषाणामुत्तमाधमत्वनिरूपणेन, अलं पर्याप्तं इत्युक्त्वा दूरतो दूरं विमानमानयन् अञ्जलिबन्धेन करसंपुटेन सहितं यथा तथा प्राहेति ।
कृष्णेति । हे कालिन्दि यमुने श्रीकृष्णाष्टनायिकानामन्यतमे च कृष्णस्य य आश्लेषः जलविहाररूपः आलिङ्गनं च तेन विशेषिता वर्द्धिता कृष्णवर्णा असिता रुक् कान्तिर्यस्यास्तस्यै तुभ्यं नमः । तथा श्रिताः संलग्नाः तव इमे तावकास्त्वदीया इत्यर्थः । युष्मच्छब्दात् " तस्येदम्" इत्यर्थेऽणि “तवक - ममकावेकवचने" इति तवकादेशः । अम्बुकणिकानां जलकणानां पुञ्जा राशयो येषु तेभ्यः कुञ्जेभ्यः लतागृहेम्यः “निकुञ्ज - कुञ्जौ वा क्लीबे लतादिपिहितोदरे " इत्यमरः । एषः मया क्रियमाणः अञ्जलिः नमस्काररूपः, अस्तु इति शेषः । अपि च मुरस्य मुरनामकदैत्यस्य रिपोः शत्रोः श्रीकृष्णस्य परिरिप्सया आलिङ्गनेच्छया, परिपूर्वकाद्रभेः सन्नन्तादकारप्रत्ययः । “सनि मी मा घुरभ - लभ" इत्यादिना इसादेशः । तेषु कुञ्जेषु स्थिताभ्यः गोपीभ्यः नतिर्नमस्कारः । किंच आभिर्गोपस्त्रीभिः उपासिताय पूजिताय नाथाय श्रीकृष्णाय नमोवाकान् नमस्कारोक्तीः अधीयीमहि पुनः पुनरुच्चारयामः ‘इङ् अध्ययने’ इत्यस्मादधिपूर्वात् विधिलिङयुत्तमपुरुषबहुवचनम् ॥ १२३ ॥
विश्वास-प्रस्तुतिः
कृ- कृतं सखे चोर - जारशिखामणेः3 कृष्णस्य जगदतिसंधातुर-
नुसंधानेन ! ॥ ४०& ॥
तथाहि-
लुण्ठित्वा नवनीतमन्यसदने लोलेक्षणो भक्षयन्
गोपीभिः परिगृह्य4 मातृसविधं नीतो मुकुन्दस्तया ॥
लुण्ठीर्मा नवनीतमित्यभिहितोऽप्येतद्यलुण्ठीः किमि’
त्युक्तो ‘मानवनीतमेव हृतमि’ - त्यागो जनन्यां न्यधात् ॥ १२४ ॥
मूलम्
कृ- कृतं सखे चोर - जारशिखामणेः3 कृष्णस्य जगदतिसंधातुर-
नुसंधानेन ! ॥ ४०& ॥
तथाहि-
लुण्ठित्वा नवनीतमन्यसदने लोलेक्षणो भक्षयन्
गोपीभिः परिगृह्य4 मातृसविधं नीतो मुकुन्दस्तया ॥
लुण्ठीर्मा नवनीतमित्यभिहितोऽप्येतद्यलुण्ठीः किमि’
त्युक्तो ‘मानवनीतमेव हृतमि’ - त्यागो जनन्यां न्यधात् ॥ १२४ ॥
बाल-कृष्णः
कृतमिति । हे सखे विश्वावसो, चोर-जारशिखामणेः चोराणां जाराणां चाग्रेसरस्येत्यर्थः । अत एव जगतः तत्स्थलोकस्य अतिसंधातुर्वञ्चयितुः । यद्वा जगतः अति अत्यन्तं संधानं उत्पत्तिः पालनं च अतिसंधानं लयश्च तत्त्रितयकर्तुः, अनुसंधानेन संस्तवनेन कृतं अलं पर्याप्तमित्यर्थः । पक्षे कृतं त्वयैतच्छोभनं कृतमिति वार्थः । “कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु” इति मेदिनीकोशात् कृतमित्यस्यालमर्थत्वात् ॥ ४०& ॥
तथेति । चोर-जारशिखामणित्वमेवोपपादयति-
लुण्ठित्वेति । अयं मुकुन्दः श्रीकृष्णः अन्यसदने परकीयगृहे, नवनीतं लुण्ठित्वा चोरयित्वा अत एव लोले चौर्यभयाच्चञ्चले ईक्षणे नयने यस्य तथाभूतः सन् भक्षयन् खादन्, अत एव च गोपीभिर्गोपस्त्रीभिः परिगृह्य कृष्णागमाप्रतीक्षया गूढं स्थित्वा नवनीतचौर्यसमये धृत्वेत्यर्थः । मातुर्यशोदायाः सविधं समीपं “समीपे निकटा- सन्न-संनिकृष्ट-सनीडवत् । सदेशाभ्याश - सविध" इत्यमरः । नीतः प्रापितः । तदेति शेषः । तया यशोदया ‘नवनीतं मा लुण्ठीः मा चोरय,’ इति पूर्वमिति शेषः । अभिहितः उक्तोऽपि, एतन्नवनीतं किं कुतो व्यलुण्ठीः अचूचुरः ?’ इत्युक्तप्रकारेण उक्तः मात्रा पृष्टः सन् ‘मानवनीतमेव हृतं न तु नवनीतम्’ नवनीतस्य मनुष्यकर्तृत्वादिति भावः । इत्युक्तप्रकारेण, आगोऽपराधं “आगोऽपराधं मन्तुश्च” इत्यमरः । जनन्यां मातरि यशोदायामेव न्यधात् स्थापितवान् । दधातेर्लुङि - “गा- ति-स्था-घु - " इति सिचो लुक् । श्लेषालंकारः ॥ १२४ ॥ [ अम्ब, त्वमेव अवदः खलु, “अलुण्ठीः मानवनीतम्” इति. तथैव अहमकरवम् । मम को दोषः?” इति कृष्णः वदति? पाठशोधकस्य टिप्पणी]
विश्वास-प्रस्तुतिः
किंच-
अंसे सलीलमधिरोप्य शुकं स्वहस्ता-
द्गोप्या भयाकुलदृशः कुतुकी मुकुन्दः ॥
‘अंसंगतं शुकमिहापनयेति’ वाचम्
तस्या निशम्य स तदंशुकमाचकर्ष ॥ १२५ ॥
मूलम्
किंच-
अंसे सलीलमधिरोप्य शुकं स्वहस्ता-
द्गोप्या भयाकुलदृशः कुतुकी मुकुन्दः ॥
‘अंसंगतं शुकमिहापनयेति’ वाचम्
तस्या निशम्य स तदंशुकमाचकर्ष ॥ १२५ ॥
बाल-कृष्णः
अंसे इति । किंच अयं मुकुन्दः श्रीकृष्णः कुतकी कौतुकयुक्तः सन् भयेन कृष्णभीत्या आकुले दृशौ यस्यास्तस्याः कस्याश्चित् गोप्याः अंसे स्कन्धे “स्कन्धो भुजशिरोंऽसो स्त्री” इत्यमरः । लीलया क्रीडया सहितं सलीलं यथा स्यात्तथा स्वहस्तान्निजकरेण शुकं कीरं अधिरोप्य स्थापयित्वा पुनः ’ अंसं स्कन्धं गतं शुकं पक्षे ‘अं’ इत्यक्षरेण संगतं शुकं = अंशुक वस्त्रं च इह सांप्रतं अपनय दूरीकुरु’ इति तस्या गोप्याः वाचं निशम्य श्रुत्वा तस्याः गोप्याः अंशुकं वस्त्रं, आचकर्ष अपहृतवान् ॥। १२५ ॥
विश्वास-प्रस्तुतिः
अपि च-
नीत्वा राधिकया निशां मुररिपुः प्रातर्गृहानागतस्
त्वं मा भूरपराधिकः पुनरिति5 प्रोक्तोऽपि पूर्वं मया ॥
कस्मादेवमभूरिति श्रितरुषा6 निर्भर्त्सितो लीलया7
त्वद्वाचैव सराधिकोऽहमिति’ तां व्यामोहयन्मायया ॥ १२६ ॥
वि॰ वयस्य मैवं वादीः। स हि परमपावनः सकलजगदंहस्संहरणकृते कृतावतारो वन्दारुजनानन्दनो यदुनन्दनो निन्दापदवीदवीयान् ॥ ४१& ॥
मूलम्
अपि च-
नीत्वा राधिकया निशां मुररिपुः प्रातर्गृहानागतस्
त्वं मा भूरपराधिकः पुनरिति5 प्रोक्तोऽपि पूर्वं मया ॥
कस्मादेवमभूरिति श्रितरुषा6 निर्भर्त्सितो लीलया7
त्वद्वाचैव सराधिकोऽहमिति’ तां व्यामोहयन्मायया ॥ १२६ ॥
वि॰ वयस्य मैवं वादीः। स हि परमपावनः सकलजगदंहस्संहरणकृते कृतावतारो वन्दारुजनानन्दनो यदुनन्दनो निन्दापदवीदवीयान् ॥ ४१& ॥
बाल-कृष्णः
नीत्वेति । अपि च राधिकया सह निशां रात्रिं नीत्वा निशावसानपर्यन्तं तामुपभुज्येत्यर्थः । मुररिपुः श्रीकृष्णोऽयं प्रातः प्रातःकाले, गृहान् स्वगृहं “गृहाः पुंसि च भूम्न्येव निकाय्य-निलयालयाः” इत्यमरात् गृहशब्दस्य पुंस्त्वं नित्यं बहुवचनत्वं च । आगतः प्राप्तः सन् श्रिता प्राप्ता रुट् क्रोधो यस्यास्तया यशोदयेति शेषः । त्वं अपराधः परगृहगमनादिरूपोऽस्यास्तीति अपराधी स एवापराधिकः अपराधकर्तेति यावत् । अपगता राधिका यस्मात्तथाभूतश्च मा भूः इति एवं पूर्व मया प्रोक्तोऽपि, कथितोपि, पुनः एवमपराधिकः कस्मात् कारणात् अभूः जातोसि ?’ इति लीलया बहिः क्रोधप्रदर्शनेऽपि मनसि पुत्रवात्सल्यरूपया । करणे तृतीया । निर्भत्सितः सक्रोधमधिक्षिप्तोऽपि, ‘भो मातः । त्वद्वाचैव ‘अपराधिको मा भूः’ इति तव वाण्यैव अहं सराधिकः राधया सहितः जातः’ इति तां मातरं यशोदां मायया तदुक्तार्थापह्नव रूपया, अघटितघटनापटीयस्या वा व्यामोहयत् मोहितवान् । अत्र ‘लुण्ठित्वा नव- नीत–’ इत्यादिश्लोकत्रयेऽपि एकस्यैव वाक्यस्य श्लेषेणान्यार्थकरणादभङ्गश्लेषवक्रोक्तिरलंकारः । तदुक्तम् — “ यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा " इति ॥ १२६ ॥
एवं कृशानूक्तं दूषणं श्रुत्वा निर्विण्णो विश्वावसुराह - वयस्येति । हे वयस्य कृशानो एवं ‘लुण्ठित्वा नवनीत-’ इत्यादिप्रकारं दूषणं मा वादीः नोच्चारय । हि यस्मात् कारणात् परमपावनः अत्यन्तपवित्रः, अत एव सकलजगतः अंहसां पापानां संहरणकृते विनाशार्थे, कृतः धृतः अवतारो येन सः वन्दारून् स्तोतॄन् नमस्कर्तृन् वा ‘वदि अभिवादन - स्तुत्योः’ इत्यस्मात् " शू- वन्द्योरारुः" इति आरुप्रत्ययः । ‘वन्दारुरभिवादके’ इत्यमरश्च । जनानानन्दयतीति तथाभूतः सः यदुनन्दनः श्रीकृष्णः, निन्दापदव्याः निन्दारूपमार्गस्य दवीयान् दूरे वर्तमानः अस्तीति शेषः । दवीयानित्यत्र दूरशब्दादीयसुनि " स्थूल - दूर - युव-ह्रस्व -" इत्यादिना रकारलोपः । ‘दू’ इत्यस्य गुणादेशश्च ॥ ४१& ॥
विश्वास-प्रस्तुतिः
असत्क्षयार्थाभ्युदयस्य यस्य जगुश्चरित्रं जगतः पवित्रम् ॥
पुनः परस्मै पुरुषाय तस्मै समस्तनम्याय8 नमस्तनोमि ॥ १२७ ॥
अस्य खल्वस्त्यद्भुतं9 चारित्रमाकर्ण्यताम् ॥ ४२& ॥
चोरस्य चौर्यं जगति प्रतीतं10 चौर्यस्य चौर्य न तु दृष्टपूर्वम् ॥
चौर्याद्यकार्याणि11 बत12 श्रुतानि कृष्णस्य मुष्णन्तितमां तमांसि ॥ १२८ ॥
किंच—
चित्रं चित्रं जृम्भिते कृष्णमेघे कंसं प्राप्ता प्राप लोपं समृद्धिः ॥
आसीद्युक्तं हानिदाघप्रशान्तिर्हंसो हिंसां मानसे कीर्तिरुत्था ॥ १२९ ॥
मूलम्
असत्क्षयार्थाभ्युदयस्य यस्य जगुश्चरित्रं जगतः पवित्रम् ॥
पुनः परस्मै पुरुषाय तस्मै समस्तनम्याय8 नमस्तनोमि ॥ १२७ ॥
अस्य खल्वस्त्यद्भुतं9 चारित्रमाकर्ण्यताम् ॥ ४२& ॥
चोरस्य चौर्यं जगति प्रतीतं10 चौर्यस्य चौर्य न तु दृष्टपूर्वम् ॥
चौर्याद्यकार्याणि11 बत12 श्रुतानि कृष्णस्य मुष्णन्तितमां तमांसि ॥ १२८ ॥
किंच—
चित्रं चित्रं जृम्भिते कृष्णमेघे कंसं प्राप्ता प्राप लोपं समृद्धिः ॥
आसीद्युक्तं हानिदाघप्रशान्तिर्हंसो हिंसां मानसे कीर्तिरुत्था ॥ १२९ ॥
बाल-कृष्णः
निन्दापदवीदवीयस्त्वमेवोपपादयति- असदिति । असतां पापानां दैत्यादीनां क्षयो नाश एवार्थो मुख्यं प्रयोजनं यस्य तादृशः अभ्युदय उत्पत्तिर्यस्य तथाभूतस्य यस्य श्रीकृष्णस्य जगतः पवित्रं पावित्र्यावहं चरित्रं कंसवधादिरूपं न तु त्वदुपपादितं चौर्यादिरूपमेव, जगुः गायन्ति स्म । ज्ञानिन इति शेषः । तस्मै परस्मै देहेन्द्रियादिसंघात् परस्मै पुरुषाय, अत एव समस्तानां सकललोकानां नम्याय नमस्कर्तुं योग्याय, पुनः नमः नमस्कारं तनोमि करोमि ॥ १२७ ॥
अस्येति । अस्य श्रीकृष्णस्य अत्यद्भुतमतीवाश्चर्यजनकं चारित्रमाकर्ण्यतां श्रूयतां
खलु ॥ ४२& ॥
अत्यद्भुतत्वमेव विवृणोति — चोरस्येति । चोरस्य, कर्तरि षष्ठी । चोरकर्तृकमित्यर्थः । चौर्यकर्म जगति प्रतीतमनुभूतं प्रसिद्धं वा । परंतु चौर्यस्य अत्रापि पूर्ववदेव षष्ठी । चौर्ये चोरकर्म तु, दृष्टपूर्वं पूर्वं दृष्टं न । इदमुपलक्षणम् । तेन श्रुतपूर्वमपि नेत्यर्थः । परं च कृष्णस्य चौर्यं नवनीतादेः आद्यं प्रधानं येषु तानि कार्याणि गोवर्धनोद्धरणादीनि श्रुतानि आकर्णितानि सन्ति, तमांसि पापानि मुष्णन्तितमामतिशयेन चोरयन्ति । अत्रातिशयार्थे तमप् । ततश्च " किमेत्तिङव्यय - " इत्यादिना आमुः । बतेत्याश्चर्ये ॥ १२८ ॥
चित्रमिति । कृष्ण एव मेघस्तस्मिन् पक्षे कृष्णे नीलवर्णे मेघे इति च, जृम्भिते उत्पन्ने सति, हानिदस्य लोकविनाशकरस्य अघनाम्नो दैत्यस्य प्रशान्तिर्नाशः, पक्षे ‘हा’ इत्यानन्दे । निदाघस्य ग्रीष्मऋतोश्च शान्तिः प्रशमः " ग्रीष्म उष्मकः । निदाघ उष्णोपगमः” इत्यमरः । आसीत् । तथा हंसो बकासुरः पक्षे हंसः पक्षी च, हिंसां नाशं धातूनामनेकार्थत्वात्, मानसे मानससरोवरे हिंसां गतिं च प्राप्तः । हंसानां वर्षाकाले मानससरोवरगमनं प्रसिद्धम् । अत्र मुद्रितपुस्तकटीकायां ‘वार्षिकावसरस्य हंसहिंसाकारणत्वं प्रसिद्धम्’ इति सिद्धान्तितं दृश्यते, परं तत्प्रमादविलसितम् । अत एव तस्यैव पुस्तकस्य टिप्पणीकारेण ‘हंसास्तावन्मानसे सरसि निवसन्ति, तत्रान्यर्तुषु हिमबाहुल्यात् हिमस्य च हंसानां रोगहेतुत्वात् अष्टौ मासानन्यत्रोषित्वा वर्षागमे हंसा मानसं गच्छन्ति, तस्माद्वर्षाकालस्य हंसहिंसाकारणत्वं न, प्रत्युत बलपुष्ट्यादिहेतुत्वमेव ’ इति प्राचीनसत्कविप्रसिद्धिपुरस्कारेण तत्खण्डितं तदेव युक्तमिति कोविदा अवगच्छन्तु । कीर्तिर्यशः पङ्कश्च“कीर्तिर्यशसि कर्दमे " इति विश्वः । उत्था उत्पन्ना इति यत् तत्, सर्वं युक्तं, परं च कंसं कंसनामकमसुरं, पक्षे कं उदकं प्रति “कं वारिणि च मूर्ध- नि” इत्यमरः । प्राप्ता उत्पन्ना पक्षे संप्राप्तेति छेदः । समृद्धिः लोपं विनाशं प्राप, यद्वा कृष्णरूपे मेघे उदिते कं पुरुषं प्राप्ता समृद्धिर्लोपं प्राप इति काकुः । अपि तु कस्यापि समृद्धिः लोपं न प्रापेत्यर्थः । एतदेव चित्रं चित्रं परममाश्चर्यमित्यर्थः । अत्र श्लोकद्वयेऽपि विरोधालंकारः । अत्र तु श्लेषानुगत इति विशेषः ॥ १२९ ॥
विश्वास-प्रस्तुतिः
पुनस्सभक्त्युन्मेषं भगवन्तमुद्दिश्य -
कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते
बाणं क्षीणयते बकं लघयते पौण्ड्रं परं लुम्पते ॥
भौमं क्षामयते बलाद्बलभिदो दर्पं13 पराकुर्वते14
क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ १३० ॥
मूलम्
पुनस्सभक्त्युन्मेषं भगवन्तमुद्दिश्य -
कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते
बाणं क्षीणयते बकं लघयते पौण्ड्रं परं लुम्पते ॥
भौमं क्षामयते बलाद्बलभिदो दर्पं13 पराकुर्वते14
क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ॥ १३० ॥
बाल-कृष्णः
पुनरिति । पुनः भक्त्युन्मेषेण भक्तिविकासेन सहितं यथा तथा भगवन्तं श्रीकृष्णं उद्दिश्य, आहेति शेषः ।
कंसमिति । कंसमेतदाख्यदैत्यं ध्वंसयते सिंहासनादधो निपात्य मारयते, चतुर्थ्यन्तमेतत् । एवमग्रेऽप्यूह्यम् । मुरं दैत्यं च तिरयते तिरोहितमदृश्यं कुर्वते, तथा हंसमसुरं हिंसते नाशयते, बाणं बाणासुरं क्षीणयते अष्टनवत्यधिकनवशतभुजच्छेदनेन क्षीणशरीरं कुर्वते, न तु विनाशयते इत्यर्थः । तस्य प्रह्लादान्वयजत्वात् । तदन्वयस्य च भगवतोऽवध्यवरप्राप्तत्वात् । तथा बकं दैत्यं लघयते लघूकुर्वते विनाशयते इत्यर्थः । पौण्ड्रं परं शत्रुभूतं लुम्पते हन्त्रे, भूमेरपत्यं भौमस्तमसुरं क्षामयते तद्वधकर्त्रे इत्यर्थः । तथा बलभिदिन्द्रस्तस्य दर्पं गर्वं, बलात् हठात् पराकुर्वते निवारयित्रे । अपि च क्लिष्टं दैत्यत्रासात् संसारक्लेशाद्वा त्रस्तं शिष्टगणं सज्जनसमूहं, अत एव प्रकर्षेण नम्रं शरणागतं अवते रक्षते, तुभ्यं कृष्णाय नमः अस्तु ॥१३०॥