१० गुर्जरदेशवर्णनम्

विश्वास-प्रस्तुतिः

अथ गुर्जरदेशवर्णनम्॥

इति नमस्कृत्य सुदूरमन्यतो विमानं प्रस्थाप्य सश्लाघम् –
सखे स एष सर्वसम्पदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदेशश्चक्षुषोः1 सुखीकरोति ॥ ३३&॥

मूलम्

अथ गुर्जरदेशवर्णनम्॥

इति नमस्कृत्य सुदूरमन्यतो विमानं प्रस्थाप्य सश्लाघम् –
सखे स एष सर्वसम्पदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदेशश्चक्षुषोः1 सुखीकरोति ॥ ३३&॥

बाल-कृष्णः

अथ गुर्जरदेशवर्णनप्रस्तावमाह - इतीति । इत्येवमुक्त्वा नमस्कृत्य जगन्नाथमित्यर्थः । सुदूरं तत्क्षेत्रादतिदूरम् अन्यतोऽन्यत्र स्थले विमानं प्रस्थाप्य सश्लाघं प्राहेति ।

सख इति । हे सखे, सः य एतावत्कालपर्यन्तं केवलं श्रुतः स इत्यर्थः । एषः प्रत्यक्षतया दृश्यमानः, सर्वसम्पदामास्पदतया स्थानतया त्रिदशालयस्य स्वर्गस्यादेशः आदिश्यते प्रतिनिधितया निर्दिश्यते तथा, प्रतिमारूप इवेत्यर्थः । गुर्जरदेशः चक्षुषोः नेत्रयोः सुखीकरोति आनन्दमुत्पादयति ॥ ३३& ॥

विश्वास-प्रस्तुतिः

॥ अत्र हि
सकर्पूरस्वादुक्रमुकनववीटीरसलस
न्मुखाः सर्वश्लाघापदविविधदिव्याम्बरधराः ॥
लसद्रत्नाकल्पा2 घुमघुमितदेहाश्व घुसृणै
र्युवानो मोदन्ते युवतिभिरमी तुल्यरतिभिः ॥ ११५ ॥

मूलम्

॥ अत्र हि
सकर्पूरस्वादुक्रमुकनववीटीरसलस
न्मुखाः सर्वश्लाघापदविविधदिव्याम्बरधराः ॥
लसद्रत्नाकल्पा2 घुमघुमितदेहाश्व घुसृणै
र्युवानो मोदन्ते युवतिभिरमी तुल्यरतिभिः ॥ ११५ ॥

बाल-कृष्णः

तदेवाह — सकर्पूरेति । अत्र हीत्यनुषञ्जनीयम् । अस्मिन्देशे इति तदर्थः । कर्पूरेण सहिता युक्ता सकर्पूरा सा च स्वादुक्रमुका मधुरपूगीफलसहिता । “घोण्टा तु पूगः क्रमुकः” इत्यमरः । सा चासौ नवा वीटी ताम्बूलपट्टिका च तस्याः रसेन रक्तवर्णद्रवेण “रागे द्रवे रसः” इत्यमरः । लसन्ति शोभमानानि मुखानि येषां ते, तथा सर्वेषां जनानां या श्लाघा प्रशंसा तस्याः पदानि पात्रभूतानि विविधान्यनेकप्रकाराणि च दिव्यानि च यान्यम्बराणि वस्त्राणि तेषाम् । " अम्बरं व्योम्नि वाससि " इत्यमरः । धराः धारकाः । लसन्तः रत्नानां मणीनाम् आकल्पाः भूषणानि येषां तथाभूताः । घुसृणैः कुङ्कुमैः- " अथ कुङ्कुमम् । काश्मीरजन्माग्निशिखं वरं " इत्यमरटीकायां व्याख्यासुधायां “वरं तु घुसृणे किञ्चिदिष्टे” इति हैमः । घुमघुमिताः सुवासयुक्ता देहा येषां तथाभूताच अमी युवानः तरुणाः, तुल्या समाना रतिरनुरागो यासां ताभिः युवतिभिः तरुणस्त्रीभिः सह मोदन्ते रतिसुखानन्दमनुभवन्तीत्यर्थः ॥ ११५ ॥

विश्वास-प्रस्तुतिः

अत्र3 वधूनामप्यन्यादृशं सौन्दर्यम् ॥ ३४& ॥
तप्तस्वर्णसवर्णमङ्गकमिदं ताम्रो मृदुश्चाधरः
पाणी प्राप्तनवप्रवालसरणी वाणी सुधाधोरणी ।
वक्त्रं वारिजमित्रमुत्पलदलश्रीसूचने लोचने
के वा गुर्जरसुभ्रुवामवयवा यूनां न मोहावहाः ? ॥ ११६ ॥
कृ -सत्यमेवं तथापि नैते सारवस्तूपभोगचतुराः4 ॥ ३५& ॥

मूलम्

अत्र3 वधूनामप्यन्यादृशं सौन्दर्यम् ॥ ३४& ॥
तप्तस्वर्णसवर्णमङ्गकमिदं ताम्रो मृदुश्चाधरः
पाणी प्राप्तनवप्रवालसरणी वाणी सुधाधोरणी ।
वक्त्रं वारिजमित्रमुत्पलदलश्रीसूचने लोचने
के वा गुर्जरसुभ्रुवामवयवा यूनां न मोहावहाः ? ॥ ११६ ॥
कृ -सत्यमेवं तथापि नैते सारवस्तूपभोगचतुराः4 ॥ ३५& ॥

बाल-कृष्णः

अत्रेति । अत्र देशे वधूनां स्त्रीणां “वधूर्जाया स्नुषा- नार्योः स्पृक्का - सारिवयोरपि " हति हैमः । अपि सौन्दर्यम् अन्यादृशं भिन्नप्रकारकम्, इतर विलक्षणमित्यर्थः ॥ ३४& ॥

तदेव प्रतिपादयति- तप्तेति । इदम् इदानीं दृश्यमानं, एतत् सर्वत्र लिङ्गवचनमनुसृत्यानुषञ्जनीयम् । गुर्जरसुभ्रुवां गुर्जर देशीयस्त्रीणां, अङ्गं शरीरमेवाङ्गकं स्वार्थे कः । तप्तं पुटपाकेन शोधितं च तत् स्वर्ण सुवर्णे च तेन सवर्ण सदृशम् । अधरः अधरोष्ठश्च ताम्रो रक्तवर्णः मृदुश्च कोमलोऽपि । पाणी हस्तौ प्राप्ता नवानां नूतनानां पल्लवानां सरणिः पद्धतिर्ययोस्तथाभूतौ । नूतनपल्लवसदृशौ सुकुमारावित्यर्थः । वाणी सुधाधोरणी अमृतस्रवा अतिमधुरेत्यर्थः । वक्त्रं मुखं च वारिजमित्रं कमलसमानमित्यर्थः । लोचने नेत्रे च उत्पलस्य कमलस्य यद्दलं पत्रं तस्य श्रियः शोभायाः सूचने सूचके । नेत्रदर्शनेन कमलपत्रस्मरणं भवतीति भावः । एवं गुर्जरसुभ्रुवां के वा अवयवाः यूनां तरुणानां मोहावहाः मोहसम्पादकाः न भवन्ति ? अपि तु सर्वेऽपि भवन्तीति ॥ ११६॥

सत्यमिति । एवं त्वत्कथितप्रकारं सत्यं, तथापि एते अत्रत्यपुरुषाः सारवस्तूनां श्रेष्ठवस्तूनाम् उपभोगे चतुराः निपुणाः न भवन्ति ॥ ३५& ॥

विश्वास-प्रस्तुतिः

तथाहि-
व्रीडामारव्यतिकरवतीर्विद्युदाभाः कृशाङ्गीः
क्रीडायोग्येऽप्यहह समये गेह एव त्यजन्तः ॥
नित्यासक्ता निरुपममणिश्रेणिवाणिज्यलाभे
बम्भ्रम्यन्ते बहुदिनपरिप्राप्यदेशान्तरेषु ॥ ११७ ॥
वि॰ - मन्दमनीष ! सएष पुरुषाणां गुणविशेष एव न तु दोषः ॥ ३६& ॥

मूलम्

तथाहि-
व्रीडामारव्यतिकरवतीर्विद्युदाभाः कृशाङ्गीः
क्रीडायोग्येऽप्यहह समये गेह एव त्यजन्तः ॥
नित्यासक्ता निरुपममणिश्रेणिवाणिज्यलाभे
बम्भ्रम्यन्ते बहुदिनपरिप्राप्यदेशान्तरेषु ॥ ११७ ॥
वि॰ - मन्दमनीष ! सएष पुरुषाणां गुणविशेष एव न तु दोषः ॥ ३६& ॥

बाल-कृष्णः

तथाहि । अनैपुण्यमेवोपपादयामि शृण्वित्याह-व्रीडामारेति । एते इत्यनुषञ्जनीयम् । निरुपमानां बहुमूल्यानां मणीनां श्रेणिभी राशिभिर्यद्वाणिज्यं क्रयविक्रयादिव्यापारः तस्माद्यो लाभो मूलाधिकद्रव्यप्राप्तिः तस्मिन् नित्यासक्ताः सततमासक्ताः सन्तः, व्रीडा लज्जा च मारो मदनश्च " मदनो मन्मथो मारः” इत्यमरः । तयोः यः व्यतिकरः मिश्रीभवनं, सः अस्ति यासां ताः, न केवलं कामाकुलाः न केवलं लज्जायुक्ताश्चेति भावः । अनेन तासां कुलीनत्वं सूचितम् । विद्युदिव आभा कान्तिः यासां ताः न तु कुरूपाः कृष्णवर्णाश्च । एतादृशाः कृशाङ्गीः स्त्रियः क्रीडायोग्ये मदनकेलिसमुचितेऽपि समये काले तारुण्यावस्थायामित्यर्थः । अहह इति खेदे ।” अहहेत्यद्भुते खेदे" इत्यमरः । गेहे गृहे एव त्यजन्तः सन्तः, बहुभिः न तु त्रिचतुरैः दिनैः परिप्राप्येषु गन्तव्येषु देशान्तरेषु बम्भ्रम्यन्ते पुनः पुनः भृशं वा सञ्चरन्ति । भ्रमु अनवस्थाने ’ इत्यस्य यङ्-अन्तस्य लटि रूपम् " सन्यङोः " इति द्वित्वं नुगतोऽनुनासिकान्तस्य " इत्यभ्यासस्य नुगागमश्च ॥ ११७ ॥

मन्देति । मन्दमनीष मन्दबुद्धे, सः व्यापारार्थं देशान्तरपरिभ्रमणादिरूपः एष पुरुषाणां गुणविशेषः गुणाधिक्यमेव न तु दोषः ॥३६& ॥

विश्वास-प्रस्तुतिः

देशे देशे किमपि कुतुकादद्भुतं लोकमानाः
सम्पाद्यैव द्रविणमतुलं5 सद्म भूयोऽप्यवाप्य ॥
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः6
सौख्यं धन्याः किमपि दधते सर्वसम्पत्समृद्धाः ॥ ११८ ॥

मूलम्

देशे देशे किमपि कुतुकादद्भुतं लोकमानाः
सम्पाद्यैव द्रविणमतुलं5 सद्म भूयोऽप्यवाप्य ॥
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः6
सौख्यं धन्याः किमपि दधते सर्वसम्पत्समृद्धाः ॥ ११८ ॥

बाल-कृष्णः

गुणत्वमेवोपपादयति-देशे देशे इति । एते देशे देशे किमपि मनोहरम् अद्भुतमाश्चर्यकारकं च वस्तु कुतुकात्कौतुकात् “कौतुकं च कुतुकं च कुतूहलम्” इत्यमरः । लोकमानाः पश्यन्तः सन्तः, एवम् अमितं न तु अल्पं द्रविणं द्रव्यं सम्पाद्य, भूयः पुनरपि सद्म गृहम् अवाप्य, प्राप्य, सर्वसम्पत्समृद्धाः सकलोपभोग्यवस्तुसमृद्धियुक्ताः सन्तः सतीभिः पातिव्रत्ययुक्ताभिः न तु स्वैरिणीभिः अत एव सुचिरं चिरकालपर्यन्तं यो विरहः स्वप्रियवियोगः तेन उत्कण्ठिताभिः ‘कदास्माकं पतिभिः सह सङ्गमो भवेत् ‘इतीच्छावतीभिः सह संयुज्यन्ते सङ्गमं कुर्वन्ति । अत एव ते धन्याः सन्तः किमप्यनिर्वाच्यं सौख्यं दधते धारयन्ति । ‘डुधाञ् धारण-पोषणयोः’ इत्यस्यात्मनेपदे प्रथमपुरुषबहुवचनम् । अयं भावः - यथा तावत्कश्चिदपि पान्थो मार्गेण गच्छन् सूर्यातपसन्तप्तश्च वृक्षच्छायायां यत्सुखमनुभवति न तदन्येन केनाप्यनुभवितुं शक्यते, तथैव यत्प्रथमं दुःखमनुभूय पश्चात् सुखं प्राप्नोति तदेवाधिकसन्तोषास्पदम् । तदुक्तं विक्रमोर्वशीये महाकविना कालिदासेन - " यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः " इति ॥ ११८ ॥

विश्वास-प्रस्तुतिः

अनेवम्भावोऽपि पुरुषाधमत्वमावेदयति ॥ ३७& ॥
तथाहि-
आकिञ्चन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो
भूपालानामननुसरणाद्विभ्यदेवाखिलेभ्यः ॥
गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा
किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ? ॥ ११९॥

मूलम्

अनेवम्भावोऽपि पुरुषाधमत्वमावेदयति ॥ ३७& ॥
तथाहि-
आकिञ्चन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो
भूपालानामननुसरणाद्विभ्यदेवाखिलेभ्यः ॥
गेहे तिष्ठन् कुमतिरलसः कूपकूर्मैः सधर्मा
किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ? ॥ ११९॥

बाल-कृष्णः

व्यतिरेकमाह-अनेवम्भाव इति । एवं देशान्तरसञ्चारादिप्रकारेण भावः खभावः “भावः सत्ता - खभावाभिप्राय चेष्टात्मजन्मसु" इत्यमरः । द्रव्यार्जनादिरूपः न भवतीत्यनेवम्भावः अर्थात्सन्ततं गृह एव संवास इत्यर्थः । पुरुषाधमत्वम् आवेदयति सम्पादयति ॥ ३७& ॥

तथाहि तदेव वक्ष्यामीति भावः ।

आकिञ्चन्यादिति । यः कुमतिः कुबुद्धिः अलसः मन्दश्च अत एव गेहे गृहे तिष्ठन् संश्च कूपे वाप्यां ये कूर्माः कमठाः तैः समानः तुल्यः धर्मः कुत्रापि बहिर- गमनादिरूपः स्वभावः “धर्माः पुण्य-यम- न्याय-स्वभावाचार सोमपाः" इत्यमरः । यस्य सः “धर्मादनिच् केवलात् " इति समासान्तो ऽनिच् प्रत्ययः । अत एव नास्ति किञ्चन द्रव्यादिकं यस्य तस्य अकिञ्चनस्य दरिद्रस्य भावः आकिञ्चन्यं तस्मात् सन्तत - गृहसंवासाद् अतिपरिचयाच्च जायया स्त्रिया उपेक्ष्यमाणः, किञ्च भूपालानां राज्ञाम् अन- नुसरणात् सन्निधगमनाभावाच्च, अखिलेभ्यो महाजनेभ्यः बिभ्यदेव भीतिं कुर्वन्नेव बिभेतेः शतरि रूपम् । अभ्यस्तत्वान्नुमभावः । एतादृशः पुरुषः भुवनचरितं विविध- चमत्कार निरीक्षणादिरूपं जानीते किम् ? तत एव च सुखं च सुखमपि उपभुङ्क्ते किम् ? अपि तु किमपि नैव जानाति, सुखमपि नैव भुङ्क्ते इत्यर्थः ॥ ११९ ॥

विश्वास-प्रस्तुतिः

तथाहि-
व्यापारान्तरमुत्सृज्य7 वीक्षमाणो वधूमुखम् ॥
यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः ॥ १२० ॥

मूलम्

तथाहि-
व्यापारान्तरमुत्सृज्य7 वीक्षमाणो वधूमुखम् ॥
यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः ॥ १२० ॥

बाल-कृष्णः

तथाहि तदेव वक्ष्यामीति भावः ।

व्यापारेति । व्यापारान्तरं द्रव्यसम्पादनार्थमन्यदेशगमनादिरूपमन्यव्यापारं, उत्सृज्य त्यक्त्वा यः दुर्मतिर्दुर्बुद्धिः पुरुषः, वध्वाः स्त्रियाः मुखं वीक्षमाणः अवलोकयन् सन्, गृहेष्वेव निद्राति निद्रित इव स्तब्धरूपतया तिष्ठति, स पुरुषः दरिद्राति दारिद्र्ययुक्तो भवतीत्यर्थः ॥ १२० ॥

विश्वास-प्रस्तुतिः

इदं चावधीयताम्8 ॥ ३८&॥—
इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां
कल्याणीं गिरमेव संसदि वदेत्कार्यं विदध्यात्कृती9 ॥ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान्
कुर्वीतोपकृतिं जनस्य जनयेत्10 कस्यापि नापक्रियाम् ॥ १२१ ॥

मूलम्

इदं चावधीयताम्8 ॥ ३८&॥—
इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां
कल्याणीं गिरमेव संसदि वदेत्कार्यं विदध्यात्कृती9 ॥ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान्
कुर्वीतोपकृतिं जनस्य जनयेत्10 कस्यापि नापक्रियाम् ॥ १२१ ॥

बाल-कृष्णः

इदमिति । इदं च वक्ष्यमाणमप्यवधीयतां सावधानतया श्रूयतामित्यर्थः ॥३८&॥

इच्छेदिति । यस्तु यश्च पुरुषः अवनौ पृथिव्यां सुखं यथा स्यात् तथा निवस्तुं वासं कर्तुम् इच्छेत्, सः कृती धन्यः पुरुषः राज्ञः सभां गच्छेत्, तत्र संसदि सभायां च कल्याणीं सभास्थित सर्वजन सुखकरीमेव, अथवा सकलजनरुच्युत्पादिकामेव गिरं वाणीं वदेद् उच्चारयेत् । एवं कार्यं स्वकीयं धनसम्पादनरूपं विदध्यात् साधयेत् । कार्यचिकीर्षुणा जनेन न तावत्कुत्रापि कटुभाषणादिकं कर्तव्यं, तस्य च कार्यहानिकरत्वादिति भावः । एवंरीत्या अक्लेशाद् राजपुरुषधर्षणादिरूपक्लेशं विनैव धनमर्जयेत् सम्पादयेत् । किञ्च धनार्जने सत्यपि अधिपते राज्ञः वल्लभान् प्रियान् पुरुषान् आवर्जयेत् सन्तोषयेत्, न तु तुच्छबुद्ध्या तिरस्कुर्यात् । अपरं च उपकृतिमुपकारमेव कुर्यात्, कस्यापि शत्रुमित्रोदासीनाद्यन्यतरस्य जनस्य, अपक्रियामपकारं न जनयेन् नोत्पादयेत् ॥ १२१ ॥

विश्वास-प्रस्तुतिः

अन्यच्चेदमवधार्यताम्11 ॥ ३९&॥—
अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना
स्तुयादेतन्नित्यं जडमपि गुरुं12 तस्य विनुयात् ॥
विवित्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत्
स्वकार्यं सन्तुष्टे क्षितिभृति रहस्येव कथयेत् ॥ १२२ ॥

मूलम्

अन्यच्चेदमवधार्यताम्11 ॥ ३९&॥—
अयुक्तं युक्तं वा यदभिहितमज्ञेन विभुना
स्तुयादेतन्नित्यं जडमपि गुरुं12 तस्य विनुयात् ॥
विवित्सुर्नैःस्पृह्यं कथमपि सभायामभिनयेत्
स्वकार्यं सन्तुष्टे क्षितिभृति रहस्येव कथयेत् ॥ १२२ ॥

बाल-कृष्णः

अन्यदिति । अन्यच्चान्यदपि इदं वक्ष्यमाणमवधार्यतां निश्चीयताम् ॥ ३९& ॥ अयुक्तमिति । अज्ञेन बाह्यव्यवहारानभिज्ञेन सम्पत्त्युन्मत्तेन वा, विभुना राज्ञा अयुक्तं देशकालाद्यनुचितं, वाथवा युक्तं समयानुरूपं यदभिहितमुच्चारितं स्यात्, तदेतन् नित्यं सन्ततं स्तुयात् प्रशंसेत् । किञ्च तस्य राज्ञः जडं बुद्धिहीनमपि गुरुं पुरोहितं विनुयात् स्तुयात्, तद्द्वारेणैव कार्यसाधनसम्भवात् । किञ्च विवित्सुः स्वविषये अनुकूलप्रतिकूलादिरूपमभिप्रायं वेत्तुमिच्छुः सन् ‘विद ज्ञाने’ इत्यस्य सन्नन्तस्य रूपम् “सनाशंस-" इत्यादिना उप्रत्ययः । सभायां कथमपि निःस्पृहस्य भावो नैःस्पृह्यं निरभिलाषभावम् अभिनयेत् प्रकटयेत् । स्वकार्ये च क्षितिभृति राज्ञि सन्तुष्टे सति रहस्येव एकान्ते एव कथयेत् । कदाचिद् राज्ञा प्रत्यादिष्टेऽपि स्वावमानस्य गोप्यत्वादिति भावः । एतच्छ्लोकद्वयं प्रकृतवर्णनस्यासङ्गतमिति भाति । किञ्च सन्नीति- प्रतिकूलमपि । यतो राज्ञः सभायां नयानुसारिभाषणस्यैवाभिरूपैरुक्तत्वात् । यथाहुर्मन्वादयः-“सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी” इति । तदनेन प्रत्युक्तमिव भवतीति मदभिप्रेतम् । अत्र युक्तायुक्तविचारणा तु सर्वथा सुधीभिरेव करणीया ॥ १२२ ॥


  1. चक्षुषी सुखिनीकरोति, सुखाकरोति ↩︎ ↩︎

  2. कनद्रत्नाकल्पा ↩︎ ↩︎

  3. अत्रत्यानां ↩︎ ↩︎

  4. सरस

 ↩︎ ↩︎

  • ममितं ↩︎ ↩︎

  • वधूभिः ↩︎ ↩︎

  • मुद्दिश्य ↩︎ ↩︎

  • अवधार्यताम् ↩︎ ↩︎

  • कार्येषु दद्यात् ↩︎ ↩︎

  • समये ↩︎ ↩︎

  • मवधारणीयम् ↩︎ ↩︎

  • गिरा तं च विनुयात् ↩︎ ↩︎