०९ जगन्नाथक्षेत्रवर्णनम्

विश्वास-प्रस्तुतिः

अथ जगन्नाथक्षेत्रवर्णनम्॥

अन्यच्चेदमस्य भागधेयं वर्तते ॥ ३२& ॥
यत्तीरे पुरुषोत्तमस्थलमिदं यक्षाप्सरः-किन्नर
श्रेष्ठैर्नित्यमधिष्ठितं1 भगवतः सान्निध्यसौख्यास्पदम्2

अत्र त्यक्तवतामसून् करगता मुक्तिस्तदास्तामहो
देहो दाहविनाकृतोऽप्यविकृतः काष्ठादिवत्तिष्ठति ॥ ११२ ॥
किञ्च—
निवेदितस्यात्र रमासखाय नीचाहृतस्यापि किलौदनादेः3
भक्त्याशनं4 हन्त भवार्जितानां महांहसां नाशनमामनन्ति ॥११३॥

अथेदानी तत्तीरस्थजगन्नाथक्षेत्रवर्णनमाक्षिपति-अन्यञ्चेति । अस्य समुद्रस्य अन्यच्चान्यदपि, इदं वक्ष्यमाणरूपं भागधेयं भाग्यं, अस्तीति शेषः ॥ ३२&॥

मूलम्

बाल-कृष्णः

यत्तीर इति । यस्य समुद्रस्य तीरे अर्थाद्दक्षिणे । भगवतः ईश्वरस्य सान्निध्येन सन्निधित्वेन जागरूकतयेत्यर्थः सौख्यास्पदं सुखस्य स्थानम् अत एत यक्षाश्च अप्सरसः स्वर्वेश्याश्च किन्नराश्च एते देव विशेषाः । तेषु श्रेष्ठैः । यद्वा यक्षादयः श्रेष्टा मुख्या येषु तैः सर्वैरपि देवैरित्यर्थः । नित्यं सन्ततमधिष्ठितमाश्रितं, एतादृशमिदं पुरो दृश्यमानं, पुरुषोत्तमस्य भगवतो जगन्नाथाभिधस्य स्थलं स्थानं, अस्तीति शेषः। अत्र क्षेत्रे असून् प्राणान् “पुसि भूम्न्यसवः प्राणाः” इत्यमरः । त्यक्तवतां जीवितकालपर्यन्तमत्रैव स्थित्वा देहं त्यक्तवतामित्यर्थः । न तु आत्महत्यादिना । दोषास्पदत्वात् । मुक्तिः कैवल्यं करगता हस्तस्थिता स्वाधीनेत्यर्थः तत्तु आस्ताम् । किन्तु अत्र देहः शरीरं,मृत इति ज्ञेयम् । दाहेन मन्त्राग्निना विनाकृतः रहितोऽपि,अविकृतः दुर्गन्ध्यादिविकाररहितः, काष्ठादिवद् आदिशब्देन शिलापाषाणसङ्ग्रहः । तिष्ठति । अहो ! इदमतीवाश्चर्यमित्यर्थः ॥ ११२॥

निवेदितस्येति । किञ्च अत्र अस्मिन् क्षेत्रे रमाया लक्ष्म्याः सखा तस्मै “राजाहः-“इति टचू । जगन्नाथाभिधाय विष्णवे इत्यर्थः।नीचैःकुल-शील विद्या-कलादिभिहीनैः, आहृतस्य आनीतस्य समर्पितस्येत्यर्थः । ओदनादेः अनादिनैवेद्यस्येत्यर्थः । किमुत महद्भिरर्पितस्य । भक्त्या प्रीत्या अशनं भक्षणं, भवे संसारे अर्जितानां सम्पादितानां, महान्ति च तानि अंहांसि पापानि च तेषां “पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम्” इत्यमरः। नाशनं विनाशकारकं, भवतीति शेषः। इति आमनन्ति कथयन्ति । अत्रत्या जना इति शेषः। किलेति प्रसिद्धौ। हन्तेति हर्षे॥११३॥

विश्वास-प्रस्तुतिः

सभक्त्युन्मेषम् -

दारुणि सन्निहिताय प्राज्ञैर्हुतमश्नते मखेषु हविः ॥

शिशिराय नित्यरुचये शुचये रचयेयमद्भुताय नतीः ॥ ११४ ॥

मूलम्

सभक्त्युन्मेषम् -

दारुणि सन्निहिताय प्राज्ञैर्हुतमश्नते मखेषु हविः ॥

शिशिराय नित्यरुचये शुचये रचयेयमद्भुताय नतीः ॥ ११४ ॥

बाल-कृष्णः

सभक्त्युन्मेषम् । अस्य पूर्व पुनरिति शेषः । अन्ते च आहेति । दारुणीति । दारुणि काष्ठे सन्निहिताय सन्निधित्वेन स्थिताय, प्राज्ञैः पण्डितैः मखेषु यागेषु हुतं विधिवदर्पितं हविः घृतादिहवनीयद्रव्यम् अश्नते ग्रहीत्रे पक्षे हविर्भुजे इत्यर्थः । विरोधमाह - शिशिराय दयया शीतलाय शिशिरऋतवे च नित्या विनाशरहिता रुचिः कान्तिर्यस्य तस्मै शाश्वतप्रभायेत्यर्थः । पुनरपि विरोधमाह शुचये ग्रीष्मर्तवे नित्यशुद्धाय इति विरोधपरिहारः । अग्नये च " शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात् " इति विश्वः । अद्भुताय लोकविलक्षणैः कर्मभिर्विस्मयकराय, नतीर्नमस्कारान् रचयेयं कुर्याम् । ‘रच प्रतियत्ने’ इत्यस्माच्चौरादिकाद्विधिलिङयुत्तमपुरुषैकवचम् ॥ ११४ ॥

  1. प्रेष्ठैः ↩︎ ↩︎

  2. सान्निध्यमुख्यास्पदं ↩︎ ↩︎

  3. किलौदनस्य ↩︎ ↩︎

  4. भक्ताशनम् ↩︎ ↩︎