विश्वास-प्रस्तुतिः
अथ समुद्रवर्णनम्॥
इति विमानं दूरतः प्रस्थाप्य साञ्जलिबन्धनम्
भुवनकदनक्रुद्ध्यद्वृद्धश्रवः1 कुलिशायुध
प्रचकितगिरिप्राणत्राणप्रतिष्ठितकीर्तये ॥
प्रसृमरमरुन्नाट्याचार्यप्रणर्तितवीचये
महितजनतामान्यायास्मै महोदधये नमः ॥ १०२ ॥
कृ॰-सहासम्—
पामरैरप्यपेयानां नीराणां2 परिपातरि ॥
आश्रये जलजन्तून्नामानिनंसा3 कथं तव ? ॥ १०३ ॥
मूलम्
अथ समुद्रवर्णनम्॥
इति विमानं दूरतः प्रस्थाप्य साञ्जलिबन्धनम्
भुवनकदनक्रुद्ध्यद्वृद्धश्रवः1 कुलिशायुध
प्रचकितगिरिप्राणत्राणप्रतिष्ठितकीर्तये ॥
प्रसृमरमरुन्नाट्याचार्यप्रणर्तितवीचये
महितजनतामान्यायास्मै महोदधये नमः ॥ १०२ ॥
कृ॰-सहासम्—
पामरैरप्यपेयानां नीराणां2 परिपातरि ॥
आश्रये जलजन्तून्नामानिनंसा3 कथं तव ? ॥ १०३ ॥
बाल-कृष्णः
अथ समुद्रवर्णनार्थ प्रस्तौति-इतीति । इत्येवमुक्त्वा विमानं दूरतः प्रस्थाप्य नीत्वा, साञ्जलिबन्धं यथा तथा। प्राहेति शेषः ।
भुवनेति । भुवनानां लोकानां कदनेन उत्पतनवशान्नाशनेन क्रुध्यन् क्रोधं कुर्वन् यो वृद्धश्रवा इन्द्रः “इन्द्रो मरुत्वान् मघवा बिडोजाः पाकशासनः । वृद्धश्रवाः-" इत्यमरः । तस्य कुलिशायुधेन वज्राख्यप्रहरणात् “वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः” “आयुधं तु प्रहरणं” इत्युभयत्राप्यमरः। प्रकर्षेण अतिशयेन चकितस्य भीतस्य गिरेः मैनाकस्य प्राणत्राणेन प्राणसंरक्षणेन प्रतिष्ठिता स्थिरीकृता कीर्तिर्यशो यस्य तस्मै । पूर्व हि सपक्षाः पर्वता इतस्तत उत्पत्य लोकानत्रासयन् । तत इन्द्रेण तेषां पक्षाश्छिन्नाः। परं च मैनाकाख्यो हिमवतो नगाधिराजस्य सूनुः समुद्रे निमज्ज्य स्थित इत्यादिपौराणिकी कथात्रानुसन्धेया। प्रसृमरः प्रसरणशीलः “सृ-घस्यदः-" इति क्मरच् प्रत्ययः । स चासौ मरुद्वायुश्च स एव नाट्याचार्यः सूत्रधारस्तेन प्रणर्तिता ताण्डविता वीचयो लहर्यो यस्य तस्मै, तथा महितजनतायाः मान्यजनसमूहस्य “ग्राम-जन-बन्धुभ्यः” इति समूहार्थे तल् । मान्याय अस्मै पुरोदृश्यमानाय महोदधये महासमुद्राय नमः ॥ १०२॥
कृशानुः । हासेन परिहासेन सहितं यथा तथा प्राह
पामरैरिति । पामरैनीञ्चैरपि अज्ञैरिति वा, किमुत श्रेष्ठैः । अपेयानां पातुमयोग्यानां क्षारत्वात् पक्षे निषिद्धत्वाच्चेति भावः । नीराणाम् उदकानां ‘इराणां’ इति पाठे. इराणां सुराणां जलानां चेति श्लेषादर्थद्वयम् । “इरा भू-वाक्-सुराप्सु स्यात्” इति नानार्थः । परिपातरि परितः आसमन्तात् पातरि रक्षके, पक्षे पानकर्तरि च । जलजन्तूनां मत्स्यादीनां, डलयोरेकत्वस्मरणाज् जडजन्तूनां मूर्खाणाम् आश्रये आश्रयभूते, आनिनंसा नमस्कर्तुमिच्छा ‘णम प्रह्वत्वे’ इत्यस्मात् सन्नन्तात् प्रत्ययान्तत्वादप्रत्ययः । तव कथम् ? जातेति शेषः ॥ १०३॥
विश्वास-प्रस्तुतिः
मम त्वेधमानपरुषघोषे खल्वेतस्मिन् रोष4 एवोन्मिषति ॥ २७& ॥
मूलम्
मम त्वेधमानपरुषघोषे खल्वेतस्मिन् रोष4 एवोन्मिषति ॥ २७& ॥
बाल-कृष्णः
ममेति । किञ्च मम तु एधमानः वर्द्धमानः परुषः कठोरः घोषो गर्जना यस्य तस्मिन्नेतस्मिन् समुद्रविषये, खलु निश्चयेन रोष एव क्रोध एव “कोप-क्रोधामर्ष-रोष-” इत्यमरः । उन्मिपति प्रकटीभवति ॥ २७ ॥
रोषोन्मेषकारणं श्लेषेण समर्थयति-सन्ततमिति ।
विश्वास-प्रस्तुतिः
सन्ततं क्रन्दते सर्वो दीप्यमानोदरामये ।
महापाय-समुद्राय दरिद्रायैव कुप्यति ॥ १०४ ॥
समृद्धोऽप्ययमतिलुब्धतया5 बुद्धिमद्भिरनादृत्यः ॥ २८& ॥
मूलम्
सन्ततं क्रन्दते सर्वो दीप्यमानोदरामये ।
महापाय-समुद्राय दरिद्रायैव कुप्यति ॥ १०४ ॥
समृद्धोऽप्ययमतिलुब्धतया5 बुद्धिमद्भिरनादृत्यः ॥ २८& ॥
बाल-कृष्णः
सर्वोपि जातावेकवचनम् । सर्वे जना इत्यर्थः । महच् च तत् पायसं क्षीरान्नं च तस्मिन् मुदं राति गृह्णातीति तस्मै, प्रकृतपक्षे महत्यः आपः जलानि यस्मिन् तस्मै महापाय इति विशेषणम् । समुद्राय, दीप्यमानः प्रदीप्तः उदराग्निःजठराग्निर्यस्य तस्मै, पक्षे दीप्यमानः उदरे मध्ये अग्निर्वाडवानलः यस्य तस्मै अत एव सन्ततं निरन्तरं क्रन्दते अहं क्षुधितः मह्यं देहि देहि इति रुदते, पक्षे गर्जते ( चतुर्थ्यन्तमेतत् ) दरिद्रायैव पक्षे दुर्गतये कुप्यति । न तु कश्चिदपि पुरुषः धनादिसम्पन्नाय कुप्यति धनादिलोभात् , दरिद्रात्तु किमपि नैव लभ्यते तस्मात्तादृशायैवेति भावात्सुभाषितरूपोऽयं श्लोकः । श्लेषमूलकश्चार्थान्तरन्यासोऽलङ्कारः ॥ १०४ ॥
समृद्धोऽपीति । किञ्चायं समुद्रः समृद्धः रत्नादिसम्पत्तियुक्तोऽपि, पुनरपि लुब्धतया लोभयुक्ततया हेतुना बुद्धिमद्भिः प्रशस्तबुद्धियुक्तैः अनादृत्यः आदरानर्हः ॥ २८&॥
विश्वास-प्रस्तुतिः
पश्य
रत्नाकरोऽपि च रमाभ्युदयालयोऽपि
स्वर्णस्थलीरधिगतोऽपि6 बहूँर्मिकोऽपि7 ॥
तादृग्धनोपचयकृत्तरणिप्रचारा-
नोपैत्यहो वितरणित्वमसौ कदापि ॥ १०५॥
मूलम्
पश्य
रत्नाकरोऽपि च रमाभ्युदयालयोऽपि
स्वर्णस्थलीरधिगतोऽपि6 बहूँर्मिकोऽपि7 ॥
तादृग्धनोपचयकृत्तरणिप्रचारा-
नोपैत्यहो वितरणित्वमसौ कदापि ॥ १०५॥
बाल-कृष्णः
पश्येति । आदरानर्हत्वमेवोपपादयामीति भावः ।
रत्नाकर इति । अयं समुद्रः रत्नानां मौक्तिकविद्रुमादीनां कौस्तुभादिचतुर्दशरत्नानां च आकरः उत्पत्तिस्थानमपि “आकरो निवहोत्पत्तिस्थान-श्रेष्ठेषु कथ्यते” इति विश्वप्रकाशः। रमायाः लक्ष्म्याः अभ्युदयस्य समृद्धेः उद्भवस्य च आलयः गृहमपि, वर्णस्थलीः सुवर्णयुक्तस्थलानि सुष्ठु अर्णः जलं “अम्भोर्णस्तोय-पानीय." इत्यमरः । तद्युक्ताः स्थलीरिति च, अधिगतः प्राप्तोऽपि, बह्व्यः ऊर्मिकाः अङ्गुलीयकानि तरङ्गाश्च यस्य सः “अङ्गुलीयकमूर्मिका” इति “भङ्गस्तरङ्ग ऊर्मिर्वा " इति चामरः । तरणीनां नावां प्रचारात् “स्त्रियां नौस्तरणिस्तरिः” इत्यमरः । तादृशः उक्तप्रकारः घनोपचयकृद् बहुसञ्चयकारकः अर्थाद्द्रव्यस्य । घनानां मेघानाम् उपचयकृद् वृद्धिकर्ता च, असौ समुद्रः, वितरणित्वं नौकारहितत्वं दातृत्वं च कदापि नोपैति न प्राप्नोति । नौभिः सञ्चारं कृत्वा बहुधनसञ्चयकर्तुः पुरुषस्य दातृत्वरहितत्वमनुचितमिति श्लिष्टभावार्थः ॥ १०५ ॥
विश्वास-प्रस्तुतिः
सृष्टिरेवास्य विफलेति मे दृष्टिः ॥ २९॥ तथा हि—
नास्त्येषामुपयुक्तता तटतरोः8 सस्योपयोगः कुतः ?
न स्नानाय च योग्यताऽस्य पयसां का नाम पानार्हता ? ॥ उद्गर्जन्तमियन्तमन्तरुषितैर्दुर्जन्तुभिर्भीषणम्9
स्रष्टुः सृष्टवतो जलाशयममुं कोऽवाशयः कथ्यताम् ॥ १०६॥
मूलम्
सृष्टिरेवास्य विफलेति मे दृष्टिः ॥ २९॥ तथा हि—
नास्त्येषामुपयुक्तता तटतरोः8 सस्योपयोगः कुतः ?
न स्नानाय च योग्यताऽस्य पयसां का नाम पानार्हता ? ॥ उद्गर्जन्तमियन्तमन्तरुषितैर्दुर्जन्तुभिर्भीषणम्9
स्रष्टुः सृष्टवतो जलाशयममुं कोऽवाशयः कथ्यताम् ॥ १०६॥
बाल-कृष्णः
। सृष्टिरिति । अस्य समुद्रस्य सृष्टिः सर्गोऽपि, विफला निष्फला व्यर्थेति यावत् । इति मे मम दृष्टिः अभिप्राय इत्यर्थः ॥ २९ ॥
यथेति । तदेवोपपादयति
नास्तीति । अस्य समुद्रस्य एषां पयसामुदकानां " पयः कीलालममृतं जीवनं भुवनं वनम् । कबन्धमुदकं पाथः " इत्यमरः । तटतरोः तीरस्थवृक्षस्य उपयुक्तता उपयोगित्वं नास्ति, तर्हि सस्यानां फलानां धान्यानां वा उपयोगः कुतः स्यात् । एषां पयसामित्यनुषञ्जनीयम् । स्नानाय च स्नानं कर्तुमपि योग्यता न, तर्हि पानस्य प्राशनस्य अर्हता योग्यता का नाम ? अर्थान्नास्त्येव । तस्माद् उद्गर्जन्तम् उच्चैः शब्दायमानं, इयन्तम् एतादृशप्रमाणं महान्तमित्यर्थः। किञ्च अन्तः मध्ये उषितैः स्थितैः दुर्जन्तुभिः मकरादिदुष्टप्राणिभिः भीषणं भयङ्करं च, एतादृशममुं जलाशयं समुद्रं, सृष्टवतः उत्पादयतः स्रष्टुब्रह्मणः को वा आशयः अभिप्रायः ? कथ्यताम् । मन्मते तु कोपि नास्तीत्यर्थः ॥ १०६॥
इदानीं श्लेषमूलकदृष्टान्तेन समुद्रस्यानुपयुक्ततामाह-यस्येति ।
यस्य वर्णश्रिय उरुतरा नित्यमायान्त्ययत्नात्
तेन स्वायत्यनुगुणतया न क्रियेत व्ययश्चेत् ॥
वह्निग्रासो भवति विधितो10 मन्थनं बन्धनं वा
लक्ष्मी प्रेप्सोर्जगदधिपतेरत्र साक्षी सरखान् ॥ १०७ ॥
यस्य पुरुषस्य उरुतराः अतिबहवः, स्वर्णस्य कनकस्य सुन्दरस्य अर्णसः जलस्य च, श्रियः समृद्धयः नित्यं प्रतिदिनम् अयत्नात् प्रयत्नं विनैव आयान्ति, प्राप्नुवन्ति तेन तादृशपुरुषेण स्वस्य आयतेः प्राप्तः अनुगुणतया अनुरूपत्वेन व्ययः दानादिरूपत्यागः, न क्रियेत
चेत् , तर्हि कालान्तरेणेति शेषः विधितः दैववशात् , वह्नेरग्नेः ग्रासः दहनं वडवाग्निकृतं भक्षणं च भवति । अथवा लक्ष्मी धनसम्पत्तिं रमां सीतारूपां च प्रेप्सोः प्राप्तमिच्छोः,जगतः अधिपती राजा तस्मात् त्रैलोक्याधिपतिर्विष्णुस्तस्मात् श्रीरामचन्द्राच, मन्थनं केनापि निमित्तेन ताडनादिरूपं मन्थनं विलोडनं च, तथा बन्धनं निगडादिना शिलापर्वतादिभिश्च सेतुरूपेण भवति । अत्र अस्मिन् विषये, साक्षी साक्षादृष्टा " साक्षादृष्टरि-" इति सञ्ज्ञायामिनिः । प्रत्यक्षतयानुभवितेत्यर्थः । सरस्वान् समुद्रः । अस्मिन् हि वडवामिभक्षणं, विष्ण्वादिदेवर्मन्थनं, रामकृतं सेतुबन्धनं च सम्भूतमिति भावः । तस्माद्रव्यवता पुरुषेण एतन्मनसि निधाय पूर्वमेव दानभोगादिना द्रव्यस्य व्ययः कार्य इति भावः । एतदनुगुणमेव भर्तृहरिरप्याह-" दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति" इति । सुभाषितरूपं चैतत् पद्यम् ॥ १०७॥
१ ‘तटतरौ’. २ ‘उद्भर्जन्तमनन्त’. ३ विदितो’.
विश्वास-प्रस्तुतिः
किं बहुना—
कुम्भजपीतोत्सृष्टं11 शिष्टैरस्पृश्यमर्णवमुपेत्य ॥
उद्गततृष्णोऽप्यस्मादुदकं पान्थो जनो न गृह्णाति ॥ १०८ ॥
मूलम्
किं बहुना—
कुम्भजपीतोत्सृष्टं11 शिष्टैरस्पृश्यमर्णवमुपेत्य ॥
उद्गततृष्णोऽप्यस्मादुदकं पान्थो जनो न गृह्णाति ॥ १०८ ॥
बाल-कृष्णः
किमिति । बहुना उक्तेन किं फलमित्यर्थः ।
सङ्क्षेपेणैव कथयामीत्याह-कुम्भजपीतेति । कुम्भाज् जात उत्पन्नः कुम्भजोऽगस्त्यः तेन प्रथमं पीतं प्राशितं पश्चाद् उत्सृष्टं त्यक्तम् मूत्रद्वारेणेति भावः । अत एव शिष्यैः सज्जनैः अस्पृश्यं स्पष्टुमयोग्यमर्णवं समुद्रम् उपेत्य प्राप्य, उद्गता अतिशयेन प्राप्ता तृष्णा तृषा यस्य तथाभूतोऽपि पान्थः पथिकः जनः लोकः, अस्मात् समुद्राद् उदकं न गृह्णाति । क्षारवत्त्वादिति भावः ॥ १०८॥
विश्वास-प्रस्तुतिः
वि॰-सखे सर्वगुणाकरः सरित्पतिरेष न दूषणीयः ॥ ३०& ॥
तथाहि
उच्चैःश्रवःप्रदातुर्वृद्धश्रवसे पुनस्तदनुजाय ॥
वामविलोचनदातुर्वदान्यमस्माद्वदाऽन्यमर्णवतः ॥ १०९ ॥
मूलम्
वि॰-सखे सर्वगुणाकरः सरित्पतिरेष न दूषणीयः ॥ ३०& ॥
तथाहि
उच्चैःश्रवःप्रदातुर्वृद्धश्रवसे पुनस्तदनुजाय ॥
वामविलोचनदातुर्वदान्यमस्माद्वदाऽन्यमर्णवतः ॥ १०९ ॥
बाल-कृष्णः
विश्वावसुराह सखे इति । हे सखे मित्र, सर्वगुणानामाकरः खनिरूपः " खनि स्त्रियामाकरः स्यात्" इत्यमरः । सरितां नदीनां पतिश्च एषः समुद्रः न दूषणीयः ॥ ३०& ॥
तथेति । दूषणानर्हत्वमेवोपपादयति–
‘यस्य स्वर्णश्रियः’ इत्यादिनोक्तं दूषणं परिहरति-उच्चैरिति । वृद्धे जरसा बधिरे श्रवसी कर्णौ " कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः” इत्यमरः । यस्य तस्मै कस्मैचित्पुरुषाय, वस्तुतस्तु इन्द्राय उच्चैः महतोः श्रवसोः कर्णयोः, वस्तुतः उच्चैःश्रवसो नाम्नः अश्वस्य " हय उच्चैःश्रवाः सूतः" इत्यमरः । प्रदातुः । नैतावदेव किन्तु पुनः तस्य बधिरस्य इन्द्रस्य च अनुजाय कनिष्ठबन्धवे(वामनेत्ररहिताय)विष्णवे च" उपेन्द्र इन्द्रावरजः" इत्यमराद् विष्णोरिन्द्रानुजत्वं प्रसिद्धम् । वामस्य सव्यस्य विलोचनस्य नेत्रस्य चन्द्रात्मकस्य च दातुः । श्रीविष्णोर्हि दक्षिणनेत्रं सूर्यो वामनेत्रं च चन्द्र इति प्रसिद्धम् । अस्मान् अर्णवतः समुद्रात् पञ्चम्यर्थे तसिः। वदान्यम् उदारम् अन्यं वद कथय ? सर्वापेक्षया विकलाङ्गप्रदानमतिदुष्करमिति भावः ॥ १०९ ॥
विश्वास-प्रस्तुतिः
अमृतं विबुधेभ्योऽदादभीष्टफलं तरुं च धेनुं च ॥
दिग्वसनाय सितांशुकमीक्षित एतादृशः क्व वा दाता ? ॥ ११०॥
मूलम्
अमृतं विबुधेभ्योऽदादभीष्टफलं तरुं च धेनुं च ॥
दिग्वसनाय सितांशुकमीक्षित एतादृशः क्व वा दाता ? ॥ ११०॥
बाल-कृष्णः
अमृतमिति । किञ्च अयं समुद्रः अमृतं पीयूषं मोक्षं च, विबुधेभ्यः देवेभ्यः ज्ञानिभ्यश्च, अदाद् ददौ । ‘डुदाञ् दाने ’ इत्यस्माद् लुडि “गाति-स्था"इति सिचो लुक् । अभीष्टफलदम् इच्छितफलदातारं, एतदुभयत्रापि सम्बध्यते । तरुं कल्पवृक्ष धेनुं कामधेनुं च अदाद् दिश एव वसनं वस्त्रं यस्य तस्मै कस्मैचिद्दरिद्राय वस्त्ररहिताय, श्रीशङ्कराय च, सितं शुभ्रम् अंशुकं वस्त्रं, सिताः श्वेताः अंशवः किरणा यस्य स सितांशुः स एव सितांशुकश्चन्द्रः स्वार्थे कः । तं च अदात्। तस्माद् एतादृशसमुद्रसदृशः दाता क्व वा ईक्षितः अवलोकितः न कुत्रापीत्यर्थः ॥ ११०॥
विश्वास-प्रस्तुतिः
अमुप्य खलु भाग्यवत्तां शेषादयोऽपि वक्तुमशक्ताः ॥ ३१& ॥
पश्य–
जह्नोरपत्यं जगतः पवित्रं
कलत्रमब्धेस्तनयः कलात्मा ॥
कन्या तु धन्या कमला बिभर्ति
जामातृभावं जगदीश एव ॥ १११ ॥
मूलम्
अमुप्य खलु भाग्यवत्तां शेषादयोऽपि वक्तुमशक्ताः ॥ ३१& ॥
पश्य–
जह्नोरपत्यं जगतः पवित्रं
कलत्रमब्धेस्तनयः कलात्मा ॥
कन्या तु धन्या कमला बिभर्ति
जामातृभावं जगदीश एव ॥ १११ ॥
बाल-कृष्णः
अमुष्येति । अमुष्य समुद्रस्य भाग्यवत्ताम् ऐश्वर्यवत्त्वं, शेषादयः सहस्रमुखशेषसदृशाः अत्रादिशब्दः सादृश्ये । “भूवादयो धातवः" इति पाणिनिसूत्रे इव । किमुत अन्ये । वक्तुं कथयितुमशक्ता, असमर्थाः ॥ ३१& ॥
भाग्यवत्तामेव दर्शयति-जह्नोरिति । अस्य अब्धेः समुद्रस्य जह्नोः एतन्नाम्नो मुनेः अपत्यं कन्या, तच्च जगतः पवित्रं पवित्रकारकं, न सामान्यम् । कलत्रं पत्नी । “ कलत्रं श्रोणि-भार्ययोः " इत्यमरः । तथा अब्धेरिति सर्वत्रानुषञ्जनीयम् । तनयः पुत्रः कलात्मा कलास्वरूपः कलाभिर्वर्धमान इत्यर्थः । चन्द्रः। कन्या तु अत्र तुश्चार्थे । कमला लक्ष्मीः धन्या भाग्यवती, न तु हीना । अपि च जगतां वर्ग-मृत्यु-पातालादिलोकानाम् ईशः अधिपतिः श्रीविष्णुः, जामातृभावं कन्यापतित्वं बिभर्ति धारयत एव । न त्वीदृशी भाग्यवत्ता त्रैलोक्येऽपि कस्य पुरुषस्यास्तीति भावः ॥ १११॥