विश्वास-प्रस्तुतिः
अथ काशीवर्णनम्॥
इति बद्धाञ्जलिरग्रतोऽवलोक्य1 सानन्दम्—
काशी सकाशीभवदिन्द्रगेहसौधाग्रभागा बहुसप्तिनागा2 ॥
इन्धे मयूखैरियमन्धकारव्युत्पत्तिशून्या शिवशेखरेन्दोः ॥ ८२ ॥
मूलम्
अथ काशीवर्णनम्॥
इति बद्धाञ्जलिरग्रतोऽवलोक्य1 सानन्दम्—
काशी सकाशीभवदिन्द्रगेहसौधाग्रभागा बहुसप्तिनागा2 ॥
इन्धे मयूखैरियमन्धकारव्युत्पत्तिशून्या शिवशेखरेन्दोः ॥ ८२ ॥
बाल-कृष्णः
इत्येवमुक्त्वा बद्धाञ्जलिः सन् अग्रतोऽवलोक्य दृष्ट्वा, सानन्दमानन्देन सहितं यथा तथा, आहेति शेषः।
काशीति । सकाशीभवत् सन्निधित्वेन विद्यमानम् इन्द्रगेहं स्वर्गलोको येषां तादृशाः सौधानाम् उच्चैस्तरगृहाणामग्रभागा यस्यां सा इति बहुव्रीहिगर्भो बहुव्रीहिः। तथा बहवः सप्तयोऽश्वाः नागा गजाश्च यस्यां सा तथाभूता । “घोटके वीति-तुरग-तुरङ्गाश्व-तुरङ्गमाः । वाजि-वाहार्व-गन्धर्व-हय-सैन्धव-सप्तयः ।” इति “मतङ्गजो गजो नागः” इति चामरः। तथा शिवस्य विश्वेश्वरस्य शेखरेन्दोर्मस्तकभूषणभूतचन्द्रस्य “शिखास्वापीड-शेखरौ” इत्यमरः । मयूखैः किरणैः “किरणोऽस्रमयूखांशु-” इत्यमरः । अन्धकारस्य व्युत्पत्त्या उद्भवेन शून्या रहिता । भगवतः शङ्करस्य नित्यनिवासात् तच्छिरःस्थचन्द्रकिरणैः सूर्याभावेऽपि प्रकाशयुक्तेत्यर्थः । इयं काशी नगरी इन्धे प्रकाशते । ‘जि इन्धी दीप्तौ इत्यस्माद्धादेर्लट् ॥ ८२॥
विश्वास-प्रस्तुतिः
कृशानुः-वयस्य3 किमेषापि तव स्तवास्पदम् ? ॥ २१& ॥ पश्य—
ये मिष्टान्नभुजो4 गजोत्तमहयारोहाः5 सुगेहान्तरे6
मत्ताभिर्महिलाभिरत्र7 विहरन्त्यामुक्तमुक्तास्रजः ॥
ते घोरास्थिधरा विराजदनडुद्वाहा विषाहारिणो
नर्तिप्यन्त्यवशाः स्मशाननिलया नीचैः पिशाचैः समम् ॥ ८३॥
मूलम्
कृशानुः-वयस्य3 किमेषापि तव स्तवास्पदम् ? ॥ २१& ॥ पश्य—
ये मिष्टान्नभुजो4 गजोत्तमहयारोहाः5 सुगेहान्तरे6
मत्ताभिर्महिलाभिरत्र7 विहरन्त्यामुक्तमुक्तास्रजः ॥
ते घोरास्थिधरा विराजदनडुद्वाहा विषाहारिणो
नर्तिप्यन्त्यवशाः स्मशाननिलया नीचैः पिशाचैः समम् ॥ ८३॥
बाल-कृष्णः
अथाह कृशानुः-वयस्येति । वयस्य भो मित्र “वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्” इत्यमरः । एषा काशीनगर्यपि, अपिना गर्हा द्योत्यते । तव स्तवास्पदं स्तुतिस्थानम् । किमिति प्रश्ने । इत्यापाततः। वस्तुतस्तु-एषा महामहिमवती काशी अपि तव स्तवास्पदं किम् ? तस्मात् त्वं धन्योऽसि ! तत्प्रभावस्य सामान्येन वक्तुमशक्यत्वादिति भावः ॥ २१& ॥
पश्येति । स्तुतियोग्यत्वमयोग्यत्वं वेत्यर्थः ।
तत्रतावत्प्रथमं काशीनिवासिनां पारमार्थिकफलं निरूपयति-य इति। अत्र काश्यां ये जनाः मिष्टं षड्रसयुक्तमन्नं भुञ्जते इति मिष्टान्नभुजः । तथा गजोत्तमा हस्तिश्रेष्ठाश्च हया अश्वाश्च तेषु आरोह आरोहणं येषां तथाभूताः । अश्वादिष्वारुह्य नगरे परिभ्रमन्त इत्यर्थः । किञ्च आमुक्ताः धृताः मुक्तास्रजो मुक्ताहारा यैस्ते तथा अपि च सुगेहान्तरे शोभनान्तःपुरे मत्ताभिः यौवन-रूपादिभिरित्यर्थात् । महिलाभिः स्त्रीभिः “स्त्री योषित्” इत्यारभ्य “वनिता महिला तथा” इत्यन्तोऽमरः । सह विहरन्ति क्रीडन्ति । एवं विषयासक्तचित्ता अपीति वास्तवोर्थः । प्रातीतिकस्तु एवं सुखिन इत्यर्थः । ते जनाः, परलोके इति शेषः । मुक्ताहाराणां स्थाने घोराणां भयङ्कराणामस्नां धरा धारकाः, तथा गजाश्वादिस्थाने विराजन् शोभमानः अनड्वान् वृषभो वाहो वाहनं येषां तादृशाः । “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः । अनड्वान्" इत्यमरः । तथा मिष्टान्नस्थाने विषाहारिणो विषभोजिनः। अन्तःपुरस्थसुन्दरस्त्रीविलासस्थाने च स्मशानमेव निलयो गृहं येषां तथाभूताः स्मशान निवासिनः सन्त इत्यर्थः । अवशाः उन्मत्ताः स्वतन्त्राश्च, नीचैः क्षुदैः, पिशाचैः ब्रह्मराक्षस-मारीच-वेतालादिभिः समं सह, नर्तिष्यन्ति नृत्यं करिष्यन्ति । एवं च अत्रत्यसुखिजनानामप्येवंविधदुःखोत्पादिकेयमिति रभसार्थः । वास्तवस्तु पूर्वोक्तप्रकारेण विषयासक्तत्वेऽपि केवलं काशीवासेनैव जनानां शङ्करसारूप्यसम्पादयित्रीत्यर्थः । विरोधालङ्कारः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
काशीमुद्दिश्य8
‘दत्तं साधुमुदे यदेकमपि तत् क्षेत्रप्रभावाद्भवेत्
कामं कोटिगुणं भवान्तर’ इति ख्यातं त्वयि9 त्वास्थया ॥
वासं प्राप्य मुहुर्बहूनि ददतो वासांसि जन्मान्तरे
लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥ ८४ ॥
मूलम्
काशीमुद्दिश्य8
‘दत्तं साधुमुदे यदेकमपि तत् क्षेत्रप्रभावाद्भवेत्
कामं कोटिगुणं भवान्तर’ इति ख्यातं त्वयि9 त्वास्थया ॥
वासं प्राप्य मुहुर्बहूनि ददतो वासांसि जन्मान्तरे
लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥ ८४ ॥
बाल-कृष्णः
एवं विश्वावसुमुक्त्वा काशीमुद्दिश्याह-दत्तमिति । हे काशि ‘यद् यदि साधोः सत्पात्रस्य मुदे सन्तोषाथै, एकमपि न त्वधिकं दत्तमर्पितं, तर्हि तत् क्षेत्रस्य अर्थात् त्वदन्यप्रयाग-पुष्करादेः प्रभावान् माहात्म्यात् , भवान्तरे अन्यजन्मनि ‘कामं निश्चयेन कोटिगुणं दत्तापेक्षया कोटिसङ्ख्ययाधिकं भवेत् सम्पद्येत’ इति ख्यातं पुराणादौ प्रसिद्धम् । त्वयि तु। वासं वसतिं प्राप्य कृत्वा, मुहुर्वारंवारम् आस्थया अनेन दानेन जन्मान्तरे सुखिनो भवामः’ इत्यादिरूपया, बहूनि वासांसि एतदुपलक्षणम् । तेन महावस्त्र-सुवर्णादीनीत्यर्थः । ददतः सत्पात्रेभ्यः समर्पयन्तः ‘डुदाञ् दाने’ इत्यस्माद् लटः शत्रादेशः । “नाभ्यस्ताच्छतुः" इत्यभ्यस्तत्वानुमभावः । ते लोकाः जन्मान्तरेऽन्यजन्मनि दिग्वसनतां दिगम्बरतां भजन्ति प्राप्नुवन्ति । अर्थाद् वस्त्रहीना दरिद्रा भवन्तीति भावः । इति प्रातीतिकोऽर्थः । वास्तवस्तु दिग्वसनतां नाम शिवसारूप्यं प्राप्नुवन्तीति । तस्मात् तुभ्यं नमः । प्रातीतिके दूरत एव त्वां नमस्कुर्मः न तु त्वयि वासं कर्तुमिच्छाम इति । वास्तवे तु एवं शिवसारूप्यप्रदायै तुभ्यं नमः, त्वन्माहात्म्यस्य दुराकलनीयत्वात्केवलं नमाम एवेत्यर्थः । हन्तेत्यानन्दे विषादे वा ॥ ८४ ॥ काशीनिवासिनो जनास्तावद्दिगम्बरत्वं प्राप्नुवन्तीत्येतावदेव न, किन्तु अन्यदपि प्राप्नुवन्तीत्याह-वारणसीति ।
विश्वास-प्रस्तुतिः
वाराणसि त्वयि सदैव सरोगभूमा
वारोग्यभूमिरिति10 काममलीकवादः ॥
सन्तस्थुषां भवति यत्र वपुः सशूलं
जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम्11 ॥ ८५ ॥
मूलम्
वाराणसि त्वयि सदैव सरोगभूमा
वारोग्यभूमिरिति10 काममलीकवादः ॥
सन्तस्थुषां भवति यत्र वपुः सशूलं
जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम्11 ॥ ८५ ॥
बाल-कृष्णः
हे वाराणसि काशि, “अम्बार्थ-नद्यो-” इति वाराणसीशब्दस्य सम्बुद्धौ ह्रखत्वम् । सदैव सन्ततमेव रोगेण शीतादिना सहिता सरोगा तादृशी भूमिः यस्यां तस्याम् । वस्तुतस्तु सरः गङ्गाप्रवाहरूपं गच्छति प्राप्नोतीति सरोगा तथाभूता भूमिर्यस्यामित्यर्थः । तस्यां त्वयि आरोग्येण रोगराहित्येन युक्ता भूमिः इति कामम् अत्यन्तं निश्चयेनेति यावत् । अलीकवादः असत्यवचनमित्यर्थः । “अलीकं त्वप्रियेऽनृते" इत्यमरः । वास्तवस्तु अः विष्णुर्बिन्दुमाधवरूपः “अकारो वासुदेवः स्यात्” इत्येकाक्षरः। रेण नेत्राग्निना युक्तः उः शिवः अर्थाद् विश्वेश्वरः तौ अरौ, “रश्च कामेऽनिले वह्नौ” इति, “उकारः शङ्करः प्रोक्तः” इति चैकाक्षरः तौ गच्छतीति अरोगा तस्याः भावः आरोग्यं तेन युक्ता भूमिरिति अलीकवादः किमिति काकुः अपि तु नैवालीक इत्यर्थः। तथाहि-यत्र त्वयि सन्तस्थुषां स्थितानां, सम्पूर्वकात् “ष्ठा गतिनिवृत्तौ”’ इत्यस्माद्धातोर्भूतसामान्यविवक्षायां लिटि “क्वसुश्च” इति च क्वसौ “वसोः सम्प्रसारणम्” इत्यामि सम्प्रसारणम् । वपुः शरीरं, जन्मान्तरेऽन्यजन्मन्यपि किमुतास्मिन् जन्मनि। शूलेन शूलरोगेण पक्षे शूलायुधेन सहितं भवति। उत्तमाङ्गं मस्तकं च जलभारवत् शैत्यरोगयुक्तं, पक्षे जलस्य गङ्गाजलस्य भारेण युक्तं भवतीति । एवं च सर्वथा शिवसारूप्यमेव प्राप्नोतीति भावः । इति वास्तवोऽर्थः । अत्रापि व्याजस्तुतिरलङ्कारः ॥ ८५॥ .
एवं कृशानुप्रोक्तमर्थं दूषणपरतयैव सङ्गृह्याह विश्वावसुः-अनिपुणेति ।
विश्वास-प्रस्तुतिः
विश्वावसुः-अनिपुणधिषण गुणमपि12 किमिति दोषीकरोषि ? यदेतन्नगरवासिना भोगिनाऽपि योगिनामप्राप्यं13 शिवसारूप्यमाप्यते ॥ २२& ॥
अत्र देहमपवित्रमपास्यन्नच्छमृच्छति वपुः किल यस्य ।
लोचने शुचिरवाप्तनिटाले मस्तके हरिपदाम्बु जटाले ॥ ८६ ॥
अदःपुरवासिनामन्याप्येषा धन्यता ॥ २३& ॥
मूलम्
विश्वावसुः-अनिपुणधिषण गुणमपि12 किमिति दोषीकरोषि ? यदेतन्नगरवासिना भोगिनाऽपि योगिनामप्राप्यं13 शिवसारूप्यमाप्यते ॥ २२& ॥
अत्र देहमपवित्रमपास्यन्नच्छमृच्छति वपुः किल यस्य ।
लोचने शुचिरवाप्तनिटाले मस्तके हरिपदाम्बु जटाले ॥ ८६ ॥
अदःपुरवासिनामन्याप्येषा धन्यता ॥ २३& ॥
बाल-कृष्णः
अनिपुणा सदसद्विवेकविधुरा धिषणा बुद्धिर्यस्य तत्सम्बोधने हे अनिपुणधिषण मन्दबुद्धे, वाराणस्या इति शेषः । गुणमपि किमिति कस्माद्धेतोरित्यर्थः । दोषीकरोषि दूषणयुक्तमिव करोषीत्यर्थः । यद् यस्मात्कारणाद् एतनगरवासिना काशीपुरनिवासिना, भोगिना स्त्र्यादिविषयभोगवतापि किमुत वैराग्यादियुतेन जनेन, योगिनां यमनियमासनाद्यष्टाङ्गयोगयुक्तानामपि अप्राप्यं प्राप्तुमशक्यं, शिवस्य विश्वेश्वरस्य सरूपस्य तुल्यरूपस्य भावः सारूप्यं शिवसमानरूपतेत्यर्थः । आप्यते प्राप्यते ॥ २२ ॥
शिवसारूप्यमेवोपपादयति-अत्रेति । अत्र काश्यां, जन इति शेषः । अपवित्रं विषयासक्त्यादिना मलमूत्रादिसम्बन्धेन वा अपवित्रं देहम् अपास्यन् त्यजन् सन् , अच्छं खच्छं पवित्रमिति यावत् । वपुः शरीरम् ऋच्छति प्राप्नोति । किलेति निश्चये । यस्य शरीरस्य अवाप्तं प्राप्तं निटालं भालं येन तथाभूते भालदेशस्थिते इत्यर्थः । लोचने नेत्रे शुचिरग्निः । अस्तीति शेषः । “अग्निर्वैश्वानरः" इत्यतः “शुचिरप्पित्तम्-” इत्यन्तोऽमरः । जटां लाति धारयतीति जटालं तस्मिन् जटायुक्त इत्यर्थः । मस्तके शिरसि हरिपदाम्बु विष्णुचरणसम्बन्धि उदकं, अर्थाद् गङ्गोदकं, वर्तते इति शेषः । ‘अपास्यन्’ ‘ऋच्छति’ इति च वर्तमानकालनिर्देशेन शरीरत्यागक्षणे एवोक्तविधं शिवसारूप्यं प्रतीयते ॥ ८६ ॥
नैतावदेव अन्यदपि तन्महित्वमाह-अद इति । अदःपुरनिवासिनाम् अमुष्मिन् पुरे काश्यां निवसन्तीति तथाभूतानां, अन्या पूर्वोक्तसारूप्यप्राप्तेरितरा, एषा वक्ष्यमाणरूपा धन्यता महत्त्वम् , अस्तीति शेषः ॥ २३& ॥
का सा धन्यतेत्याकाङ्क्षायामाह-प्रदोषवदिति ।
विश्वास-प्रस्तुतिः
प्रदोषवत्प्राप्त इह प्रदोषनटोऽन्धकारिव्यपदेशमेति.14 ।
प्रकाशयत्येष हि तारकोद्यद्वर्णान्नृणां कर्णनभःप्रदेशे ॥ ८७ ॥
इति गङ्गातीरजनपदं कृत्स्नमवेक्ष्य साञ्जलिबन्धं
प्रातः प्रातर्जाह्नवीवारि भक्त्या गाहं गाहं कॢप्तनित्यक्रियेभ्यः15 ।
पुष्पैराद्यं पूरुषं पूजयद्भ्यः पूतात्मभ्यो भूसुरेभ्यो नमोऽस्तु ॥ ८८ ॥
मूलम्
प्रदोषवत्प्राप्त इह प्रदोषनटोऽन्धकारिव्यपदेशमेति.14 ।
प्रकाशयत्येष हि तारकोद्यद्वर्णान्नृणां कर्णनभःप्रदेशे ॥ ८७ ॥
इति गङ्गातीरजनपदं कृत्स्नमवेक्ष्य साञ्जलिबन्धं
प्रातः प्रातर्जाह्नवीवारि भक्त्या गाहं गाहं कॢप्तनित्यक्रियेभ्यः15 ।
पुष्पैराद्यं पूरुषं पूजयद्भ्यः पूतात्मभ्यो भूसुरेभ्यो नमोऽस्तु ॥ ८८ ॥
बाल-कृष्णः
इह काश्यां प्रदोषवद् रजनीमुखवत् सायङ्कालवदिति यावत् । प्रदोषो रजनीमुखम्" इत्यमरः । प्रदोषे सायं. काले नटति नृत्यतीति प्रदोषनटः एषः शिवः प्राप्तः अन्धकस्य एतन्नाम्नः कस्यचि. दैत्यस्य अरिः शत्रुः। पक्षे अन्धकारः ध्वान्तम् अस्मिन्नस्तीति अन्धकारी। मत्वर्थीय इनिः। इति व्यपदेशं शब्दम् अभिधानमिति यावत् । एति प्राप्नोति । अपि च नृणां मर्त्यानां देहावसाने इति शेषः । कर्णनभःप्रदेशे श्रोत्रान्तर्गताकाशदेशे, पक्षे किरति सर्वत्र प्रसरति व्याप्नोतीति यावत् । कर्णः व्यापकः, उभयत्रापि “कॄ-वॄ-जॄसि” इत्याद्युणादिसूत्रेण युप्रत्ययः । तस्य बाहुलकात् केवलो नकारादेशश्च । स चासौ नभःप्रदेशः आकाशदेशः तस्मिन् , तारयति जन्म-जरा-मरणादिदुःखेभ्य इति तारः स एव तारकः स्वार्थे कः । तस्मिन् उद्यन्तः उपदेशरूपेण प्रकटीभवन्तः वर्णाः अकारोकारमकाररूपास्तान् । “वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णे तु वाक्षरे’ इत्यमरः । पक्षे तारकाभ्यो नक्षत्रेभ्यः उद्यन्तः वर्णाः प्रभारूपास्तान् , प्रकाशयति उपदेशरूपेण कथयति पक्षे प्रकटयति च । केचित्तु तारकशब्देन राममन्त्रं गृह्णन्ति, तत्तु वैष्णव-रामानुजीयादिमतानुसारेण योजनीयम् । अस्यापि श्रीरामायणे शिववाक्यं प्रमाणभूतम् । यथा “अहो भवन्नाम जपन् कृतार्थो वसामि काश्यामनिशं भवान्या। मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव राम नाम” इति । काशीखण्डेऽपि-“पेयं पेयं श्रवणपुटकै रामनामाभिरामं ध्येयं ध्येयं मनसि सततं तारकं ब्रह्मरूपम् । जल्पन् जल्पन् प्रकृतिविकृतौ प्राणिनां कर्णमूले वीथ्यां वीथ्यामटति जटिलः कोपि काशीनिवासी” इति च ॥ ८७ ॥
इतीति । इत्येवमुक्त्वा गङ्गातीरजनपदं भागीरथीतीरस्थदेशं, कृत्स्नं सर्वं “अथ समं सर्वम् । विश्वमशेषं कृत्स्नं” इत्यमरः । अवेक्ष्य दृष्ट्वा, अञ्जलिबन्धेन करसम्पुटेन सहितं साञ्जलिबन्धं यथा तथा । आहेति शेषः। प्रातः प्रातरिति । प्रातः प्रातः प्रतिप्रातःकाले “नित्यवीप्सयोः” इति नित्यार्थे द्वित्वम् । जान्हवीवारि गङ्गोदकं भक्त्या आदरेण गाहं गाहं स्नात्वा स्नाला ‘गाहू विलोडने’ इत्यस्माद् आभीक्ष्ण्ये णमुल् । कॢप्ताः कृताः आचरिता इति यावत् । नित्याः अकरणे प्रत्यवायसाधकाः क्रियाः सन्ध्यादिकाः यैस्तेभ्यः, तथा आद्यं सृष्टेरपि पूर्व वर्तमानं पूरुषं शङ्करं विश्वनाथमित्यर्थः । पूजयद्भ्यः अर्चयद्भ्यः, अत एव पूतः पवित्रः आत्मा चित्तं येषां तथाभूतेभ्यः । “पवित्रः प्रयतः पूतः” इत्यमरः । “आत्मा कलेवरे यत्ने स्वभावे परमात्मनि। चित्ते धृतौ च” इति च धरणिः । भूसुरेभ्यः ब्राह्मणेभ्यः नमः अस्तु ॥ ८८ ॥
विश्वास-प्रस्तुतिः
कृ॰-किमेतद्देशवासिनोऽपि ब्राह्मणाः केवलं कलिमाहात्म्याकलितशास्त्रीयचर्याविपर्यया भवता नमस्क्रियन्ते ? पश्य तावत् प्रायेणास्य काशीदेशजनस्य सुचर्याविपर्यासम् ॥ २४& ॥ शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहृतैरम्बुभिः
स्नात्याचामति16 देवताः स्नपयति स्वैरं पचत्योदनम् ॥
उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः सङ्गतिं
मातङ्गान्निकटं17 गतानगणयन् मार्गान् मुहुर्गाहते ॥ ८९ ॥
मूलम्
कृ॰-किमेतद्देशवासिनोऽपि ब्राह्मणाः केवलं कलिमाहात्म्याकलितशास्त्रीयचर्याविपर्यया भवता नमस्क्रियन्ते ? पश्य तावत् प्रायेणास्य काशीदेशजनस्य सुचर्याविपर्यासम् ॥ २४& ॥ शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहृतैरम्बुभिः
स्नात्याचामति16 देवताः स्नपयति स्वैरं पचत्योदनम् ॥
उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः सङ्गतिं
मातङ्गान्निकटं17 गतानगणयन् मार्गान् मुहुर्गाहते ॥ ८९ ॥
बाल-कृष्णः
ब्राह्मणस्तुतिमसहमान आह कृशानुः-किमितिा एतद्देशवासिनःगङ्गातीरनिवासिनः केवलं भृशं कलिमाहात्म्यात् कलियुगप्रभावाद् आकलितः स्वीकृतः शास्त्रीयायाः श्रति-स्मृतिविहितायाः चर्यायाः आचारस्य विपर्ययो वैपरीत्यं यैस्तथाभूताः, अर्थाद् विहितमकुर्वन्तः प्रतिषिद्धं कुर्वन्तश्च, तेऽपि ब्राह्मणाः भवता नमस्कियन्ते किम् ? आश्चर्यमिदमिति भावः । कुत एतदिति चेत् प्रत्यक्षमेव पश्येत्याह-पश्य तावदिति। अस्य काशीदेशजनस्य प्रायेण सुचर्याविपयोसं वाचारवैपरीत्यं पश्य तावत् । इदानीमेव मया कथ्यमानमवधारयेत्यर्थः । प्रायेणेत्यनेन शास्त्रविहिताचरणस्य क्वाचित्कं सूचितम् ॥ २४& ॥
तदेवाह शस्त्रैरिति । काशीनिवासब्राह्मण इति शेषः । अत्र सर्वत्र जातावेकवचनम् । शस्त्रैः आयुधधारणैः, जीवति उपजीविकां करोति । ब्राह्मणस्यापत्कालं विना शस्त्रग्रहणनिषेधादेस्तदयुक्तमिति भावः। तथा परं स्वधर्मभूतत्वादुत्कृष्टं, शास्त्रं वेदाध्ययनादिकम् उज्झति त्यजति । अपि च शूद्राहृतैः शूद्रेणानीतैः अम्बुभिः उदकैः, स्नाति स्नानं करोति, आचामति आचमनं करोति, देवताः देवानपि स्नपयति अभिषिञ्चति, किञ्च स्वैरं यथा तथा ओदनमन्नमपि पचति । एतत्तु अतीवावद्यमिति भावः । तथा उच्छिष्टाद् उच्छिष्टभक्षणान् न बिभेति । तदपि भक्षयतीत्यर्थः । उच्चावचैः अनेकविधैः यवनैः नीचम्लेच्छादिजातीयैर्जनैः सह सङ्गतिं सहवासं तैः सह स्पर्शनभाषणादिकं, याति प्राप्नोति, करोतीति यावत् । नैतावदेव, किन्तु निकटं गतान् समीपं प्राप्तानपि “समीपे निकटासन्न-” इत्यमरः । मातङ्गान् चाण्डालान् “चाण्डाल-प्लव-मातङ्ग-दिवाकीर्ति-जनङ्गमाः” इत्यमरः । अगणयन् तेषां स्पर्शास्पर्शविचारमकुर्वन्, मुहुर्वारंवारं मार्गान् गाहते मार्गेषु इतस्ततो भ्रमतीत्यर्थः । एवं चैतत्सर्वे ब्राह्मणाचारविरुद्धमित्यर्थः॥८९॥
नन्वयं जनः प्रातःस्नानं करोति तेन सर्वदोषक्षपणं भवतीति चेत्तत्राह-प्रातरिति ।
विश्वास-प्रस्तुतिः
किञ्च
प्रातर्हन्त कृताप्लवोऽपि रजकस्पृष्टान् जडो रासभै
रूढान् धारयते पटाननुदिनं धृत्वा बहिर्गच्छति ॥
गत्वा म्लेच्छमुखाशुचीन् स्पृशति च स्पृष्ट्वापि न स्नात्यहो
नस्नातोऽप्यथ भुङ्क्त एष चपलो भुक्त्वापि न ब्रीडति ॥ ९० ॥
मूलम्
किञ्च
प्रातर्हन्त कृताप्लवोऽपि रजकस्पृष्टान् जडो रासभै
रूढान् धारयते पटाननुदिनं धृत्वा बहिर्गच्छति ॥
गत्वा म्लेच्छमुखाशुचीन् स्पृशति च स्पृष्ट्वापि न स्नात्यहो
नस्नातोऽप्यथ भुङ्क्त एष चपलो भुक्त्वापि न ब्रीडति ॥ ९० ॥
बाल-कृष्णः
किञ्च अयं जनः प्राप्तः प्रातःकाले कृतः आप्लवः गङ्गास्नानं येन तथाभूतोऽपि “समे आप्लाव आप्लवः । स्नानं” इत्यमरः । रजकस्पृष्टान् रजकेन कृतस्पर्शान् प्रक्षालितानिति यावत् । किञ्च रासभैर्गर्दभैः ऊढान् धृतान् गर्दभवाहितानित्यर्थः। पटान् वस्त्राणि अनुदिनं प्रतिदिनं, न त्वेकदिनमपि, धारयते । नत्वेतावदेव । अपि तु धृत्वा बहिर्भ्रमणार्थमित्यर्थः। कार्यार्थं वा गच्छति । गत्वा च म्लेच्छमुखाशुचीन् म्लेच्छ-यवनप्रमुखान् अपवित्रजनान् स्पृशति। स्पृशतु नाम कार्यार्थं, का वा हानिरिति चेत्तत्राह-स्पृष्ट्वापि न स्नाति स्नानमपि न कुरुते। अत एव जडः मूर्खः,चपलः चाञ्चल्ययुक्तश्च एषः नस्नातोऽपि, अत्र नशब्दस्य “सह सुपा” इति समासः । नैकधेत्यादिवत् । अथ भुङ्क्ते भोजनं करोति । भुक्त्वापि च न ब्रीडति न लज्जते । अत्र रजकस्पृष्ट-रासभोढपटधारण-बहिर्गमनाद्यनेकलज्जाकारणसत्त्वेऽपि लज्जारूपकार्यस्यावर्णनाद्विशेषोक्तिरलङ्कारः । “विशेषोक्तिरखण्डेषु कारणेषु फलावचः” इति तल्लक्षणात् ॥ ९० ॥
नन्वेते राजाधिकारिणस्तस्माद्राजकार्यव्यापृतत्वान्न तेषां स्वकर्मकरणेऽवकाशः परं तु ये केचित्तदधिकाररहितास्ते तु स्वकर्म कुर्वन्त्येवेति चेत्तत्राह-
विश्वास-प्रस्तुतिः
अपि च—–
नीचैर्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं
भुङ्क्ते पङ्क्तिविदूषकैः सह नरैरज्ञातवेदाक्षरैः18 ॥
मद्यास्वादनमत्तचित्तजनतामोहाय भीहानितः19
कर्माण्यारभते श्रुति-स्मृतिवचोदूराण्यसाराण्यहो20 ॥ ९१ ॥
मूलम्
अपि च—–
नीचैर्दुर्यवनैः शुनीभिरपि वा निःशङ्कमालोकितं
भुङ्क्ते पङ्क्तिविदूषकैः सह नरैरज्ञातवेदाक्षरैः18 ॥
मद्यास्वादनमत्तचित्तजनतामोहाय भीहानितः19
कर्माण्यारभते श्रुति-स्मृतिवचोदूराण्यसाराण्यहो20 ॥ ९१ ॥
बाल-कृष्णः
अपि च नीचैरित्यादि । अत्रत्यजन इति शेषः । नीचैः हीनजातीयैः दुर्यवनैः दुष्टम्लेच्छैः, तथा शुनीभिः श्वस्त्रीभिरपि वा, आलोकितमवलोकितं, अन्नादिकमिति शेषः । नैतावदेव, अपि तु अज्ञातं वेदस्य अक्षरमपि किमुत मन्त्रादिकं यैस्तैः, अत एव मद्यपान-मांसाशनादिशास्त्रनिषिद्धकर्माचरणात् पतिविदूषकैः पतिबाबैनरैः सह निःशहू कस्यापि लोक-शास्त्रादेः शङ्कारहितं यथा स्यात्तथा भुते । भोज्यानं चाण्डालादिभिर्न द्रष्टव्यमिति हि धर्मशास्त्रम् । तदाह मनुः-“चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ॥ रजस्वला च षण्ढश्व नेक्षेरन्ननतो द्विजान्” इति । दृष्टे किं भवति तदाह - " घ्राणेन सूकरो हन्ति पक्षवातेन कुकुटः । श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः” इति । किं च नैतावदेव कृत्वा स उपरमति, किं तु मद्यस्य मदिरायाः आस्वादनेन पानेन मत्तं विवेकशून्यं चित्तं यस्यास्तथाभूतायाः जनतायाः जनसमूहस्य मोहाय ‘किमयं ब्राह्मणः कर्मठः, योग्योऽयं, अस्मै एव दानादिकं देयम्’ इति मोहोत्पादनं कर्तु, अत्र “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी । भीहानितः ऐहलौकिक - पारलौकिकभयं सन्त्यज्य, “ल्यब्लोपे कर्मण्यधि - " इति पञ्चमी । तस्याश्च तसिल् । श्रुति स्मृतिवचोदूराणि वेदशास्त्राभ्यामविहितानि तत्र निषिद्धानीति वा । अत एव असाराणि तुच्छानि फलरहितानीति यावत् । कर्माणि आरभते करोति आचरतीत्यर्थः । अहो इत्याश्चर्ये ॥ ९१ ॥
अपि चेति । अन्यदपि निन्द्यं कर्म शृण्वित्याह
विश्वास-प्रस्तुतिः
अपि च
कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां
द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ॥ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्योः
दम्पत्योर्व्याकृतैवं21 हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ९२ ॥
.
मूलम्
अपि च
कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां
द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ॥ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्योः
दम्पत्योर्व्याकृतैवं21 हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ९२ ॥
.
बाल-कृष्णः
कन्यामिति । अज्ञः शास्त्रविधिमजानन् अत एव कामपि यां काञ्चित् स्वमनसे रोचेत तामित्यर्थः । न तु कुलशीलसम्पन्नाम् । कन्याम् उदूह्य विवाह्य, अथ च उदयद् उत्पद्यमानं यौवनं तारुण्यं यस्यां तथाभूताम् एनां कन्यां, अन्वादेशत्वात् " द्वितीयाटौस्स्वेनः” इत्येनादेशः । प्रविजहद् गृहे एव त्यजन् सन्, द्रव्याशापाशकृष्टः द्रव्यसम्पादनेच्छापरवशः सन्नित्यर्थः । देशान्तरेषु, परदेशेषु चिरतरम् अतिचिरकालपर्यन्तं भ्रमति अटति । हन्तेति खेदे । भ्रमतु नाम देशान्तरेषु ततः पुनर्निवृत्तौ भवेदेवोभयोः सङ्गम इति चेत्तत्राह - अन्योन्येति । अन्योन्यस्य परस्परस्य य आश्लेषः आलिङ्गनं तस्य वाञ्छयैव न तु उपभोगेन, विगलितं नष्टं वयस्तारुण्यं ययोस्तयोः । अत एव आत्तं प्राप्तं मालिन्यं कामाद्युपभोगराहित्यं यस्याः तथाभूता मतिर्बुद्धिर्ययोस्तयोर्दम्पत्योः स्त्रीपुरुषयोः " दम्पती जम्पती जायापती भार्यापती च तौ" इत्यमरः । एवमुक्तप्रकारेण हतविधिः दुष्टदैवं कर्तृ, “विधिर्विधाने दैवेऽपि " इत्यमरः । उभयोर्लोकयोः इहलोके सङ्गमाभावात् परलोके च अकर्मकरणात्, शोकयोगं शोकसम्बन्धं व्याकृत अकरोत् । डुकृञ् करणे’ इत्यस्मात् कर्तरि लुङ् " ह्रस्वादङ्गात्" इति सिचो लुक् । ‘व्यादित’ इति पाठे ‘दम्पत्योः’ इति षष्ठी प्रामादिकी ॥ ९२ ॥
विश्वास-प्रस्तुतिः
अपि च
नाधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा ॥
दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुति-स्मृतिसुतर्कान् ॥ ९३ ॥
मूलम्
अपि च
नाधीतेऽत्र जनो यदि कश्चिदधीते शते सहस्रे वा ॥
दुस्तर्केषु श्राम्यति दूरीकुरुते श्रुति-स्मृतिसुतर्कान् ॥ ९३ ॥
बाल-कृष्णः
अपि च-नेति । अत्र अस्मिन् देशे कोऽपि जनः नाधीते वेदशास्त्राद्यध्ययनं न करोति, यदि कश्चिद् एकः कोऽपि शते सहस्रे वा, अधीते अध्ययनं करोति चेत् , तदा सः दुस्तर्केषु युक्तिश्रुतिविरुद्धतर्कोपहतेषु चार्वाक-गौतमादिप्रणीतशास्त्रेषु,श्राम्यति परिश्रमं करोति । अपि च श्रुतिस्मृतिसुतर्कान् उपनिषद्-व्याससूत्र-मनुस्मृत्यायुक्तजीवात्मपरमात्माभेदप्रतिपादकसत्तान् , दूरीकुरुते नाधीते । एवं च सर्वेऽपि वेदशास्त्रपराङ्मुखा एवेत्यर्थः ॥ ९३ ॥
एवं कृशानुप्रतिपादितं दूषणपरं भाषणं श्रुत्वा कष्टयुक्तः प्राह विश्वावसुःकष्टमिति ।
विश्वास-प्रस्तुतिः
वि॰–कष्टमरे ब्राह्मणनिन्दां शृण्वतः कम्पते मे हृदयम् । यस्त्वयोपन्यस्तः सच्चर्याविपर्ययः22 स एष कलेरेव दोषो न ब्राह्मणानाम् । कलौ युगे कार्तयुगं चारित्रं कुत्र23 नाम सम्भाव्यते ? दुरितलतिकोपघ्नात्मा24 दुर्जयः खलु कलिः ॥ २५& ॥
मूलम्
वि॰–कष्टमरे ब्राह्मणनिन्दां शृण्वतः कम्पते मे हृदयम् । यस्त्वयोपन्यस्तः सच्चर्याविपर्ययः22 स एष कलेरेव दोषो न ब्राह्मणानाम् । कलौ युगे कार्तयुगं चारित्रं कुत्र23 नाम सम्भाव्यते ? दुरितलतिकोपघ्नात्मा24 दुर्जयः खलु कलिः ॥ २५& ॥
बाल-कृष्णः
अरे भोः कृशानो! कष्टम् । एतद्दुःखप्रद्योतकमव्ययम् । ब्राह्मणानां निन्दां शृण्वतः आकर्णयतः, मे मम हृदयं कम्पते । कुतः । त्वयोपन्यस्तः ‘शस्त्रैर्जीवति शास्त्रमुज्झति’ इत्यादिवाक्यैः प्रतिपादितः यः सच्चर्याविपर्ययः सच्छास्त्रवैपरीत्यं, स एष कलेः कामाद्यासक्तस्य कलियुगस्यैव दोषः, न ब्राह्मणानाम् । कुतः । अस्मिन् कलौ युगे, कृतयुगे भवं कार्तयुगं ‘तत्र भवः’ इत्यर्थेऽण् । चारित्रम् आचरणं कुत्र नाम केन कारणेन सम्भाव्यते? नैव सम्भाव्येतेत्यर्थः । यतः दुरितं पापं तद्रूपा या लतिका तस्या उपघ्न आश्रयभूतः आत्मा यस्य तथाभूतः। “स्यादुपघ्नोन्तिकाश्रयः” इत्यमरः । कलिर्दुर्जयः खलु । निश्चयेन जेतुमशक्यः ॥ २५& ॥
दुर्जयत्वमेवोपपादयति-हर्म्येति ।
विश्वास-प्रस्तुतिः
पश्य
हर्म्यस्थानमधर्मकर्मविततेर्दुर्मानधर्मासनम्25
शास्त्रस्तोमललाटभूलिपिलयः26 शान्तिः सवानामपि ।
सर्वाम्नायवचस्समापनदिनं संस्था सदर्चाविधे
रर्थाशाजनिभूरभूदिह महानर्थावहोऽयं कलिः ॥ ९४ ॥
मूलम्
पश्य
हर्म्यस्थानमधर्मकर्मविततेर्दुर्मानधर्मासनम्25
शास्त्रस्तोमललाटभूलिपिलयः26 शान्तिः सवानामपि ।
सर्वाम्नायवचस्समापनदिनं संस्था सदर्चाविधे
रर्थाशाजनिभूरभूदिह महानर्थावहोऽयं कलिः ॥ ९४ ॥
बाल-कृष्णः
अयं कलिः एतत् कलियुगं, महतः अनर्थान् वक्ष्यमाणरूपान् आवहति सम्पादयतीति तथाभूतः अभूत् प्रादुर्बभूव । के ते अनर्था इत्याकाङ्क्षायामाह-धर्मः पुण्यं तद्विरुद्धः अधर्मः पापं “धर्माःपुण्य-यम-न्याय-स्वभावाचार सोमपाः” इत्यमरः । तज्जनकानि यानि कर्माणि परधनहरण-परस्त्रीगमन-मद्यपानादीनि तेषां विततेः परम्परायाः हर्म्यस्थानं निवासगृहं तथा दुर्मानधर्मासनं दुर्मानस्य दुरभिमानस्य गर्वस्येति यावत् । धर्मासनं धर्मपीठं, अथवा दुर्मानस्य ये धर्माः परपैशून्यपराधिक्षेपादयस्तेषामासनमिति वा । शास्त्रस्तोमस्य शास्त्रसमूहस्य ललाटभूलिपेः कपालस्थानस्थितायुरक्षराणां लयः नाशः । एतत्प्रादुर्भावाच्छास्त्राणि विलयं यान्तीत्यर्थः। तथा सवानां यज्ञानामपि “यज्ञः सवोऽध्वरो यागः” इत्यमरः । शान्तिः शमनम्, सर्वाणि यान्यानायवचांसि वेदवचनानि तेषां समापनदिनं समाप्तिदिवसः। सद विधेः सत्पूजादिकर्मानुष्ठानस्य संस्था मर्यादा। अस्य पापप्रचुरत्वान्न तावत्सत्कमणोऽवकाश इति भावः । “संस्था तु मर्यादा धारणा स्थितिः" इत्यमरः। दम्भादिप्रदर्शनार्थं तावत्प्रचुरम् असदर्चनादिकं कलौ प्रवर्तते इत्येतत्सूचनार्थ सच्छब्दप्रयोगः। तथा अर्थाशायाः द्रव्यवाञ्छायाः, जनिभूः जन्मभूमिः । एतादृशः अयं कलिरिति सम्बन्धः ॥ ९४ ॥
विश्वास-प्रस्तुतिः
.
एतादृशे कलियुगेऽपि शतेषु कश्चि
ज्जातादरो जगति यः श्रुतिमार्ग एव ॥
यत्किञ्चिदाचरति पात्रमसौ स्तुतीनां
श्लाघ्यं मितापमपि27 किं न मरौ सरश्चेत् ॥ ९५ ॥
किञ्च—
मूलम्
.
एतादृशे कलियुगेऽपि शतेषु कश्चि
ज्जातादरो जगति यः श्रुतिमार्ग एव ॥
यत्किञ्चिदाचरति पात्रमसौ स्तुतीनां
श्लाघ्यं मितापमपि27 किं न मरौ सरश्चेत् ॥ ९५ ॥
किञ्च—
बाल-कृष्णः
एतादृश इति । एतादृशे पूर्वोक्तानेकानर्थकारके कलियुगेऽपि, शतेषु असङ्ख्यातेषु जनेषु मध्ये, यः कश्चिद् एकः कोऽपि, श्रुतिमार्गे वेदमार्गे वेदविहितकर्मानुष्ठाने इत्यर्थः। जातः उत्पन्नः आदरः श्रद्धा यस्य सः तथाभूतः एव, यत्किञ्चिद् यावत् कर्तुं शक्येत तावत् कर्म आचरति करोति चेत्, तर्हि असौ कर्मकर्ता स्तुतीनां प्रशंसानां पात्रम् । प्रशंसितुं योग्य एवेत्यर्थः । तत्र दृष्टान्तः। मरौ म्रियन्ते पिपासया जन्तवो यस्मिन्देशे तस्मिन् निर्जलप्रदेशे इत्यर्थः । (‘मारवाड’ इति प्रसिद्ध इति यावत्) मिता अल्पाः आपः उदकानि यस्मिंस्तथाभूतमपि सरः सरोवरं चेत्, स्याद् इति शेषः । तर्हि तन् न श्लाघ्यं किं न प्रशंसायोग्यं किं? अपि तु प्रशंसनीयमेवेत्यर्थः॥९५ ॥ ‘शस्त्रैर्जीवति-’ इत्यादिनोक्तं दूषणमपाकरोति-ये कायस्थेति।
विश्वास-प्रस्तुतिः
ये कायस्थजनाश्च ये नृपसुता ये च द्विजाश्शस्त्रिण28
स्ते यत्नादनुसृत्य निर्दयतया शुप्कांस्तुरुप्काधिपान् ॥
देवान् भूमिसुरांश्च पान्ति कृतिनस्ते चेद्गृहेप्वासते29
ब्राह्मण्याय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत् ॥९६॥
मूलम्
ये कायस्थजनाश्च ये नृपसुता ये च द्विजाश्शस्त्रिण28
स्ते यत्नादनुसृत्य निर्दयतया शुप्कांस्तुरुप्काधिपान् ॥
देवान् भूमिसुरांश्च पान्ति कृतिनस्ते चेद्गृहेप्वासते29
ब्राह्मण्याय जलाञ्जलिः किल भुवि प्राज्ञैः प्रदेयो भवेत् ॥९६॥
बाल-कृष्णः
ये कायस्थजनाः ग्रामायव्ययलेखकाः, ये च नृपसुताः राजपुत्रज्ञातीयाः, ये च द्विजाः ब्राह्मणाः सन्तः शस्त्रिणः शस्त्रधारिणः, ते त्रिप्रकारा अपि यत्नात् , दुःसहक्लेशसहनमङ्गीकृत्येत्यर्थः । ल्यब्लोपे पञ्चमी। निर्दयतया दयाराहित्येन शुष्कान् दयारसरहितान् ,केवलं स्वार्थसाधनतत्परानित्यर्थः।तुरुष्काधिपान् तुरुष्क-(महाराष्ट्रभाषया ‘तुर्क’)देशीययवनभूपतीन् अनुसृत्य सेवाधर्मेणानुगम्य,देवान् ,विश्वेश्वरान्नपूर्णादिदेवतायतनानि भूमिसुरान् ब्राह्मणांश्च पान्ति रक्षन्ति । अयमाशयः-यवनास्तु स्वभावतः क्रूरा निर्दयाश्च परधर्मद्वेषिणश्च
अत एव ते ब्राह्मणान् , तद्धर्मान् , तद्देवताश्च भ्रंशयन्ति नाशयन्ति च । तस्मादेते कायस्थादय एव तत्सेवास्वीकरणेन जनपदरक्षणाद्यधिकारं लब्ध्वा देवभूसुरादीन् पान्तीति । अत एव ते कृतिनः धन्याः। ते च शस्त्रधारणादिसेवां विनैव गृहेषु आसते तिष्ठन्ति चेत्, यद्वा गृहेषु उदासीना भवेयुश्चेत्, तदा भुवि भूमौ प्राज्ञैः पण्डितैः, ब्राह्मण्याय ब्राह्मणानां कर्म सन्ध्याद्यनुष्ठानरूपं यजनादिषड्विधं वा, तस्मै जलाञ्जलिः त्यागरूपोदकाञ्जलिः प्रदेयः दातव्यो भवेत् । अस्यायं भावः-“विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः” इत्यमरात् शास्त्रतश्च यजन-याजन-अध्ययन-अध्यापन-दान-प्रतिग्रहरूपैः षट्कर्मभिरुपेतो ब्राह्मणः। तत्र याजनाध्यापन-प्रतिग्रहरूपाणि त्रीणि आजीविकाभूतानि । इतराणि त्रीणि च परमार्थसाधकानि । तत्र च तुरुष्काधिपत्ये याजनादीनामशक्यत्वाद् ब्राह्मणानां जीविकाभावः । ततश्च द्रव्याभावादेवान्यानि त्रीणि कर्माणि शिथिलीभवेयुरिति ॥९६॥
विश्वास-प्रस्तुतिः
सर्वतो दृष्टिं प्रसार्य सश्लाघम्
आक्रान्तासु वसुन्धरासु यवनैरासेतुहैमाचलं
विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ॥
निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकम्
पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ ९७ ॥
पुनः सश्लाघम्—-
मूलम्
सर्वतो दृष्टिं प्रसार्य सश्लाघम्
आक्रान्तासु वसुन्धरासु यवनैरासेतुहैमाचलं
विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ॥
निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकम्
पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ ९७ ॥
पुनः सश्लाघम्—-
बाल-कृष्णः
सर्वेति । सर्वतः सर्वत्र काशीप्रदेशे इत्यर्थः । दृष्टिं प्रसार्य मार्मिकतया निरीक्ष्य, श्लाघया प्रशंसया सहितं यथा तथा, उवाचेति शेषः ।
आक्रान्ताविति । आसेतुहैमाचलं सेतुं सेतुबन्धरामेश्वरं हिमाचलं चाभिव्याप्य “आङ् मर्यादाभिविध्योः” इत्यभिविधावव्ययीभावः । वसुन्धरासु पृथ्वीस्थषट्पञ्चाशद्देशेषु। वसुन्धराशब्देन तत्स्था देशा गृह्यन्ते लक्षणया। यवनैः आक्रान्तासु व्याप्तासु सतीषु, तथा क्षितिभृतां राज्ञां गणः समुदायस्तस्मिन् , यवनभयादिति शेषः । विद्राणे पलायमाने सति, विकरुणे करुणारहिते अत एव नारायणे भगवति विष्णौ, निद्राति भूस्थजनानां स्थितिमनवलोक्य निद्रितप्राये सति, तथा कलौ कलियुगेऽपि निर्विघ्नप्रसरे निर्विघ्नः विघ्नरहितः प्रतिबन्धरहित इति यावत् । प्रसरः सञ्चारः यस्य तथाभूते सति च, लोकोत्तरः इतरलोकविलक्षणः सामान्यजनापेक्षयाऽधिककर्तृत्वशक्तिसम्पन्न इति भावः । एकः हि एक एव कश्चित् पुरुषः, अत्र हिरवधारणे “हि हेताववधारणे” इत्यमरात् । तत्र तत्र तस्मिंस्तस्मिन् देशे, वैदिकं वेदोक्तं पन्थानं मार्ग अर्थात् कर्मरूपं, बलात् स्वकीयश्रद्धारूपसामर्थ्यात् , निष्कण्टकं प्रतिबन्धरहितं यथा स्यात् तथा, पाति रक्षति । तस्मादयं धन्य इति भावः ॥ ९७ ॥
पुनरिति । पुनश्च पुनरपि सश्लाघं यथा तथा आह
विश्वास-प्रस्तुतिः
त्यजतु विहितमेतद्देशवासी निषिद्धम्
भजतु तदपि लोके नास्ति धन्यस्तदन्यः ॥
त्रियुगपदनखश्रीदत्तशुद्धिर्यदङ्गे
लगति दुरितभङ्गे लग्नको गाङ्गपूरः ॥ ९८ ॥
प्रौढेषु गौडेषु च कान्यकुब्जेष्वङ्गेषु30 वङ्गेषु च मैथिलेषु ॥
अन्येषु सत्स्वेव31 बुधेषु धन्येष्वद्यापि जीवन्त्यधिभूमि विद्याः ॥९९ ॥
इदं तावदवधेहि ॥ २६& ॥
मूलम्
त्यजतु विहितमेतद्देशवासी निषिद्धम्
भजतु तदपि लोके नास्ति धन्यस्तदन्यः ॥
त्रियुगपदनखश्रीदत्तशुद्धिर्यदङ्गे
लगति दुरितभङ्गे लग्नको गाङ्गपूरः ॥ ९८ ॥
प्रौढेषु गौडेषु च कान्यकुब्जेष्वङ्गेषु30 वङ्गेषु च मैथिलेषु ॥
अन्येषु सत्स्वेव31 बुधेषु धन्येष्वद्यापि जीवन्त्यधिभूमि विद्याः ॥९९ ॥
इदं तावदवधेहि ॥ २६& ॥
बाल-कृष्णः
त्यजत्विति । किञ्च एतद्देशवासी काशीक्षेत्रनिवासी जनः, विहितं श्रुति-स्मृतिविहितं कर्म त्यजतु, तथा निषिद्धं श्रुतिस्मृतिषु अनिष्टसाधनत्वेन बोधितं भजतु करोतु आचरत्विति यावत् । तदपि निषिद्धाचरणेऽपि, लोके तदन्यः एतद्देशवासिन इतरः, धन्यः पुण्यवान् नास्ति । कुतः । यस्मात् त्रीणि युगानि युग्मानि उत्पत्त्यादिषट्कं च यस्य सः तस्य त्रियुगस्य, उत्पत्त्यादिषट्कं च-” उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति" इति । श्रीविष्णोः पदसम्बन्धिनखानां श्रिया कान्त्या दत्ता समर्पिता शुद्धिः पावित्र्यं यस्य सः, अत एव दुरितानां पापानां भङ्गे विनाशे लग्नकः प्रतिभूरूपः ( ‘जामीन’ इति महाराष्ट्रभाषाप्रसिद्धः) “स्युर्लग्नकाः प्रतिभुवः’ इत्यमरः । गाङ्गपूरः गङ्गाप्रवाहः, यदङ्गे यस्य काशीनिवासिजनस्य शरीरे, लगति संसक्तो भवति । ‘लगे सङ्गे’ इत्यस्य रूपम् । तेन चात्रत्यजनः पातक्यपि शुद्धोभवतीति भावः ॥ ९८ ॥
प्रौढेष्विति । अपि च प्रौढेषु प्रगल्भेषु प्रतिभायुक्तेष्विति यावत्। प्रतिभा च “प्रज्ञा नवनवोल्मेषशालिनी प्रतिभोच्यते” इत्युक्ता ज्ञेया । गौडेषु गौडदेशस्थजनेषु कान्यकुब्जेषु तद्देशनिवासिजनेषु, तथा अङ्गेषु अङ्गवासिषु, वङ्गेषु वङ्गदेशवासिषु, मैथिलेषु मिथिलादेशनिवासिषु च, तथा अन्येषु उक्तान्यदेशेषु पाञ्चालादिषु सत्स्वपि, काशीनिवासिषु इति शेषः पूर्वापरसम्बन्धाज् ज्ञेयः । धन्येषु विश्वेश्वरदर्शन-गङ्गास्नानादिना पुण्यवत्सु, बुधेषु पण्डितेष्वेव अधिभूमि भूमौ, सप्तम्यर्थस्य द्योतकोऽधिः । तस्य विभक्त्यर्थेऽव्ययीभावः । अद्यापि कलौ युगेपि, विद्याः वेदशास्त्रादयः जीवन्ति विद्यन्ते । अयं भावः-गौड-वङ्ग-मैथिलादिदेशेषु विद्यासम्पन्नेषु सत्स्वपि तदपेक्षया काश्यामेव विद्याधिक्यं ज्ञेयम् । तस्माच्च ‘शस्त्रैर्जीवति शास्त्रमुज्झति’ इत्यादि पूर्वोक्तं दूषणं नैवात्र सङ्गच्छत इति ॥ ९९ ॥
इदमिति । अपि च इदं मया वक्ष्यमाणं तावत् साकल्येन “यावत्तावच्च साकल्ये” इत्यमरः । अवधेहि सम्यगाकर्णय ॥ २६& ॥
किं तदित्यपेक्षायामाह-एतदिति ।
विश्वास-प्रस्तुतिः
एतद्देश्यप्रचुरचरितान्यन्यदेशस्थितानां
रोचन्ते चेन्ननु32 न मनसे मा रुचन्काऽत्र हानिः ॥
प्राज्ञाः पुत्रा जनयितृहृदे पश्य यद्वत्स्वदन्ते
तद्वद्विद्वन्न परमनसे तावता कोऽत्र दोषः ॥ १०० ॥
मूलम्
एतद्देश्यप्रचुरचरितान्यन्यदेशस्थितानां
रोचन्ते चेन्ननु32 न मनसे मा रुचन्काऽत्र हानिः ॥
प्राज्ञाः पुत्रा जनयितृहृदे पश्य यद्वत्स्वदन्ते
तद्वद्विद्वन्न परमनसे तावता कोऽत्र दोषः ॥ १०० ॥
बाल-कृष्णः
एतस्मिन् देशे भवा एतद्देश्यास्तेषां, भवार्थे यत् प्रत्ययः। प्रचुराणि बहूनि “प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु” इत्यमरः । न तु एक-द्वित्राणि । चरितान्याचरणानि, अन्यदेशे तिष्ठन्ति निवसन्तीत्यन्यदेशस्थितास्तेषां मनसे रोचन्ते प्रीणयन्ति चेत् , ननु किंवा न रोचन्ते, तर्हि मा रुचन् न रोचन्ताम् “माङि लुङ्” इति लुङ् “न माङ्योगे” इत्यडागमनिषेधश्च । अत्र उभयपक्षेऽपि का हानिः ? न कापीत्यर्थः । तत्रोदाहरणम्-प्राज्ञाः विद्वांसः पुत्राः जनयित्रोः मातापित्रोः “माता-पितरौ पितरौ मातर-पितरौ प्रसू-जनयितारौ” इत्यमरः। हृदे मनसे यद्वद् यथा स्वदन्ते रोचन्ते, “रुच्यर्थानां” इति चतुर्थी । तद्वत् तथा परमनसे अन्यमनसे न रोचन्ते, हे विद्वन् सुज्ञ कृशानो, अत्र तावता परमनसेऽरोचनेन को दोषः ? पुत्राणामिति शेषः । पश्य विचारय। प्रतिवस्तूपमालङ्कारः। “प्रतिवस्तूपमा तु सा । सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः” इति तल्लक्षणात् ॥१००॥
‘नीचैर्यवनैः-’ इत्यादिनोक्तं दूषणमपाकरोति-प्रातरिति ।
विश्वास-प्रस्तुतिः
किञ्च
प्रातश्शीतजले निमज्य विबुधानभ्यर्चयत्युच्चकै
रार्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धोऽप्यसौ33 ॥
भागे गोमयलिप्त एव पचते भुङ्क्ते ततोऽन्यत्र य
न्नीतं तद्विजहाति भुक्तिनियमो दृष्टः क भूयानियान् ? ॥१०१॥
मूलम्
किञ्च
प्रातश्शीतजले निमज्य विबुधानभ्यर्चयत्युच्चकै
रार्यः पर्युषितं तु नाभ्यवहरत्यन्धः क्षुधान्धोऽप्यसौ33 ॥
भागे गोमयलिप्त एव पचते भुङ्क्ते ततोऽन्यत्र य
न्नीतं तद्विजहाति भुक्तिनियमो दृष्टः क भूयानियान् ? ॥१०१॥
बाल-कृष्णः
किञ्च असावेतद्देशीय आर्यः श्रेष्ठः। प्रातः प्रातःकाले, शीतजले निमज्ज्य स्नात्वा, विबुधान् विश्वेश्वरबिन्दुमाधवढुण्डिविनायकादिदेवान् उच्चकैः सम्यक् अर्चयति पूजयति । अनन्तरं क्षुधा क्षुधया अन्धः पीडितोऽपि, पर्युषितं निशावशिष्टम् अन्धः अन्नं “भक्तमन्धोऽन्नं” इत्यमरः । तु नाभ्यवहरति नैव भुङ्क्ते, किन्तु तत्कालं पक्त्वैव भुङ्क्ते इत्यर्थः । तच्च स्वतः गोमयलिप्ते गोमयेनालेपिते भागे प्रदेशे पचते, भुङ्क्ते भुनक्ति च । किञ्च ततः पाकस्थानाद् अन्यत्र यत् स्वतोऽन्येन केनापि वा नीतं चेत्, तद्विजहाति त्यजति च । ततः भुक्तेः भोजनस्य नियमः इयान् एतत्परिमाणः इदंशब्दाद् वतुपि वस्य घादेशे तस्य चेयादेशे इदम इशादेशे “यस्येति च" इतीकारलोपे च सिद्धमिदम् । भूयान् महान् क्व दृष्टः ? न कुत्रापीत्यर्थः एवम् । च यवनादिभिरवलोकितेऽपि एतन्नियमदाढर्यान्न तावद्दूषणावहमिति भावः । इतस्तावन्मध्यदेशवर्णनम् ॥ १०१॥