०६ गङ्गानदीवर्णनम्

विश्वास-प्रस्तुतिः

अथ गङ्गानदीवर्णनम् ६.
इति विमानं दक्षिणतः प्रस्थाप्य कृशानुमुद्दिश्य
शिथिलितभवखेदा श्लिष्टवैकुण्ठपादा
कृतविपदपनोदा क्लृप्तचित्तप्रसादा1
विमलतरतरङ्गा विश्रुताम्भोधिसङ्गा2
विहितदुरितभङ्गा वीक्ष्यतामत्र गङ्गा ॥ ७४ ॥

मूलम्

अथ गङ्गानदीवर्णनम् ६.
इति विमानं दक्षिणतः प्रस्थाप्य कृशानुमुद्दिश्य
शिथिलितभवखेदा श्लिष्टवैकुण्ठपादा
कृतविपदपनोदा क्लृप्तचित्तप्रसादा1
विमलतरतरङ्गा विश्रुताम्भोधिसङ्गा2
विहितदुरितभङ्गा वीक्ष्यतामत्र गङ्गा ॥ ७४ ॥

बाल-कृष्णः

इति विमानं दक्षिणतः दक्षिणस्यां दिशि, ‘दक्षिणोत्तराभ्यामतसुच्’ इत्यतसुच् । प्रस्थाप्य नीत्वा कृशानुमुद्दिश्य, आहेति शेषः ॥

शिथिलितेति । शिथिलितः विनाशितः भवस्य संसारस्य खेदः दुःखं यया तादृशी। श्लिष्टौ आलिङ्गितो आश्रिताविति यावत् । वैकुण्ठस्य विष्णोः पादौ यया तथाभूता । कृतः विपदा आपत्तीनाम् अपनोदो निवारणं यया तथाभूता । पुनश्च क्ऌप्तः रचितः चित्तस्य प्रसादः प्रसन्नता यया तादृशी। यस्या दर्शनमात्रेणैव मनः. सन्तोषो जायते इत्यर्थः । विमलतराः अतिशयेन निर्मलास्तरङ्गा वीचयो यस्याः सा तथाभूता । “भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु” इत्यमरः । विश्रुतः प्रसिद्धः अम्भोधेः समुद्ररूपस्य पत्युः सङ्गः सङ्गतिर्यस्याः सा । अत एव विहितः कृतः दुरितानां पापानां भङ्गः विनाशो यया तथाभूता च । अत्रास्मिन्स्थले गङ्गा भागीरथी नदी वीक्ष्यतां दृश्यतां, त्वयेति शेषः। मालिनी वृत्तम् । लक्षणमुक्तं प्राक् ( ३५ श्लोकटीकायाम् ) ॥ ७४ ॥

अथाह कृशानुः-उपेक्षणीयानीति ।

विश्वास-प्रस्तुतिः

कृशानुः-उपेक्षणीयानि भागीरथीयानि पानीयानि किमिति वीक्षणीयानि ? ॥ १९॥

मूलम्

कृशानुः-उपेक्षणीयानि भागीरथीयानि पानीयानि किमिति वीक्षणीयानि ? ॥ १९॥

बाल-कृष्णः

उपेक्षितुं तिरस्कर्तुं योग्यानि उपेक्षणीयानि भागीरथीयानि गङ्गासम्बन्धीनि पानीयान्युदकानि किमिति कुतो हेतोः वीक्षणीयानि अवलोकनीयानि ? अत्रोपेक्षणीयानीत्यस्य ‘उप समीपे ईक्षणीयानि दर्शनीयानि’ इति श्लिष्टार्थो मुद्रितपुस्तके मधुरसुब्बाशास्त्रिविरचितटीकायामुपलभ्यते। परं च स न युक्तः । ‘वीक्षणीयानि’ इत्यग्रिमपदेनैव तदर्थलाभात् पुनरपि तथैवार्थकरणे श्लेषस्वरसाभावात् पुनरुक्तिदोषापत्तेश्च ॥ १९ ॥ वीक्षणीयत्वाभावमेव दर्शयति यतः येषामिति ।

विश्वास-प्रस्तुतिः

यतः—-
येषां जनिश्चरणतस्तु हिरण्यहर्तु
र्दोषाकरेण गुरुदारविटेन मूर्ध्नि3
ब्रह्मोत्तमाङ्गभिद एव सहस्थितिश्च
ख्यातो लयो जलनिधौ किल गाङ्गवाराम् ॥ ७५ ॥

मूलम्

यतः—-
येषां जनिश्चरणतस्तु हिरण्यहर्तु
र्दोषाकरेण गुरुदारविटेन मूर्ध्नि3
ब्रह्मोत्तमाङ्गभिद एव सहस्थितिश्च
ख्यातो लयो जलनिधौ किल गाङ्गवाराम् ॥ ७५ ॥

बाल-कृष्णः

येषां गङ्गायाः इमानि गाङ्गानि तादृशानि च वारि उदकानि च तेषां, “आपः स्त्री भूम्नि वार्वारि” इत्यमरः। गङ्गोदकानामित्यर्थः । जनिरुत्पत्तिस्तु “जनिरुत्पत्तिरुद्भवः” इत्यमरः । हिरण्यहर्तुः सुवर्णचोरस्य चरणतः आचरणात् , जातेति शेषः । तथा ब्रह्मणः ब्राह्मणस्य उत्तमाङ्गं शिरः । “उत्तमाङ्गं शिरः शीर्ष” इत्यमरः । भिनत्ति छिनत्तीति उत्तमाङ्गभित् तस्य ब्रह्महन्तुरित्यर्थः । मूर्ध्नि मस्तके “मूर्धा ना मस्तकोऽस्त्रियाम्” इत्यमरः । गुरोरध्यापकस्य दाराणां भार्यायाः विटेन जारेण “भार्या जायाऽथ पुभूम्नि दाराः” इत्यमरः । “विटोऽद्रौ लवणे षिङ्गे (जारे) मूषिके खदिरेऽपि च” इति मेदिनी च । अत एव दोषाणाम् आकरेण उत्पत्तिस्थानेन सह स्थितिः वासश्च । तथा लीयते एकीभूयते अनेनेति लयः मैत्रीति यावत् । जलानां डलयोः सावर्ण्याज् जडानां मद्यपानेन मत्तानां निधौ समुदाये, ख्यातः प्रसिद्धः एव । किलेत्यैतिह्ये । अनेन भागीरथीजलानां पञ्चमहापातकवत्त्वं सूचितम्। तथा चाह मनुः-“ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुः संसर्गश्चापि तैः सह” इति । अयमर्थस्त्वापाततः । वास्तवस्तु येषां गाङ्गवारां जनिः प्रादुर्भावः, हिरण्यहर्तुर्हिरण्यकशिपुनामकदैत्यस्य हन्तुः । नामैकदेशेन नामग्रहणात् हिरण्यशब्देन हिरण्यकशिपुग्रहणम् । विष्णोरिति यावत् । चरणतः पादात्, ब्रह्मणः ब्रह्मदेवस्योत्तमाङ्गं पञ्चमशिरः तद्भिनत्ति छिनत्तीति तथाभूतस्य शिवस्येत्यर्थः । शिवेन हि ब्रह्मणः पञ्चमशिरश्छिन्नमिति पुराणप्रसिद्धिः । मूर्ध्नि, गुरुदार विटेन वृहस्पतिपत्नीविटेन दोषाकरश्चन्द्रः तेन सह स्थितिश्च ख्याता। जलनिधौ समुद्रे च लयः ख्यातः इति । एवं च विष्णुचरणोत्पत्त्या, शिवमस्तके चन्द्रेण सह स्थित्या च परमपावनत्वं गङ्गाजलानां सूचितमिति ज्ञेयम् । अत्र श्लेषमूलका व्याजस्तुतिर्ज्ञेया । मुखनिन्दायाः स्तुतौ पर्यवसानात् । तदुक्तम्- “व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा” इति । अतः परं पूर्वकथितवृत्तानां नामलक्षणं नैवोच्यते ॥ ७५॥

एवं कृशानूक्तं निन्दनमसहमान आह विश्वावसुः-शान्तमिति ।

विश्वास-प्रस्तुतिः

विश्वाव०-शान्तं4 पापम् । मन्दमते किं मुकुन्दपादारविन्दनिष्यन्दिनीं5 धुनीमपि निन्दसि6 ?॥२० ॥

मूलम्

विश्वाव०-शान्तं4 पापम् । मन्दमते किं मुकुन्दपादारविन्दनिष्यन्दिनीं5 धुनीमपि निन्दसि6 ?॥२० ॥

बाल-कृष्णः

शान्तं पापं पापवचनं नोच्चारणीयमित्यर्थः । हे मन्दमते मन्दबुद्धे, मुकुन्दस्य श्रीकृष्णस्य पादारविन्दचरणकमलान् निष्यन्दिनीं प्रस्रवन्तीं, अनेन तस्याः परमपावित्र्यं सूचितम् । धुनीं गङ्गानदीमपि किं कस्माद्धेतोः निन्दसि?॥ २० ॥

विश्वास-प्रस्तुतिः

पश्य
गाङ्गानि वारि गरुडध्वजपादपद्मा
दाविर्बभूवुरपुनन् पुनरिन्दुमौलिम् ॥
निन्युर्विचित्रममृतं सगरान्वयं च
‘नेतोऽधिकं7 भुवि पवित्रतमं समं वा ॥ ७६ ॥
किञ्च
सा सर्वतोमुखवती तटिनी सरागां
मूर्तिर्विधेरिव बिभर्ति सरखतीं च ॥
भेदस्त्वियान् बलिभिदश्चरणारविन्दा8
दाद्या बभूव चरमा किल नाभिपद्मात् ॥ ७७ ॥

मूलम्

पश्य
गाङ्गानि वारि गरुडध्वजपादपद्मा
दाविर्बभूवुरपुनन् पुनरिन्दुमौलिम् ॥
निन्युर्विचित्रममृतं सगरान्वयं च
‘नेतोऽधिकं7 भुवि पवित्रतमं समं वा ॥ ७६ ॥
किञ्च
सा सर्वतोमुखवती तटिनी सरागां
मूर्तिर्विधेरिव बिभर्ति सरखतीं च ॥
भेदस्त्वियान् बलिभिदश्चरणारविन्दा8
दाद्या बभूव चरमा किल नाभिपद्मात् ॥ ७७ ॥

बाल-कृष्णः

निन्दानहत्वमेव प्रतिपादयति-गाङ्गानीति । गाङ्गानि गङ्गासम्बन्धीनि वारि जलानि, रेफान्तोऽयं वाशब्दः । गरुडः ध्वजे यस्य तस्य विष्णोरित्यर्थः । पादपद्माचरणकमलात्, आविर्बभूवुः प्रकटीबभूवुः । नैतावदेव, अपि तु इन्दुश्चन्द्रः “चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः" इत्यमरः । मौलौ मस्तके यस्य तं शङ्करमित्यर्थः । अपुनन् पवित्रीचक्रुः । कालकूटदाहं शमयामासुरित्यर्थः । ‘पूज् पवने’ इत्यस्माद् धातोर्लङ् प्रथमपुरुषबहुवचनम् । अपि च विचित्रं कपिलमहामुनिशापाद् अधोगतिरूपविचित्रदशापन्नं, सगरस्य राज्ञोन्वथं वंशं च “सन्ततिर्गोत्र-जनन-कुलान्यभिजनान्वयौ । वंशोऽन्ववायः” इत्यमरः । अमृतं मोक्षं निन्युः प्रापयामासुः । तस्माद् उपर्युक्तप्रभावात् , इतः गङ्गाजलेभ्योऽधिकं, इत इत्यत्र सार्वविभक्तिकस्तसिः। भुवि पवि. त्रतममतिशयपवित्रं वाथवा समं तुल्यमपि न । अस्तीति शेषः । अपि तु अन्यानि सर्वाण्यपि तीर्थानि न्यूनान्येवेति भावः ॥ ७६ ॥

किञ्च-सेति । सर्वतोमुखवती प्रशस्तजलयुक्ता, प्राशस्त्ये मतुप् । “पुष्कर सर्वतोमुखम्" इत्यमरः । यद्वा सर्वतः खर्ग-पाताल-भूलोकेषु मुखानि प्रवाहरूपेण प्रसरणानि यस्याः सा तथाभूता “मुखं निःसारणे के प्रारम्भोपाययोरपि” इति मेदिनी । पक्षे सर्वतश्चतुःपार्थेषु मुखानि यस्याः सा तथाभूता च ।सा प्रसिद्धा तटिनी नदी भागीरथीत्यर्थः । “तटिनी ह्रादिनी धुनी" इत्यमरः। विधेः ब्रह्मणः मूर्तिदेह इव रागेण रक्तिम्ना अनुरागेण च । “रागोऽनुरागे लाक्षादौ मात्सर्यालोकयोरपि” इति वैजयन्ती । सहिता युक्ता तां सरस्वतीं नाम नदी, वाणीं च “ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरखती” “चन्द्रभागा सरखती” इत्युभयत्राप्यमरः । बिभर्ति धारयति। उभयोर्भेदमाह-भेद इति। उभयोर्भागीरथीब्रह्ममूर्त्योः आद्या प्रथमा भागीरथी, बलिं भिनत्तीति बलिभिद्विष्णुस्तस्य “सत्सू”-इत्यादिना क्विप् । चरणारविन्दाच् चरणकमलाद् बभूव उत्पन्ना। चरमा अन्त्या ब्रह्ममूर्तिरित्यर्थः । नाभिपद्मान्नाभिकमलाद् बभूव । इयानेव तु भेदः । किलेति निश्चये । उपमालङ्कारः ॥ ७७ ॥

विश्वास-प्रस्तुतिः

अपि च
भागीरथीं प्राप्य बुधाः पितृभ्यो
जलाञ्जलिं सादरमर्पयन्ति ॥
पापानि सर्वाणि ततः पितॄणां
भवन्त्यहो दत्तजलाञ्जलीनि ॥ ७८ ॥
अन्यच्च
भागीरथीं यः पटुधीरुपास्ते
यथाक्रतुन्यायत एष धन्यः ॥
देवत्वमेत्य त्रिदिवे सुधायां9
भागी रथीति व्यपदेशमेति ॥ ७९ ॥

मूलम्

अपि च
भागीरथीं प्राप्य बुधाः पितृभ्यो
जलाञ्जलिं सादरमर्पयन्ति ॥
पापानि सर्वाणि ततः पितॄणां
भवन्त्यहो दत्तजलाञ्जलीनि ॥ ७८ ॥
अन्यच्च
भागीरथीं यः पटुधीरुपास्ते
यथाक्रतुन्यायत एष धन्यः ॥
देवत्वमेत्य त्रिदिवे सुधायां9
भागी रथीति व्यपदेशमेति ॥ ७९ ॥

बाल-कृष्णः

नैतावदेव, अन्यदपि तन्महित्वं शृण्वित्याह-अपि चेति-भागीरथीमिति। बुधाः पण्डिताः शास्त्रतस्तन्माहात्म्याभिज्ञा इत्यर्थः । भागीरथीं प्राप्य गत्वा, पितृभ्यः जलाञ्जलिमुदकाञ्जलिम् आदरेण पूज्यभावेन सहितं यथा स्यात्तथा अर्पयन्ति ददति । एवं कृते किं भवति तदाह-तत इति । ततः उदकाञ्जलिसमर्पणात् , पितॄणां सर्वाणि पापानि दुरितानि, दत्तः समर्पितः जलाञ्जलिरुदकाञ्जलिः ‘अद्यप्रभृति पितृणामस्माकं च न कोऽपि सम्बन्धः’ इत्युक्त्वा जलनिक्षेपो यैस्तथाभूतानि भवन्ति । अर्थाद् अञ्जलिसर्पणक्षण एव पितॄणां सर्वाणि पापानि नश्यन्तीति भावः । अहो इति विस्मये ॥ ७८ ॥ अन्यदप्याह-भागीरथीमिति । यः पट्वी कुशला धीबुद्धिर्यस्य सः “स्त्रियाः पुंवद्भाषितपुंस्कादनूड्-” इत्यादिना पटुशब्दस्य पुंवद्भावः। भागीरथीं गङ्गाम् उपास्ते सेवते भजते इति यावत् । उपपूर्वकस्य ‘आस उपवेशने’ इत्यादादिकस्य लटि रूपम् । अत एव धन्यः पुण्यवान् “सुकृती पुण्यवान् धन्यः” इत्यमरः । एषः भागीरथ्युपासकः । यथाक्रतुन्यायतः यथा यादृशः क्रतुः सङ्कल्पो यस्य स यथाक्रतुः तस्य न्यायः सङ्कल्पानुसारेण परत्र फलप्राप्तिरूपः ‘यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति’ इति छान्दोग्ये प्रसिद्धः तेन देवत्वं देवरूपमेत्य प्राप्य, त्रिदिवे स्वर्गे, सुधायाम् अमृतमध्ये इत्यर्थः । भागी भागवान् , रथी रथयुक्तः विमानयुक्त इति यावत् । इत्येवंरूपं व्यपदेशं व्यवहारम् एति प्राप्नोति । अर्थाद् भागीरथीं संसेव्य स्वर्गे लोके देवस्वरूपं सम्पाद्य विमानेन सञ्चरतीति ज्ञेयम् ॥ ७९ ॥

विश्वास-प्रस्तुतिः

किञ्च
सरस्वत्याऽऽश्लिष्टा सवितृतनयालिङ्गितझरा
स्फुरद्गुच्छस्वच्छा प्रकृतिरिव भाति त्रिगुणभाक् ॥
तथाप्येषा दोषापनयनपटुः10 स्वाकलनया
प्रगल्भं संसारं प्रशमयति कंसारिपदभूः ॥ ८० ॥

मूलम्

किञ्च
सरस्वत्याऽऽश्लिष्टा सवितृतनयालिङ्गितझरा
स्फुरद्गुच्छस्वच्छा प्रकृतिरिव भाति त्रिगुणभाक् ॥
तथाप्येषा दोषापनयनपटुः10 स्वाकलनया
प्रगल्भं संसारं प्रशमयति कंसारिपदभूः ॥ ८० ॥

बाल-कृष्णः

सरस्वत्येति । किञ्च कंसारेः श्रीविष्णोः पदाच्चरणाद्भवति उत्पद्यते इति कंसारिपदभूः श्रीकृष्णचरणकमलोत्पन्ना भागीरथीत्यर्थः । सरस्वत्या रक्तया नद्या

आश्लिष्टा आलिङ्गिता कृतसङ्गमेति यावत् । तथा सवितृतनया सूर्यकन्या यमुनाभिधा नीलवर्णा नदी तया आलिङ्गितः सङ्गतः झरः प्रवाहो यस्याः सा तथाभूता । यमुनाप्रवाहसङ्गमित्यर्थः । स्वतस्तु स्फुरन् प्रफुल्लितः यः गुच्छः पुष्पस्तबकः स इव स्वच्छा शुभ्रवर्णा एषा पुरोदृश्यमाना गङ्गा, त्रीन् गुणान् सत्त्वरजस्तमोरूपान्, पक्षे शुक्ल-रक्त-कृष्णवर्णान् भजतीति तथाभूता । प्रकृतिरिव प्रपञ्चोत्पादिका मायेव भाति केवलम् उपरितनरूपेण दृश्यते । भगवन्मायाया हि “अजामेकां लोहित-शुक्लकृष्णां” इत्यादिश्रुत्या “दैवी ह्येषा गुणमयी मम माया दुरत्यया” इति भगवद्गीतया च त्रिगुणत्वं प्रतिपादितम् । अन्ततस्तु न तथा, कुतः तदाह-तथापीति। यद्यपि त्रिगुणात्मिकेव भाति, तथापि दोषाणां प्रापञ्चिकदुःखानाम् अपनयने निवारणे पटुः समर्था । पटुशब्दात् “वोतो गुणवचनात्" इति विकल्पाड् डीषभावः । एषा भागीरथी स्वस्याः आकलनया सेवया, प्रगल्भं प्रौढं विस्तृतमिति यावत् । संसारं जन्म-जरा मरणादिरूपं प्रशमयति विनाशयति । प्रकृतिस्तु संसारं जनयतीति भावः । तस्मादतुलमाहात्म्यवतीयमित्यर्थः ॥ ८० ॥

किञ्च इयं तावत्सर्वचेष्टितैः श्रीविष्णुमेवानुसरतीत्याह-गाम्भीर्येणेति ।

विश्वास-प्रस्तुतिः

किञ्च
गाम्भीर्येण गदाधरस्य हृदयं माधुर्यतस्तद्गिरं
श्वेतिम्ना च यशस्तदीयमनघं शैतल्यतस्तत्कृपाम् ॥
नैर्मल्यातिशयेन तस्य धिषणां नित्यं प्रसादेन त
द्वक्त्रं चानुसरन्ति तत्पदभुवो वाराशिदारा इमे11 ॥ ८१ ॥

मूलम्

किञ्च
गाम्भीर्येण गदाधरस्य हृदयं माधुर्यतस्तद्गिरं
श्वेतिम्ना च यशस्तदीयमनघं शैतल्यतस्तत्कृपाम् ॥
नैर्मल्यातिशयेन तस्य धिषणां नित्यं प्रसादेन त
द्वक्त्रं चानुसरन्ति तत्पदभुवो वाराशिदारा इमे11 ॥ ८१ ॥

बाल-कृष्णः

तस्य गदाधरस्य श्रीविष्णोरिति यावत् । पदाच्चरणाद् भवन्ति उत्पद्यन्ते इति तत्पदभुवः । सर्वनाम्नः प्रकृतपरामर्शकत्वात् तच्छब्दस्य गदाधरपदेन सम्बन्धः । इमे पुरोवर्तिनः वारां जलानां राशिः समुदायः समुद्रस्तस्य दाराः पत्नी गङ्गेत्यर्थः । दारशब्दस्य पुंसि नित्यं बहुवचनत्वात् । “भार्या जायाथ पुम्भूग्नि दाराः स्यात्तु कुटुम्बिनी" इत्यमरः । वाराशिरित्यत्र ‘वार राशिः’ इति स्थिते “रो रि” इति रेफस्य लोपः । गम्भीरस्य निम्नस्य भावः गाम्भीर्यम् अगाधत्वमिति यावत् । “निम्नं गभीरं गम्भीरं" इत्यमरः । तेन गदाधरस्य विष्णोः हृदयमन्तःकरणं, इत आरभ्य ‘गिरम्’ ‘यशः’ इत्यादिसर्वपदानां ‘अनुसरति’ इत्यनेनान्वयः । माधुर्यतः स्वादुतया, तृतीयार्थे तसिः । तस्य विष्णोः गिरं वाणीं, श्वेतस्य शुक्लस्य भावः श्वेतिमा शुक्लत्वेनेत्यर्थः । “वर्ण-दृढादिभ्यः-" इति भावार्थे इमनिच् । तदीयं श्रीविष्णुसम्बन्धि अनघं निर्मलं, यशः कीर्ति, शैतल्यतः शीतलत्वेन, ‘गुणवचनब्राह्मणादिभ्यः-’ इति ध्य प्रत्ययः । तस्य कृपां, नैर्मल्यस्य निर्मलत्वस्य अतिशयेनोत्कर्षेण तस्य विष्णोः धिषणां बुद्धिं “बुद्धिर्मनीषा धिषणा” इत्यमरः । नित्यं प्रसादेन प्रसन्नतया. तस्य भगवतो वक्त्रं मुखं च अनुसरन्ति अनुकुर्वन्ति । एवं च पूर्वोक्तसकलोदात्तगुणविशिष्टत्वाद्भगवती भागीरथी दोषशल्यमपि नार्हति, किन्तु सन्ततप्रशंसामेवार्हतीति सूचितमिति भावः ॥ ८१॥

एवं भागीरथीं स्तुत्वा तन्निवासस्थानभूतां काशीं वर्णयितुमाह-इतीति ।


  1. प्रमोदा ↩︎ ↩︎

  2. विस्तृताम्भोधि ↩︎ ↩︎

  3. मौलौ ↩︎ ↩︎

  4. एतत् क्वचित्पुस्तके नैव दृश्यते ↩︎ ↩︎

  5. मरन्दधारा ↩︎ ↩︎

  6. विनिन्दयसि ↩︎ ↩︎

  7. नातोऽधिकं ↩︎ ↩︎

  8. बलिजितः ↩︎ ↩︎

  9. सुराणां ↩︎ ↩︎

  10. पटुत्वाकलनया ↩︎ ↩︎

  11. इव ↩︎ ↩︎