विश्वास-प्रस्तुतिः
अथायोध्यावर्णनम् ॥
इति विमानमन्यतः प्रस्थाप्य साञ्जलिबन्धम् -
इत्येवंप्रकारेणोक्त्वा विमानमन्यतोऽन्यत्र प्रस्थाप्य नीत्वा अञ्जलिः करसंपुटः तस्य बन्धः करणं तेन सहितं यथा तथा आहेति शेषः ॥
साकेताय नमः पुराय भवतु स्तोकेतरश्रीपुषे
नानादोषमुषे तदन्तिकजुषे1 देव्यै सरय्वै नमः ॥
येऽमी तत्तटभूमिषु प्रविलसद्रूपाश्च यूपाः स्थिता
स्तेभ्यो भानुकुलीनकीर्तिलतिकोपघ्नायितेभ्यो नमः ॥ ३६॥
मूलम्
अथायोध्यावर्णनम् ॥
इति विमानमन्यतः प्रस्थाप्य साञ्जलिबन्धम् -
इत्येवंप्रकारेणोक्त्वा विमानमन्यतोऽन्यत्र प्रस्थाप्य नीत्वा अञ्जलिः करसंपुटः तस्य बन्धः करणं तेन सहितं यथा तथा आहेति शेषः ॥
साकेताय नमः पुराय भवतु स्तोकेतरश्रीपुषे
नानादोषमुषे तदन्तिकजुषे1 देव्यै सरय्वै नमः ॥
येऽमी तत्तटभूमिषु प्रविलसद्रूपाश्च यूपाः स्थिता
स्तेभ्यो भानुकुलीनकीर्तिलतिकोपघ्नायितेभ्यो नमः ॥ ३६॥
बाल-कृष्णः
साकेतायेति । स्तोकात् अल्पात् " स्तोकाल्प क्षुल्लकाः सूक्ष्मं" इत्यमरः । इतरा भिन्ना अर्थात् अनल्पा तां श्रियं शोभां पुष्णाति धारयतीति तस्मै स्तोकेतर श्रीपुषे ‘पुष पुष्टौ ’ इत्यस्मात् क्विप् । साकेताय पुराय अयोध्यानगर्यै नमः भवतु अस्तु । तथा नानादोषान् बहुविधपापानि मुष्णाति नाशयतीति तथाभूतायै । ‘मुष स्तेये’ इत्यस्मात् क्विप् । तस्य अयोध्यापुरस्य अन्तिकं समीपं जुषति सेवते तिष्ठतीति यावत् । तस्यै ‘जुषी प्रीति सेवनयोः’ इत्यस्मात् क्विप् । देव्यै दिव्यरूपायै सरय्वै सरयूनाम्न्यै नद्यै च नमः । तथा तस्याः सरय्वाः तटभूमिषु तीरभूमिषु “कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु” इत्यमरः । प्रविलसत् शोभायमानं रूपं येषां तथाभूताः ये अमी दृश्यमाना यूपाः यज्ञीयपशुबन्धनस्तम्भाः स्थिताः सन्ति । कीदृशास्ते । भानुकुले सूर्यवंशे भवा भानुकुलीनाः कुलशब्दात् भवार्थे खप्रत्ययः “आयनेयीनी - " इत्यादिना च खस्य ईनादेशः । सूर्यवंशोत्पन्ना राजान इत्यर्थः । तेषां कीर्तिरूपा या लतिका लतास्तासां उपघ्नाः अन्तिकाश्रया इव " स्यादुपघ्नोऽन्तिकाश्रयः” इत्यमरः । आचरन्ति ते उपघ्नायितास्तथाभूतेभ्यः । सूर्यवंशोत्पन्ननृपतिकीर्तिसूचकेभ्य इति यावत् । उत्पन्नशब्दात् उपमानार्थे “कर्तुः क्यङ् -" इति क्यङि क्तप्रत्ययः । तेभ्यो यूपेभ्यश्च नमः अस्तु । अत्रोपमावाचकस्येवशब्दस्य लोपात् लुप्तोपमालंकारः । “वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि” इति तल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
पुनः पुरीं2 निरीक्ष्य सभक्त्युन्मेषम् -
भवसागरशोषणेन पश्यच्चरणान्तःपुरजीवनौषधेन ॥
रजसा रघुनाथपादभाजा रचितांहःप्रशमामिमां नमामि ॥ ३७ ॥
मूलम्
पुनः पुरीं2 निरीक्ष्य सभक्त्युन्मेषम् -
भवसागरशोषणेन पश्यच्चरणान्तःपुरजीवनौषधेन ॥
रजसा रघुनाथपादभाजा रचितांहःप्रशमामिमां नमामि ॥ ३७ ॥
बाल-कृष्णः
पुनरिति । पुनः पुरीमयोध्यां निरीक्ष्यावलोक्य, भक्तेः पूज्येष्वनुरागस्य उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥
भवसागरेति । भवसागरस्य संसारसमुद्रस्य शोषणेन विनाशकेन, पश्यच्चरणो गौतमर्षिः तस्य अन्तःपुरं पत्नी अहल्या तस्य जीवनं गौतमदत्तशापमोचनं तस्य औषधं औषधरूपं तेन, रघुनाथस्य श्रीरामचन्द्रस्य पादौ चरणौ भजति सेवते इति रघुनाथपादभाक् तेन रामचन्द्रचरणसंबन्धिनेति यावत् । रजसा रेणुना " रेणुर्द्वयोः स्त्रियां
धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः । रचितः । कृतः अंहसां पापानां “पापं किल्बिष-कल्मषम् । कलुषं वृजिनैनोऽघमंहः-” इत्यमरः । प्रशमो नाशो यया तां इमां अयोध्यां नमामि । औपच्छन्दसिकं वृत्तम् , “पर्यन्तेयौं तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम्” इति तल्लक्षणात् ॥ ३७॥
पुनरिति ।
विश्वास-प्रस्तुतिः
पुनः सानुस्मरणरोमाञ्चम्
कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा
काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ॥
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गदामा3
दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥३८॥
मूलम्
पुनः सानुस्मरणरोमाञ्चम्
कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा
काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा ॥
सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गदामा3
दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥३८॥
बाल-कृष्णः
अनुस्मरणं मनसि चिन्तनं तेन ये रोमाञ्चाः रोमहर्षास्तैः सहितं यथा भवति तथा प्राहेति ॥
एवमयोध्यां वर्णयित्वाथ तत्रस्थं श्रीरामचन्द्रं वर्णयति-कल्याणेति । कल्याणस्य मङ्गलस्य य उल्लास आधिक्यं तस्य सीमा मर्यादा । एतस्मादधिकं कल्याणसाधनं नास्तीत्यर्थः । तथा कालमेघवत् अभिरामा मनोहरा वर्षाकालीनमेघ इव श्यामवर्णेत्यर्थः । अपि च भवः संसारस्तदेव गहनं वनं “गहनं काननं वनम्” इत्यमरः । तस्मिन् गत्या परिभ्रमणेन या क्लान्तिः श्रमः तस्या हारी हरणशीलो विनाशक इति यावत् । प्रणामो नमस्कृतिर्यस्याः सा तथाभूता, यस्याः प्रणाममात्रेणैव सकलसांसारिकदुःखनिरसनं भवतीत्यर्थः । पुनश्च सौन्दर्येण लावण्येन हीणः लज्जितः “हीण-हीतौ तु लज्जिते” इत्यमरः । कामो मदनो यस्याः सा तथाभूता । अत एव धृता जनकसुतायाः सीतायाः सादरं यथा स्यात्तथा अपाङ्गदामा कटाक्षपङ्क्तिर्यया तथाभूता च । “अपाङ्गो नेत्रयोरन्तौ कटाक्षोपाङ्गदर्शने" इत्यमरः । यथा दिक्षु पूर्वादिदशदिशासु प्रख्यातः प्रसिद्धः भूमा माहात्म्यं यस्याः सा, तत एव च दिवि स्वर्गे सीदन्ति तिष्ठन्तीति दिविषदो देवाः ‘षद् विशरण-गत्यवसादनेषु’ इत्यस्माद्धातोः “सत्सू-द्विष द्वह-" इत्यादिना विप् । “आदितेया दिविषदो लेखा अदितिनन्दनाः” इत्यमरः । तैः अभिनुता संस्तुता । एतादृशी साकेतमयोध्या “साकेतं स्यादयोध्यायां” इति कोशः । धाम स्थानं यस्याः सा, काचिदनिर्वाच्या रामनामा रामाख्या देवता, सर्वेषामिति शेषः । कुशलं क्षेमं कलयतु करोतु । अत्र’सीमा-धामा-दामा-नामा’ इति सर्वत्र स्त्रीत्व विवक्षायां “डाबुभाभ्यामन्यतरस्याम्" इति डाप् प्रत्ययः । स्रग्धरा वृत्तम् लक्षणं पूर्वोक्तं ( १ श्लोकटीकायामुक्तम् ) ॥३८॥
विश्वास-प्रस्तुतिः
किंच
दशाननकुशासनत्रसदशेषलोकव्यथा
4 विलोपकरकोपको वसुमतीसुतावल्लभः ॥
कृपारसमपारसंसृतिपयोनिधेस्तारकं5
कृषीष्ट स ऋषीष्टकृत्कृपणतैकताने मयि ॥ ३९ ॥
मूलम्
किंच
दशाननकुशासनत्रसदशेषलोकव्यथा
4 विलोपकरकोपको वसुमतीसुतावल्लभः ॥
कृपारसमपारसंसृतिपयोनिधेस्तारकं5
कृषीष्ट स ऋषीष्टकृत्कृपणतैकताने मयि ॥ ३९ ॥
बाल-कृष्णः
दशाननेति । किं च पुनः दशाननस्य रावणस्य यत् कुत्सितं शासनं राज्यकरणं तस्मात् त्रसन्तो बिभ्यतो ये अशेषाः सकला लोकास्तेषां व्यथाया दुःखस्य विलोपं नाशं करोतीति तथाभूतः कोपः क्रोधः यस्य सः विलोपकरकोपकः शैषिकः कप् प्रत्ययः । क्वचित्-रोपकः’ इति पाठस्तत्पक्षे-व्यथाविलोपकरः रोपः बाणः यस्य तथाभूत इत्यर्थः । “पत्री रोप इषुर्द्वयोः” इत्यमरः । एतादृशः वसुमतीसुतायाः पृथ्वीसुतायाः सीताया वल्लभः प्रियकरः । अपि च ऋषीणां इष्टकृत् यज्ञादिसकलकर्मप्रत्यूहभूतरावणादिराक्षसविनाशनेन तत्कर्मप्रवर्तक इत्यर्थः । सः श्रीरामचन्द्रः, कृपणतायाः दीनतायाः एकताने अनन्यवृत्तौ “एकतानोऽनन्यवृत्तिः” इत्यमरः । अत्यन्तकृपणे इत्यर्थः । मयि अपारः तर्तुमशक्यः यः संमृतिपयोनिधिः संसारसागरः तस्मात् तारकं उद्धारकं कृपारसं दयारसं, कृषीष्ट कुर्यात् । ‘डुकृञ् करणे’ इत्यस्मादात्मनेपदिनः (अयमुभयपदी तस्मादात्मनेपदविवक्षायां) आशीर्लिङि रूपम् । अत्र कृपारसकरणस्य ‘दशाननकुशासन-‘इत्यादिवाक्यं हेतुरूपं, तेन काव्यलिङ्गमलंकारः। “काव्यलिङ्गं हेतोः-” इत्यादितल्लक्षणात् ॥ ३९ ॥
ननु इतरबहुतरसंसारसागरतारकदेवतासत्त्वात्कुतोयमेव प्रार्थ्यते इत्याशङ्कां निवारयन्नाह-स इति
विश्वास-प्रस्तुतिः
अपि च
स जयति चित्रचरित्रो यस्य हि वरचरणपुष्करकरेणुः ॥
महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये6 हेतुः ॥ ४० ॥
मूलम्
अपि च
स जयति चित्रचरित्रो यस्य हि वरचरणपुष्करकरेणुः ॥
महिषीमृषिसिंहस्य प्राजीजनदपि वृषोदये6 हेतुः ॥ ४० ॥
बाल-कृष्णः
अपि च न तावत् पूर्वोक्तमेव, अन्यदपि तन्माहात्म्यमस्तीत्यर्थः। तदिदम्-यस्य हि श्रीरामचन्द्रस्यैव वरं श्रेष्ठं यच्चरणपुष्करकं चरणकमलं तत्संबधी रेणुःधूलिः । पक्षे वराण्युत्तमानि चरणानि पुष्करं शुण्डानं “पुष्करं करिहस्ताग्रे वाद्यभाण्ड-मुखे जले । व्योम्नि खड्गफले पद्मे” इति नानार्थः । च यस्य तथाभूतः करेणुः गज इति चार्थः । “करेणुरिभ्यां स्त्री नेभे" इत्यमरः । अत एव ( एतद्रामपक्षे) वृषस्य धर्मस्य बलीवर्दस्य च उदये उत्पत्तौ हेतुः कारणं “स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” “उक्षा भद्रो बलीवर्दो ऋषभो वृषभो वृषः” इत्युभयत्राप्यमरः। अपिः समुच्चयस्य विरोधस्य च द्योतकः । “गर्हा-समुच्चय-प्रश्न-शङ्का-संभावनास्वपि" इत्यमरः । ऋषन्ति जानन्ति तत्त्वमिति ऋषयः ‘ऋषी गतौ’ इति धातोः “इगुपधात् कित्” इत्युणादिसूत्रात् इन् प्रत्ययः । गत्यर्थत्वात् ज्ञानार्थत्वम् । तेषां सिंहस्य श्रेष्ठस्य “सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्ठार्थगोचराः” इत्यमरः । गौतमस्येत्यर्थः । महिषीं पत्नी प्राजीजनत् शिलारूपत्वादुद्दधार । पक्षे ऋषेः सिंहस्य च महिषीं महिषस्त्रियं चेत्यर्थः । अत एव चित्रमाश्चर्यजनकं चरित्रं यस्य सः, सः प्रसिद्धः श्रीरामः, जयति सर्वोत्कर्षेण वर्तते। अत्र श्लेषानुप्राणितो विरोधालंकारः। गीतिश्छन्दः “आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिम्-” इति तल्लक्षणात् ॥ ४० ॥
विश्वास-प्रस्तुतिः
श्रेयांसि भूयांसि महावदान्यः प्रेयान्स देयाज्जनकात्मजायाः ॥
काकाय कङ्काय च योऽदितेष्टं दाशाय कीशाय च राक्षसाय ॥४१॥
अपि च—7
अभीष्टघटकः8 क्षितावतुलदीप्तिकोदण्डभा
गिति क्षममिदं पुनः परममद्भुतं ब्रूमहे ॥
विधूतपरमार्तिको विघटितारिचक्रः स्वयं
स कुम्भजनकं प्रभुः शकलयांबभूव9 क्रुधा ॥ ४२ ॥
मूलम्
श्रेयांसि भूयांसि महावदान्यः प्रेयान्स देयाज्जनकात्मजायाः ॥
काकाय कङ्काय च योऽदितेष्टं दाशाय कीशाय च राक्षसाय ॥४१॥
अपि च—7
अभीष्टघटकः8 क्षितावतुलदीप्तिकोदण्डभा
गिति क्षममिदं पुनः परममद्भुतं ब्रूमहे ॥
विधूतपरमार्तिको विघटितारिचक्रः स्वयं
स कुम्भजनकं प्रभुः शकलयांबभूव9 क्रुधा ॥ ४२ ॥
बाल-कृष्णः
अपि च-श्रेयांसीति । यः श्रीरामः काकाय वायसाय, कङ्काय जटायुनाम्ने गृध्राय, (यद्यप्यमरे कङ्कशब्दस्य गृध्रवाचकत्वं कुत्रापि नोपलभ्यते, तथाप्यत्र गृध्रवाचकत्वमेवेष्टं, गृध्रं प्रत्येव श्रीरामादिष्टप्राप्तेः । कोशान्तरे च गृध्रवाचकत्वं कङ्कशब्दस्योपलभ्यते चेत् तद्वयं न जानीमः । ) च तथा दाशाय गुहाख्यधीवराय, कीशाय सुग्रीवाय, मारुतये वा वानराय, राक्षसाय विभीषणाय च, इष्टं तत्तदभीष्टमनोरथं, अदित दत्तवान् ‘डुदाञ् दाने’ इत्यस्मात् लुङि आत्मनेपदविवक्षायां तङि “स्था-ध्वोरिच” इतीत्वे सिज्लोपे च सिद्धमिदं रूपम् । सः महावदान्यःमहांश्वासौ वदान्यश्चेति विग्रहः । अतीव दानशूर इत्यर्थः । “आन्महतः समानाधि-” इत्यादिना महच्छब्दस्यात्वम् । “स्युर्वदान्य-स्थूललक्ष्य-दानशौण्डा बहुप्रदे” इत्यमरः । जनकात्मजायाः सीतायाः प्रेयान् अतिशयप्रियः पतिः श्रीराम इत्यर्थः । प्रियशब्दात् अतिशयार्थे ईयसुनि “प्रिय स्थिर-स्फिरोरु-बहुल-” इत्यादिना प्रादेशः । भूयांसि अतिशयानि । बहुशब्दादीयमुनि “बहोर्लोपो भू च बहोः” इति बहुशब्दस्य ‘भू’ आदेश ईकारलोपश्च । श्रेयांसि कल्याणानि देयात् ददातु । ददातेराशीर्लिङि “एर्लिङि" इत्येत्त्वम् । इन्द्रवज्रा वृत्तम् । “स्यादिन्द्रवज्रा यदि तौ ज-गौ गः" इति तल्लक्षणम् ॥४१॥
अन्यदपि तद्वृत्तमाह-अपि चेति । अभीष्टेति।क्षितौ पृथिव्यां अयं श्रीराम इति शेषः । अभीष्टं भक्तजनेष्टं घटयति जनयतीति तथोक्तः स्वार्थे कः । तथा अतुला अतिशयिता दीप्तिः कान्तिर्यस्य तत् तादृशं कोदण्डं धनुः “धनुश्चापौ धन्व-शरा सन-कोदण्ड-कार्मुकम्" इत्यमरः । भजति धारयतीति कोदण्डभाक् अस्ति । इतीदं क्षमं युक्तम् । वक्तुमिति शेषः । पुनः इदं वक्ष्यमाणं च परममत्यन्तं अद्भुतं विचित्रं. ब्रूमहे ब्रूमः । ‘ब्रूञ् व्यक्तायां वाचि’ इति धातोर्जित्त्वादात्मनेपदमपि । किं तत् । सः पूर्वोक्तः अभीष्टघटक इत्यादिविशेषणविशिष्ट एव, स्वयं विघटितं नाशितं अरीणां शत्रूणां चक्रं समूहो येन तथाभूतः, अत एव विधूता विनाशिता परमा अतिशयिता आर्तिः जन्ममरणादिपीडा (अर्थात् भक्तानां) येन सः विधूतपरमार्तिकः। शैषिकः कृप।प्रभुः श्रीरामः क्रुधा रोषेण, कुम्भस्य कुम्भनाम्रो राक्षसस्य जनकं रावणं, कुम्भनामा राक्षसो रावणपुत्रत्वेन रामायणादौ प्रसिद्धः । शकलयांबभूव खण्डयामास विनाशितवानिति यावत् । रावणस्य देवादिभिरप्यजेयत्वात्तन्नाशकरणमाश्चर्यजनकमिति भावः। इति वास्तवोऽर्थः । श्लिष्टार्थोऽप्यत्र संभवति यथा—क्षितौ अभीष्टः इच्छितः घटः यस्य स अभीष्टघटकः । शैषिकः कप्। दीप्यते प्रकाश्यते उत्पाद्यत इति यावत्। घटो. ऽनया दीप्तिमृत्पिण्डः अतुला अप्रतिमा दीप्तिर्यस्य स तथाभूतः अत्रापि शैषिकः कप् । दण्डं भजति स्वीकरोतीति दण्डभाक् । घटस्य निमित्तकारणरूपदण्डग्रहीतेति यावत् । इत्येवं क्षमं योग्यमेव । परं च पुनः इदं वक्ष्यमाणं, परममद्भुतमत्याश्चर्यकर ब्रूमहे। किं तत् । सः अभीष्टघटक एव प्रभुः पुमान् विधूता परा उत्कृष्टा मृत्तिकैव मार्तिका स्वार्थेऽण् । येन तथाभूतः, अराः चक्रान्तर्भूततिर्यक्काष्ठानि यस्य तच्च तत् चक्रं च तत् विघटितं विनाशितं येन तथाभूतः सन् , क्रुधा कुम्भजनकं घटोत्पादकं दण्डादिकमपि, शकलयांबभूव शकलीचकार । शकलशब्दात् ‘तत्करोति-’ इत्यर्थे णिचि लिटि च प्रत्ययान्तत्वादाम् तदन्तात् “कृ-भ्वस्तयोऽनु-” इत्यादिना भवतेरनुप्रयोगः । घटस्पृहावत एव मृद्दण्डादितत्साहित्यनाशनमतिविचित्रमिति भावः । अत्र श्लिष्टविशेषणैरप्रकृतार्थसंभवात्समासोक्तिरलंकारः । तदुक्तम्-“परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः” इति । पृथ्वी वृत्तम् ॥ ४२ ॥
अथ कृशानुराह कथं नामेति ।
विश्वास-प्रस्तुतिः
कृशानुः-कथं नाम रामभद्रमनुचितकर्माणमप्येवमीडिडिषे10 ? ॥१५&॥
मूलम्
कृशानुः-कथं नाम रामभद्रमनुचितकर्माणमप्येवमीडिडिषे10 ? ॥१५&॥
बाल-कृष्णः
अनुचितानि अयोग्यानि कर्माणि यस्य तथाभूतमपि रामभद्रं रामचन्द्रं, एवमुक्तप्रकारेण ईडिडिषे स्तोतुमिच्छसि । ‘ईड स्तुतौ’ इति धातोः सन् “पूर्ववत्" इति तङ ॥ १५&॥
अनुचितकर्मत्वमेव प्रपञ्चयति-वर्षीयानिति ।
विश्वास-प्रस्तुतिः
वर्षीयानपि जानकीसहचरो मातुः सपल्या मुदे
संपन्नं रथ-हस्ति-पत्ति-तुरगैः संत्यज्य राज्यं निजम् ॥
विन्दन् हन्त घनं वनं कथमसौ न स्यादयुक्तक्रियो
गव्यं दुग्धमपास्य पास्यति जनः को वा यवागूरसम् ॥४३॥
किंच
मूलम्
वर्षीयानपि जानकीसहचरो मातुः सपल्या मुदे
संपन्नं रथ-हस्ति-पत्ति-तुरगैः संत्यज्य राज्यं निजम् ॥
विन्दन् हन्त घनं वनं कथमसौ न स्यादयुक्तक्रियो
गव्यं दुग्धमपास्य पास्यति जनः को वा यवागूरसम् ॥४३॥
किंच
बाल-कृष्णः
यः वर्षीयान् चतुर्ष्वपि दशरथपुत्रेषु ज्येष्ठः, वर्षीयस् शब्दस्य ज्येष्ठभ्रातृवाचकत्वे व्याकरणकोशादिना केनापि न सिद्ध्यति । यथा-वृद्धशब्दादीयसुनि “प्रिय-स्थिर-स्फिरोरु-बहुल-गुरु-वृद्ध-” इत्यादिना वृद्धशब्दस्य वर्षादेशः । अत एव “वर्षीयान् दशमी ज्यायान्” इत्यमरटीकायां महेश्वरभट्टः ‘अतिशयेन वृद्धो वर्षीयान्’ इत्येवं व्याख्यौ । तस्मादत्रायं प्रयोगः कविमतिभ्रमद्योतक एवेति भाति । यद्वा वृद्धशब्दस्य श्रेष्ठवाचित्वं संगृह्य समाधेयम् । अपि च जानकी सीता सहचरी सह गच्छन्ती यस्य तथाभूतश्च सन् । सीतासहित इति यावत् । मातुः सपत्न्याः कैकेय्याः, सपतिशब्दस्य स्त्रीत्वविवक्षायां “नित्यं सपत्यादिषु” इति नकारादेशो ङीप् च । मुदे संतोषार्थ, रथाश्च हस्तिनश्च पत्तयः पादातयश्च “पदाति-पत्ति-पदग-” इत्यमरः । तुरगा अश्वाश्च तैः संपन्नं समृद्धं, निजं ज्येष्ठभ्रातृत्वात्स्वकीयं राज्यं संत्यज्य त्यक्त्वा, धनं निबिडं वनमरण्यं विन्दन् गच्छन्, ‘विदल लाभे’ इति धातोः शतृतप्रत्ययः मुचादित्वान्नुम् । हन्तेति विषादे। असौ रामः अयुक्ता अयोग्या क्रिया वनगमनरूपा यस्य तथाभूतः कथं न स्यात् ? अपि तु स्यादेवेत्यर्थः। अयमाशयः-यद्यसौ (श्रीरामः) स्वजनन्याः संतोषार्थ वनं गच्छति स्म, तर्हि तस्य तद्गमनमुचितमेव । किंतु केवलं मात्सर्यभरितायाः एकाकिन्याः सापत्नमातुः सुखार्थमेव स्वमातरं पित्रादींश्च शोकसागरे निमज्य यदसौ वनमगमत् तदत्यन्तानुचितमेवेति । एतदेव दृष्टान्तेन स्पष्टयति-गव्यमिति । लोके गव्यं गोसंबन्धि “गोपयसोर्यत्” इति यत्प्रत्ययः। दुग्धं क्षीरं अपास्य त्यक्त्वा, अपपूर्वात् ‘असु क्षेपणे’ इत्यस्मात् क्त्वाप्रत्यये ल्यबादेशः। यवागूरसं उष्णिकारूपं रसं ( अयं महाराष्ट्रभाषायां ‘आटवल’ ‘पातळ भात’ इति नाम्ना प्रसिद्धः) “यवागूरुष्णिका श्राणा” इत्यमरः । को वा जनः पास्यति पिबेत् न कोऽपीत्यर्थः । दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४३ ॥
नैतावदेव अन्यदप्येतस्मात् (पूर्वोक्तात्) अवद्यं कृत्यमाह-धिक्कृत्यैवेति ।
विश्वास-प्रस्तुतिः
धिक्कृत्यैव दशास्यदर्पशमनं11 धीशालिनं वालिनं
सोऽयं राक्षसवर्गनिग्रहकृते सुग्रीवमन्वग्रहीत् ॥
तुङ्गप्रस्तरभङ्गलिप्सुरिह निश्शङ्कं तु टङ्कं त्यजन्
संकल्पं कलयेत पङ्कजदलादानप्रसङ्गाय कः ॥ ४४ ॥
मूलम्
धिक्कृत्यैव दशास्यदर्पशमनं11 धीशालिनं वालिनं
सोऽयं राक्षसवर्गनिग्रहकृते सुग्रीवमन्वग्रहीत् ॥
तुङ्गप्रस्तरभङ्गलिप्सुरिह निश्शङ्कं तु टङ्कं त्यजन्
संकल्पं कलयेत पङ्कजदलादानप्रसङ्गाय कः ॥ ४४ ॥
बाल-कृष्णः
सः राज्यं संत्यज्य वनं गच्छन् अयं रामः, दशास्यस्य रावणस्य दर्पशमनं गर्वनिवारकं अत एव धीशालिनं बुद्धिमन्तं वालिनं वालिनामानं वानरं, वालिना हि पूर्व रावणो निगृह्य निजबालकस्यान्दोलिकायां पुत्रिकेव बालक्रीडनकीकृत इति प्रसिद्धिः। धिक्कृत्य तिरस्कृत्य तं हत्वेत्यर्थः । पुनश्च राक्षसानां रावणादीनां वर्गः समुदायः तस्य निग्रहकृते वधार्थं, सुग्रीवं अल्पपराक्रमं तद्भ्रातरं अन्वग्रहीत् स्वीकृतवान् । एतदेव सदृष्टान्तमुपपादयति-तुङ्गेति । इह लोके तुङ्गः कठिनश्चासौ प्रस्तरः पाषा णश्च “पाषाण-प्रस्तर-ग्रावा-" इत्यमरः । तस्य भङ्गः स्फोटनं तत् लिप्सुः इच्छुः, ‘डलभष प्राप्तौ’ इति धातोः सनि “सनि मी-मा-घु-रभ-लभ." इत्यादिना इस आदेशः “अत्र लोपः-" इत्यभ्यासलोपश्च । निःशङ्कं शङ्कारहितं यथा स्यात्तथा टङ्गं पाषाणदारकमायुधविशेषं “टङ्कः पाषाणदारणः” इत्यमरः । ‘टांकी’ इति महाराष्टभाषायां प्रसिद्धम् । त्यजन् सन् , पङ्कजस्य कमलस्य दलं पत्रं तस्यादानं पाषाणभेदनार्थ स्वीकारः तद्रूपो यः प्रसङ्गः संबन्धः तं कर्तुं, “क्रियार्थोपपदस्य” इत्यादिना चतुर्थी । कः संकल्पं विचारं कलयेत कुर्यात् ? अपि तु न कोऽपीत्यर्थः ॥ दृष्टान्तालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४४ ॥
अन्यदपि गर्हणीयं कृत्यं शृण्वित्याह-अपि चेति ।
विश्वास-प्रस्तुतिः
अपि च
कृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान्
लब्ध्वा देवीं स्फुटविदितसंशुद्धिमग्निप्रवेशात् ॥
भूयोऽप्येनां भुवनजननीं भूमिकन्यामनन्याम्
अन्तर्वत्नीमनयत वनं हन्त पौलस्त्यहन्ता ॥ ४५ ॥
मूलम्
अपि च
कृत्वा सेतुं किल जलनिधौ खण्डयित्वा दुरध्वान्
लब्ध्वा देवीं स्फुटविदितसंशुद्धिमग्निप्रवेशात् ॥
भूयोऽप्येनां भुवनजननीं भूमिकन्यामनन्याम्
अन्तर्वत्नीमनयत वनं हन्त पौलस्त्यहन्ता ॥ ४५ ॥
बाल-कृष्णः
अपि च अन्यच्चेत्यर्थः । कृत्वेति । पुलस्त्यस्य अपत्यं पुमान् पौलस्त्यो रावणः “तस्यापत्यम्” इत्यपत्यार्थेऽण् । तस्य हन्ता घातकः रामः, जलनिधौ समुद्रे सेतुं कृत्वा बद्धवा, तथा दुरध्वान् दुष्टमार्गान् “उपसर्गादध्वनः” इति समासान्तोऽच् प्रत्ययः। खण्डयित्वा नाशयित्वा किलेति प्रसिद्धार्थम् । अग्निप्रवेशाद्धेतोः स्फुटं यथा तथा विदिता ज्ञापिता सं सम्यकू शुद्धिः सतीत्वपावित्र्यं यस्यास्तां देवीं सीतां लब्ध्वा संप्राप्यापि, भूयः पुनः एनां भुवनजननीं न तु सामान्यां, एतेन रावणस्यापीयं मातृवत्पूज्येति सूचितम् । पुनश्च अनन्यां एकाकिनीम् अपि च अन्तर्वत्नीं गर्भिणीं “अन्तर्वनी च गर्भिणी” इत्यमरः । ‘अन्तर्वत्-पतिवतोः-" इति नुगागमः तत्संनियोगशिष्टो डीपू च । अनेन तस्यास्त्यागायोग्यत्वं सूचितम् । भूमिकन्यां न तु लोकवद्योनिजां किन्तु शुद्धयज्ञभूम्युत्पन्नां एतादृशीं सीतां वनं अनयत । केनचिदतिपामरेण प्रयुक्तादपवादादरण्यं प्रापयामासेत्यर्थः । हन्तेति खेदे। अनेन तदर्थ ये वानरसाहाय्य-सेतुवन्धन-रावणहननादिमहाप्रयत्नाः कृतास्ते सर्वेऽपि व्यर्थीकृता एवेति ज्ञापितम् । एवंचैतादृशविवेकविधुरस्य स्तुतिकरणमनुचितमिति भावः। अत्र सीतासंप्रापणपुनर्वननयनक्रिये विरुद्ध इति विषमोऽलंकारः। तदुक्तम्-“गुण-क्रियाभ्यां कार्यस्य कारणस्य गुण-क्रिये । क्रमेण च विरुद्धे यत्स एव विषमो मतः” इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लो० टीकायाम् ) ॥ ४५ ॥
अथ कृशानुप्रोक्तनिखिलदोषानपाकुर्वन्नाह विश्वावसुः-सखे इति ।
विश्वास-प्रस्तुतिः
विश्वा०-सखे गुणिषु12 दोषाविष्कारं कथंकारमारचयसि13 ॥ १६& ॥
गुरावसत्योक्तिनिरासहेतोः स्वराज्यमग्र्योऽपि स रामचन्द्रः ॥
तृणाय मेने निपुणायते न फणाभृदीशोऽपि पणायितुं14 तम् ॥ ४६ ॥
किंच—
वालिनि बलोर्मिमालिनि जाग्रति सुग्रीवमग्रहीद्यदयम् ॥
अस्य श्रुतिशतविदितं सुव्यक्तं तेन दीनबन्धुत्वम् ॥ ४७ ॥
मूलम्
विश्वा०-सखे गुणिषु12 दोषाविष्कारं कथंकारमारचयसि13 ॥ १६& ॥
गुरावसत्योक्तिनिरासहेतोः स्वराज्यमग्र्योऽपि स रामचन्द्रः ॥
तृणाय मेने निपुणायते न फणाभृदीशोऽपि पणायितुं14 तम् ॥ ४६ ॥
किंच—
वालिनि बलोर्मिमालिनि जाग्रति सुग्रीवमग्रहीद्यदयम् ॥
अस्य श्रुतिशतविदितं सुव्यक्तं तेन दीनबन्धुत्वम् ॥ ४७ ॥
बाल-कृष्णः
हे सखे मित्र, गुणिषु पित्राज्ञापालनादिरूपप्रशस्तगुणयुक्तेषु दोषाणां राज्यत्यागादिरूपदोषाणां आविष्कारं आरोपं कथंकारं कथमित्यर्थः । “अन्यथैवं कथमित्थंसु - " इत्यादिना कथमित्युपपदे करोतेर्णमुल्प्रत्ययः । आरचयसि करोषि ॥ १६& ॥
तत्र तावत्प्रथमं ’ वर्षीयानपि जानकीसहचरः- ’ इत्यादिनोक्तं वनवासगमनरूपं दूषणं निराकुर्वन्नाह - गुराविति । अग्र्यो ज्येष्ठोऽपि स पूर्वोक्तो रामचन्द्रः, गुरौ पितरि दशरथविषये, असत्योक्तेः वृषपर्वयुद्धप्रसङ्गे प्रतिश्रुतवरद्वयाप्रदानरूपायाः निरासः निवारणं तद्रूपाद्धेतोः कारणात्, स्वराज्यं ज्येष्ठत्वात् स्वसत्ताकमपि राष्ट्रं, तृणाय मेने तृणतुच्छं मेन इत्यर्थः । “मन्यकर्मण्यनादरे -” इत्यादिना चतुर्थी । अत एव फणाः बिभ्रति धारयन्तीति फणाभृतः सर्पास्तेषां ईशः शेषः अपि सहस्रमुखः सन्नपीत्यर्थः । तं रामचन्द्रं पणायितुं स्तोतुं ‘पण व्यवहारे स्तुतौ च’ इति धातोस्तुमुन् प्रत्ययः “गुपूधूप - विच्छि - पणि – ” इत्यादिनाऽऽयप्रत्ययः । न निपुणायते समर्थो न भवति । निपुणशब्दात् “कर्तुः क्यङ् सलोपश्च ” इति क्यङ् । तत्रान्येषां का कथा । उपजातिर्वृत्तम् । लक्षणं प्राक् ( ५ श्लोकटीकायां ) कथितम् ॥ ४६ ॥
अथ द्वितीयं ‘धिक्कृत्यैव -’ इत्यादिनोक्तं दूषणमपाकरोति - वालिनीति । बलस्य सामर्थ्यस्य (ऊर्मीणां लहरीणां मालाः सन्त्यस्येति तस्मिन् ) ऊर्मिमालिनि समुद्रे अपरिमितबलवतीत्यर्थः । वालिनि जाग्रति विद्यमाने सत्यपि, अयं श्रीरामचन्द्रः, यत् यस्मात् सुग्रीवं अग्रहीत् गृहीतवान् । ग्रहेर्लुङ् । तेन सुग्रीवग्रहणेन अस्य श्रीरामस्य श्रुतीनां शतेन विदितं प्रतिपादितं श्रुतिशते प्रसिद्धमिति वा । दीनानां दुर्बलानां बन्धुत्वं बन्धुवद्धितकारित्वं सुतरां व्यक्तं स्फुटीभूतं बभूवेति शेषः । सदाचरणशीलस्य दुर्बलस्यापि बलमुत्पाद्य तत्स्वीकरणं, दुराचरणशीलस्य बलवतोऽपि निग्रहणं च अधिकगुणापादकमेव महतां न दोषापादकमिति भावः । आर्या वृत्तम् । “यस्याः प्रथमे पादे द्वादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश साऽऽर्या ।” इति तल्लक्षणात् ॥ ४७ ॥
इदानीं तृतीयं कृत्वा सेतुं -’ इत्यादिनोक्तं सीतावनवासप्रापणरूपं दूषणमपास्यन्नाह - लक्ष्मीमिति ।
विश्वास-प्रस्तुतिः
किंच—
लक्ष्मीं वक्षसि बिभ्रदप्यविरतं15 रामाकृतिः श्रीपति
र्वृत्तिं कामपि मानुषीमभिनयन्वीराग्रयायी प्रियाम् ।
कल्याणीं तु वनीमनीनयदहो कस्याप्यमृष्यन्वचो
मेदिन्यामवलोकितः किमपरो मानी पुमानीदृशः ॥ ४८ ॥
मूलम्
किंच—
लक्ष्मीं वक्षसि बिभ्रदप्यविरतं15 रामाकृतिः श्रीपति
र्वृत्तिं कामपि मानुषीमभिनयन्वीराग्रयायी प्रियाम् ।
कल्याणीं तु वनीमनीनयदहो कस्याप्यमृष्यन्वचो
मेदिन्यामवलोकितः किमपरो मानी पुमानीदृशः ॥ ४८ ॥
बाल-कृष्णः
रामस्य दाशरथेराकृतिरवयवसंनिवेश एवाकृतिर्यस्य सः । रामरूपीत्यर्थः । श्रीपतिर्लक्ष्मीपतिः, अविरतं संततं “सततेऽनारताश्रान्त-संतताविरतानिशम्” इत्यमरः । लक्ष्मीं वक्षसि हृदये बिभ्रत् धारयन् सन्नपि । ‘डुभृञ् धारणपोषणयोः’ इति धातोः शतृप्रत्ययः । “नाभ्यस्तात्-" इति नुमभावः। भगवता हि अवतारे धृते सत्यपि लक्ष्म्या न कदाचिदपि विरह इति द्योतनार्थमविरतशब्दः । तदुक्तं रामायणे-“राघवत्वेऽभवत्सीता विष्णोरेषाऽनपायिनी” इति। कामप्यनिर्वाच्यां मनुष्यस्येयं मानुषी तां वृत्तिं वर्तनमभिनयन् अनुकुर्वन्, वीराग्रयायी वीरश्रेष्ठः रामः, कस्यापि अपरिचितस्यानधिगतगुण-शीलस्य, किमुत सच्छील-सद्गुणयुक्तस्य महत इत्यपिशब्दस्वारस्यात् । वचः अपवादरूपं भाषणं, अमृष्यन् असहमानः सन् । ‘मृषु सहने’ इत्यस्मात् लटः शत्रादेशः। कल्याणी पातिव्रत्यादिकल्याणगुणविशिष्टां प्रियां सीतां, तुरप्यर्थकः। प्रियामपि सीतामित्यर्थः। वनीमरण्यं अनीनयत् प्रापयामास । ‘णी प्रापणे’ इति घातोर्णिजन्ताल्लुङ “णि-त्रि-द्रु-” इत्यादिना चङ् । तस्मात् अहो ! ईदृशः यस्यकस्यापि वचनमसहमानः मानी अभिमानयुक्तः पुमान् अपरोऽन्यः मेदिन्यां पृथिव्यां, अवलोकितः दृष्टः किम् ? केनापीति शेषः । अपि तु नैवेत्यर्थः । एतेन यदा श्रीरामचन्द्रः सीतां वनमनयत् तदा स राज्याधिरूढ आसीत् । तदैव च केनचिद्रजकेन रावणसदनस्थितसीतायाः पुनःस्वीकारसंबन्धेन दत्तं दूषणमसहमानः सीतां तत्याज। एवमेव राज्यकर्त्रा शुद्धया नीत्या वर्तितव्यं, लोकानां संकटानि परिहर्तव्यानि, स्वकीयोदात्ताचारेण च लोकाः सन्मार्गे प्रवर्तयितव्याः । अन्यथा लोके अनाचारः लोकानां मनःकालुष्यं च स्यात्, तेन च कालान्तरेण राज्यक्रान्त्यादिरूपानर्थपरंपरा प्राप्नुयादिति सूचितम् । तदुक्तं मनुना-“मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्याज्जीविताच्च सबान्धवः ।” इति । भगवता श्रीकृष्णेनाप्येतदेव ज्ञापितम् । तथाहि-‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति “यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥” इति च । शार्दूलविक्रीडितम् ॥ ४८ ॥
वस्तुतस्त्विति । सत्यतया विवेचिते सतीत्यर्थः । गातुमिति ।
विश्वास-प्रस्तुतिः
वस्तुतस्तु
गातुं क ईष्टे श्रितरामभद्रान् गणान् गुणानां गणनादरिद्रान् ।
प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः ॥४९॥
मूलम्
वस्तुतस्तु
गातुं क ईष्टे श्रितरामभद्रान् गणान् गुणानां गणनादरिद्रान् ।
प्राचेतसाद्याः कवयोऽनवद्या यदेकदेशाकलनेऽपि नेशाः ॥४९॥
बाल-कृष्णः
श्रितः आश्रितः रामभद्रः श्रीरामचन्द्रो यैस्तान् रामचन्द्राधिष्ठितानिति यावत् । गणनया संख्यया दरिद्रान् रहितान् असंख्येयानित्यर्थः । गुणानांदयादाक्षिण्यादीनां गणान् समुदायान्, गातुं सविस्तरं वर्णयितुं, कः (पुमान्) ईष्टे समर्थो भवति? कोऽपि नैवेत्यर्थः। ‘ईश ऐश्वर्ये’ इति धातोर्लट्र प्रथमपुरुषः। कुत एतदित्यत आह-प्राचेतसाद्या इति । प्राचेतसः वाल्मीकः “प्राचेतसञ्चादिकविः स्यान्मैत्रावरुणिश्च सः वाल्मीकः-” इत्यमरः। आद्यः प्रथमो येषां ते व्यास-वाल्मीकपराशरप्रभृतय इत्यर्थः । न अवद्याः गर्हणीयाः अनवद्याः अनिन्द्याः प्रशंसनीया इति यावत् । “अवद्य-पण्य-वर्या-" इत्यादिना वदेञ्जपपदात् यत्। कवयः येषां श्रीरामगुणानां एकदेशस्य यत्किंचिल्लेशमात्रस्य आकलनं वर्णनं तस्मिन्नपि न ईशाः न समर्थाः भवन्तीति शेषः । इतरे तु किमुतेत्यर्थः । एतेन श्रीराममाहात्म्यं सामग्र्येण वर्णयितुं ब्रह्मादयो देवा अपि न शक्नुवन्तीति सूचितम् । तदुक्तं श्रीमदध्यात्मरामायणे स्वयं ब्रह्मणैव-“श्रीरामचन्द्रमाहात्म्यं कृत्स्नं जानाति शंकरः । तदर्धं गिरिजा वेत्ति तदर्धं वेद्म्यहं मुने।” इति । अत्र पूर्ववाक्यस्योत्तरवाक्यार्थहेतुत्वात् काव्यलिङ्गमलंकारः । इन्द्रवज्रा वृत्तम् “स्यादिन्द्रवज्रा यदि तौ ज-गौ गः” इति तल्लक्षणम् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
तथापि तदीयगुणार्णवकणैकदेशकोटितमांशकलामात्रमिदमत्रभवता16 श्रोतव्यम् ॥ १७& ॥
मूलम्
तथापि तदीयगुणार्णवकणैकदेशकोटितमांशकलामात्रमिदमत्रभवता16 श्रोतव्यम् ॥ १७& ॥
बाल-कृष्णः
तथापीति । तथापि श्रीरामगुणवर्णनस्याशक्यत्वेऽपि तदीयाः श्रीरामचन्द्रसंबधिनः ये गुणाः सौशील्यादयस्तद्रूपो योऽर्णवः समुद्रस्तस्य कणः लेशः तस्याप्येकदेशः किंचिदंशः तस्यापि कोटितमोंऽशः तस्य कला षोडशभाग एवं कलामात्रं “कला तु षोडशो भागः” इति “मात्रं कामयेऽवधारणे” इति चामरः । मात्रशब्देन न त्वेतस्मादधिकं मादृशपामरजनैर्वक्तुं शक्यत इति द्योतितम् । इदं वक्ष्यमाणं अत्रभवता पूज्येन, अथवा अत्र श्रीरामविषये भवता त्वया श्रोतव्यमाकर्णनीयम् ॥ १७& ॥
विश्वास-प्रस्तुतिः
ककुत्स्थकुलपर्यायकलशार्णवकौस्तुभः17 ॥ कौसल्यासुकृतव्रातकल्पकप्रसवोदयः ॥ ५० ॥
मूलम्
ककुत्स्थकुलपर्यायकलशार्णवकौस्तुभः17 ॥ कौसल्यासुकृतव्रातकल्पकप्रसवोदयः ॥ ५० ॥
बाल-कृष्णः
तदेवाहैकोनविंशतिश्लोकैः-ककुत्स्थेति । ककुत्स्थकुलं ककुत्स्थकुलशब्दः पर्यायः वाचकान्तरं यस्य अर्थात् ककुत्स्थकुलरूपो यः कलशार्णवः क्षीरसागरः तस्य कौस्तुभः एतन्नामा मणिः, पुनः कौसल्यायाः सुकृतत्रातः पुण्यपुञ्जः स एव कल्पकः कल्पवृक्षः तस्य प्रसवोदयः पुष्पोद्गमः । इत आरभ्य सर्वेषां श्लोकानां ‘रमते मम तेजस्वी रामः कामसमो हृदि’ इत्यनेनान्वयः। सर्वत्र रूपकालंकारः अनुष्टुप् वृत्तं च ॥ ५० ॥
विश्वास-प्रस्तुतिः
प्रौढपङ्क्तिरथागारपरिष्कारहरिन्मणिः18 ।
जानकीलोचनद्वन्द्वचकोरानन्दचन्द्रमाः ॥ ५१ ॥
मूलम्
प्रौढपङ्क्तिरथागारपरिष्कारहरिन्मणिः18 ।
जानकीलोचनद्वन्द्वचकोरानन्दचन्द्रमाः ॥ ५१ ॥
बाल-कृष्णः
प्रौढेति । प्रौढः समर्थो यः पङ्क्तिरथो दशरथः तस्यागारं गृहं तत्र यः परिष्कारोऽलंकारः । अत्र “संपरिभ्यां करोतौ भूषणे" इति सुट् । तस्य हरिन्मणिः मरकतमणिः । जानक्याः सीतायाः लोचनद्वद्वं नयनयुगलं तदेव चकोरः चकोर - पक्षी तस्य आनन्दकरश्चन्द्रमाः चन्द्रः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
संसारमार्गसंचारश्रान्तच्छायामहीरुहः ॥
सर्वराक्षसवेतालसमुच्चाटनमान्त्रिकः19 ॥ ५२ ॥
मूलम्
संसारमार्गसंचारश्रान्तच्छायामहीरुहः ॥
सर्वराक्षसवेतालसमुच्चाटनमान्त्रिकः19 ॥ ५२ ॥
बाल-कृष्णः
संसारेति । संसारमार्गे संचारः भ्रमणं तेन श्रान्तानां (जनानां ) छायामहीरुहः छायाकारको वृक्षः । सर्वे ये राक्षसा वेतालाः पिशाचविशेषाश्च तेषां समुच्चाटने निवारणे मान्त्रिकः मन्त्रवेत्ता । मन्त्रशब्दात् ‘वेत्ति’ इत्यस्मिन्नर्थे ठक् प्रत्ययः ॥ ५२ ॥
बाल-कृष्णः
करुणेति । करुणारसस्य दयारसस्य कल्लोलानां महातरङ्गाणां " महत्सूल्लोल-कल्लोलौ” इत्यमरः । कदम्बानि समूहास्तेषां वरुणालयः सागरः । तप एव धनं येषां ते तपोधनास्तपखिनो मुनयः तेषां जनः समूहः तस्य यदाकाङ्क्षातटाकं इच्छारूपं सरोवरं तस्य नवतोयदः नवीनो मेघः ॥ ५३ ॥
विश्वास-प्रस्तुतिः
विद्याविहरणोद्यानं विनयास्थानमण्डपः22 ॥
सौलभ्य23प्राभवोत्कर्षसमावेश24निवेशनम्25 ॥ ५४ ॥
बाल-कृष्णः
विद्येति । विद्याया विहरणोद्यानं क्रीडोपवनं, विनयस्य आस्थानमण्डपः सभामण्डपः । सौलभ्यं समता च प्रभोर्भावः प्राभवं प्रभुत्वं च तयोरुत्कर्षस्याधिक्यस्य समावेशनिवेशनं सामानाधिकरण्यावच्छेदकमेकाधिकरणमिति यावत् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
सौजन्यवादान्यकयोः सामानाधिकरण्यभूः ॥
सौमुख्य-मुख्यभवनं सौहार्दैकवितर्दिका ॥ ५५ ॥
सौजन्येति । सुजनस्य भावः सौजन्यं सज्जनत्वं च वदान्यस्य दातुः भावः वादान्यकम् दातृत्वं “योपधाद्गुरूपोत्तमात् -” इति भावार्थे वुञ्प्रत्ययः । तयोः, सामानाधिकरण्यभूः सहवासस्थलम् । एतद्धि दुर्घटं यदेकत्र सुजनत्व - दातृत्वयोः सहवास इति । तस्माल्लोकोत्तरत्वमस्य द्योत्यते । सुमुखस्य भावः सौमुख्यं सुमुखत्वं, भावार्थे ष्यञ् । प्रसन्नवदनत्वमिति यावत् । तस्य मुख्यभवनं, सुहृदो भावः सौहार्द प्रेम तस्य वितर्दिका वेदिका उपवेशनस्थलमिति यावत् ।“ स्याद्वितर्दिस्तु वेदिका " इत्यमरः ॥ ५५ ॥
मूलम्
सौजन्यवादान्यकयोः सामानाधिकरण्यभूः ॥
सौमुख्य-मुख्यभवनं सौहार्दैकवितर्दिका ॥ ५५ ॥
सौजन्येति । सुजनस्य भावः सौजन्यं सज्जनत्वं च वदान्यस्य दातुः भावः वादान्यकम् दातृत्वं “योपधाद्गुरूपोत्तमात् -” इति भावार्थे वुञ्प्रत्ययः । तयोः, सामानाधिकरण्यभूः सहवासस्थलम् । एतद्धि दुर्घटं यदेकत्र सुजनत्व - दातृत्वयोः सहवास इति । तस्माल्लोकोत्तरत्वमस्य द्योत्यते । सुमुखस्य भावः सौमुख्यं सुमुखत्वं, भावार्थे ष्यञ् । प्रसन्नवदनत्वमिति यावत् । तस्य मुख्यभवनं, सुहृदो भावः सौहार्द प्रेम तस्य वितर्दिका वेदिका उपवेशनस्थलमिति यावत् ।“ स्याद्वितर्दिस्तु वेदिका " इत्यमरः ॥ ५५ ॥
बाल-कृष्णः
अद्भुतोत्साहशक्तीनामसाधारणजीविका26 ॥
प्रसादलक्ष्म्याः प्रासादः प्रेतापस्य27 परा गतिः ॥ ५६ ॥
अद्भुतेति । अद्भुताः आश्चर्यकारका ये उत्साहा वनवासादिकष्टभाक्त्वेऽपि खेदाप्रदर्शनरूपाः तेषां याः शक्तयः सामर्थ्यानि तेषां, असाधारणा असामान्या जीविका जीवनसाधनम् । न त्वेतादृशः शक्तयः साधारणपुरुषे वस्तुं शक्नुवन्तीति भावः । प्रसादरूपा प्रसन्नतारूपा या लक्ष्मीः संपत् तस्याः, प्रासादः भवनं, प्रतापस्य पराक्रमस्य परा गतिः उत्तमं प्राप्यस्थानम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
प्राणप्रतिष्ठा क्लिष्टानां28 प्रपन्नानां परायणम् ॥
अनपायसमृद्धीनाभवगाहनदीर्घिका ॥ ५७ ॥
मूलम्
प्राणप्रतिष्ठा क्लिष्टानां28 प्रपन्नानां परायणम् ॥
अनपायसमृद्धीनाभवगाहनदीर्घिका ॥ ५७ ॥
बाल-कृष्णः
प्राणेपि । तया क्लिष्टानां क्लेशयुक्तजनानां प्राणप्रतिष्ठा प्राणानां स्थितिसाधनं, प्रपन्नानां शरणागतानां परमुत्तममयनमाश्रयस्थानं, तथा अनपाया विनाशरहिताश्च ताः समृद्धयः संपत्तयस्तासां अवगाहनस्य स्नानस्य दीर्घिका वापी “सरो वापी तु दीर्घिका " इत्यमरः ॥ ५७ ॥
विश्वास-प्रस्तुतिः
जम्भशासनजीवातुर्जन्मगेहं जयश्रियः ॥
दुर्वारघोरदारिद्र्यदर्वीकरखगेश्वरः ॥ ५८ ॥
मूलम्
जम्भशासनजीवातुर्जन्मगेहं जयश्रियः ॥
दुर्वारघोरदारिद्र्यदर्वीकरखगेश्वरः ॥ ५८ ॥
बाल-कृष्णः
जम्भेति । जम्भशासनस्य इन्द्रस्य रावणकृतस्थानभ्रंशादित्रासात् मृतप्रायस्येत्यर्थः । जीवातुर्जीवनौषधं, रावणवधात् पुनः स्वस्थानस्थापनात् । तथा जयश्रियः जयसंपत्तेः अथवा जयेन या श्रीः शोभा तस्याः “ शोभा-संपत्ति-पद्मासु लक्ष्मीः श्रीरपि गद्यते” इति विश्वः । जन्मगेहं उत्पत्तिस्थानम् । तथा दुर्वारं निवारयितुमशक्यं अत एव घोरं भयंकरं यद्दारिद्र्यं तद्रूपो यो दर्वीकरः सर्पः । “सर्पः पृदाकुर्भुजगः-" इत्यत आरभ्य " दर्वीकरो दीर्घपृष्टः" इत्यन्तोऽमरः । तस्य खगेश्वरो गरुडः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तत्तादृक्ताटकादेहध्वान्तराजीवबान्धवः ॥
सुबाहुमत्तमातङ्गसंहारवरकेसरी ॥ ५९ ॥
मूलम्
तत्तादृक्ताटकादेहध्वान्तराजीवबान्धवः ॥
सुबाहुमत्तमातङ्गसंहारवरकेसरी ॥ ५९ ॥
बाल-कृष्णः
तदिति । तत्तादृक्ताटकादेहः स चासौ तादृशः यज्ञादिशुभकर्मप्रध्वंसकः प्रसिद्धः ताटकाया एतदभिधाया राक्षस्याः शरीरं तद्रूपो यो ध्वान्तोऽन्धकारः तस्य राजीवबान्धवः सूर्यः । तथां सुबाहुरूपो यो मत्तमातङ्गः मत्तहस्ती तस्य संहारे विनाशे वरकेसरी महासिंहः " सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः" इत्यमरः ॥५९॥
विश्वास-प्रस्तुतिः
भार्गवाग्रहदावाग्निपरिमार्जननिर्झरः29 ॥
विराधाख्यदुरातङ्कविद्रावणमहौषधम् ॥ ६० ॥
मूलम्
भार्गवाग्रहदावाग्निपरिमार्जननिर्झरः29 ॥
विराधाख्यदुरातङ्कविद्रावणमहौषधम् ॥ ६० ॥
बाल-कृष्णः
भार्गवेति । भार्गवस्य परशुरामस्य आग्रहः रामस्य सीतापरिग्रहोत्तरं स्वनगरं प्रति
पुनरागच्छतः मार्गे समन्तान्निरोधः तद्रूपो यो दावाग्निः तस्य परिमार्जने शमने निर्झरः जलप्रवाहः । " उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः । "" इत्यमरः । विराधः इति आख्या नाम यस्य सः विराधनामकराक्षसरूप इति यावत् । दुर्दुष्ट आतंको रोगः तस्य विद्रावणे विनाशने महौषधम् ॥ ६० ॥
बाल-कृष्णः
खरेति । खरश्च दूषणश्च तौ एतदाख्यौ राक्षसविशेषौ । एतदुपलक्षणम् । तेन त्रिशिरादिचतुर्दशसहस्रराक्षसग्रहणम् । तद्रूपा ये किम्पाका विषवृक्षाः तेषां खण्डने तोडने एकपरश्वधः असहायः परशुः " द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः " इत्यमरः । एकेनैव कस्यापि साहाय्यमन्तरा सर्वेषां विनाशः कृत इति द्योतनार्थमेक इति विशेषणम् । दुर्मोचः मोक्तुमशक्यः वधं विनेत्यूह्यम् । नीचश्च यो मारीचः राक्षसस्तद्रूपो यः कीचको वेणुस्तस्य प्रबलः प्रचण्डः अनलः अग्निः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
गृध्रराजस्य नाकादिलोकाक्रमणवर्तनी ॥
कबन्धमयकासारकवलीकरणातपः ॥ ६२ ॥
मूलम्
गृध्रराजस्य नाकादिलोकाक्रमणवर्तनी ॥
कबन्धमयकासारकवलीकरणातपः ॥ ६२ ॥
बाल-कृष्णः
गृध्रेति । गृध्राणां पक्षिविशेषाणां राजा गृध्रराजः जटायुः तस्य " राजाहःइत्यादिना टच् समासान्तः । नाकः स्वर्गः आदिः प्रथमो येषां ते ये लोकाः ब्रह्मवैकुण्ठादयः तेषामाक्रमणस्य गमनस्य वर्तनी एकपदी मार्गः " वर्तन्येकपदीति च " इत्यमरः । कबन्ध-मयः कबन्धनामकराक्षसरूपः यः कासारः सरः तस्य कवलीकरणे ग्रसने शोषणे इति यावत् । आतपः सूर्यकिरणरूपः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
शबरीचित्तकुमुदशारदज्योत्स्निकोदयः31 ॥
पावमानियशःकाशप्रकाशशरदागमः ॥ ६३ ॥
मूलम्
शबरीचित्तकुमुदशारदज्योत्स्निकोदयः31 ॥
पावमानियशःकाशप्रकाशशरदागमः ॥ ६३ ॥
बाल-कृष्णः
शबरीति । शबर्याः कस्याश्चित् किरातकुलजाया भक्तायाः चित्तमेव कुमुदं चन्द्रविकासि कमलं तस्य शारदज्योत्निकोदयः शरत्कालीन चन्द्रिकोदयः । तथा पवमानस्यापत्यं पुमान् पावमानिर्हनूमान् “अत इञ्” इत्यपत्यार्थे इञ् । तस्य यशः कीर्तिरेव काशानि काशकुसुमानि ‘मोळ’ इति महाराष्ट्रभाषाप्रसिद्धदर्भ कुसुमानीति यावत् । - “ऽथो काशमस्त्रियाम् । इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजः” इत्यमरः । तेषां प्रकाशे उदये शरदागमः शरदृतुप्रादुर्भावः । अत्र ‘पावमानं शीलमस्येति पावमानि अतिशयेन पवित्रं यत् यशः तदेव काशकुसुमं तस्य प्रकाशे विकसने शरदागमः इत्यपि व्याख्येयम्’ इत्यत्रैव मुद्रितपुस्तके टिप्पणं दृश्यते, तदपि साधु ॥ ६३ ॥
विश्वास-प्रस्तुतिः
प्रगल्भवालिजीमूतप्रोत्सारणसमीरणः ॥
सुग्रीवराज्यसामग्री सुदिनं काननौकसाम् ॥ ६४ ॥
मूलम्
प्रगल्भवालिजीमूतप्रोत्सारणसमीरणः ॥
सुग्रीवराज्यसामग्री सुदिनं काननौकसाम् ॥ ६४ ॥
बाल-कृष्णः
प्रगल्भेति । प्रगल्भः प्रौढश्चासौ वालिजीमूतः वालिरूपो मेघः “घन-जीमूतमुदिर-” इत्यमरः । तस्य प्रोत्सारणे विनाशे समीरणः वायुः “समीर-मारुत-मरुज्जगत्प्राण-समीरणाः” इत्यमरः । सुग्रीवस्य राज्यस्य सामग्री साहित्यसमृद्धिः काननमरण्यमेवौकः स्थानं येषां ते काननौकसः संततं वननिवासिनो वानरा इत्यर्थः । तेषां सुदिनं उत्साह दिवसः ॥ ६४ ॥
विश्वास-प्रस्तुतिः
दुर्निरोधधुनीनाथजाड्यरोगचिकित्सकः ॥ दुष्टनक्तंचरस्तोमधूमकेतुविजृम्भणम् ॥ ६५ ॥
मूलम्
दुर्निरोधधुनीनाथजाड्यरोगचिकित्सकः ॥ दुष्टनक्तंचरस्तोमधूमकेतुविजृम्भणम् ॥ ६५ ॥
बाल-कृष्णः
दुर्निरोधेति । दुर्निरोधः रोद्धुमशक्यश्चासौ धुनीनाथः समुद्रः तस्य जडस्य मूढस्य भावः जाड्यं मूढत्वं “गुणवचन-ब्राह्मणादिभ्यः-” इति भावार्थे ध्यञ् । अथवा डलयोः सावर्ण्यात् जलस्य भावः जाल्यमिति विग्रहः। तदेव रोगः तस्य चिकित्सकः वैद्यः। “भिषग्वैद्यौ चिकित्सके” इत्यमरः। स्वसामर्थ्यप्रदर्शनपूर्वकं सागरस्य ‘अहमेव महान् दुस्तरश्च’ इत्यादिरूपं जाड्यमपाहरदित्यर्थः । तथा दुष्टाः ये नक्तंचरा राक्षसास्तेषां स्तोमस्य समूहस्य धूमकेतुः उत्पातसूचकं नक्षत्रं, तद्वत् विजृम्भणं भयप्रदर्शनम् ॥ ६५ ॥
बाल-कृष्णः
कुम्भकर्णेति । कुम्भकर्णस्य मद एव अम्भोधिः समुद्रः तस्य स्तम्भने प्रतिटम्भे नाशने इत्यर्थः । कुम्भसंभवः अगस्त्यः । बलीयानतिशयेन बलवान् यो रावणप्राणः स एव पाषाणः शिला तस्य दलने भेदने अशनिः वज्रम् । “-वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ।” इत्यमरः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
विभीषणस्य साम्राज्यविश्राणनसुरद्रुमः ॥ अयोध्यापुरनारीणामक्ष्णोरत्यद्भुतोत्सवः ॥ ६७ ॥
मूलम्
विभीषणस्य साम्राज्यविश्राणनसुरद्रुमः ॥ अयोध्यापुरनारीणामक्ष्णोरत्यद्भुतोत्सवः ॥ ६७ ॥
बाल-कृष्णः
विभीषणेति । विभीषणस्य रावणभ्रातुः स्वभक्तस्य सम्राजो भावः साम्राज्यं मण्डलाधिपत्यमिति यावत् । “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्” इत्यमरः । तस्य विश्राणने दाने “-दानमुत्सर्जनविसर्जने । विश्रा. णनं वितरणम्” इत्यमरः । सुरद्रुमः कल्पतरुः । अयोध्यापुरनारीणां अयोध्यानगरवासिस्त्रीणां अक्ष्णोः नयनयोः अत्यद्भुतः अतिचमत्काररूपः उत्सवः आनन्दः॥६७॥
विश्वास-प्रस्तुतिः
अभिषिक्तो34 यथावच्च वसिष्ठाद्यैर्महर्षिभिः ॥ रमते मम तेजस्वी रामः कामसमो हृदि ॥ ६८ ॥
मूलम्
अभिषिक्तो34 यथावच्च वसिष्ठाद्यैर्महर्षिभिः ॥ रमते मम तेजस्वी रामः कामसमो हृदि ॥ ६८ ॥
बाल-कृष्णः
अभिषिक्त इति । अपि च महर्षिभिः वसिष्ठाद्यैर्वसिष्ठ-विश्वामित्रादिभिः, यथावत् शास्त्रविधिमनुसृत्य, राज्ये इति शेषः। अभिषिक्तः, एतादृशः कामसमः मदनतुल्यः तेजस्वी प्रशस्ततेजोयुक्तः “असू-माया-मेधा-” इत्यादिना मत्वर्थे विनिप्रत्ययः । रामः मम हृदि रमते क्रीडति । अहं तावत् भक्त्यादिसाधनैः सकलप्राणिहृदयनिवासिनं तं जानामीति भावः । अत्र तावत् ‘ककुत्स्थकुलपर्याय-’ इत्यादिभिरेकोनविंशतिश्लोकैः श्रीरामजन्मन आरभ्य रावणवधोत्तरं पुनरयोध्यामागत्य राज्याभिषेकपर्यन्तः श्रीरामायणकथार्थः सूचितः ॥ ६८ ॥
एवं समग्रं श्रीरामचरितमुक्त्वा तत्स्तवने विद्वदनुमतिं प्रदर्शयति-अत्रेति ।
विश्वास-प्रस्तुतिः
अत्र किल पवित्रचरितः कश्चिद्विपश्चिदजस्रमित्थमनुसंधत्ते ॥ १८& ॥
मूलम्
अत्र किल पवित्रचरितः कश्चिद्विपश्चिदजस्रमित्थमनुसंधत्ते ॥ १८& ॥
बाल-कृष्णः
अत्र श्रीरामविषये पवित्रं चरितमाचरणं यस्य तथाभूतः कश्चिद्विपश्चित् एतद्रन्थकर्ता वेङ्कटाध्वरिनामा पण्डित इत्यर्थः । अजस्रं सततं “सततेऽनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रम्-” इत्यमरः । इत्थं वक्ष्यमाणप्रकारेण “इदमस्थमुः" इतीदंशब्दात् प्रकारार्थे थमुप्रत्ययः । अनुसंधत्ते अनुसंदधाति उच्चारयतीत्यर्थः । किलेति निश्चयेन ॥ १८& ॥
यदनुसंधत्ते तदेवाह-ध्यायामीति ।
विश्वास-प्रस्तुतिः
ध्यायामि राममभिरामगिरा मरन्द
धारामदघ्नमितराममरेर्विरामम् ॥
आराममद्भुततरामलसद्गुणानां
घोरामयघ्नमसुरामरवन्दितांघ्रिम् ॥ ६९ ॥
मूलम्
ध्यायामि राममभिरामगिरा मरन्द
धारामदघ्नमितराममरेर्विरामम् ॥
आराममद्भुततरामलसद्गुणानां
घोरामयघ्नमसुरामरवन्दितांघ्रिम् ॥ ६९ ॥
बाल-कृष्णः
अभिरामा मनोहरा चासौ गीर्वाक् च तया वाङ्माधुर्येणेति यावत् । मन्दरस्य मकरन्दस्य “मकरन्दः पुष्परसो मरन्दोऽपि निगद्यते” इति कोशः (?) धाराया मदं हन्तीति मदघ्नः तं, मकरन्दमाधुर्यमपि तुच्छीकुर्वन्तमित्यर्थः । मदनमित्यत्र हन्तेः मूलविभुजादेराकृतिगणत्वात् कप्रत्ययः । “हो हन्तेः” इति कुत्वम् । तदुक्तम् सिद्धान्तकौमुद्याम् “अमनुष्यकर्तृके च" इति हन्तेष्टग्विधायके सूत्रे–‘अथ कथं ‘बलभद्रः प्रलम्बघ्नः’ ‘कृतघ्नः’ ‘शत्रुघ्नः’ इत्यादि । मूलविभुजादित्वात्सिद्धम्’ इति । अरेः एतज्जातावेकवचनम् । शत्रूणामित्यर्थः । विरामं नाशकम् । अत एव इता प्राप्ता रामा सीता येन तम् । सीतापहारकरावणादिशत्रुविनाशात् प्राप्तस्त्रीकमित्यर्थः। अतिशयेन अद्भुताः आश्चर्यावहाः अद्भुततराः, अतिशायने तर । च अमलाः निर्मलाश्च ते सद्गुणाः लोकत्रासावहशत्रुनिराकरण-लोकसुखोत्पादनादिरूपाः सुन्दरगुणास्तेषाम् । अद्भुततरत्वममलत्वं चैतद्विशेषणद्वयं गुणानां, न केवलमाश्चर्योत्पादका एव गुणाः किंतु निर्मलाः कुत्रापि दूषणोत्पादनानहींः इतरलोकानुकरणाश्चि इति यावत् । अन्यथा केवलं गुणानामा. श्वर्यावहत्वं दुष्टानां रावण-कुम्भकर्णादीनामपि वर्तते इति द्योतनार्थम् । तादृशगुणानां आरामं उपवनं, सकललोकानां सुखशान्त्युत्पादकत्वेनारामसादृश्यम् । घोरा भयंकराश्च ते आमयाः संसारसंबन्धिनो रोगाश्च तान् हन्ति विनाशयतीति घोरामयन्नं “घोरं भीमं भयानकम्” इति “रोग-व्याधिगदामयाः” इति चाप्युभयत्रामरः । जन्म-जरा-मरणादिसकलप्रापञ्चिकदुःखनिवारकमित्यर्थः । असुरा दैत्याश्च अमरा देवाश्च तैर्वन्दितौ अङ्गी चरणौ यस्य तथाभूतम् । रामं ध्यायामि मनसि चिन्तयामि । इन्द्रवज्रावृत्तम् । लक्षणमुक्तं प्राक् (४९ श्लोकटीकायाम् ) ॥ ६९ ॥
विश्वास-प्रस्तुतिः
दयासमुदयालये मुदधिकानने कानने
पलाशनपलायनप्रणयिकार्मुके धार्मिके ॥
समीरजसमीडिते प्रविश चित्त मे सत्तमे
बलीकृतवलीमुखे मनुजधर्मिणि ब्रह्मणि ॥ ७० ॥
मूलम्
दयासमुदयालये मुदधिकानने कानने
पलाशनपलायनप्रणयिकार्मुके धार्मिके ॥
समीरजसमीडिते प्रविश चित्त मे सत्तमे
बलीकृतवलीमुखे मनुजधर्मिणि ब्रह्मणि ॥ ७० ॥
बाल-कृष्णः
दयेति । दयायाः समुदयस्य समुदायस्य “समुदायः समुदयः” इत्यमरः । आलयं स्थानं तस्मिन् । काननेऽरण्ये वनवासे सत्यपीत्यर्थः । मुदा आनन्देन “मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः । स्यादानन्दथुरानन्दः-” इत्यमरः । अधिकं उल्लासयुक्तं आननं मुखं यस्य तस्मिन् । पलं मांसं “अधः-खरूपयोरस्त्री तलं स्याचामिषे पलम्” इत्यमरः “पलमुन्मानमांसयोः” इति रुद्रश्च । अशनं भक्षणं येषां ते पलाशना राक्षसास्तेषां पलायने विद्रावणे प्रणयि परिचययुक्तं समर्थमिति यावत् । कार्मुकं धनः यस्य तस्मिन् , धर्मं चरतीति धार्मिकः तस्मिन् “धर्मं चरति" इति ठञ् । बलीकृताः शक्तियुताः कृताः वलीमुखा वानरा येन तस्मिन् । “कपिप्रवङ्ग-प्लवग-शाखामृग वलीमुखाः । मर्कटो वानरः कीशः" इत्यमरः । समीरात् वायोः जात उत्पन्नः समीरजो मारुतिस्तेन समीडितः स्तुतः तस्मिन् । मनुजधर्मिणि लीलार्थ मनुष्यधर्मवति, वस्तुतस्तु ब्रह्मणि ब्रह्मस्वरूपे सत्तमे अतिशयसाधौ श्रीरामे इत्यर्थः । हे मे चित्त मन्मानस, प्रविश प्रवेशं कुरु तं भजेत्यर्थः । पृथ्वी वृत्तम् । लक्षणं पूर्वोक्तम् (१२ श्लोकटीकायां कथितम् ) ॥ ७० ॥
किंच अस्त्रामासेति ।
विश्वास-प्रस्तुतिः
अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनू
रामामास मुनेः शिलाऽपि नृवरामास स्वयं पादुका ॥
कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा
मूलम्
अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनू
रामामास मुनेः शिलाऽपि नृवरामास स्वयं पादुका ॥
कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा
बाल-कृष्णः
हे भगवन् श्रीरामचन्द्र, प्रियायै सीतायै द्रुह्यतीति धुक् तस्मिन् सीताचरणाङ्गुष्ठभेदके ऐन्द्रकाके इत्यर्थः। तृणं दर्भखण्डं अस्त्रामास अस्त्रवदाचचार । अस्त्रशब्दात् “कर्तुः क्यङ्-" इति सूत्रस्थेन “आचारेऽवगल्भ-" इत्यादिवार्तिकात् ‘आचारे’ इत्यनुवर्तमाने सति “सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः” इति वार्तिकेनाचारक्विपि तदन्तस्य धातुत्वात् तस्माल्लिड्विवक्षायां च तस्मिन् परे अनेकाच्त्वादामि अस्तेरनुप्रयोगः, क्वचिद्भवतेरपि । एवमग्रेऽप्यूह्यम् । तथा सीतास्वयंवरप्रसङ्गे इति शेषः । स्मरारेः शिवस्य धनुः तस्मिन् समये पणीकृतमित्यर्थः । तृणामास तृणवदाचचार । तत्रभवता तृणवद्भग्नमित्यर्थः। शिलाऽपि दृषदपि मुनेर्गौतमस्य दारामास स्त्री बभूव । पादुका, भवतः इत्यर्थः । स्वयं नृणां मनुष्याणां वरः श्रेष्ठः “देवादृते वरः श्रेष्ठे” इत्यमरः । राजा तद्वत् आचचारेति नृवरामास । वनवासगमनप्रसङ्गे भरताग्रहात् तस्मै समर्पितेत्यर्थः । भरतेनापि श्रीरामागमनपर्यन्तं राज्यं पादुकायां निवेद्य स्वयं प्रधानवत् आचरितमिति प्रसिद्धिः। तथैव महार्णवः समुद्रः अपि कुल्यामास अल्पा सरिदिव बभूव । “कुल्याल्पा कृत्रिमा सरित्” इत्यमरः । श्रीरामस्य लंकागमनसमये तत्कोपाद् भीतः समुद्रः क्षुद्ररूप आसीदिति श्रीरामायणे । तथा कपयो वानराः योधांबभूवुः योद्धारः बभूवुः। “भटा योधाश्च योद्धारः।” इत्यमरः । पुलस्त्यस्य विश्रवसः अपत्यं पौलस्त्यो रावणः मशकांबभूव मशकवदास । युद्धे मशकवदनायासेन पराभूत इत्यर्थः । त्वं श्रीरामश्च मानुषामासिथ मनुष्यवदाचेरिथ । शार्दूलविक्रीडितं वृत्तम् ॥ ७१ ॥
एवं चैतादृशमहाप्रभावत्वाद्यदि भजनीयः स्यात्तर्हि श्रीराम एवेति द्योतयन्नेतत्प्रकरणं (अयोध्यावर्णनं) उपसंहरति-अशिलेति ।
विश्वास-प्रस्तुतिः
अशिलाप्राणदपदैरचराचरमुक्तिदैः37 ॥ असर्वभूताभयदैरशर्वधनुरर्दनैः ॥ ७२ ॥ अब्रह्मास्त्रीकृततृणैरतृणीकृतरावणैः ॥ अलं कातरदेवैस्तैरलङ्कापुरसाधकैः ॥ ७३ ॥
मूलम्
अशिलाप्राणदपदैरचराचरमुक्तिदैः37 ॥ असर्वभूताभयदैरशर्वधनुरर्दनैः ॥ ७२ ॥ अब्रह्मास्त्रीकृततृणैरतृणीकृतरावणैः ॥ अलं कातरदेवैस्तैरलङ्कापुरसाधकैः ॥ ७३ ॥
बाल-कृष्णः
श्लोकद्वयस्यैकान्वयः। प्राणं जीवनं ददातीति प्राणदं शिलायाः अहल्यारूपायाः प्राणदं जीवनप्रदं उद्धारकमिति यावत् । तादृशं पदं चरणः न भवति येषामित्यशिलाप्राणदपदास्तैः। तथा चराचराणां स्थावरजङ्गमानां मुक्तिदाः कैवल्यप्रदाः न भवन्तीति तथाभूतैः । तथा सर्वभूतानां प्राणिनां अभयदाः न भवन्ति तैः । शर्वस्य शिवस्य “शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः” इत्यमरः । धनुषः अर्दना भञ्जकाः न भवन्तीति तथा तैः । तथा ब्रह्मास्त्रमिव न कृतं तृणं यैस्तैः, न तृणीकृतः तृणवत्तुच्छीकृतः रावणः यैस्तैः, अत एव न साधितं लङ्कापुरं लङ्कानगरी यैस्तथाभूतैश्च अत एव कातरा भीरवश्च “अधीरे कातरस्त्रस्ते भीरु-भीरुक-भीलुकाः” इत्यमरः। ते देवाश्च तैः । अलं कृतम्। ये तावदुपरिवर्णितानि लोकोपकारभूतानि कार्याणि कर्तुं न शक्नुवन्ति ते देवा मा सन्त्वित्यर्थः । अनुष्टुप् ॥ ७२ ॥ ७३ ॥