०४ बदरिकाश्रमवर्णनम्

विश्वास-प्रस्तुतिः

अथ बदरिकाश्रमवर्णनम्॥

इति विमानमग्रतः प्रस्थापयन्नङ्गुल्या निर्दिश्य
विश्वा०
इदं बदरिकाश्रमस्थलमिहैष नारायण
स्तपस्यति नमस्यतां स्थिरतमं1 तमः शोषयन् ॥
विकासिधिषणोन्मिषद्विषयवर्जनाः सज्जना
जनार्दनमहर्दिवं भुजगमञ्चमर्चन्त्यमी ॥ ३३ ॥

मूलम्

अथ बदरिकाश्रमवर्णनम्॥

इति विमानमग्रतः प्रस्थापयन्नङ्गुल्या निर्दिश्य
विश्वा०
इदं बदरिकाश्रमस्थलमिहैष नारायण
स्तपस्यति नमस्यतां स्थिरतमं1 तमः शोषयन् ॥
विकासिधिषणोन्मिषद्विषयवर्जनाः सज्जना
जनार्दनमहर्दिवं भुजगमञ्चमर्चन्त्यमी ॥ ३३ ॥

बाल-कृष्णः

इति एवमुक्त्वा विमानमग्रतः अग्रभागे प्रस्थापयन् प्रापयन्नङ्गुल्या निर्दिश्य; किञ्चित् प्रदेशमिति शेषः। - इदमिति । इदं पुरोभागवर्ति बदरिकाश्रमाख्यं स्थलं स्थानं, वर्तत इति शेषः । इह अस्मिन् बदरिकाश्रमे एष प्रसिद्धो नराणां समूहो नारं जीवसमूहः तस्य अयनम् आश्रयः । यद्वा नारम् उदकम् अयनम् आश्रयो यस्य सः जलशायीत्यर्थः । तदुक्तं मनुस्मृतौ–“आपो नारा इति प्रोक्ता आपो वै नरसूनवः । तस्य ता अयनं प्रोक्तास्तेन नारायणः स्मृतः ॥” इति । नारायणः, नमस्यतां भक्तिभावेन नमस्कुर्वतां जनानां, नमःशब्दात् “नमो-वरिवस्” इत्यादिक्यजन्तात् शतृप्रत्ययः । स्थिरतमम् अतिशयेन स्थिर, अतिशायने तमप् । तमः अज्ञानं शोषयन् विनाशयितुम् , हेतौ शतृप्रत्ययः । तपस्यति तपश्चर्यां करोति । तपःशब्दात् “तपसः परस्मैपदं च” इति वार्तिकात् क्यङ् परस्मैपदं च । अत एव अमी एतत्क्षेत्रनिवासिनः विकासिन्याः परमात्मज्ञानेन विकसनशीलायाः धिषणायाः बुद्धेः “बुद्धिर्मनीषा धिषणा” इत्यमरः । उन्मिषद् उत्पद्यमानं विषयाणां शब्दादीनां वर्जनं निरसनं येषां तथाभूताः शब्द-स्पर्शादिविषयाद्यनासक्ततया केवलमीश्वरपरायणा इत्यर्थः । अत एव सज्जनाः साधुजनाः, भुजगः शेषः मञ्चः शयनं यस्य तथाभूतं जनार्दनं, जननं जनः भावे घञ् “जनि-वध्योश्च” इति वृध्यभावः । जनः जन्म अर्दयति नाशयतीति विग्रहः । ‘अर्द हिंसायाम्’ इति धातोर्नन्द्यादित्वाद् ल्युः । यद्वा जनैः अर्यते प्राप्यते इति विग्रहः । ‘अर्द गतौ याचने च’ इत्यस्मात् “कृत्यल्युटो बहुलम्” इति कर्मणि ल्युट । एतादृशं नारायणम् अहर्दिवं प्रतिदिनं “अचतुर-विचतुर-सुचतुर” इत्यादिना समासः । अर्चन्ति पूजयन्ति । पृथ्वी वृत्तम् । लक्षणमुक्तं प्राक् (१२ श्लोकटीकायाम् ) ॥ ३३ ॥

विश्वास-प्रस्तुतिः

कृशानुः-सखे तवात्र गुणवत्तासमर्थनं न रोचते मह्यम् ॥ १३ ॥

कुतः

यदत्र जागर्ति शिलासमं हिमं सुशीतला गन्धवहाश्च दुःसहाः ॥

जलावगाहाच्चकितो जनस्ततः कुतस्त्वनुष्ठास्यति कर्म निर्मलम् ॥ ३४ ॥

विश्वावसुः-अस्मन्मतानुकूलमेवैतद्भवति2 भवदुक्तम् ॥ १४ ॥

मूलम्

कृशानुः-सखे तवात्र गुणवत्तासमर्थनं न रोचते मह्यम् ॥ १३ ॥

कुतः

यदत्र जागर्ति शिलासमं हिमं सुशीतला गन्धवहाश्च दुःसहाः ॥

जलावगाहाच्चकितो जनस्ततः कुतस्त्वनुष्ठास्यति कर्म निर्मलम् ॥ ३४ ॥

विश्वावसुः-अस्मन्मतानुकूलमेवैतद्भवति2 भवदुक्तम् ॥ १४ ॥

बाल-कृष्णः

पुनरपि स्वानुरूपमाह कृशानुः-सखे इति । हे सखे मित्र, तव त्वत्कृतमित्यर्थः । अत्र बदरिकाश्रमे, गुणाः भगवन्निवासादयः सन्ति यस्मिंस्तत् तस्य भावः तत्ता तस्याः समर्थनं प्रतिपादनं, मह्यं मे न रोचते न प्रीणयति । “रुच्यर्थानां” इति चतुर्थी ॥ १३॥

कुतो न रोचते इत्याह-यदत्रेति । यद्यस्मात् कारणाद् अत्र बदरिकाश्रमे, शिलासमं घनीभूतत्वात् पाषाणसदृशं हिमं तुहिनं “तुषारस्तुहिनं हिमम्” इत्यमरः । जागर्ति विद्यते । कदापि वसन्त-ग्रीष्माद्युष्णकालेऽपि न विनश्यतीति द्योतनार्थं जागृधातोः प्रयोगः । तथा गन्धवहाः वायवश्च “-वायुर्मातरिश्वा सदागतिः । पृषदश्वो गन्धवहो-” इत्यमरः । सुतरामत्यन्तं शीतलाः शीतयुक्ताः, अत एव दुःसहाः सोढुमशक्याः वहन्तीति शेषः । तत एव च जले थोऽवगाहः स्नानं तस्माच् चकितो भीतो जनः । जातावेकवचनम् । सर्वेऽपि जनाः स्नातुं न शक्नुवन्तीत्यर्थः । “भीत्रार्थानां भयहेतुः” इति पञ्चमी । ततः ततस्तु उपर्युक्तदोषबाहुल्यादेव निर्मलं पूर्वोक्तं पूजादिरूपं कर्म, कुतः अनुष्ठास्यति तादृशकर्मणोऽनुष्ठानं कथं करिष्यतीत्यर्थः । एवं च पूर्वोक्तं तव गुणवत्ताप्रतिपादनं नात्र सङ्गच्छते इति भावः। वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् ( १० श्लोकटीकायाम् ) ॥ ३४ ॥

एवं कृशानुप्रोक्तं दूषणमपि गुणपरतया सङ्ग्रहीतुमाह विश्वावसुः-अस्म. दिति । एतत् ‘यदत्र जागर्ति शिलासमं हिम’ इत्यादि भवदुक्तं त्वया प्रतिपादितं, अस्माकं.मतस्य बदरिकाश्रममहत्त्ववर्णनरूपस्य अनुकूलं युक्तमेव भवति ॥ १४ ॥

तदेवाह-यत इति - परमेति ।

विश्वास-प्रस्तुतिः

यतः
परमहिमयुतत्वात् प्राप्तवैकुण्ठसाम्यं
पदमिदमुपयान्तः पण्डिताः शान्तिमन्तः ॥
मुहुरिह समयेषु स्नानहेतोः सरोगा
स्तदपि भृशमरोगास्तार्क्ष्यकेतोः प्रसादात् ॥ ३५ ॥

मूलम्

यतः
परमहिमयुतत्वात् प्राप्तवैकुण्ठसाम्यं
पदमिदमुपयान्तः पण्डिताः शान्तिमन्तः ॥
मुहुरिह समयेषु स्नानहेतोः सरोगा
स्तदपि भृशमरोगास्तार्क्ष्यकेतोः प्रसादात् ॥ ३५ ॥

बाल-कृष्णः

परमम् अतिशयितं च निबिडमिति यावत् । तत् हिमं तुहिनं तेन युतत्वाद् युक्तत्वात्, पक्षे पर उत्तमश्चासौ सर्वलोकातिरिक्त इति यावन् महिमा माहात्म्यं च तेन युतत्वात्, प्राप्तं विशेषेण कुण्ठः क्रियामन्दः किञ्चिदपि कार्य कर्तुमशक्त इत्यर्थः । " कुण्ठो मन्दः क्रियासु यः" इत्यमरः । विकुण्ठः, विकुण्ठ एव वैकुण्ठः तस्य साम्यं सादृश्यं येन, पक्षे प्राप्तं वैकुण्ठस्य वैकुण्ठलोकस्य साम्यं येन, तादृशम् इदं पदं बदरिकाश्रमस्थानं प्रति, उपयान्तः आगच्छन्तः शान्तिमन्तः शान्तियुक्ताः, पण्डा आत्मज्ञानविषया बुद्धिः सा प्राप्ता येषां ते पण्डिताः । पण्डाशब्दात् तारकादित्वादितच् । इह बदरिकाश्रमे समयेषु प्रातर्मध्याह्नादिकर्मकालेषु स्नानहेतोः स्नानकारणादेव " हेतुर्ना कारणं बीजं" इत्यमरः । मुहुर्वारंवारं सरोगाः शीत- वातादिरोगयुक्ताः, पक्षे सरः सरोवरं गच्छन्तीति तथाभूताः भवन्तीति शेषः । तदपि तथापि, ते तार्क्ष्यः गरुडः “ गरुत्मान् गरुडस्तार्क्ष्यः" इत्यमरः । केतुर्ध्वजो यस्य सः विष्णुः तस्य प्रसादाद् अनुग्रहाद् भृशमत्यन्तम् अरोगा रोगरहिताः कुशलिन इत्यर्थः । भवन्ति । एतदुक्तं भवति - यत्पूर्वमुक्तं दूषणं ‘जलावगाहाञ्चकितो जनः ’ इत्यादि, , तत्तु भगवद्भक्तेषु न सङ्गच्छते, ते तु भगवत्प्रसादान्निरन्तरं कुशलिन एव, परं च ये तावदभक्ताः काम - रागादिदोषयुक्ताश्च ते एव भगवदनुग्रहाभावात् शीतादिरोगयुक्ताः भवन्तीति । अत्र विरोधालङ्कारः । भगवत्प्रसादेन ‘सरोगाः’ इत्यत्र सरोवरगमनरूपश्लेषार्थेन च विरोधपरिहारः । तदुक्तम् - " विरोधः सोऽविरोधेऽपि विरुद्धत्वेन यद्वचः” इति । मालिनी छन्दः । " न-न-म-य-य-युतेयं मालिनी भोगिलोकैः" इत्यादितल्लक्षणात् ॥ ३५ ॥

अथ अयोध्यापुरवर्णनमाक्षिपन्नाह कविः - इतीति ।


  1. स्थिरतरम् ↩︎ ↩︎

  2. अस्मदनुकूलमेतद्भवति ↩︎ ↩︎