विश्वास-प्रस्तुतिः
अथ भूलोकवर्णनम्॥
इति परिक्रामन् किंचिदुत्तरमुपसृत्याधस्तादवलोक्य1 च सखे सकलपुरुषार्थसाधनानुष्ठानस्थानभूतं2 तावदवलोकय3 भूलोकम् ॥ ८&॥
मूलम्
अथ भूलोकवर्णनम्॥
इति परिक्रामन् किंचिदुत्तरमुपसृत्याधस्तादवलोक्य1 च सखे सकलपुरुषार्थसाधनानुष्ठानस्थानभूतं2 तावदवलोकय3 भूलोकम् ॥ ८&॥
बाल-कृष्णः
यः ईश्वरः निजस्य आत्मनः स्वरूपस्य सर्वत्र व्यापकस्य, मतये ज्ञानार्थं, भूरि बहु “पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च” इत्यमरः । शास्त्रमुपनिषच्छारीरकसूत्रादि च, स्वस्य आराधनार्थ पूजार्थं वपुः करचरणादीन्द्रियसहितं शरीरं, स्वध्यानाय स्वस्मिन् स्वरूपप्रत्ययतया चित्तस्यैकतानतायै “तत्र प्रत्ययैकतानता ध्यानं" इति योगसूत्रात् । तथा अनघां निर्मलां बुद्धिं च लब्धं, तीर्थादिकं प्रयाग-पुष्करादिरूपं च, तत्त्वानि च उपनिषदादिषु कथितानि ‘तत्त्वमसि’ इत्यादिमहावाक्यानि उपदेष्टुमपि उत्तमगुरून् दत्त्वा, नोऽस्मान अनुगृह्णाति । तदपि एवमनुग्रहे कृतेऽपि शास्त्रावलोकन-पूजन-ध्यानाद्यन्यतमस्य कस्यापि साधनस्यानाचरणेन, प्रत्युत कामाद्यासनेन चेति शेषः । संसारे यदि भ्रमेम “पुनरपि जननं पुनरपि मरणं” इत्यायुक्तरीत्या परिभ्रमामः, ‘भ्रमु चलने’ इत्यस्माद्विधिलिड्युत्तमपुरुषः । तदा सः सर्वेश्वरः किं कुर्वीत ? एवं च जगत्संहार. नरकपातादिरूपोऽयं न भगवतोऽपराधः, किं तु तादृशकर्मकर्तृणां जीवानामेव, तस्माच्च परमकारुणिके भगवति नारायणे दोषारोपो न युक्त इति भावः । शा० वि॰ वृत्तम् ॥ २४ ॥ एवं सविस्तरं सूर्यवर्णनमुपसंहृत्य भूलोकवर्णनप्रस्तावमाह-इतीति । इति वदन् विश्वावसुरिति शेषः । परिक्रामन् विमानेन परिभ्रमन् ‘क्रमु पादविक्षेपे’ इत्यस्मात् शतृप्रत्ययः । “क्रमः परस्मैपदेषु" इत्युपधादीर्घः । किंचिदुत्तरमुपसृत्य पुरतो गत्वा, अधस्तादधोभागे अवलोक्य दृष्ट्वा च, आहेति शेषः ॥
सखे इति। हे सखे कृशानो, सकलाश्चत्वारश्च ते पुरुषार्था धर्मार्थादयस्तत्साधनानां कर्मणामनुतानस्य स्थानभूतं भूलोकमवलोकय पश्य ॥ ८& ॥
सकलपुरुषार्थसाधनत्वमेव सबहुमानं प्राह–स्वर्गौकाभिरिति
विश्वास-प्रस्तुतिः
सबहुमानम्
स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर
स्वाहाकार-वषट्क्रियोत्थममृतं स्वादीय आदीयते ॥
आम्नायप्रवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभै-
र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै4 पृथिव्यै नमः ॥ २५ ॥
मूलम्
सबहुमानम्
स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वर
स्वाहाकार-वषट्क्रियोत्थममृतं स्वादीय आदीयते ॥
आम्नायप्रवणैरलंकृतिजुषेऽमुष्यै मनुष्यैः शुभै-
र्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै4 पृथिव्यै नमः ॥ २५ ॥
बाल-कृष्णः
वर्गःसुरलोकः ओको निवासस्थानं येषां तैर्देवैरित्यर्थः । अदः अस्मिन् भूलोके निवसन्ति ते अदोनिवासिनस्तैः पुरुषैरारब्धाश्च ते अतिशुद्धा मन्त्र-तन्त्रविपर्यासादिदोषरहिता अध्वरा यज्ञास्तेषु स्वाहाकारश्च वषट्क्रिया च ताभ्यां, स्वाहाकार-वषट्क्रिये हि स्वाहा वषट् इत्यव्यये ते च देवतार्थं हविस्त्यागकाले मन्त्रान्ते प्रयुज्येते। तेन तादृशमन्त्रोच्चारणेन त्यक्तहविर्भ्यामित्यर्थः । “स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा” इत्यमरः । उत्थमुत्पन्नं, स्वादीयः अतिमधुरं, स्वादुशब्दात् अतिशायने ईयसुन्प्रत्ययः। अमृतं हवीरूपं आदीयते स्वीक्रियते । अपि च आम्नायेषु वेदेषु “श्रुतिः स्त्री वेद आम्रायः” इत्यमरः । प्रवणैः निपुणैः अर्थात् तदध्ययन-तद्विहितकर्मानुष्ठानासक्तैरिति यावत् । अत एव शुभैः कल्याणयुक्तैः मनुष्यैः, अलंकृतिजुषे अलंकारयुक्तायै ‘जुषी प्रीति-सेवनयोः’ इत्यस्मात् क्विप्। दिव्यानि च तानि क्षेत्राणि वाराणसी-बदरिकाश्रमादीनि तैः . सरिद्भिः गङ्गा-यमुनादिभिश्च पवित्रं शुद्धं वपुः शरीरं यस्यास्तस्यै, अमुध्यै दृश्यमानायै देव्यै देवतारूपायै पृथिव्यै नमः अस्तु इति शेषः । शा. वि. वृत्तम् ॥ २५ ॥
अथ भुव्यपि दोषारोपं कुर्वन् प्राह कृशानुः-नन्विति।
विश्वास-प्रस्तुतिः
कृशानुः-ननु सखे नाकगतोऽपि भवान् न मध्यमलोकं5 नमस्कर्तुमर्हति ॥९&॥
तथाहि
जनन-मरण-क्वाधि-व्याधिप्रभेदशुभेतरा
कलनमलिना लोकाः शोकातुराश्च भुवं गताः ॥
तदिह मदिभिः क्षुद्रैश्छिद्रैकमार्गणतत्परैः
प्रभुभिरुदितक्षत्यै क्षित्यै बुधः स्पृहयेत कः ? ॥ २६ ॥
मूलम्
कृशानुः-ननु सखे नाकगतोऽपि भवान् न मध्यमलोकं5 नमस्कर्तुमर्हति ॥९&॥
तथाहि
जनन-मरण-क्वाधि-व्याधिप्रभेदशुभेतरा
कलनमलिना लोकाः शोकातुराश्च भुवं गताः ॥
तदिह मदिभिः क्षुद्रैश्छिद्रैकमार्गणतत्परैः
प्रभुभिरुदितक्षत्यै क्षित्यै बुधः स्पृहयेत कः ? ॥ २६ ॥
बाल-कृष्णः
नन्विति विरोधे।“ननु, च स्थाद्विरोधोक्तौ” इत्यमरः । सखे हे विश्वावसो, भवान् नाकगतोऽपि अत्रापिः हेत्वर्थकः। यतः स्वर्गस्थस्तत इत्यर्थः । मध्यमश्चासौ लोकश्च तं भूलोकमिति यावत्। नमस्कर्तुं नार्हति, त्वं नार्हसीत्यर्थः । भवच्छब्दयोगात् “शेषे प्रथमः" इति प्रथमपुरुषः॥९&॥
तथाहि नमस्कारानर्हत्वमेवोपपादयति-जननेति । भुवं गता लोका जनाः, जननं जन्म च “जनुर्जनन-जन्मानि” इत्यमरः । मरणं च क्वाधिः कुत्सितः आधिः मानसी व्यथा च चिन्तेति यावत् । “पुंस्याधिर्मानसी व्यथा। स्याच्चिन्ता-" इत्यमरः । व्याधिप्रभेदा ज्वरादयो नानारोगाश्च शुभेतराणामशुभानां कर्मणामाकलनं आचरणं च तैर्मलिनाः, अत एव शोकेन दुःखेन आतुराः पीडिताः सन्तीति शेषः । न त्वेतावदेव, किंतु राजानोऽपि भूःस्था अविनयमनुसरन्तीत्याह - तदिहेत्यादिना । तत् तस्मात् कारणात् छिद्राणां परकीय दोषाणामेकं मुख्यं यथा स्यात्तथा मार्गणे अन्वेषणे तत्परा आसक्तास्तैः " तत्परे प्रसितासक्तौ " इत्यमरः । अत एव क्षुद्रैः नीचैः मदिभि - वृथाहंकारयुक्तैः । मदशब्दान्मत्वर्थ इनिः । प्रभुभी राजभिः उदिता प्रारब्धा क्षतिर्नाशो यस्याः, अर्थात् अधिककरग्रहणादिद्वारेति ज्ञेयम् । तस्यै क्षित्यै पृथिव्या इत्यर्थः । कः बुधः ज्ञाता; न तु मूर्खः, इह स्वर्गस्थः सन् स्पृहयेत ? न कोपीत्यर्थः । “स्पृहेरीप्सितः" इति चतुर्थी । हरिणी वृत्तम् । " रस- युग- हयैरिछन्ना न्सौ म्रौ स-लौ हरिणी गुरुः" इति तलक्षणात् ॥ २६ ॥
अन्यदपि भूलोकदूषणमाह - बालत्वे इति ।
विश्वास-प्रस्तुतिः
बालत्वे वा तरुणिमनि वा प्रायशो वार्द्धके वा
मृत्वा मर्त्या बत यमभटैर्बद्ध्यमाना6 व्यथन्ते ॥
श्रेयस्तेषाममितविपदां जीवतां वा किमास्ते ?
कस्मिन् ग्रामे पुनरनडुहां कर्षणक्लेशहानिः ॥ २७ ॥
मूलम्
बालत्वे वा तरुणिमनि वा प्रायशो वार्द्धके वा
मृत्वा मर्त्या बत यमभटैर्बद्ध्यमाना6 व्यथन्ते ॥
श्रेयस्तेषाममितविपदां जीवतां वा किमास्ते ?
कस्मिन् ग्रामे पुनरनडुहां कर्षणक्लेशहानिः ॥ २७ ॥
बाल-कृष्णः
प्रायशो बहुधा मर्त्या मनुष्याः । बालत्वे बाल्यावस्थायां वाथवा तरुणस्य भावस्तरुणिमा तस्मिन् तारुण्ये इत्यर्थः । " पृथ्वादिभ्य इमनिज्वा" इति भावार्थे इमनिच्प्रत्ययः । वृद्धस्य भावो वार्द्धकं तस्मिन् वृद्धे वयसीत्यर्थः । “द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः । मनोज्ञादेराकृतिगणत्वात् । मृत्वा, यमभटैर्यमदूतैः कर्तृभिः, बद्ध्यमानाः निजपाशैर्दृढं बद्धा नीयमाना इत्यर्थः । तादृशाः सन्तः व्यथन्ते दुःखिनो भवन्ति । ननु मरणोत्तरं दुःखिनो भवन्ति चेत् भवन्तु नाम, परंतु जीवितकालपर्यन्तं सुखिन एव ते इत्याशङ्कयाहश्रेयस्तेषामित्यादि । तेषां पूर्वोक्तरीत्या दुःखभागिनां जनानां, अमिताः असंख्येया विपदो व्याध्यादिरूपा येषां तेषां जीवतां सतां वाऽपि श्रेयः सुखं किमास्ते ? अपि तु नैवेत्यर्थः । अपि च पुनः अनडुहां बलीवर्दानां कर्षणेन क्षेत्रादिभूम्यां हलाद्याकर्षणेन शकटाद्याकर्षणेन च यः क्लेशो दुःखं तस्य हानिर्विनाशः कर्षणादिक्लेशं विना लोकपूज्यानामपि बलीवर्दानां तृणादिना पोषणमिति भावः । कस्मिन् ग्रामे वर्तते ! अपि तु क स्मिंश्चिदपि नैवेति भावः । तस्मात्स्वर्गस्थसुकृतिजनैर्नायं पापिजनाधिष्ठितो भूलोकः प्रशंसनीय इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लोकटीकायाम् ॥२७॥
विश्वास-प्रस्तुतिः
विश्वावसुः — सत्यमेवं7 तथापि सखे मह्याश्रयं मानुषजन्म मा
दूदुषः8 ॥ १०& ॥
तथाहि9
रामः क्षेमस्य दाता भुवि ननु मनुजो रावणस्य प्रहर्ता
तत्तातः किं न मर्त्यस्त्रिदशकुलपतेर्दैत्ययुद्धे सहायः ॥
कृष्णो वृष्णो मदं योऽहरत नरतया न श्रुतः किं त्वयासौ
के वा10 देवाः प्रभावात् स्वयमतिशयिता मानवाद्दानवा वा ॥ २८॥
मूलम्
विश्वावसुः — सत्यमेवं7 तथापि सखे मह्याश्रयं मानुषजन्म मा
दूदुषः8 ॥ १०& ॥
तथाहि9
रामः क्षेमस्य दाता भुवि ननु मनुजो रावणस्य प्रहर्ता
तत्तातः किं न मर्त्यस्त्रिदशकुलपतेर्दैत्ययुद्धे सहायः ॥
कृष्णो वृष्णो मदं योऽहरत नरतया न श्रुतः किं त्वयासौ
के वा10 देवाः प्रभावात् स्वयमतिशयिता मानवाद्दानवा वा ॥ २८॥
बाल-कृष्णः
एवं कृशानुनोक्तं दूषणमुद्धारयन्नाह विश्वावसुः - सत्यमिति । सत्यमित्यर्धाङ्गीकारे । यत्किंचिद्दूषणसत्त्वेऽपि सर्वथा दूषणानर्हत्वं तस्यार्थः । तदेव द्योतयति हे सखे कृशानो, तथापि यत्किंचिदंशेन दूषणसत्त्वेऽपि, मह्याश्रयं पृथिव्याश्रयं मानुषाणां मनुष्याणां जन्म उत्पत्तिं, मा दू दुषः मा दूषय । ‘दुष वैकृत्ये’ इत्यस्माण्णिजन्ताल्लुङि रूपम् । “णि श्रि - " इति चङ् " चङि " इति द्वित्वम् । " णेरनिटि" इति णिलोपः । " णौ चङि - " इत्युपधाह्रस्वः " दीर्घो लघोः" इत्यभ्यासस्य दीर्घः “न माड्योगे” इत्यडागमाभावः ॥ १०& ॥
‘मानुषजन्म मा दूदुषः’ इत्युक्तं तदेव सहेतुकमुपपादयति - राम इत्यादिना । भुवि क्षेमस्य कुशलस्य " कुशलं क्षेममस्त्रियाम्" इत्यमरः । दाता, रावणस्य प्रहर्ता नाशको रामो दशरथपुत्रः, मनुजो ननु मनुष्य एव । बभूवेति शेषः । ’ रावणस्य प्रहर्ता’ इति हेतुगर्भविशेषणम् । लोककण्टकीभूतरावणविनाशात् लोकानां सुखोत्पादक इत्यर्थः । तथा त्रिदशकुलपतेर्देवसमूहाधिपतेरिन्द्रस्य दैत्ययुद्धे वृषपर्वाख्यदैत्ययुद्धप्रसङ्गे इत्यर्थः । सहायः, तस्य रामस्य तातः पिता दशरथः, मर्त्यः मनुष्यः न किम् ? अपि तु मनुष्य एवेत्यर्थः । तथैव यः नरतया मनुष्यत्वेन " तस्य भावः" इति भावार्थे तल्प्रत्ययः । कृष्णः वसुदेवपुत्रत्वेन प्रसिद्धः, वृष्णः इन्द्रस्य “इन्द्रो मरुत्वान् -" इत्यारभ्य " वासवो वृत्रहा वृषा" इत्यन्तोऽमरः । मदं गर्वं लोकपालत्वाभिमानमित्यर्थः । “दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः" इत्यमरः । अहरत हृतवान्, गोवर्द्धनोद्धरणेनेति भावः । असौ कृष्णः त्वया न श्रुतः किम् ? ‘वृष्णो मदमहरत’ इत्युपलक्षणम् । तेन कंसवध - ब्रह्ममायानिरासादिकान्यन्यान्यपि बहूनि कार्याणि ज्ञेयानि । एवं सति के वा देवाः दानवा दैत्याः वा मानवात् ल्यब्लोपे पञ्चमी । मनुष्यसहायमनपेक्ष्येत्यर्थः । स्वयं प्रभावात् स्वपराक्रमादेव अतिशयिताः संजातोत्कर्षाः ? “ तदस्य संजातं-" इति तारकादित्वादितच् । न केऽपीत्यर्थः । एवं च यत्र एतादृशा देवेभ्योऽपि वीर्यवन्तो मनुष्या बभूवुस्तादृशभूलोकनिन्दनमयुक्तमिति भावः । स्रग्धरा वृत्तम् । लक्षणमुक्तं प्राक् ( १ श्लोकटीकायाम् ) ॥ २८ ॥
ननु राम-कृष्णयोरीश्वरावतारत्वाद्दशरथस्य च रामपितृत्वाद्युक्तमेव तथाविधत्वं, किंतु तावता सर्वेऽपि तादृशा एवेति न शक्यं वक्तुमित्याशङ्कय समाधत्ते-मांधातेति
विश्वास-प्रस्तुतिः
किंच
मांधाता च भगीरथश्च सगरो मान्यः ककुत्स्थो रघुः
पूरुः सोऽपि पुरूरवाः स च शिबिः पुण्यश्च रुक्माङ्गदः ।
वैदेहो नहुषश्च हैहयपतिर्वीरो ययातिर्नलः
पार्थश्चेति नृपाः प्रशस्तयशसः प्रादुर्बभूवुर्न किम् ॥ २९ ॥
मूलम्
किंच
मांधाता च भगीरथश्च सगरो मान्यः ककुत्स्थो रघुः
पूरुः सोऽपि पुरूरवाः स च शिबिः पुण्यश्च रुक्माङ्गदः ।
वैदेहो नहुषश्च हैहयपतिर्वीरो ययातिर्नलः
पार्थश्चेति नृपाः प्रशस्तयशसः प्रादुर्बभूवुर्न किम् ॥ २९ ॥
बाल-कृष्णः
मांधात्रादयो युगान्तरभवा नृपाः ज्ञातव्याः । एतेषां पुण्यचरितानि श्रीमद्भागवते भारते च विद्यन्ते विस्तरतो वर्णितानि । तत्र भागवते नवमस्कन्धे यथा-मांधाता हि सूर्यवंशीयो युवनाश्वनाम्नो राज्ञः पुत्रः । अयं च स्वपितुः कुक्षि भित्त्वैवोत्पन्नः तदा च स्तन्यार्थी रुरोद । तद्रोदनं श्रुत्वा युवनाश्वश्चिन्तयामास-“कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम्” इति । तदा कृपया इन्द्रेणैवमुक्त्वा रक्षितः"मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात्" इति । अस्यैव त्रसदस्युरितीन्द्रेणान्यदपि नामाकारि । तथानेन स्वप्रौढे वयसि स्वपराक्रमात् सर्वाञ्शत्रूनिर्जित्य सार्वभौमत्वं संपादितम् । यज्ञादिपुण्यकर्मभिश्च भगवन्तमतोषयत् । सगरश्वाश्वमेधशतकर्ता आसीत् । शततमेऽश्वमेधे च इन्द्रेणावापहारः कृतः। अनन्तरमस्यैव वंशभवेन भगीरथनाम्ना राज्ञा कपिलमहामुनिकोपदग्धस्वपूर्वजोद्धारकाम्यया तपःप्रभा. वेण सुरनदी ( भागीरथी ) भूलोकमानीता। तथा ककुत्स्थः अयमपि सूर्यवंशीयो विकुक्षिनृपतेस्तनयः अतीव वीर्यवान् स्वपराक्रमादेवान्यान्यन्वर्थनामानि संपादितवान् । तत्प्रकारस्तु यथा-“कृतान्त आसीत्समरो देवानां सह दानवैः । पार्णिग्राहो वृतो वीरो देवैदैत्यपराजितैः ॥ वचनाद्देवदेवस्य विष्णोविश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ स संनद्धो धनुर्दिव्यमादाय विशिखान शितान् । स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः । तेजसाप्यायितो विष्णोः । पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत्रिदशैः पुरम् ॥ तैस्तस्य चाभूप्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयदैत्यान् येऽभिययुर्मधे ॥ तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विस्रस्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् । जित्वा पुरं धनं सर्व सश्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥” इति । एवं च पुरंजयः, इन्द्रवाहनः, ककुत्स्थः , इति नामानि । अत एवात्रास्य मान्य इति विशेषणं दत्तम् । तथैव रघुर्दिलीपसूनुः । अनेन विश्वजिन्नाग्नि यज्ञे सर्वखं ब्राह्मणेभ्यः समर्पितम् । एतन्महाकविश्रीकालिदासकृतरघुवंशे प्रसिद्धम् । ययातिः सोमवंशीयो नृपो यः शुक्रकन्यां देवयानी वृषपर्वसुतां शर्मिष्ठां च परिणीतवान् । तयोर्द्वयोरपि भार्ययोः सुतानुत्पाद्य वार्द्धके च पूरुनान्ने सुताय राज्यं समय तपसे वनं ययौ । पूरुस्तु तत्सुतः, यः शुक्राचार्यदत्तशापसमये स्वपितुर्ययातेर्जरां गृहीत्वा तस्मै स्वतारुण्यं ददौ । पुरूरवा अयमपि सोमवंशीयो बुधसुतः ऐलनामा राजा। यत्सौन्दर्यमोहिता उर्वशी स्वर्लोकात् भूलोकमाययौ । अस्यैव पुत्रो नहुषः । य इन्द्रस्य ब्रह्महत्यादोषावसानपर्यन्तं सुरलोकमशासत् । शिबिः यः स्वमांसं श्येनाय समर्प्य कपोतं शरणागतं ररक्ष । रुक्माङ्गदो नाम भगवतः श्रीविष्णोः परमभक्तः, यः एकादशीव्रतं सर्वराष्ट्रे प्रवर्तयामास । एतद्द्योतनार्थमेव पुण्य इति तस्मै विशेषणं दत्तम् । वैदेहो जनकः, यो राज्यकर्ता सन्नपि देहाद्यासक्तिरहित आसीत् शुक्राचार्यस्य तत्त्वोपदेष्टा च । हैहयदेशानामधिपतिः सहस्रार्जुनः । यस्य श्रीदत्तप्रसादात् बाहुसहस्रं शत्रुभ्योऽपरिभूतत्वं च संप्राप्तम् । अत एव वीरः इति तद्विशेषणं संगच्छते । एते प्रशस्तं स्तुत्यं यशः कीर्तिर्येषां तथाविधा नृपाः राजानः, न प्रादुर्बभूवुः किम् ? अपि तु एवंविधाः शतशो मानवा बभूवुरित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ २९ ॥
एवं तद्वचनं श्रुत्वा पुनरपि एतेषां कृतादिपूर्वयुगभवत्वात्सांप्रतं कलियुगे तच्चरित्रमनुपयुक्तमित्यभिप्रेत्याह कृशानुः-काममिति ।
विश्वास-प्रस्तुतिः
कृशानुः-साङ्गीकारम्
कामं जनाः केऽपि गुणाभिरामाः क्षमातले सन्तु11 युगान्तरेषु ॥
कलौ युगेऽस्मिन् गुणलेशवन्ध्याः सर्वेऽपि खर्वेतरदोषभाजः॥३०॥
किं12 च
मन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥
काले कलौ कलुषतः13 कलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥
मूलम्
कृशानुः-साङ्गीकारम्
कामं जनाः केऽपि गुणाभिरामाः क्षमातले सन्तु11 युगान्तरेषु ॥
कलौ युगेऽस्मिन् गुणलेशवन्ध्याः सर्वेऽपि खर्वेतरदोषभाजः॥३०॥
किं12 च
मन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥
काले कलौ कलुषतः13 कलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥
बाल-कृष्णः
गुणैः सौशील्यादिभिः अभिरामाः मनोहराः केपि अनिर्वाच्याः, पूर्वोक्ता मांधातृप्रभृतयो जनाः लोकाः, युगान्तरेषु एतत्कलियुगादन्येषु कृतादियुगेषु, मयूरव्यंसकादिसमासः । अन्यानि युगानि युगान्तराणीति विग्रहः । क्षमातले पृथ्वीतले, कामं यथेष्टं । “कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम्” इत्यमरः । सन्तु भवन्तु । किंतु अस्मिन् कलौ कलिसंज्ञके युगे, गुणस्य लेशेन लवेन “लव-लेश-कणाणवः” इत्यमरः । वन्ध्या हीनाः, गुणस्य यत्किंचिदंशेनापि रहिता इत्यर्थः । एवंविधाः सन्तः सर्वेऽपि सकला एव न तु केचिदेव । खर्वात् अल्पात् इतरे खर्वेतरे तान् महत इति यावत् , दोषान् भजन्ति सेवन्ते इति तथाभूताः । विद्यन्ते इति शेषः । वृत्तमुपजातिः । लक्षणमुक्तं प्राक् ( ५ श्लोकटीकायाम् ) ॥३०॥
दोषभाक्त्वमेव प्रपञ्चयति मन्देतरेति ।
विश्वास-प्रस्तुतिः
किं च
मन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥
काले कलौ कलुषतः कलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥
मूलम्
किं च
मन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥
काले कलौ कलुषतः कलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥
बाल-कृष्णः
मन्देतरो बहुलश्चासौ स्मरश्च कामः “कामः पञ्चशरः स्मरः” इत्यमरः। तेन मलीमसं मलिनं “मलीमसं तु मलिनं” इत्यमरः। “ज्योत्स्ना-तमिस्रा-” इत्यादिनिपातनात् साधु । मानसं मनो येषां तेषां, तथा मन्युः क्रोधश्च “मन्युर्दैन्ये क्रतौ क्रुधि” इति हैमः । स्पृहा विषयेच्छा च “इच्छा काङ्क्षा स्पृहेहातृट्” इत्यमरः। दुरभिमानः ‘अहं श्रेष्ठः, अहं धनी, अहमेव प्रभुः’ इत्यादिरूपो वृथाहंकारश्च मदो युक्तायुक्तविवेकराहित्यं च तेषां आस्पदानां स्थानभूतानां, अत एव कलौ काले एतस्मिन् पापिनि कलियुगे, कलुषतः प्राक्तनपापकर्मवशादेव, कलितः संप्राप्तः उदयः उत्पत्तिर्येषां तथाभूतानां, दुरीश्वराणां दुष्टनृपाणाम् , दृष्टिदर्शनमपि, दोषाय पापार्थमेव भवति।तादर्थे चतुर्थ्येषा । किमुत स्पर्शन-भाषणादिकम्। एवं च एतादृशजनाधिष्ठिता भूमिर्न खलु प्रशंसनीयेति भावः । वसन्ततिलका वृत्तम् । “उक्ता वसन्ततिलका त-भ-जा ज-गौ गः" इति तल्लक्षणात् ॥ ३१ ॥
एतदपि दूषणमपाकुर्वन्नाह विश्वावसुः-तथापीति ।
विश्वास-प्रस्तुतिः
विश्वावसुः—तथापि सर्वथा14 कलिकालिका अपि मानुषा न दूषणीयाः । यतः सर्वकालमपि15 केचन सन्त्येव साधवः ॥ ११& ॥
पश्य
दुरितभरितक्षीबक्ष्मापप्रसादनिरादराः
कमलनयनस्वैरक्रीडागृहायितहगुहाः ॥
निगमपदवीनिर्वाहाय क्षितावुदिताः स्वयं
कति न कृतिनः संदृश्यन्ते कलावपि निर्मलाः ॥ ३२ ॥
मूलम्
विश्वावसुः—तथापि सर्वथा14 कलिकालिका अपि मानुषा न दूषणीयाः । यतः सर्वकालमपि15 केचन सन्त्येव साधवः ॥ ११& ॥
पश्य
दुरितभरितक्षीबक्ष्मापप्रसादनिरादराः
कमलनयनस्वैरक्रीडागृहायितहगुहाः ॥
निगमपदवीनिर्वाहाय क्षितावुदिताः स्वयं
कति न कृतिनः संदृश्यन्ते कलावपि निर्मलाः ॥ ३२ ॥
बाल-कृष्णः
तथापि त्वदुक्तदोषयुकेषु केषुचिल्लोकेषु सत्वपि, सर्वथा सर्वे इत्यर्थः। कलिकालिकाः कलिकालभवा अपि “तत्र भवः” इत्यधिकारे कालाहञ् । मानुषा मनुष्याः न दूषणीयाः दूषितुं योग्या न भवन्तीत्यर्थः । यतो यस्मात् कारणात् , सर्वकालेऽपि केचन कतिपयाः साधवः सज्जनाः सन्त्येव भवन्त्येव ॥ ११&॥
एतदेवोपपादयति-पश्यति-दुरितेति । दुरितेन पापेन भरितानां पूर्णानां अत एव मद्यादिपानेन क्षीबानां मत्तानां च क्षमापाणां भूमिपानां राज्ञां प्रसादे प्रसन्नतायां निरादरा आदररहिताः। यतः कमलनयनः कमलपत्राक्षः विष्णुः, यद्वा कमलं कुरङ्गं नयति हस्तं प्रापयतीति कमलनयनः शिवश्च “स्यात् कुरङ्गोऽपि कमलं” इत्यमरः । एवं च विष्णोः शिवस्य वा स्वैरक्रीडा स्वेच्छाविहारः तदर्थे गृहायिता गृहवदाचरन्त्यः हृद्गुहा हृदयस्थदहराकाशा येषां ते, सम्यग्ध्यानादिसाधनैरन्तःस्थपरमात्मज्ञानसंपन्ना इत्यर्थः । तेनैव राज्ञः प्रसादेऽपि निःस्पृहाः । अत एव निगमानां वेदानां पदवी मार्गः तस्य निर्वाहाय संरक्षणाय, अर्थात् वेदविहितकर्माद्यनुष्ठानेन तत्सार्थक्यापादनायेत्यर्थः । स्वयं क्षितौ पृथिव्यां उदिता उत्पन्नाः कृतिनः पुण्यवन्तः निर्मलाः शुद्धान्तःकरणाः एतादृशाः सज्जनाः, कलौ युगेऽपि कति न संदृश्यन्ते ? अपि तु
बहवो दृश्यन्त एवेत्यर्थः । हरिणीवृत्तम् । लक्षणमुक्तं प्राक् ( २६ श्लोकटीकायाम् ) ॥ ३२ ॥
स्ववचसि कृशानोः किंचिद्विश्वासवैधुर्यं दृष्ट्वा बदरिकाश्रमादिपुण्यक्षेत्रवर्णनप्रस्तावार्थमाह-अथवेति ।
विश्वास-प्रस्तुतिः
अथवा यदि ते16 मद्वचसि न विस्रम्भस्तर्हि तत्र तत्र संचारमारचय्य तत्तद्गुणदर्शनं करवाव ॥ १२& ॥
मूलम्
अथवा यदि ते16 मद्वचसि न विस्रम्भस्तर्हि तत्र तत्र संचारमारचय्य तत्तद्गुणदर्शनं करवाव ॥ १२& ॥
बाल-कृष्णः
अथवेति पक्षान्तरे । यदि मदीये मदुक्ते वचसि भाषणे न विस्रम्भः विश्वासो नास्ति चेत् , “समौ विस्रम्भ-विश्वासौ” इत्यमरः । तर्हि तत्र तत्र पुण्यक्षेत्रे संचारं गमनं आरचय्य कृत्वा, तत्तद्गुणदर्शनं तत्तत्पुण्यक्षेत्राणां सम्यग्गुणनिरीक्षणं करवाव कुर्वः ॥ १२& ॥