विश्वास-प्रस्तुतिः
अथ सूर्यवर्णनम्॥
अथ पुरतः समापतन्तमरविन्दबान्धवमवलोकयन्नवन्दतागमसा1गरपारदृश्वा2 विश्वावसुः॥
ब्रह्मचर्यव्रतोत्सर्गगुरवे कोकसन्ततेः ॥
छायाविब्बोकलोलाय3 छान्दसज्योतिषे नमः ॥ ७ ॥
कृशानुः-अरे4 सकल भुवनसंशोषकारिणं5 तपनमपि6 किं नमनकर्मीकरोषि ? ॥ १& ॥
मूलम्
अथ सूर्यवर्णनम्॥
अथ पुरतः समापतन्तमरविन्दबान्धवमवलोकयन्नवन्दतागमसा1गरपारदृश्वा2 विश्वावसुः॥
ब्रह्मचर्यव्रतोत्सर्गगुरवे कोकसन्ततेः ॥
छायाविब्बोकलोलाय3 छान्दसज्योतिषे नमः ॥ ७ ॥
कृशानुः-अरे4 सकल भुवनसंशोषकारिणं5 तपनमपि6 किं नमनकर्मीकरोषि ? ॥ १& ॥
बाल-कृष्णः
-अथेति । अथ द्वाभ्यां (कृशानु-विश्वावसुभ्यां) यथायथं स्वानुरूपस्थानस्वीकारानन्तरं, पुरतोऽग्रतः समापतन्तमुदयमानम् अरविन्दबान्धवं सूर्यमवलोकयन्’, आगमानां वेदानां सागरस्य पारमन्तं दृष्टवान् इति तथाभूतः । सकलवेदार्थज्ञातेत्यर्थः । दृश्वेत्यत्र “दृशेः क्वनिप्” इति क्वनिप् प्रत्ययः । विश्वावसुः अवन्दत सूर्यं नमश्चकार । __ तदेवाह-ब्रह्मचर्येति । कोकानां चक्रवाकानां “कोकश्चक्रश्चक्रवाकः " इत्यमरः । संततेः समुदायस्य, ब्रह्मचर्यव्रतस्य मैथुनाभावस्य उत्सर्गस्त्यागः तस्मिन् कर्मणि गुरवे आचार्याय । चक्रवाकानां निशि विरहावस्थासत्त्वात् प्रातः सुरतावसरप्रदायकायेत्यर्थः । छायया सूर्यप्रियया " छाया सूर्यप्रिया कान्तिः” इत्यमरः । यो विब्बोको विलासः “ स्त्रीणां विलास-विब्बोक-" इत्यमरः । तस्मिन् लोलाय सतृष्णाय सोत्सुकायेति यावत् । “लोलश्चल-सत्त इत्यमरः । छान्दसं छन्दसि भवं वेदप्रतिपाद्यमिति यावत् ‘तत्र भवः’ इति भवार्थेऽण् । ज्योतिस्तेजो यस्य सः तस्मै । तथाच श्रुतिः-“विश्वरूपं हरिणं जातवेदसं ज परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानाम सूर्यः” इति । श्रुत्यर्थस्तु-‘विश्वरूपं सर्वरूपं हरिणं किरणवन्तं, जातं वेदो ज्ञानं तज्जातवेदसं जातप्रज्ञमित्यर्थः । परायणं परं उत्तमं अयनं( प्राणानां ) आश्रयभूत चक्षुर्भूतं ज्योतिस्तेजोरूपं तपन्तं तापक्रियया वर्तमानम् । ब्रह्मविदो विदुरिति कोऽसौ यं विदुः तदाह-सहस्ररश्मिरिति । इत्यादि स्पष्टम् ।’ अथवा छान्दसं वितुर्वरेण्यं ” इति गायत्रीच्छन्दःप्रतिपाद्यं ज्योतिर्यस्य तथाभूतः । तथा चान ‘यः सूर्यो नः सर्वेषामस्माकं धियो बुद्धीः प्रेरयति, तस्य जगदुत्पादकस्य सवित प्रसिद्धं वरेण्यं श्रेष्ठं भर्गस्तेजो वयं धीमहि ध्यायेमेत्यर्थः ’ इति । तादृशाय नमः नमस्करोमीति यावत् ‘नमः स्वस्ति’ इत्यादिना चतुर्थी वृत्तमनुष्टुप् ॥ ७
सूर्यं वर्णयन्तं विश्वावसुं दृष्ट्वा जगत्संतापकारित्वं तद्दोषमुद्भाव्याह कृशानु इति । अरे भो विश्वावसो, सकलभुवनानां संशोषणं करोतीति तथाभूतं - जातौ-” इति ताच्छील्ये णिनिः । अत एव तपनं तप्यते अनेन जगदिति तं, करणाधिकरणयोश्च” इति ल्युट । तापरूपमपि सूर्यमित्यर्थः । किं कथं नमनक्रियायाः कर्मरूपं करोषि । तं नमस्करोषीत्यर्थः । अभूततद्भावे च्विः । तस्मिंस्तापकारि सत्त्वात् नमनमयुक्तमिति भावः ॥१& ॥
विश्वास-प्रस्तुतिः
पश्य
पान्थान् दीनानहह वसुमानातपान्धान् विधत्ते
शुष्कां पृथ्वीं रचयतितरां शोषयत्योषधीश्च ॥
कासाराणां हरति विभवं क्लान्तिशान्तिप्रदानाम्7
क्रूरस्यैवं गुणलवकथा का ? स्वतो भास्वतोऽस्य ॥ ८ ॥
मूलम्
पश्य
पान्थान् दीनानहह वसुमानातपान्धान् विधत्ते
शुष्कां पृथ्वीं रचयतितरां शोषयत्योषधीश्च ॥
कासाराणां हरति विभवं क्लान्तिशान्तिप्रदानाम्7
क्रूरस्यैवं गुणलवकथा का ? स्वतो भास्वतोऽस्य ॥ ८ ॥
बाल-कृष्णः
तदेवाह-पश्येति ॥
पान्थानिति । अयं वसुमान् वसवः किरणाः विद्यन्ते अस्येति विग्रहः । “तदस्यास्त्य-” इति मतुप् । किरणवान् सूर्य इत्यर्थः । “रश्मौ वसू रत्ने धने वसु” इत्यमरः । दीनान् अध्वगमनखिन्नान् पान्थान् पथिकान् “पन्थो ण नित्यम्” इति णः । आतपान्धान् आतपेन प्रकाशेन “प्रकाशो द्योत आतपः” इत्यमरः । अन्धान् दृष्टिहीनान् विधत्ते करोति । अहह इति खेदे । एतदतिकष्टमित्यर्थः । दीनान् पान्थान् इत्यनेन दीनानामेव क्लेशाधिक्यं सूचितं, ये तावददीनाः संपत्तिमन्तः, ते तु छत्र-शकटादिसाधनैरातपं दूरीकर्तुं शक्नुवन्ति । तस्मात् दीनानां क्लेशदायित्वं महतामयुक्तमिति भावः । तथा पृथ्वी शुष्कां जलहीनां “शुषः कः” इति निष्ठा तस्य कः। रचयतितरां अतिशयेन करोति । रचयति इत्यस्मात् अतिशयार्थे ‘तिङश्च’ इत्यनेन तरप् , तदन्ताच्च “किमेत्तिङव्यय-" इत्यादिना आमुः। ओषधीः फलपाकानन्तरं नाशवन्तो व्रीहि-यवादयः"ओषध्यः फलपाकान्ताः"इत्यमरः। मनुरपि-‘ओषध्यः फलपाकान्ता बहुपुष्प-फलोपगाः" इत्याह । शोषयति सत्त्वहीनाः करोति च । ननु पान्थानां पथि जलपानप्राप्तेः क्लेशः सुपरिहर इत्याशयः, तदपि दुर्लभमित्याह-कासाराणामिति । क्लान्तिशान्तिप्रदानां श्रमशान्तिकराणां प्रददतीति प्रदाः क्लान्तेः शान्तिप्रदास्तेषामिति विग्रहः “आतश्चोपसर्गे-" इति कः। कासाराणां सरोवराणां “कासारः सरसी सरः” इत्यमरः । विभवं जलरूपमैश्वर्य हरति नाशयति । एवं च दीनानां पथि जलपानमात्रं साधनमपि विनाशयतीति भावः । एवमित्थं स्वभावतः क्रूरस्य निर्दयस्य, अस्य पुरतो दृश्यमानस्य भास्वतः सूर्यस्य “भास्वद्विवस्वत्सप्ताश्व-” इत्यमरः । गुणानां सद्गुणानां लवस्य लेशस्यापि “लव-लेशकणाणवः” इत्यमरः । कथा वार्ता का ? अपि तु नास्तीत्यर्थः । अत्र ‘पान्थान् दीनान् आतपान्धान् विधत्ते’ इत्यादिवाक्यं क्रूरत्वस्य हेतुरूपं, तस्मात् काव्यलिङ्गमलंकारः “काव्यलिङ्गं हेतोर्वाक्यपदार्थता” इति तल्लक्षणात् । मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधि-षडगैर्म्भौ न-तौ ताद्गुरू चेत्” इति तल्लक्षणात् ॥ ८ ॥
एवं तद्वचनं श्रुत्वा न भवता सम्यग्विचारितमित्यभिप्रेत्य सतिरस्कारमाह विश्वावसुः-किमरे इति ।
विश्वास-प्रस्तुतिः
विश्वावसुः-किमरे भगवन्तमरविन्दबान्धवमपि विनिन्दसि8 ? शृणु पुरोभागिन् ॥ २&॥
वृष्टिं घृष्टिभिरारचय्य जगतस्तुष्टिं सरीसर्ष्टि यः
पुष्टिं द्राग् विशिनष्टि दृष्टिषु नृणां ध्वान्तं पिनष्टि स्थिरम् ॥
प्राज्ञानामपवर्गमार्गदममुं पद्मागृहोल्लासिनं
को न स्तौति ? समस्तलोकसुहृदं द्योभूषणं पूषणम् ॥ ९ ॥
मूलम्
विश्वावसुः-किमरे भगवन्तमरविन्दबान्धवमपि विनिन्दसि8 ? शृणु पुरोभागिन् ॥ २&॥
वृष्टिं घृष्टिभिरारचय्य जगतस्तुष्टिं सरीसर्ष्टि यः
पुष्टिं द्राग् विशिनष्टि दृष्टिषु नृणां ध्वान्तं पिनष्टि स्थिरम् ॥
प्राज्ञानामपवर्गमार्गदममुं पद्मागृहोल्लासिनं
को न स्तौति ? समस्तलोकसुहृदं द्योभूषणं पूषणम् ॥ ९ ॥
बाल-कृष्णः
अरे कृशानो, भगं तेजोऽस्यास्तीति भगवान् “ऐश्वर्यस्य समग्रस्य तेजसो यशसः श्रियः । ज्ञान-वैराग्ययोश्चैव षण्णां भग इतीङ्गना" इति। तं, न केवलं तेजोयुक्तमेव, अपि तु अरविन्दबान्धवं अरविन्दानां कमलानां विकासकरणात् बन्धुसदृशं, एतादृशमपि सूर्य निन्दसि? अत एव हे पुरोभागिन् दोषैकदृष्टे, शृणु आकर्णय एतद्वक्ष्यमाणमिति शेषः ॥ २॥
किमाकर्णयेतिचेत्तदाह-वृष्टिमिति । यः सूर्यः घृष्टिभिः किरणैः “वृष्टिर्वराहे रश्मौ च सूर्ये पुंस्यौषधौ स्त्रियाम्” इति शब्दरत्नमञ्जूषायाम् । वृष्टिं वर्षणं आरचय्य कृत्वा, ‘रच प्रतियत्ने’ इत्यस्माणिजन्ताल्यप् “ल्यपि लघुपूर्वोत्” इति रयादेशः । सर्वतः किरणान् प्रसार्येति यावत् । जगतः तुष्टिं तोषं सरीसर्ष्टि अतिशयेनोत्पादयति ‘सृजविसर्गे’ इत्यस्माद्यङ्लुकि लटो रूपम् “रुग्रिकौ च लुकि” इत्यभ्यासस्य रिगागमः । तथा नृणां दृष्टिषु नेत्रेषु “नेत्रमीक्षणं चक्षुरक्षिणी । दृग्दृष्टी” इत्यमरः। द्राक् उदयसमकालमेव “द्राङ् मङ्क्षु सपदि द्रुते” इत्यमरः । पुष्टिं पोषणं विशिनष्टि विशेषेणोत्पादयति ‘शिष्लृ विशेषणे’ इत्यस्माद्रुधादिकाल्लट् । तथा स्थिरं निखिलनिशां व्याप्य स्थितं ध्वान्तमन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं” इत्यमरः। पिनष्टि चूर्णीकरोति विनाशयतीति यावत् । ‘पिष्ट संचूर्णने’ इत्यस्माल्लट् । किंच प्राज्ञानां यथार्थतया तन्माहात्म्याभिज्ञानां पण्डितानां “धीरो मनीषी ज्ञः प्राज्ञः” इत्यमरः । अपवर्गस्य मोक्षस्य “मोक्षोऽपवर्गः’ इत्यमरः। मार्गदं मार्गप्रदातारं, ज्ञानिनो हि सूर्यमण्डलमार्गेण मुक्तिं प्राप्नुवन्ति इति प्रसिद्धिः। तथा च श्रुतिः “अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतद. मृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्ते” इति । “द्वाविमौ पुरुषौ लोकेसूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धैकोऽपरावृत्तमृतः परः” इति स्मृतिश्च । अपि च पद्माया लक्ष्म्या गृहाणि निवासस्थानानि कमलानि तेषामुल्लासं विकासं करोतीति तथाभूतं, ताच्छील्ये णिनिः। एतादृशगुणविशिष्टत्वादेव च समस्तानां लोकानां सुहृदं निरपेक्षतया हितकर, द्योः आकाशस्य “यो-दिवौ द्वे स्त्रियामभ्रं” इत्यमरः । भूषणमलंकारभूतम् अमुं, एवं विशिष्टबहुसद्गुणयुक्तं, पूषणं सूर्यं “विकर्तनार्क-मार्तण्ड मिहिरारुण-पूषणः” इत्यमरः। कः पुरुषः न स्तौति स्तुतिं न करोति ? अपि तु सर्व एव स्तुवन्तीत्यर्थः । ष्टुञ् स्तुतौ’ इत्यस्मात् लट् । “उतो वृद्धिः-” इत्यादिना वृद्धिः। न त्वादृशा एव सर्वे वृथादोषैकदर्शिन इति भावः । अत्र ‘वृष्टिं घृष्टिभिः’ इत्यादौ वर्णसाम्यात् अनुप्रासोऽलंकारः “वर्णसाम्यमनुप्रासः” इति तल्लक्षणात् । तस्यैव वाक्यस्य ‘को न स्तौति’ इत्यस्य हेतुरूपतया च काव्यलिङ्गं, एवमुभौ मिलित्वा संसृष्टिरलंकारः। तदुक्तम्-“सैषा संसृष्टिरेतेषां ( अलंकाराणां) भेदेन यदिह स्थितिः” इति । शार्दूलविक्रीडितं वृत्तम् । लक्षणं प्राक् (२ श्लो० टीकायां) उक्तम् ॥९ ॥
किंच नैतावदेव किंतु अन्यदपि तन्महत्त्वं शृण्वित्याह-यदेति ।
विश्वास-प्रस्तुतिः
यदा न पश्यन्ति तमोविमर्दिनं रविं जनास्तत् कथयन्ति दुर्दिनम् ॥
धिनोति चाम्भोजततिं सरोगतां धुनोत्यसौ देहभृतां सरोगताम् ॥ १० ॥
मूलम्
यदा न पश्यन्ति तमोविमर्दिनं रविं जनास्तत् कथयन्ति दुर्दिनम् ॥
धिनोति चाम्भोजततिं सरोगतां धुनोत्यसौ देहभृतां सरोगताम् ॥ १० ॥
बाल-कृष्णः
जनाः तमः अन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः” इत्यमरः । विमर्दयति नाशयतीति तथाभूतं रविं सूर्यं, यदा न पश्यन्ति, तदा तत् दुर्दिनं दुष्टदिनं कथयन्ति। यदा मेघाच्छादनात् सूर्यस्यादर्शनं भवति, तदा लोकास्तद्दुर्दिनमिति वदन्तीति भावः। तदुक्तममरे’ “मेघच्छन्नेऽह्नि दुर्दिनम्” इति । अपि च असौ सूर्यः सरसि सरोवरे “कासारः सरसी सरः” इत्यमरः । गता स्थिता सरोगता तां, अम्भोजानां कमलानां ततिं समुदायं धिनोति प्रीणयति विकासयतीति यावत् ‘धिवि प्रीणने’ इत्यस्मात् भ्वादेर्लट । ‘धिन्विकृण्व्योरच’ इत्यनेन शब्विषये वकारस्याकार उप्रत्ययश्च । तथा देहं बिभ्रति धारयन्ति ते देहभृतः प्राणिनस्तेषां, रोगेण सहिताः सरोगास्तेषां भावः सरोगता तां, धुनोति नाशयति ‘धुञ् कम्पने’ इत्यस्य रूपम् । “आरोग्यं विसर्गे’ इत्यस्माद्यङ्लुकि लटो रूपम् “रुनिकौ च लुकि” इत्यभ्यासस्य रिगागमः । तथा नृणां दृष्टिषु नेत्रेषु “नेत्रमीक्षणं चक्षुरक्षिणी । हरदृष्टी” इत्यमरः। द्राक उदयसमकालमेव “द्राङ् मङ्क्षु सपदि द्रुते” इत्यमरः । पुष्टिं पोषणं विशिनष्टि विशेषेणोत्पादयति ‘शिष्ल विशेषणे’ इत्यस्माद्रुधादिकाल्लट् । तथा स्थिरं निखिलनिशां व्याप्य स्थितं ध्वान्तमन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं” इत्यमरः। पिनष्टि चूर्णीकरोति विनाशयतीति यावत् । ‘पिष्ट संचूर्णने’ इत्यस्मालट् । किंच प्राज्ञानां यथार्थतया तन्माहात्म्याभिज्ञानां पण्डितानां “धीरो मनीषी ज्ञः प्राज्ञः” इत्यमरः । अपवर्गस्य मोक्षस्य “मोक्षोऽपवर्गः’ इत्यमरः। मार्गदं मार्गप्रदातारं, ज्ञानिनो हि सूर्यमण्डलमार्गेण मुक्तिं प्राप्नुवन्ति इति प्रसिद्धिः। तथा च श्रुतिः “अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतद. मृतमभयमेतत् परायणमेतस्मान पुनरावर्तन्ते” इति । “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । योगनिर्भिन्नमूर्धेकोऽपरावृत्तमृतः परः” इति स्मृतिश्च । अपि च पद्माया लक्ष्म्या गृहाणि निवासस्थानानि कमलानि तेषामुल्लासं विकासं करोतीति तथाभूतं, ताच्छील्ये णिनिः। एतादृशगुणविशिष्टत्वादेव च समस्तानां लोकानां सुहृदं निरपेक्षतया हितकर, द्योः आकाशस्य “यो-दिवौ द्वे स्त्रियामनं” इत्यमरः । भूष. णमलंकारभूत अमुं, एवं विशिष्टबहुसद्गुणयुक्तं, पूषणं सूर्य “विकर्तनार्क-मार्तण्ड मिहिरारुण-पूषणः” इत्यमरः। कः पुरुषः न स्तौति स्तुतिं न करोति ? अपि तु सर्व एव स्तुवन्तीत्यर्थः । ‘टा स्तुतौ’ इत्यस्मात् लद । “उतो वृद्धिः-” इत्यादिना वृद्धिः। न त्वादृशा एव सर्वे वृथादोषैकदर्शिन इति भावः । अत्र ‘वृष्टिं घृष्टिभिः’ इत्यादौ वर्णसाम्यात् अनुप्रासोऽलंकारः “वर्णसाम्यमनुप्रासः” इति तल्लक्षणात् । तस्यैव वाक्यस्य ‘को न स्तौति’ इत्यस्य हेतुरूपतया च काव्यलिङ्गम्, एवमुभौ मिलित्वा संसृष्टिरलंकारः। तदुक्तम्-“सैषा संसृष्टिरेतेषां ( अलंकाराणां) भेदेन यदिह स्थितिः” इति । शार्दूलविक्रीडितं वृत्तम् । लक्षणं प्राक् (२ श्लो० टीकायां) उक्तम् ॥ ९ ॥
किंच नैतावदेव किंतु अन्यदपि तन्महत्त्वं शुण्वित्याह-यदेति । जनाः तमः अन्धकारं “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्र तिमिरं तमः” इत्यमरः । विमर्दयति नाशयतीति तथाभूतं रविं सूर्य, यदा न पश्यन्ति, तदा तत् दुर्दिनं दुष्टदिनं कथयन्ति। यदा मेघाच्छादनात् सूर्य स्यादर्शनं भवति, तदा लोकास्तदुर्दिन मिति वदन्तीति भावः। तदुक्तममरे’ “मेघच्छन्नेऽह्नि दुर्दिनम्” इति । अपि च असौ सूर्यः सरसि सरोवरे “कासारः सरसी सरः” इत्यमरः । गता स्थिता सरोगता तां, अम्भोजानां कमलानां तति समुदायं धिनोति प्रीणयति विकासयतीति यावत् ‘धिवि प्रीणने’ इत्यस्मात् भ्वादेर्लट । ‘धिन्विकृण्व्योरच’ इत्यनेन शब्विषये वकारस्याकार उप्रत्ययश्च । तथा देहं बिभ्रति धारयन्ति ते देहभृत; प्राणिनस्तेषां, रोगेण सहिताः सरोगास्तेषां भावः सरोगता तां, धुनोति नाशयति ‘धुञ् कम्पने’ इत्यस्य रूपम् । “आरोग्यं भास्करादिच्छेत्” इत्याद्यागमात्सूर्यस्यैव रोगनाशकरत्वं प्रसिद्धम् । अत्र प्रतिपादान्ते समानवर्णानां पुनः पुनः श्रवणात् यमकालंकारः । “अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं पाद-तद्भागवृत्ति-” इत्यादितल्लक्षणात् । वंशस्थवृत्तम् । “ज-तौ तु वंशस्थमुदीरितं ज-रौ’ इति तल्लक्षणात् ॥ १० ॥
विश्वास-प्रस्तुतिः
आशापालेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु
प्रायो भूयस्सु जाग्रत्स्वपि च शुचितया भासुरा भूसुराद्याः ॥
यस्मै कालत्रयेऽपि प्रतिदिवसममी कुर्वतेऽर्ध्यप्रदानं
सैषा त्रय्येव विद्या तपति रविमयी सर्वलोकान् पुनाना ॥११॥
मूलम्
आशापालेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु
प्रायो भूयस्सु जाग्रत्स्वपि च शुचितया भासुरा भूसुराद्याः ॥
यस्मै कालत्रयेऽपि प्रतिदिवसममी कुर्वतेऽर्ध्यप्रदानं
सैषा त्रय्येव विद्या तपति रविमयी सर्वलोकान् पुनाना ॥११॥
बाल-कृष्णः
किंच आशापालेष्विति । अमी शुचितया अन्तःकरणशुद्ध्या भासुरा दीप्तिमन्तः ‘भास दीप्तौ’ इत्यस्मात् ‘भञ्ज-भास-मिदो घुरच्’ इति घुरच् प्रत्ययः । भूसुरा ब्राह्मणा आद्याः येषु ते । ब्राह्मण-क्षत्रिय-वैश्या इत्यर्थः । पाशायुधो वरुणश्च “प्रचेता वरुणः पाशी” इत्यमरः । यमश्च बलं बलनामानमसुरं भिनत्तीति बलभिदिन्द्रश्च अत एवामरे तस्य बलारातित्वमुक्तम् “बलारातिः शचीपतिः” इति । “अन्येभ्योऽपि दृश्यन्ते” इति विप् । मारुतो वायुश्च “समीर-मारुत-मरुत्-“इत्यमरः । ईश ईश्वरश्च आदयो येषां अग्नि-निर्ऋति-सोमानां तेषु पाशायुध-यम-बलभिन्मारुतेशादिकेषु । भूयस्सु बहुषु अष्टखित्यर्थः । आशाः दिशः “दिशस्तु ककुभः काष्ठा आशाश्च” इत्यमरः । पालयन्ति रक्षन्तीति आशापालास्तेषु दिक्पालकेषु, जाग्रत्सु स्वस्वाधिकारतत्परेषु सत्स्वपि । ‘जागृ निद्राक्षये’ इत्यस्मात् शतृप्रत्ययः। यस्मैसूर्यायैव प्रतिदिवसं कालत्रयेऽपि प्रातमध्याह्ने सायं चेति त्रिकालमित्यर्थः । प्रायः अर्घ्यस्य प्रदानमर्पणं कुर्वते कुर्वन्ति । ‘डुकृञ् करणे’ इत्यस्माद्वर्तमाने लट् । ‘अत उत्सार्वधातुके’ इति गुणोत्तरमुकारादेशः । “आत्मनेपदेष्वनतः” इति झस्यादादेशः । केचिज्जनाः सूर्यादन्यां देवतामपि भजन्ते, किंतु न सूर्यं विहाय, अपि तु प्रथमं संध्यावन्दनसमये सूर्यायार्घ्यं प्रदायैव भजन्ते, इति ‘प्रायः’ इत्यनेन सूचितम् । संध्यावन्दनमन्तरान्यस्मिन् कस्मिश्चिदपि कर्मण्यनधिकारात् । अर्घ्यप्रदानं हि गायत्रीमन्त्रेण विहितं, स च मन्त्रो वेदत्रयादुद्धृतः, अत एव तस्य त्रिपात्त्वं, तदुक्तं मनुना-“त्रिभ्य एव तु वेदेभ्यः पादं पादमद्दुहत्” इति । यस्मादेवं तस्माद्भगवान सूर्यो वेदत्रयीरूप एवेति संभाव्याहसैषेति ।सा एषा मूर्तिमती रविमयी सूर्यरूपा, सर्वलोकान् पुनाना पवित्रयन्ती सती ‘पूञ् पवने’ इत्यस्मात् शानच् । त्रयी वेदत्रयीरूपा विद्यैव “स्त्रियामृक्साम-यजुषी इति वेदास्त्रयस्त्रयी” इत्यमरः। तपति प्रकाशते। अत्र सूर्ये वेदत्रयारोपात् उत्प्रेक्षालंकारः। स्रग्धरा वृत्तम् । अस्य द्वयस्यापि लक्षणं प्राक् (प्र. १ श्लोकटीकायां) उक्तम् ॥११॥
विश्वास-प्रस्तुतिः
कृतत्रिदशपोषणं कृशरथाङ्गसंतोषणं9
पिशाचकुलभीषणं विहितवारिजोन्मेषणं ॥
विनम्रगदशोषणं विहितवारिजोन्मेषणं
नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥
इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तद्बिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् ॥
मूलम्
कृतत्रिदशपोषणं कृशरथाङ्गसंतोषणं9
पिशाचकुलभीषणं विहितवारिजोन्मेषणं ॥
विनम्रगदशोषणं विहितवारिजोन्मेषणं
नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥
इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तद्बिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् ॥
बाल-कृष्णः
अथेदानीं सामान्यतः सूर्यवर्णनमुपसंहरन् एवंविधमहिमवते भगवते तस्मै नमःस्काराचरणमेव श्रेय इत्यभिप्रयन्नाह-कृतेति ।
विश्वास-प्रस्तुतिः
कृतत्रिदशपोषणं कृशरथाङ्गसंतोषणं
पिशाचकुलभीषणं विहितवारिजोन्मेषणं ॥
विनम्रगदशोषणं विहितवारिजोन्मेषणं
नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥
इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तद्बिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् ॥
मूलम्
कृतत्रिदशपोषणं कृशरथाङ्गसंतोषणं
पिशाचकुलभीषणं विहितवारिजोन्मेषणं ॥
विनम्रगदशोषणं विहितवारिजोन्मेषणं
नमस्कुरुत पूषणं ननु नभःस्थलीभूषणम् ॥ १२ ॥
इत्थं विश्वावसुर्विभावसुमभिष्टुवन् प्राञ्जलिः कृशानुना सह द्वादशात्मानं समया गमयामास विमानम् । आनमच्च तद्बिम्बमध्यधामानमतिमानमहिमानं परमात्मानम् ॥
बाल-कृष्णः
कृतं त्रिदशानां देवानां पोषणं येन तं, “वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिश्रुतिभिस्तावद्वसन्तादिविशिष्टकाले यज्ञादि कर्म विहितं, तस्मिन् कर्मणि समर्पितहविषा देवानां पोषणं भवति । तत्कालनिर्माणं च सर्वथा सूर्याधीनं, तस्मात् देवतानां पोषणमपि सूर्यायत्तमेवेति भावः । कृशाः निशि विरहेणेति शेषः । खिन्नाः ये रथाङ्गाश्चक्रवाकाः तेषां संतोषणमानन्दजनकं “कोकचक्रश्चक्रवाको रथाङ्गाह्वयनामकः” इत्यमरः । तथा पिशाचानां कुलस्य समुदायस्य भीषणं भयोत्पादकम् । पिशाचानामह्नि संचाराभावो हि प्रसिद्धः। तथा पृथुतमश्छटापेषणं तमसः छटा तमसश्छटा पृथ्वी महती या तमश्छटा अन्धकारसमुदायः निबिडान्धकार इति यावत् । तस्याः पेषणं नाशकम् । तथा विनम्राणां अनन्यभक्त्या शरणागतानां गदस्य रोगस्य “रोग-व्याधि-गदामयाः” इत्यमरः। शोषणं निवारकम् । विहितं कृतं वारिजानां कमलानाम् उन्मेषणं विकसनं येन तथाभूतम् । किंच नभः आकाश एव स्थली अकृत्रिमस्थलं “जानपद-कुण्ड-गोण-स्थल’’ इत्यादिना स्थलशब्दात् अकृत्रिमार्थे डीम् । तस्याः भूषणमलंकारभूतं, एतादृशं पूषणं भगवन्तं श्रीसूर्यं, ननु निश्चयेन नमस्कुरुत । यूयं सर्वे जना इति शेषः । अत्र’कृतत्रिदशपोषणं’ इत्यादिवाक्यस्य नमस्करणहेतुत्वात् काव्यलिङ्गमलंकारः। पृथ्वी वृत्तम् “द्वितीयमलिकुन्तले गुरुषडष्टमद्वादशं चतुर्दशमथ प्रिये गुरुगभीरनाभिहदे। सपञ्चदशमन्तिमं तदनु यत्र कान्ते यतिर्गिरीन्द्र-फणभृत्कुलैर्भवति विद्धि पृथ्वीति सा” इति तल्लक्षणात् ॥ १२॥ इत्थं सामान्यतः सूर्य वर्णयित्वा तद्गतविशेषधर्मानुवर्णनार्थ प्रस्तौति कविः-इत्थं विश्वावसुरित्यादिना । इत्थमुक्तप्रकारेण, विश्वावसुः प्राञ्जलिः कृताञ्जलिः सन् , विभावसुं सूर्यं “चित्रभानुर्विभावसुः” इत्यमरः। अभिष्टुवन् तस्य स्तुतिं कुर्वन् सन्, कृशानुना सह । अत्र “सहयोगेऽप्रधाने” इत्यनेन तृतीया । द्वादश आत्मानो मासभेदेन अवयवा यस्य स तं, समया सूर्यस्य समीपमित्यर्थः । “द्वादशात्मा दिवाकरः” इत्यमरः । अत्र “अभितः परितः-समया-निकषा-हा-प्रतियोगेऽपि” इति द्वितीया । सूर्यस्य मासभेदेन द्वादशावयवत्वं “पञ्चपादं पितरं द्वादशाकृति’ इति प्रश्नोपनिषदि भाष्ये श्रीमच्छंकराचार्यैः प्रतिपादितम्-‘द्वादशाकृतिं द्वादश मासा आकृतयोऽवयवा आकारणं वा अवयविकरणमस्य” इति । विमानं गमयामास प्रापयामास । गमयित्वा च किं कृतवांस्तदाह-आनमच्चेति । तस्य सूर्यस्य बिम्बमध्ये मण्डलमध्ये धाम स्थानं यस्य तम् । अतिमानः मानं प्रमाणं अतिक्रान्तः महिमा माहात्म्यं यस्य तं परमात्मानं श्रीनारायणरूपं आनमच्च नमस्कृतवान् । नारायणस्य सूर्यमण्डले स्थितत्वं “ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः” इत्याद्यागमे प्रसिद्धम् ॥
वन्दनप्रकारमेवाह-प्रशस्तेत्यादिना ।
विश्वास-प्रस्तुतिः
प्रशस्तगुणसिन्धवे प्रपदनस्पृशां बन्धवे
स्वतोऽपहतपाप्मने सकलदेहिनामात्मने ।
नमः कमलवासिनीनयनसौख्यसंदायिने10
तमःशमविधायिने तरणिमण्डलस्थायिने ॥ १३ ॥
मूलम्
प्रशस्तगुणसिन्धवे प्रपदनस्पृशां बन्धवे
स्वतोऽपहतपाप्मने सकलदेहिनामात्मने ।
नमः कमलवासिनीनयनसौख्यसंदायिने10
तमःशमविधायिने तरणिमण्डलस्थायिने ॥ १३ ॥
बाल-कृष्णः
प्रशस्ताः स्तुत्याः ये गुणा दया-दाक्षिण्यादयो भक्तारिष्टनिरसनादयो वा तेषां सिन्धुः समुद्रस्तस्मै अपारगुणवते इत्यर्थः । प्रपदनं पादाग्रं तत् स्पृशन्तीति तेषां बन्धवे हितकारिणे । यद्यप्यमरे “पादाग्रं प्रपदं पादः” इति पादाग्रवाची प्रपदशब्द एवोक्तः, न तु प्रपदनशब्दस्तथापि तत्र प्रपूर्वकात् ‘पद गतौ’ इत्यस्माद्धातोः सकाशात् “खनो घ च” इति सूत्रे पित्करणस्यान्यतोऽपि ज्ञापनार्थत्वात् घप्रत्ययः । अत्र तु तस्मादेव ल्युट् प्रत्ययः इयानेव भेदः । अर्थस्त्वेक एवेति ज्ञातव्यम् । पादस्पर्शनं च पूजनादौ भगवन्मूर्तेः। तदुक्तं भागवते “शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्” इति । अथवा प्रकर्षेण पद्यते ज्ञायते अनेन तत्प्रपदनं ज्ञानं तत् स्पृशन्ति संपादयन्ति ते प्रपदनस्पृशो ज्ञानिनः तेषां बन्धवे प्रियाय। भगवान् हि ज्ञानिनामतीव प्रियः । तथा च भगवद्गीतायाम्-“चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन।आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ। तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।” इति “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः” इति च । स्वतः अपहताः नष्टाः पाप्मानो जन्मादयः (जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यति इति ) षड्विकाराः यस्मात् तथाभूताय । तथा सकलदेहिनां सर्वप्राणिनामात्मने आत्मरूपेण हृदि स्थिताय। “हृदि ह्येष आत्मा” “इहैवान्तःशरीरे सोम्य स पुरुषः’, इति श्रुतिः “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” इति श्रीभगवद्गीता च । कमलवासिनी लक्ष्मीः तस्याः नयनसौख्यस्य नेत्रसुखस्य संदायिने प्रदायकाय । तमसः अज्ञानस्य अन्धकारस्य वा शमं शान्तिं विधत्ते करोति तच्छीलः तस्मै । तरणेः सूर्यस्य “द्युमणिस्तरणिर्मित्रः” इत्यमरः । मण्डले बिम्बमध्ये “बिम्बोऽस्त्री मण्डलं त्रिषु’ इत्यमरः । तिष्ठति तच्छीलः तस्मै भगवते नमः । अस्त्विति शेषः । पृथ्वी वृत्तम् । लक्षणं प्राक् (१२ श्लो० टीकायां) कथितम् ॥ १३ ॥
विश्वास-प्रस्तुतिः
पुनः सभक्त्युन्मेषम्
भानुभानुदलदब्जलोचनं भक्तलोकभवपाशमोचनम् ॥
धाम तामरसवासिनीसखं हेमवर्णमिह सौति मे सुखम् ॥ १४ ॥
मूलम्
पुनः सभक्त्युन्मेषम्
भानुभानुदलदब्जलोचनं भक्तलोकभवपाशमोचनम् ॥
धाम तामरसवासिनीसखं हेमवर्णमिह सौति मे सुखम् ॥ १४ ॥
बाल-कृष्णः
पुनः भक्तेः प्रेमपूर्वकानुध्यानस्य “प्रेमपूर्वमनुध्यानं भक्तिरित्यभिधीयते” इत्यागमात् । उन्मेषेण विकासेन सहितं यथा भवति तथा प्राहेति शेषः ॥
भान्विति । भानोः सूर्यस्य भानुभिः किरणैः “भानुर्हंसः सहस्रांशुः” “भानुः करो मरीचिः स्त्री” इत्युभयत्राप्यमरः । दलती विकासमाने ये अब्जे कमले ते इव लोचने यस्य तत्, अत्रोपमावाचकस्येवशब्दस्य लोपात् लुप्तोपमेयम् “वादेर्लोपे समासे सा” इति तल्लक्षणात् । भक्तानां भजकानां लोकः समुदायः तस्य यो भवपाशः संसारपाशः तस्य मोचनं निवारकम् । पुनः कथंभूतम् । तामरसवासिनी कमलनिवासिनी लक्ष्मीः “पङ्केरुहं तामरसं सारसं सरसीरुहम्” इत्यमरः। तस्याः सखि मित्रभूतं इति तत् । “राजाहः-सखिभ्यष्टच्” इति समासान्तष्टच्प्रत्ययः। पुनश्च हेम सुवर्णं “सुवर्ण हेम हाटकम्” इत्यमरः । तत् इव वर्णो यस्य तत् । एतादृशं धाम वैष्णवं तेजः इहेदानीम् इह सूर्यमण्डले वा । मे मम सुखं सौति जनयति उत्पादयतीति यावत्। रथोद्धता वृत्तम् “रान्नराविह रथोद्धता ल-गौ” इति तल्लक्षणात् ॥१४॥
विश्वास-प्रस्तुतिः
कृशा०-किमरे11 केवलं निर्घृणोऽपि नारायणो भवता विवेकलाभवतापि12
स्तवनभाजनीक्रियते ! ॥ ३& ॥
तथाहि
स्वेनादौ निखिलं13 जगद्विरचितं स्वेनैव संरक्षितम्
भिन्दन् हन्त मुकुन्द एष विधृतानन्दो हि निन्दोचितः ॥
उत्पाद्य स्वयमुत्तमान् फलतरूनुल्लास्य चारूदकै
रुन्मत्तोऽपि किमुच्छिनत्ति जगति च्छित्त्वापि किं नन्दति ॥१५॥
मूलम्
कृशा०-किमरे11 केवलं निर्घृणोऽपि नारायणो भवता विवेकलाभवतापि12
स्तवनभाजनीक्रियते ! ॥ ३& ॥
तथाहि
स्वेनादौ निखिलं13 जगद्विरचितं स्वेनैव संरक्षितम्
भिन्दन् हन्त मुकुन्द एष विधृतानन्दो हि निन्दोचितः ॥
उत्पाद्य स्वयमुत्तमान् फलतरूनुल्लास्य चारूदकै
रुन्मत्तोऽपि किमुच्छिनत्ति जगति च्छित्त्वापि किं नन्दति ॥१५॥
बाल-कृष्णः
एवं नारायणवर्णनं श्रुत्वा तत्रापि निर्दयत्वरूपं दोषमुद्भाव्याह कृशानुः-किमरे इति । अरे विश्वावसो, केवलमत्यन्तं निर्घृणो निर्दयो नारायणोऽपि भवता त्वया विवेकस्य सदसद्विवेचनस्य लाभः प्राप्तिर्यस्यास्तीति तथाभूतेनापि सता, स्तवनस्य स्तोत्रस्य भाजनीक्रियते पात्रीक्रियते योग्य इव क्रियत इति यावत् । “योग्य-भाजनयोः पात्रम्” इत्यमरः। किम् ? आश्चर्यमिदमिति भावः । भाजनीक्रियते इत्यत्र अभूततद्भावे च्विः । अभूततद्भावो नाम वर्णनीये वस्तुनि वर्ण्यधर्माभावे सत्यपि तद्धर्मारोपकरणम् । एवं चात्र वस्तुतो निर्दयत्वान्नारायणः स्तवनभाजनमभवन्नपि तदिव कृतः एतदयुक्तमिति कृशानुना सूचितमिति ज्ञेयम् ॥ ३& ॥
तथाहि निर्दयत्वमेवोपपादयति-स्वेनेति । हि यस्मात् कारणात् एषः त्वया स्तवनभाजनीकृतो मुकुन्दो नारायणः, आदौ सृष्टिकाले स्वेन रजोभूयसीं स्वां प्रकृतिमधिष्ठायास्थितचतुर्मुखरूपेण, निखिलं संपूर्णं “समस्त-निखिलाखिलानि निःशेषम्।समग्रं सकलं पूर्णम्” इत्यन्तोऽमरः। जगद्विश्वं विरचितमुत्पादितं, तथा स्वेनैव सत्त्वप्रकृष्टां प्रकृतिमधिष्ठायाविष्कृतविष्णुस्वरूपेण संरक्षितं पालितं, एतादृशमिदं जगत्, पुनः स्वत एव भिन्दन् विनाशयन् तमोगुणप्रचुरां रुद्रतनुमाश्रित्येति भावः। एतावत् कृत्वैव न स विरराम, किंतु पुनर्विधृतानन्दः युक्तं कृतं मयेति मत्वा मोदमान इत्यर्थः। अत एवायं निन्दोचितः निन्दितुं योग्यो न तु स्तोतुं योग्य इत्यर्थः। हन्तेति विषादे । एतदेव लौकिकोदाहरणेन दृष्टान्तयति-उत्पाद्येति । जगति लोके यःकश्चित् उन्मत्तोऽपि, न तु सावधान इति अपिशब्दस्वारस्यम् । स्वयं उत्तमान् फलतरून फलदान् वृक्षान् , उत्पाद्य भूमौ बीजं निक्षिप्य अङ्कुरितान् कृत्वा, अपि च चारूणि वृक्षपोषणपर्याप्तानि च तानि उदकानि जलानि तैः वृक्षपोषणपर्याप्तजलसेचनैरित्यर्थः । (यद्यप्यमरे “सुन्दरं रुचिरं चाऱु” इति चारुशब्दस्य सुन्दरवाचकत्वं, तथाप्यत्र जलस्य वृक्षपोषणेनैव सुन्दरत्वमित्यभिप्रेत्यायमुपरितनोऽर्थः कृत इति ज्ञेयम् ।) उल्लास्य संवर्ध्य, स्वयमेव उच्छिनत्ति किम् ? अपि च छित्त्वापि नन्दति आनन्दं करोति किम् ? अपि तु नैव छिनत्ति नैव नन्दति चेत्यर्थः । यदि लोके साधारणोऽपि जनः “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्” इति नयमनुसृत्य स्वयमुत्पादितस्य स्वत एवोच्छेदकरणमनुचितमिति जानाति, तर्हि यस्त्रिलोकीमुत्पादयति पालयति च, तेन नारायणेनायं नयः किं न ज्ञातुं शक्यः ? अपि तु शक्य एव । तथापि यदायं स्वयमुत्पादितान् लोकान् बुद्धिपूर्वकं विनाशयति, तदायमत्यन्तं निर्घृण एवेति भावः । अत्र प्रकृतवाक्यार्थस्य ‘स्वेनादौ-’ इत्यादेः तद्धटकस्य ‘उत्पाद्य’ इत्यादिवाक्यार्थस्य च बिम्बप्रतिबिम्बभावात्. वैधर्म्येण दृष्टान्तालंकारः। तदुक्तम्-“दृष्टान्तः पुनरेतेषां ( उपमादीनां) सर्वेषां प्रतिबिम्बनम्” इति । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तं प्राक् (२ श्लोकटीकायाम् ) ॥ १५ ॥
विश्वास-प्रस्तुतिः
किंच—
स्वानुज्ञामनवाप्य दर्पभरतः स्वाज्ञां विलङ्घेत य
स्तस्यैवेह तनोति लौकिकनृपश्चण्डोऽपि दण्डं रुषा ॥
अन्तर्याम्यपथे प्रवर्त्य भविनो हन्त स्वयं नारके
यस्तान् पातयति क्रुधा स तु न किं ? नारायणो निर्घृणः ॥१६॥
मूलम्
किंच—
स्वानुज्ञामनवाप्य दर्पभरतः स्वाज्ञां विलङ्घेत य
स्तस्यैवेह तनोति लौकिकनृपश्चण्डोऽपि दण्डं रुषा ॥
अन्तर्याम्यपथे प्रवर्त्य भविनो हन्त स्वयं नारके
यस्तान् पातयति क्रुधा स तु न किं ? नारायणो निर्घृणः ॥१६॥
बाल-कृष्णः
किंच स्वानुज्ञामिति । यः कश्चित् जनः सेवको वा दर्पभरतः गर्वातिशयाद्धेतोः, पञ्चम्यास्तसिल् । स्वस्य (लौकिकनृपस्य) अनुज्ञां संमतिम् अनवाप्य अगृहीत्वा, स्वस्य (लौकिकनृपस्य) आज्ञां विलङ्घेत उल्लङ्घेत, तदा चण्डः अतिकोपयुक्तः “चण्डस्त्वत्यन्तकोपनः” इत्यमरः । अपि, लोके भवः लौकिकः स चासौ नृपश्चेति विग्रहः। लौकिको राजेत्यर्थः । रुषा स्वाज्ञोल्लङ्घनजनितक्रोधेन, तस्यैव आज्ञोल्लङ्घनकर्तुरेव, इह दण्डं शिक्षां तनोति करोति । न त्वन्यस्यानपराधिन इत्यर्थः । योऽयं नारायणस्तु अन्तः मनः यमयति प्रेरयति तच्छीलः अन्तर्यामी । ताच्छील्ये णिनिः । हृदये तिष्ठन् शुभाशुभकर्मप्रेरक इत्यर्थः । “ईश्वरः सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया” इति स्मृतेः । एतादृशः सन् स्वभावत एव भविनः संसारयुक्तान् जनान् अपथे दुर्मार्गे दुष्कर्मणीत्यर्थः । प्रवर्त्य, स्वयमेव तान् दुष्कर्मकर्तृन् जनान् , क्रुधा रोषेण नारके निरये “स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।” इत्यमरः । पातयति । हन्तेति खेदे । सः निर्घृणः निर्दयः न किम् ? अपि त्वत्यन्तं निर्घृण एवेत्यर्थः । अयमाशयः-लौकिकनृपो हि अपराधिनमनपराधिनं च दृष्दैव अपराधिनं दण्डयति, स्वनियमप्रसिद्ध्या च लोकान् नीतिपथमनुशिक्षयति च; अयं (नारायणः ) तु यद्यन्तर्यामी, तर्हि अनेनापि सर्वे लोकाः सन्मार्गे एव प्रवर्तयितव्याः; तथा सति सर्वेऽपि जनाः सत्कर्माणि कृत्वा सद्गतिमेवाप्नुयुः, न कश्चिदपि दुर्गतिं, परं तु तदकुर्वन् यदा दुष्कर्मण्येव प्रवर्त्य दुर्गतिं गमयति तदाऽत्यन्तं निघृण इति । अत्र ‘स्वानुज्ञामनवाप्य-’ इत्यादिवाक्यस्य विवक्षितवचनेन हेतुत्वात् काव्यलिङ्गमलंकारः, उत्तरत्र अपराधकारणाभावेऽपि दण्डकार्यकथनात् विभावनालंकारः । एवं च उभयत्रापि परस्परवाक्यापेक्षणादङ्गाङ्गिभावाच्च द्वावपि मिलित्वा संकरालंकारः । तदुक्तम्-“अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वंतु संकरः” इति। वृत्तं च शार्दूलविक्रीडितम् । लक्षणं (२श्लो०टी०)पूर्वोक्तमेव॥१६॥
विश्वास-प्रस्तुतिः
वि॰–अहो ! तव मतिरतिस्थूला, यतः परमकारुणिकं भगवन्तं पङ्कजवासिनीप्राणनाथमपि स्पृशति तवोपालम्भः । आकर्णयेदम् ॥ ४& ॥
मूलम्
वि॰–अहो ! तव मतिरतिस्थूला, यतः परमकारुणिकं भगवन्तं पङ्कजवासिनीप्राणनाथमपि स्पृशति तवोपालम्भः । आकर्णयेदम् ॥ ४& ॥
बाल-कृष्णः
अथ कृशानुना उद्घाटितं निर्घृणत्वरूपं दोषं परिहरन्नाह विश्वावसुः-अहो इति । अहो इत्याश्चर्यम् । अथवा अहो इति संबोधनार्थम् , हे कृशानो इत्यर्थः । तव मतिः बुद्धिः अतिस्थूला सदसद्विवेकशून्या । कुत इत्यत आह-यतः यस्मात् कारणात् , परमकारुणिकमत्यन्तदयालुं “स्याद्दयालुः कारुणिकः” इत्यमरः । भगवन्तं षड्गुणैश्वर्यसंपन्नं, पङ्कजवासिन्या लक्ष्म्याःप्राणनाथं पतिं नारायणमपि, तव संबन्धी त्वत्कृत इत्यर्थः । उपालम्भो निन्दा स्पृशति परामृशति, तमपि निन्दसीति यावत् । तस्मात् इदं नारायणविषये करुणाप्रतिपादकं वचः, आकर्णय सावधानमनसा शृणु ॥ ४& ॥
विश्वास-प्रस्तुतिः
चिराय संसृत्युदधौ समज्जनं
नमज्जनं मज्जन इत्यधोक्षजः ॥
दयापयोधिः परिगृह्य दुर्लभं
निजं पदं प्रापयति स्वयं प्रभुः ॥ १७ ॥
मूलम्
चिराय संसृत्युदधौ समज्जनं
नमज्जनं मज्जन इत्यधोक्षजः ॥
दयापयोधिः परिगृह्य दुर्लभं
निजं पदं प्रापयति स्वयं प्रभुः ॥ १७ ॥
बाल-कृष्णः
चिरायेति । दयापयोधिर्दयासागरः, अनेन नायं प्राकृतलोक इव केनचित्कारणेन दयाशीलः, किंतु कारणं विनापि स्वभावत एवापरिमितदयाशील इति सूचितम् । अधोक्षजोऽयं नारायणः संसृतिरूपे संसाररूपे उदधौ समुद्रे चिराय बहुकालपर्यन्तं समज्जनं मज्जनेन परिभ्रमणेन सहितं, परं तु संसारदुःखपरिहारायेति शेषः । नमन् भक्तिपूर्वकं नमस्कुर्वंश्चासौ जनो लोकश्च तं, मज्जनः मदीयोऽयं जन इति एवंप्रकारेण स्वयं परिगृह्य स्वीकृत्य, इतिना कर्मणोऽभिहितत्वात् प्रथमा । प्रभुः कर्तुमकर्तुमन्यथा कर्तुमपि समर्थः, दुर्लभं भक्त्या विना दुष्प्रापं, निजमात्मीयं पदं स्थानं वैकुण्ठलोकमित्यर्थः । प्रापयति नयति । अत्र पद्ये पूर्वार्धे अनुप्रासालंकारः’ तच्च वाक्यं निजजनत्वेन स्वीकरणस्य निजपदप्रापणस्य च हेतुरूपं तेन काव्यलिङ्गमलंकारः। एवं चात्र काव्यलिङ्गानुप्रासयोः संसृष्टिः “सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः” इति तल्लक्षणात् । वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् (१० श्लोकटीकायाम् ) ॥१७॥
यदुक्तं ‘नमज्जनं मज्जन इति परिगृह्य निजं पदं प्रभुःप्रापयति’ इति, तदेव कैश्चित् पुराणप्रसिद्धैः तदवतारचरित्रैर्दर्शयति-तत्र तावत् प्रथमं भगवत्कृतं गजेन्द्रमोक्षं कथयति-लीलेत्यादिना ।
विश्वास-प्रस्तुतिः
किंच—
लीलालोलतमां रमामगणयन्नीलामनालोकयन्
मुञ्चन् किंच महीमहीधरमयं मञ्चं हठाद्वञ्चयन् ॥
आकर्षन् द्विजराजमप्यतिजवाद्धा हन्त लोकान्तरात्
गोप्तुं शौरिरुदित्वरत्वर उदैत्14 ग्राहग्रहार्तं गजम् ॥ १८ ॥
मूलम्
किंच—
लीलालोलतमां रमामगणयन्नीलामनालोकयन्
मुञ्चन् किंच महीमहीधरमयं मञ्चं हठाद्वञ्चयन् ॥
आकर्षन् द्विजराजमप्यतिजवाद्धा हन्त लोकान्तरात्
गोप्तुं शौरिरुदित्वरत्वर उदैत्14 ग्राहग्रहार्तं गजम् ॥ १८ ॥
बाल-कृष्णः
किंच ग्राहस्य नक्रस्य “ग्राहोवहारो नक्रस्तु” इत्यमरः। ग्रहात् ग्रहणात् आर्तं पीडितं गजं हस्तिनं “दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतंगजो गजो नागः” इत्यमरः । गोप्तुं रक्षितुं, उदित्वरा आविर्भवन्ती त्वया संभ्रमो यस्य सः। उदित्वरेत्यत्र उत्पूर्वकात् ‘इण गतो’ इत्यस्मात् धातोः सकाशात्"इण-नशजि-सर्तिभ्यःकरप्” इति करप्प्रत्ययः “ह्रस्वस्य पिति कृति-“इति तुक् । शूरस्य वसुदेवस्य अपत्यं शौरिः “अत इञ्” इत्यपत्यार्थे इञ्। कृष्ण इत्यर्थः। लीलया शृङ्गारभावेन “हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः” इत्यमरः । अतिशयं लोला कामतृष्णायुता तां, “लोलश्चल-सतृष्णयोः” इत्यमरः । रमां, लक्ष्मीम् अगणयन् अपश्यन् , नीलां कालिन्दीम् अनालोकयन् तामप्यपश्यन्नित्यर्थः भगवता हि कृष्णावतारे कालिन्दीनाम्न्यास्तपस्यन्त्याः स्त्रियाः स्वीकारः कृतः इति श्रीभागवते दशमस्कन्धे प्रसिद्धम् । यता नीला नाग्नजिती तस्मिन्नेवावतारे परिणीता ज्ञेया । “नीलां नग्नजितः पुत्रीं” इति मणिमञ्जरीकाव्ये तथा दर्शनात् । किंच महीं पृथिवीदेवीं मुञ्चन् त्यजन्, पृथिव्यपि विष्णुपत्नीति “समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यम्-” इत्याद्यागमप्रसिद्धम्। तथा अहीश्वरमयं शेषस्वरूपं मञ्चं शयनं च"शयनं मञ्च-पर्यङ्क-” इत्यमरः। हठात् सहसा वञ्चयन् तिरस्कुर्वन् , अपि च द्विजानां पक्षिणां राजा गरुडस्तं, “राजाहःसखिभ्यः-” इति टच । “दन्त-विप्राण्डजा(पक्षिणः)द्विजाः” इति “गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः” इति चामरः । आकर्षन् भक्तपीडापरिहारार्थं सत्वरं गन्तुमित्यर्थः । लोकान्तरात् वैकुण्ठात् , अतिजवात् अतिवेगेन, उदैत् आगमत् ‘इण् गतौ’ इति धातोः कर्तरि लङ् । हा हन्त इति निपातसमुदायात् भक्तपीडा. परिहारार्थमत्यन्तदयावत्त्वं भगवतः सूच्यते। “हा विषाद-शुगर्तिषु । हन्त हर्षेऽनुकम्पायां” इत्यमरात् । एतेन पद्येन यदि गजस्य पशोरपि भक्तिं दृष्ट्वा तत्त्राणार्थं भगवान् एवं करोति, तदा मनुष्यार्थ कुर्यादित्यत्र किमु वक्तव्यमिति सूचितम् । गजस्येयं कथा महाभारते शान्तिपर्वणि प्रसिद्धा । यथा-चित्रकूटपर्वते एकं परमरमणीयं सरोवरमासीत् । यस्मिन्नेको महानक्रः प्रतिवसति स्म । तस्मिन्नेव सरसि क्रीडार्थं करिणीभिः सह कश्चिन्महागजः समाययौ । स च जले प्राविशत्। तदा स नक्रेण निजास्येन सुदृढं पादे धृतः । तदा गजस्तं नक्रं केनाप्युपायेन निवारयितुमशक्नुवन्ननन्यभावेन भगवन्तं नारायणमेव शरण्यं मत्वा पुष्कराग्रेण सरःस्थमेकं पङ्कजं तस्मै समर्प्य “ॐ नमो मूलप्रकृतये अजिताय महात्मने ।” इत्यत आरभ्य “नमस्ते पुण्डरीकाक्ष भक्तानामभयंकर । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् । तावद्भवति मे दुःखं चिन्ता संसारसागरे । यावत् कमलपत्राक्षं न स्मरामि जनार्दनम् ॥“इत्यन्तं स्तोत्रं जगौ । तदा परमकारुणिको भगवान् सत्वरमुपेत्य ग्राहात् गजममोचयदिति। शार्दूलविक्रीडितं वृत्तम् ॥ १९॥
अथ नृसिंहावतारे कृतं निजभक्तस्य प्रहादस्य रक्षणमाह-वैकुण्ठ इति।
विश्वास-प्रस्तुतिः
वैकुण्ठो महताहताखिलमहारम्भं15 मदेनोच्चकै
श्चण्डं खण्डयितुं हिरण्यकशिपुं वेतण्डमुत्कण्ठया ॥
सैंहं वेषमशेषभीषणमहो गृह्णन् त्वरागौरवात्
प्रहादव्यसनासहिष्णुरुदगादाकण्ठकण्ठीरवः ॥ १९ ॥
मूलम्
वैकुण्ठो महताहताखिलमहारम्भं15 मदेनोच्चकै
श्चण्डं खण्डयितुं हिरण्यकशिपुं वेतण्डमुत्कण्ठया ॥
सैंहं वेषमशेषभीषणमहो गृह्णन् त्वरागौरवात्
प्रहादव्यसनासहिष्णुरुदगादाकण्ठकण्ठीरवः ॥ १९ ॥
बाल-कृष्णः
प्रहादस्य हिरण्यकशिपुपुत्रस्य स्वभक्तस्य व्यसनासहिष्णुः तत्पित्रा दीयमानं दुःखमसहमानः “अलंकृञ्-निराकृञ्-” इत्यादिना इष्णुच् प्रत्ययः। वैकुण्ठोऽयं नारायणः विकुण्ठयति पराभवं प्रापयति शत्रूनिति विकुण्ठः ‘कुठि प्रतिघाते’ इति धातोः “अन्येभ्योऽपि दृश्यन्ते” इत्युणादिसूत्रेणान्प्रत्ययः। विकुण्ठ एव वैकुण्ठः इति विग्रहः । “विष्णुर्नारायणः कृष्णो वैकुण्ठः” इत्यमरः । महता मदेन गर्वेण, हता विनाशिताः अखिलाः सकला महान्तः आरम्भाः तपोयज्ञादिकाः क्रिया येन तं, गजपक्षे तु महता मदेन मदजलेन उपलक्षितं, महान् आरम्भो येषां ते महारम्भाः हताः अखिला महारम्भा उद्यानोपवनादयो येन तं, उच्चकैरतिशयेन चण्डं महाभयंकरं हिरण्यकशिपुं एतद्रूपं वेतण्डं गजं, खण्डयितुं विनाशयितुं, उत्कण्ठया हिरण्यकशिपुरूपगजमारणातिशयवाञ्छया, त्वरायाः शीघ्रतायाः गौरवात् अतिशयेन अतीव शीघ्रमित्यर्थः । अशेषाणां संपूर्णानां (शत्रूणां) भीषणं भयंकरं, सैंहं सिंहसंबन्धिनं वेषं आकारं, गृह्णन् धारयन् , आ कण्ठं कण्ठपर्यन्तं “आङ मर्यादाभिविध्योः” इति समासः । कण्ठीरवः सिंहरूपः सन् अर्थात् नरसिंहशरीरः सन्नित्यर्थः । “कण्ठीरवो मृगरिपुः” इत्यमरः । उदगात् आविर्बभूव । स्तम्भादिति शेषः । अहो इत्याश्चर्ये । ‘इण् गतौ’ इति धातोर्लुङ् “इणो गा लुङि” इति ‘गा’ आदेशः । “गाति-स्था-” इत्यादिना सिचो लुक् । एतत् प्रहादचरित्रं श्रीमद्भागवते सप्तमस्कन्धे प्रसिद्धम् । अत्र पूर्वार्धे ‘हिरण्यकशिपुं वेतण्ड’ इति हिरण्यकशिपावेव गजत्वस्याभेदेनारोपाद्रूपकमलंकारः, उत्तरत्र च ‘अशेषभीषणं’ इत्याद्युक्तेः साभिप्रायत्वात् परिकरालंकारः । “तद्रूपकमभेदो य उपमानोपमेययोः” इति “विशेषणैर्यत्साकृतैरुक्तिः परिकरस्तु सः” इति च द्वयोर्लक्षणातू । द्वावपि मिलित्वा संसृष्टिः । शार्दूलविक्रीडितं वृत्तम् ॥ १९॥
अथेदानी कृष्णावतारे कृतं स्वभक्ताया द्रौपद्याः कौरवसदसि वस्त्रपूरणात्मक भगवच्चरित्रमाह-अन्यञ्चेति ।
विश्वास-प्रस्तुतिः
अन्यच्च
अवेमव्यापाराकलनमतुरीस्पर्शमचिरा
दनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ॥
विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः …
पटानां निर्माणं पतगपतिकेतोरवतु नः ॥ २० ॥
मूलम्
अन्यच्च
अवेमव्यापाराकलनमतुरीस्पर्शमचिरा
दनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ॥
विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः …
पटानां निर्माणं पतगपतिकेतोरवतु नः ॥ २० ॥
बाल-कृष्णः
अवेमेति । विषीदन्त्याः कुरुसदसि दुःशासनकृतवस्त्रापहरणेन दुःखवत्याः पाञ्चाल्याः द्रौपद्याः विपदः वस्त्रापहारकृतदुःखस्य अपनये दूरीकरणे एकःमुख्यःप्रणयः स्नेहोऽस्यास्तीति तथाभूतस्य । मत्वर्थे इनिः । पतगानां पक्षिणां"पतत्रिपत्रि-पतग” इत्यमरः। पतिर्गरुडः केतुर्ध्वजो यस्य तथाभूतस्य भगवतः संबन्धि, भगवत्कर्तृकमित्यर्थः। अवेमव्यापाराकलनं न विद्यते वेम्नः वयनदण्डस्य “पुंसिवेमा वायदण्डः” इत्यमरः। व्यापारस्य आकलनं स्वीकरणं यस्मिन् तत् वयनदण्डग्रहणरहितमित्यर्थः । तथा न विद्यते तुर्याः तन्तुवेष्टनसूक्ष्मदारुविशेषस्य स्पर्शो यस्मिंस्तत्तुरीस्वीकाररहितमपीति यावत् । तथैव च अनुन्मीलत्तन्तुप्रकरघटनायासं अनुन्मीलन् अप्रकटीभवन् तन्तुप्रकरघटनायाः वस्त्रसंबन्धिसूत्रसमूहरचनायाः।“सूत्राणि नरि तन्तवः” इत्यमरःआयासो यत्नो यस्मिन् तत् । अचिरात् शीघ्रम्,असकृत् वारंवारंच पटानां वस्त्राणां निर्माणं उत्पादनं नोऽस्मान् अवतु रक्षतु । एतच्चरित्रं श्रीमहाभारते सभापर्वणि विस्तरेण वर्णितम्।तच्च सर्वे जानन्त्येव परं च तत्समये द्रौपद्या कृतः कृष्णस्तवः प्रेमभकियुतत्वात् , भगवत्कृतपटनिर्माणप्रकारश्चात्र लिख्यते । यथा-“आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय ॥ कौरवैः परिभूतां मां किं न जानासि केशव। हे नाथ ! हेरमानाथ ! ब्रजनाथार्तिनाशन ॥कौरवार्णवमग्नां मामुद्धरस्व जनार्दन । कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ॥ प्रणतां पाहि. गोविन्द कुरुमध्येऽवसीदतीम् । इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ॥ प्रारुदद्दुःखिता राजन् मुखमाच्छाद्य भामिनी । याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत् ॥ त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् । आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते । तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ नानाराग-विरागाणि वसनान्यथ वै प्रभो” इति । अत्र ‘अवेमव्यापाराकलनम्’ इत्यादिना पटनिर्माणकारणाभावेऽपि कार्यकथनाद्विभावनालंकारः। तदुक्तम्-“क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना” इति । वृत्तं शिखरिणी “रसै रुदैश्छिन्ना य-म-न-स-भ-ला गः शिखरिणी” इति तल्लक्षणात् ॥ २०॥
सांप्रतं रामावतारप्रसिद्धानि भगवतः कानिचिञ्चरित्राणि वर्णयति-अपरं चेति ।
विश्वास-प्रस्तुतिः
अपरं च
काकः शोकं व्यसृजदमितं16 वृद्धगृध्रोऽप्यनेकान्
लोकान् लेभे कुशलमगमन्निर्विषादं निषादः ॥
राज्यं प्राप्तौ कपि-निशिचरौ राघवत्वे मुरारेः
पारे वाचां जयति करुणा पश्य पद्मासखस्य ॥ २१ ॥
मूलम्
अपरं च
काकः शोकं व्यसृजदमितं16 वृद्धगृध्रोऽप्यनेकान्
लोकान् लेभे कुशलमगमन्निर्विषादं निषादः ॥
राज्यं प्राप्तौ कपि-निशिचरौ राघवत्वे मुरारेः
पारे वाचां जयति करुणा पश्य पद्मासखस्य ॥ २१ ॥
बाल-कृष्णः
काक इति । मुरारेर्मुरनामकदैत्यशत्रोर्नारायणस्य, राघवत्वे रामावतारे, काकः एतद्रूप. इन्द्रपुत्रो जयन्त इत्यर्थः । अमितं अतिशयितं शोकं दुःखं व्यसृजत् तत्याज । तद्वृत्तं हि रामायणे इत्थं-चित्रकूटपर्वते कदाचित् सीताया उत्सङ्गे शिर आधाय भगवान् रामः सुध्वाप, तदैवेन्द्रलोकात् काकरूपधरो जयन्त आगत्य निजनख-तुण्डैः सीतायाः पादाङ्गुष्ठं विदारयामास, सा च भर्तृनिद्राभङ्गभिया पादं न चालयामास । अनन्तरं प्रबुद्धो रामस्तादृशीं प्रियां सीतां दृष्ट्वा काकं च असकृदुत्पतन्तं दृष्ट्वा, तस्यैवायमपराध इति ज्ञात्वा, एकं दर्भखण्डं संमन्त्र्य तस्मिन् मुमोच । तदा शरणार्थी स काको ब्रह्मादिदेवान् प्रति जगाम, परं तु रामप्रभावाभिज्ञास्ते तं रक्षितुं नाशक्नुवन् । तदा स राममेव शरणमाययौ, शरण्यो रामश्च अमोघास्त्रत्वात् तस्यैकं नेत्रमपहृत्य तं ररक्ष इति । तथा वृद्धगृध्रोऽपि अनेकान् बहून् लोकान् वैकुण्ठादीन् लेभे प्राप्तवान् ‘डुलभष प्राप्तौ’ इत्यस्माल्लिट् । “अत एकहल-" इत्यादिना एत्वाभ्यासलोपौ । अयं गृध्रोपि दशरथसखः परमभक्तश्च रामस्य, अनेन सीताहरणसमये रावणेन सह बहु युद्धं कृतं, परं च रावणास्त्रव्यथितः स रामदर्शनाकांक्षी विपिने न्यपतत् । ततो रामेणापि सीतां विचिन्वता स्वकरस्पर्शात् कृपया स्वं धाम प्रापितः इति । तथा निषादः कश्चित् गुहनामा श्वपचः “निषाद-श्वपचावन्तेवासिचाण्डाल-पुक्कसाः" इत्यमरः । निर्विषादं दुःखरहितं कुशलं क्षेमं “कुशलं क्षेममस्त्रियाम्” इत्यमरः । अगमत् प्राप्तः । गमधातोर्लुङ् लूदित्त्वादङ् । अयमपि रामभक्तस्तत्कृपया दुःखान्मुक्त इत्यपि रामायणे प्रसिद्धम् । तथा कपि-निशिचरौ सुग्रीवविभीषणौ वानर-राक्षसौ राज्यं प्राप्तौ, तस्यैव कृपयेति शेषः । तस्मात् पद्मासखस्य लक्ष्मीप्रियस्य नारायणस्य करुणा दया वाचां पारे वाणीमतिक्रम्येत्यर्थः । जयति सर्वोत्कर्षेण वर्तते । पश्य अवलोकय । अत्र वाक्यार्थः कर्म । ‘लीलालोलतमां-’ इत्यादिश्लोकचतुष्टयेनैतत्सूचितं भगवतस्तावद्भक्तिं विना न किंचिदपि प्रियं, तस्मात् भक्तिं कुर्वाणा जनाः केऽपि सन्तु न तेषु अल्पत्व-महत्त्व-स्त्रीत्व-पुरुषत्वादिविवक्षा, नापि मनुष्यत्वपशुत्वादिविचारः, किंतु भक्तिप्रभावात् सर्वेऽपि समाना इति भावः । तदुक्तं स्वयं भगवतैव गीतायाम्-“मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शुद्रास्तेऽपि यान्ति परां गतिम् ॥” इति । किंच भक्त्या प्रसन्नो भगवान् भक्तान् प्रति यद्ददाति न तल्लक्ष्मी-ब्रह्मादयोऽपि लब्धुं शक्नुवन्ति । तदुक्तं श्रीमद्भागवते यशोदाकृतश्रीकृष्णबन्धनसमये-“नेमं विरिञ्चो न भवो न श्रीरप्यङ्गसंश्रया । प्रसादं लेभिरे गोपी यत्तत् प्राप विमुक्तिदात् ॥ नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मभूतानां यथा भक्तिमतामिह ॥” इति । तस्मादेतस्मिन्नैघृण्यारोपो न युज्यत इति भावः । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् (८ श्लोकटीकायाम् ) ॥ २१ ॥
विश्वास-प्रस्तुतिः
तदेवं देवपरिवृढे17 दयापयोनिधावपि18 उपन्यस्तं नैपुण्यं तव तावदनैपुण्यमपुण्यफलं बुद्धेः पिशुनयति ॥ ५&॥
मूलम्
तदेवं देवपरिवृढे17 दयापयोनिधावपि18 उपन्यस्तं नैपुण्यं तव तावदनैपुण्यमपुण्यफलं बुद्धेः पिशुनयति ॥ ५&॥
बाल-कृष्णः
तदेवाह-तदेवमित्यादिना । तत् वस्तुतो भगवतः अपरिमितदयावत्त्वाद्धेतोः देवपरिवृढे देवानां प्रभौ “प्रभुः परिवृढोऽधिपः” इत्यमरः। दयापयोनिधौ दयासागरेऽपि एवं ‘स्वेनादौ निखिलं जगद्विरचितम्-’ इत्यादिप्रकारेणोक्तं उपन्यस्तमारोपितं नैघृण्यं निर्दयत्वं कर्तृ, तावत् तव बुद्धेः अपुण्यस्य पापस्य फलं, अनैपुण्यं च सूक्ष्मविचारराहित्यं मूढत्वमिति यावत् । पिशुनयति सूचयति । भगवत्खरूपयाथार्थ्यविचारोऽपि बुद्धौ प्राक्तनपुण्यकर्म विना न स्फुरति । तदुक्तं भगवद्गीतायां योगभ्रष्टगतिनिर्णयप्रसङ्गे-“शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् । तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ॥” ॥ इति ॥ ५&॥
नन्वेतावतापि जगत्संहरणरूपस्य नरकपातरूपस्य च दूषणस्य न तावत् परिहारः, भक्तस्य सद्गतिप्रापणं तु न खलु विशिष्टगुणापादकं, निर्दयेष्वपि स्वीयरक्षणस्य तत्सुखप्रदानस्य च संभवादित्याशङ्कयाह-शृणु तावत्-जीवानामित्यादि ।
विश्वास-प्रस्तुतिः
शृणु तावत्—
जीवानां दृषदादिमत्त्वमयतां19 वर्गापवर्गास्पदं
देहं दत्तवति श्रियः प्रियतमे नैवोपकारस्मृतिः ॥
दुःखे जातुचिदागते स्वकलिताद्दुष्कर्मणः पक्त्रिमा-
न्नाथे हन्त निरागसि व्यसनिभिर्नैर्घृण्यमारोप्यते॥२२॥
हन्त जन्तवः पामराः स्वापराधं परमकारुणिके परस्मिन् ब्रह्मण्यध्यस्यन्ति20 ॥ ६&॥
मूलम्
शृणु तावत्—
जीवानां दृषदादिमत्त्वमयतां19 वर्गापवर्गास्पदं
देहं दत्तवति श्रियः प्रियतमे नैवोपकारस्मृतिः ॥
दुःखे जातुचिदागते स्वकलिताद्दुष्कर्मणः पक्त्रिमा-
न्नाथे हन्त निरागसि व्यसनिभिर्नैर्घृण्यमारोप्यते॥२२॥
हन्त जन्तवः पामराः स्वापराधं परमकारुणिके परस्मिन् ब्रह्मण्यध्यस्यन्ति20 ॥ ६&॥
बाल-कृष्णः
दृषत् पाषाणः “पाषाण-प्रस्तर-ग्रावोपलाश्मानः शिला दृषत्” इत्यमरः। आदिमः प्रथमो येषां ते दृषदादिमाः देहाः तेषां भावः दृषदादिमत्त्वं पाषाण-तरु-पश्वादिदेहत्वमित्यर्थः । अयतां प्राप्नुवतां अय गतौ’ इत्यस्मात् शतृ प्रत्ययः। अयं धातुर्यद्यप्यात्मनेपदी, तथापि चक्षिडो डित्करणात् ज्ञापकात् अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् साधुः । यद्वा ‘इट किट कटी गतौ’ इत्यत्र प्रश्लिष्टस्य इधातोः शतृप्रत्यय इति समाधेयम् । अत एव ‘उदयति विततोलरश्मिरज्जौ’ इति माघः, ‘उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः’ इति मृच्छकटिके शूदकश्च प्रयुक्तवान् । अर्थात् प्राक्तनस्वकर्मवशादिति ज्ञेयम् । एवं हि शरीरप्राप्तिर्भवति-“योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम्” इति श्रुतिप्रसिद्धम् । एतादृशां जीवानां स्वर्गश्च अपवर्गो मोक्षश्च “मोक्षोऽपवर्गोऽथाज्ञानम्-” इत्यमरः । तयोः आस्पदं संपादकदेहं मनुष्यदेहं नैसर्गिकस्वकीयापरिमितकृपयेति शेषः । दत्तवति श्रियो लक्ष्म्याः प्रियतमेऽस्मिन्नारायणे विषये, उपकारस्य एतादृशश्रेयःसंपादकदेहप्रदानरूपस्य, स्मृतिः स्मरणं नैव । भवतु नाम न हि तावत्तादृशविस्मरणं भवति, परं च न ह्येतावदेव, किंतु तस्मिन्निरुपमकृपालौ दोषारोपं कुर्वन्तीत्याह-दुःखे इति । जातुचित् कदाचित् , “कदाचिज्जातु सार्धं तु” इत्यमरः । स्वकलितात् स्वकृतात् दुष्कर्मणः पापकर्मणः पक्त्रिमात् फलाभिमुखात् ‘डुपचष्पाके’ इत्यस्मात् “ड्वितः किः" इति क्रिप्रत्ययः । तस्य च ‘कैर्मन्नित्यम्’ इति मप् । दुःखे आगते प्राप्ते सति, व्यसनं स्वपापकर्मजनिता विपत् अस्ति येषां ते व्यसनिनः तैः, अर्थात् विपद्युक्तैर्जनैरित्यर्थः । “व्यसनं विपदि भ्रंशे दोषे कामजकोपजे” इत्यमरः । निरागसि एतादृशदुःखप्रदानविषये निरपराधे “आगोऽपराधो मन्तुश्च" इत्यमरः । निरपराधे एतावदेव नैव, प्रत्युत नाथे सर्वेषामधिपतौ नारायणे, न हि योऽधिपतिः स दुःखप्रदानशील इति भावः । तस्मिन्नपि निर्घृणस्य भावः नैर्घृण्यं निर्दयत्वमिति यावत् । आरोप्यते। हन्त एतदतिकष्टमित्यर्थः । अत्र नारायणे दुःखारोपस्य दुःखप्राप्तिकारणस्य च अत्यन्तविलक्षणत्ववर्णनात् विषमालंकारः “क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात्” इत्यादितल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ २२ ॥
‘व्यसनिभिर्नैघृण्यमारोप्यते’ इति यदुक्तं तदेव स्पष्टयति-हन्तेति । पामराः वास्तविकदुःखकारणानभिज्ञत्वात् नीचाः, जन्तवः प्राणिनः स्वेषां अपराधं दुःखापादनरूपं, करुणा एव शीलमस्य कारुणिकः “शीलम्" इति ठक् । परमश्चासौ कारुणिकश्च तस्मिन् परस्मिन् इन्द्रियादिसंघात् परे, ब्रह्मणि ब्रह्मरूपे नारायणे अध्यस्यन्ति । आरोपयन्ति । हन्तेति खेदे ॥ ६&॥
यदुक्तं कृशानुना ‘स्वेनादौ निखिलं जगद्विरचितं’ इत्यादिना एवोत्पादितजीवानां स्वेनैव नाशकरणरूपं दूषणं तत्परिहारं सदृष्टान्तमाह
तथाहि
क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च ।
स्वानर्थं बत जन्तुरार्जयति चेन्मन्तुर्नियन्तुः कुतः ॥
शस्त्रे शत्रुजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत्
पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः? ॥२३॥
किंबहुना ॥ ७&॥
बाल-कृष्णः
तथाहि-क्लेशेति । जन्तुः जीवः कर्ता “प्राणी तु चेतनो जन्मी जन्तु-जन्यु-शरीरिणः” इत्यमरः । जातावेकवचनम् । सर्वे प्राणिन इत्यर्थः । क्लेशानां आध्यात्मिकाधिदैविकादिसांसारिकतापानां त्यागकृते नाशार्थे न तु कामाद्यासक्ततया संपादनार्थं, कामाद्यासक्तानां क्लेशहानिस्तु नैव, अपि तु तदधिकप्राप्तिर्भवति । तदुक्तम्–“न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥” इति । कृते इत्यव्ययं तादर्थे “अर्थे कृतेऽव्ययं तावत् तादर्थे वर्तते द्वयम् ।” इति कोशसारः । अर्पितेन समर्पितेन, एतदुभयान्वयि । करणानां चक्षुरादीन्द्रियाणां व्यूहेन समूहेन देहेन शरीरेण च करणेन, स्वस्य आत्मनः अनर्थ विषयासक्ततया दुःखं आर्जयति संपादयति चेत् , नियन्तुः ईश्वरस्य मन्तुः अपराधः, कुतो भवति ? अपि तु नैव भवतीत्यर्थः । क्लेशत्यागार्थ करणानामुपयोगप्रकारः प्रोक्तः श्रीमद्भागवते-“वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥” इति। “सा वाग्यया तस्य गुणान् गृणीते हस्तौ च तत्कर्मकरौ मनश्च ।” इत्यादि च । स्वोक्तेऽर्थे दृष्टान्तमाह-शस्त्रे इत्यादिना । नैजगुरुणा स्वपित्रा शत्रूणां रिपूणां जयाय पराजयाय “रिपौ वैरिसपत्नारि-द्विषद्वेषणदुहृदः । द्विड्विपक्षाहितामित्र-दस्यु-शात्रव-शत्रवः ॥” इत्यमरःशस्त्रे खजायने दत्ते समर्पिते सति, अर्थात् शस्त्रविद्यामध्याप्येति यावत् । अथ अनन्तरं “मङ्गलानन्तरारम्भप्रश्न-कार्त्स्न्येष्वथो अथ” इत्यमरः । पुत्रः तेनैव पितृदत्तेनैव शस्त्रेण, निजं खीयमेव वपुः शिरआदिशरीरं, हन्ति छिनत्ति चेत् यदि “पक्षान्तरे चेद् यदि च” इत्यमरः। तु तर्हि तत्र पितृ-पुत्रयोर्मध्ये, रे हे कृशानो, अपराधी कः? कथय । अनेन शस्त्रदृष्टान्तेनैतत्सूचितं-यथा तावत् शस्त्रसमर्पणेन पुत्रनाशे सति तत्र पिता नापराधी, तथा ईश्वरोऽपि क्लेशनाशक्षमं शरीरं समर्प्य, तेनैव जन्तुभिः क्लेशोत्पादने कृते अन्तर्यामी सन्नपि तत्र न दूषणार्हः, कुतः एतादृशक्लेशनाशकशरीरसमर्पयितुः क्लेशकरत्वाभावात् । किंतु जीवा एव तादृशाः, ईश्वरस्तु दयालुरेवेति नेयम् । दृष्टान्तालंकारः। वृत्तं शा० वि॰ ॥ २३ ॥ किंबहुना अधिकेनोक्तेन किमित्यर्थः ॥ ७&॥
किंतु सारांशतया यत् कथयामि तच्छृण्वित्याह-शास्त्रमिति ।
विश्वास-प्रस्तुतिः
शास्त्रं भूरि निजस्वरूपमतये स्वाराधनार्थं वपुः
स्वध्यानाय मनश्च बुद्धिमनघां21 लब्धुं च तीर्थादिकम् ॥
तत्त्वान्यप्युपदेष्टुमुत्तमगुरून् दत्त्वाऽनुगृह्णाति नः
संसारे तदपि भ्रमेम यदि किं कुर्वीत ? सर्वेश्वरः ॥ २४ ॥
मूलम्
शास्त्रं भूरि निजस्वरूपमतये स्वाराधनार्थं वपुः
स्वध्यानाय मनश्च बुद्धिमनघां21 लब्धुं च तीर्थादिकम् ॥
तत्त्वान्यप्युपदेष्टुमुत्तमगुरून् दत्त्वाऽनुगृह्णाति नः
संसारे तदपि भ्रमेम यदि किं कुर्वीत ? सर्वेश्वरः ॥ २४ ॥