+विश्व-गुणादर्शः

विश्वगुणादर्शः

बाल-कृष्णः

तत्र व्याख्यारम्भः

श्रीमद्-ब्रह्म सनातनं श्रुतिनुतं ध्यानैकगम्यं सदा
सर्गाद्यस्य विधायकं त्रिजगतो मोदावहं यत् सदा ॥
सच्चिद्-रूपतया यद्-अर्थनिचयं व्याप्नोति तेजोमयं
भूयात् तत् त्रिविधार्तिहारि जगतां श्रीवासुदेवाभिधम् ॥ १ ॥

नमामि देवीं कुलदेवताम् अहं
ब्रह्मादि-देवैर् अभिसंस्तुतां मुहुः ॥
महादल-ग्राम-कृताधिवासां1
महालसाख्यां प्रकृतिं गुणात्मिकाम् ॥ २ ॥

‘महाडदळ’ इति महाराष्ट्रभाषायां प्रसिद्धः

यत्-सूक्ति-धारा-सुनिषेचनेन
मद्धी-लता पल्लविता बभूव
स्मरामि तं श्रीगुरु-वेङ्कटाख्यं
विनम्र-मूर्द्धा कृतहस्तसंपुटः ॥ ३ ॥

श्रीगणेशं च पितरं
विद्वांसं स्वः-स्थितं भजे
अवस्थां मातरं चैव
जयन्तीं जननप्रदाम् ॥ ४ ॥

गुरु-प्रसाद-संलब्ध-
व्याकृति-ज्ञान-कौशलः ॥
काव्यं विश्वगुणादर्शं
व्याकरोमि यथामति ॥ ५ ॥

बाल-कृष्णः

तत्र व्याख्यासमाप्तिः

इति विशदमनीषा-शालिना यज्वना वा
विरचित इह काव्ये वेङ्कटाचार्य-नाम्ना ॥
कृशतर-मति-युक्तेनापि टीका कृतेयं
सुगुण-सुकरुणास् तां पण्डिता मानयन्ताम् (←मनुँ अवबोधने)॥ १ ॥

श्रेयः संप्रति संचिनोतु भगवान् श्रीमद्गणेशः प्रभुर्
दूने(←दु–उपतापे) देवगणे, द्विजक्रतुचये ध्वस्ते च दैत्यार्तितः ॥
आविर्भूय तदा तदार्तिहरणौत्सुक्याद् भवानीपतेर्
दैत्येन्द्रं परिभूय सिन्दुरम्, अथो देवान् व्यधान् निर्वृतान् ॥ २ ॥

नमामि कमलालया-परिचिताङ्घ्रिम् आनन्द-दं
प्रभुं मुनिजन-स्तुतं भुजग-शायिनं श्यामलम् ॥
करोतु जनमङ्गलं हरतु पाप-संघं नृणां,
स्वधर्म-रतिम् अन्तरे जनयतु स्वभूः सर्वदा ॥ ३ ॥

जयति भगवान् भर्ता देव्याः शिवः शिवदः सतां
श्रुति-पथम् आरुन्धन् सर्वे यदा सुगतादयः ॥
यतिवर-तनुं धृत्वा बुद्धान् विजित्य च यस् तदा
श्रुतिहितम् अथो संविन्-मार्गं निरञ्जनम् अन्वधात् ॥४ ॥

अस्ति कृष्णापगा-सङ्गात्
पावनी लोकरञ्जनी ।
राजधानी सुविख्याता
पट्ट-वर्धन-भूभृताम् ॥ ५ ॥

कुरुन्द-वाट-नगरं
कीर्तिमत् तत्र विद्यते ॥
श्रीमान् गणपतिस् तस्य
पुरस्याधिपतिर् महान् ॥ ६ ॥

तस्याश्रये पुरातिष्ठद्
योगिवंशावतंसकः ॥
गणेश-पण्डितः प्रज्ञा-
शाली सत्-कर्म-पेशलः ॥ ७ ॥

तत्-सुतो ह्य् अकरोद् एतद्
व्याख्यानं बालतुष्टये ॥
इन्दु-नेत्र-वसु-क्षोणी-
मिते (१८२१ ) शाके ह्य् अपूरि तत् ॥ ८ ॥ -

इति
श्रीमत्-पद-वाक्य-पारावारीण-श्रीमद्-योगिकुलावतंस-
श्रीमद्-गणेश-सूरि-सूनुना बाल-कृष्ण-शर्मणा विरचिता
पदार्थ-चन्द्रिकाख्या श्रीविश्वगुणादर्श-चम्पू-व्याख्या समाप्तिमगात् ॥

सम्पादकटिप्पनी

अकिञ्चनःकश्चिदकरोत् मुद्रिताक्षरशोधनम् ।
ग्रन्थे विश्वगुणादर्शनाम्नि शोभनवत्सरे ॥
दोषाः स्युः शोधने कार्ये क्षमन्तां बुधतल्लजाः ।
विनैव याच्ञां क्षमते श्रीहरिर्नात्र संशयः ॥

(गॊरूरु-श्रीनिवास-मूर्तिः)


  1.  ↩︎