[[सावित्रीपरिणयचम्पू Source: EB]]
[
श्रीरस्तु.
सावित्रीपरिणयचम्पूः.
श्रीरामो नः प्रदेयाच्छ्रियमनवरतं श्रीमहीजैकजानिः
श्रीकण्ठाकुण्ठचापत्रुटनपटुनटत्पौरुषप्राभवश्रीः।
रक्षोराजानुजाय श्रियमदिशदनाशङ्कनीयां परैर्यः
सर्वेशस्सानुकम्पश्शरणमिति वचोमात्रतस्स्वाश्रिताय॥ 1.1॥
सीता श्रुतिनुतचरिता पूता श्रितजातपोषणाभिरता।
माता मम भूजाता भूयान्मच्छ्रेयसे प्रीता॥ 1.2 ॥
निम्यन्वयं रघुनृपान्वयमप्युदारं
या दीपितं कलयितुं जनकाध्वरोर्व्याः।
आविर्बभूव जननी जगतां त्रयाणां
सा वश्शुभानि वितनोतु मुहुर्दयार्द्रा॥ 1.3॥
हे चित्त त्वत्कलुषहतये शेषनामानमद्रिं
धावस्व त्वं सकलकलुषोन्मोचकं नान्यमेहि।
यस्य स्मृत्या भवति विलयः पापसङ्घस्य सोयं
यस्मिन्नित्यं निवसति हरिस्सर्वरक्षैकदीक्षः॥ 1.4॥
धेन्वद्रेश्शिखरे वसन्तमनिशं ध्यायाम्यहं श्रीपतिं
यत्पाद्रप्रभवा सरिच्छुभतरा जाता वियद्वीधिषु।
मन्दाकिन्यभवत्तथैव भुवि सा भागीरथीति प्रथां
लेभे भोगवतीति भोगिनिलये त्रेधा जगत्पावनी॥ 1.5 ॥
सटापटलभीषणं पटुनटत्स्फुलिङ्गोत्कर-
प्रभाजटिलमुद्वहन्निटिलदेशमभ्युत्थितः।
सभाङ्कणभुवि स्थितात्सपदि संभ्रमात्स्तम्भतः
स्वभक्तवचनेन यस्तमिह देवमीडेऽन्वहम्॥ 1.6 ॥
वाल्मीकिव्यासमुख्यान् कविकुलकुमुदामोदचन्द्रान् कवीन्द्रान्
नत्वा श्रीकालिदासप्रमुखकविवरान्भारतीभव्यरूपान्।
अस्मत्तः पूर्वनिष्ठानपि निजवचनानन्दिताशेषलोकान्
काव्यालङ्कारविज्ञाधुनिककविवरान् साधु संभावयामि॥ 1.7 ॥
श्रीमद्यामुनदेशिकान्वयपयःपाथोनिधीन्दुर्महान्
आसीद्वेङ्कटरामदेशिक इति ख्यातो गुणानां निधिः।
भ्राता तस्य नृसिंहदेशिकमणिः काव्यज्ञवर्यः कृती
तत्पुत्रश्श्रुतकोविदोऽस्ति वरदाचार्याभिधान कविः॥ 1.8 ॥
मण्डिकल्नामनगरे पण्डितैः परिमण्डिते।
निवासो यस्य देशे श्रीकृष्णभूमीन्द्रपालिते॥ 1.9 ॥
प्रतिवादिद्विरदव्रजपञ्चानन इत्यवाप्य विख्यातिम्।
राज्ञां सभासु रेजे वरदाचार्यः पितामहो यस्य॥ 1.10 ॥
सारससदनातुलिता सद्गुणजातान्विता सतीमहिता।
यं कविमसूत विदिता नाच्च्यारम्बाऽमितात्मगुणभरिता॥ 1.11 ॥
यस्यादेशविधेयो यद्वंशायतिविकासधौरेयः।
यं रामनामधेयाचार्यस्तोषयति सोदरस्सततम्॥ 1.12 ॥
वेदव्याकृतितर्कतन्त्रकवितालङ्कारसाहित्यस-
च्छन्दोविद्विबुधाग्रणीरिति भुवि प्रोद्यत्प्रथाशालिनः।
श्रीमद्वेङ्कटरामदेशिकगुरोस्यान्निध्यतः प्राप्तस
त्साहित्यः कविताप्रवीणधिषणाचातुर्यवान् योऽभवत्॥ 1.13 ॥
श्रीमद्वेङ्कटरामदेशिकगुरोर्वाग्जालवारांनिधेः
पीत्वा सद्वचनाभिधान् कतिपयान् बिन्दून् रसोज्जृम्भितान्।
तेनेदं वरदाम्बुदेन ललितं सारस्वतं कीर्यते
प्रीत्या तत्परिपीयतामविरतं सर्वैस्सुधीचातकैः॥ 1.14 ॥
श्रीमद्भारतवंशवार्धिविधुराट्चारित्ररूपा महा-
व्यासाम्भोदवरोद्गताऽद्भुततरा धारा क्षितौ राजते।
यां पीत्वा श्रुतिभिस्सुधीसमुदयस्स्वं नो परं किल्बिषं
निर्मार्ष्टि प्रतनोति चापकलुषं विश्व समन्तादपि॥ 1.15 ॥
मुदमातनोमि तन्व्या शीकरमय्या प्रगल्भया तस्याः।
सावित्रीसत्यवतोः कथया कल्याणभूतया जगतः॥ 1.16 ॥
पिबति श्रुतिचुलकाभ्यां यस्सावित्रीसत्कथामृतं धीमान्।
स तु सावित्रीकृपया विश्वस्मिन्विबुधमानितो भवति॥ 1.17 ॥
नवरसभरिता कविता सालङ्कारा विभाति वनितेव।
शय्यां नीता यदि सा सरसजनानन्ददायिनी भवति॥ 1.18 ॥
कमनीयपदविलासा कमनीयरसार्हभावदरहासा।
कलयति कलितोल्लासा कविता वनितेव कस्य न मुदं सा॥ 1.19॥
कवितावनितां कान्तां को वा काङ्क्षति न सल्लपिताम्।
सद्धिततमवृत्तगतां सकलामोद्यार्थसङ्कलिताम्॥ 1.20 ॥
सरसां कवितामार्यास्सरसिजसुन्दरीस्मितं ब्रुवते।
तत्तादृक्कविता द्राङ्मद्रसनारङ्गनर्तकी भूयात्॥ 1.21 ॥
गद्यं पद्येन हीनं भवति बहुकृतं बाणमुख्यैः कवीन्द्रैः
पद्यं वा गद्यशून्यं सरसकविवरैः कालिदासादिभिश्च।
तत्पद्यं गद्यमिश्रं सकलकविवरानन्दहेतुर्नितान्तं
कान्तं तत्कस्य न स्याद्युवतिकुचतटं भूषितं भूषणैश्चेत्॥ 1.22॥
कथा संन्दर्भार्थं कतिपयपदैः क्वापि कलिताऽ-
प्यसारैस्सर्वेयं भवति न तथेत्युज्झत बुधाः।
परीक्ष्यामूलाग्रं पदललिततां चार्थगुरुतां
इहस्थां विस्त्रम्भाद्विमृशत कृतिं विश्लथरुषः॥ 1.23॥
गद्यम्- आसीदशेषभुवनजनलोचनोत्पलवनाह्लादनापादनानूनयामिनीकामिनीकामुकेषु, आसेतुशीतावनीधरान्तरवसुन्धरातितरालङ्कारेषु अमन्दतरसुन्दरामरसुन्दरीसन्दोहसदानन्दनीयाद्वितीयात्मीयकामनीयकापहसितकामसीमन्तिनीकसीमन्तिनीसंहतिसंतताधिकसंतोषितसरसजनसार्थसंशोभितेषु, मगधमालवमत्स्यमहाराष्ट्रप्रमुखजनपदग्रामणीषु, अविरताधिगतभद्रेषु, मद्रेषु, अनितरपुरसुलभसुषमाविशेष समाक्रान्ताखिलहरिन्तराला, कदाऽप्यहितलोकानालोकिता, सकलकल्याणभाजनीभूता, कनकाचलशिखरायमाणमहितावसथसनाथा, विश्वविमतविश्वम्भराधरविश्रुतपुटभेदनभेदनपटुतरकरटिघटाघोटकच्छटा, विकटशकटमदोद्भटभटपटलजटिलाभ्यन्तरदन्तुरा, दूरा दुर्मददुरितभरितानाम्, अदूरा धर्मैकपरिकर्मितानाम्, अकलङ्कनिजालङ्कारनिराकृतनिर्जरलोकालङ्कारा, शङ्करावनीधरशिखरसङ्काशन्मन्दिरान्तरा, सर्वदा सर्वसम्पत्समेधिता, सागरमेखलाकलापायिता, केनापि नोपगता दुरुपद्रवेण, केनाप्यनधिगताऽन्यमहीभृदन्वयेन, प्राभातिकवेलेव पद्मरागारुणकिरणारुणीकृतानन्ता, पन्नगाधिपतनुरिव सर्वदा समासादितपुरुषोत्तमा, पुरुषोत्तमतनुरिव निरन्तरनिरुपमानाक्षीणलक्ष्मीनिवासभूता, नीललोहिततनुरिव भूरिभुजङ्गपुङ्गवसङ्गता, त्रिदशनगरीव अजस्त्रवृषानपेतविबुधजनताविनोदास्पदीभूता, लङ्केव खण्डितारिमण्डलसद्वैरिरावणबलाभिगुप्ता, दशकण्ठसम्पदिव दूरीकृतविभीषणस्थिरपदा, कर्बुरालयशोभमाना च, अलकेवाविरतश्रीदाश्रिता, शिवोदारभूधरविराजमाना च, अलकाबाह्योद्यानवनीव अधिगताकुण्ठशितिकण्ठताण्डवाडम्बरा, अनवरतमाधवावसविद्योतमाना च, अयोध्येवाजिप्रथितावनीशाविता, सदारामसम्पत्समेधिता च, द्वारकेव प्रद्युम्नाच्युतमान्दिराभिरामा, रत्नाकरान्तरराजमाना च, तेजोवतीवाग्निशिखाक्रान्ता, सप्तच्छदालिरिव घनसारवद्दलाभिपन्ना, राकात्रियामेव अखण्डकलापरिमण्डितद्विजराजमण्डलविराजिता, पातालनगरीव निगृहीतबलिवामनाधिष्ठितद्वारदेशा, मयमायाशक्तिरिव देवैरपि दुरासदा, मद्रभूपतीनां हेमवती नाम राजधानी॥ 1.24॥
या पूर्वावनिभृद्धताहितपुरानीतामिताष्टापद-
प्राग्भारान्वहपूर्णकोशनिकरोत्कीर्णान्तरत्वाद्दधौ।
संज्ञां हेमवतीति सर्वसुमन्स्सन्तानसम्भावना-
सर्वस्वास्पदसौधसार्धशिखरैरालिह्यमानाम्बरा॥ 1.25॥
यत्प्राकारशिरस्स्वरिप्रमथनप्रोत्क्षिप्तपातोद्यत-
स्थूलोत्तुङ्गशिलानिपातजनितातङ्काकुला निर्जराः।
यत्सौधेन्दुशिलाभ्रमोत्करपतत्तोयौघपूर्णोदराः
तोयैस्तैस्सकलां महीमपि मुहुस्सिञ्चन्ति धाराधराः॥ 1.26॥
यत्रत्यभव्यतरभूतिविलोकनोत्थ-
व्रीडावलीढहृदया विबुधेन्द्रलक्ष्मीः।
यद्राजमन्दिरविलीनतनुस्सदाऽपि
चास्तेऽधिगन्तुमिव यत्समतामगम्याम्॥ 1.27॥
यत्सौधाग्रविहारदेशाविलसन्मुक्तावितानायिता
वामावक्त्रशशिप्रभापरिमिताभा भाति तारावलिः।
आगत्यामरकन्यकाः कलयितुं यच्चन्द्रशालास्फुर-
न्नारीम्योऽक्षकलां निमेषविधुरास्तद्दर्शनाल्लज्जिताः॥ 1.28॥
यद्गोपुरोपरिलसच्छशिकान्तवारात्
आराद्धिमांशुलसितादनिशं स्त्रवद्भिः।
तौयैर्मुहुस्सुरपुरीमभितः प्रवृद्धा
स्वर्दोर्घिकाऽपि सुरभीतिकरी बभूव॥ 1.29॥
तस्यामासीन्नगर्यामखिलसुरवधूसन्नुताशाङ्गनास्या-
म्भोजश्रीकुङ्कुमाङ्कायितमहिततमात्मीयबाहुप्रतापः।
पाराबारान्तपृथ्वीधरकुहरलुठद्ध्वान्तविध्वंसदक्षा
क्षीणोद्यत्कीर्तिचन्द्रस्सुजनशुगटवीहव्यवाहोऽश्वभूपः॥ 1.30॥
श्वेतद्वीपोऽभवद्यन्महिततमयशस्सार्धवार्धौ क्षितिर्य-
द्दानाम्बुह्रादिनीभिस्सकलजलधयः पूर्णवेला बभूवुः।
दिङ्नागानामदाद्यद्भुवनभरणताऽश्रान्तविश्रान्तिसौख्यं
दुग्धाब्धौ माधवो यज्जगदवनकृतिं वीक्ष्य निद्रारतोऽभूत्॥ 1.31॥
यच्चापवार्षिकपयोधरमुक्तकाण्ड-
वर्षातिवेलविचलत्परवाहिनीनाम्।
पूगाःप्रभूतरयदृरगताः प्रकामं
खिन्नाः प्रयान्ति शरणं परवाहिनीशम्॥ 1.32॥
यस्यारिप्रमदाः प्रियैः प्रतिदिनं पृष्टा रहस्यादरात्
किं दीनानि मुखानि वः कथयतेत्याहुस्स्त्रियस्तान्पुनः।
जातान्यश्वमहीन्द्रवैरजनिताद्युष्मद्भयादानाना-
न्येवं नस्तदिहाशु तत्पदनतास्त्रायध्वमस्मानिति॥ 1.33॥
यदीयाज्ञाबद्धा वय इव वरास्सूत्रकलिताः
स्थिरेशाश्शोभन्ते सततमखिलाशासु महिताः।
यदीयः कीर्तोन्दुर्मुकुलयति शत्रुप्रियतमा-
मुखाम्भोजानि क्ष्मां धवलयति चालं दश दिशः॥ 1.34॥
यं दृष्ट्वा मकराङ्कमञ्जुलतमं स्वर्गास्त्रियः प्रार्थिताः
स्वैर्नाथैरपि यद्भतात्ममनसः काङ्क्षन्ति नैषां रतिम्।
यद्विश्राणनविस्मतातिविमनास्स्वर्गोर्यदीये पुरे
गोरूपाणि बहूनि तत्कलयितुं धृत्वा यमासेवते॥ 1.35॥
संप्राप्ते समरे परैस्सुरपतिस्संप्रार्थ्य यं दैवतैः
स्वर्लोकं समनीनयद्विरचिते येनासुराणां वधे।
भेरीभाङ्करणैरमर्त्यनगरीमापूर्य यस्योत्सवं
रम्भानर्तनचातुरीभिरतनोदेकान्तमित्रायितः॥ 1.36॥
यत्करवालोत्कीर्णौ कणौ करिघटाविपाटने द्विषताम्।
समभूतामिन्द्रकरे पविरशनिश्चेति जलधरे प्रथितौ॥ 1.37॥
यद्राजमन्दिरलसच्छिखराग्रभाग-
संबद्धकेतुपटचालनवीतखेदौ।
यद्देशमप्रतिहतौषधिसस्यजात
सम्पूर्णमाकलयतामनिशं रवीन्दू॥ 1.38॥
गद्यम्- सोऽयमश्वपतिर्नामाखिलराजमौलिमणिमकुटपीठप्रतिष्ठापितचरणाब्जयुगलो वीर्योत्सिक्तो द्विषत्सु, विनयवान्ब्राह्मणेषु, मतिमान्त्सर्वशास्त्रेषु दयालुरतिदीनेषु दाक्षिण्ययुक्तस्सज्जनेषु, भक्तिमान्गुरुषु, पारतन्नत्र्यवान्दैवेषु कृतान्तः पापिष्ठेषु समदर्शनस्सर्वभूतेषु, चातुर्यवान् चित्रकर्मरचनासु, गरिष्टः काव्यनाटकज्ञेषु, श्रेयान् गजाश्वशिक्षादिविद्यानिपुणेषु, पुष्कलश्शुकपिकशारिकादिशकुन्तालापकोविदेषु, कन्दर्प इवोग्रकोपाटोपसमालम्भिताविग्रहः, पद्मनाभ इव पाणिपद्मवशीकृतपरचक्रः, परमपदाश्रितप्रतिपादितस्ववैभवश्च,सरिदीश इव सकलजीवनाधारस्स्वजीवनसम्पदविततभाडबश्च, मार्ताण्ड इव निरन्तरस्वाभ्युदयाभिभूतकौशिकसमृद्धिः निजकरातितरनिर्मुक्तशरासारनिर्मूलितकुभूधरोपद्रवश्च, राकेन्दुरिव कुवलयोल्लासकारी सर्वकलाधारीच, वसन्तइवात्मविभूतिमहिमानन्दितकविः अनङ्गसम्प्रीणनप्रवणश्च, त्रिपुरान्तक इव सर्वमङ्गलालिङ्गितसर्वाङ्गः सर्वदा पुण्यजनेश्वरपूजितश्च, पुरुहूत इव प्रकटितपुरुषोत्तमानग्रहः पाटितपरभूधरपक्षप्रकरश्च, चतुरानन इवाश्रित श्रीनिवासपदः,प्रकटितलोकेशभावश्च, सुमेरुरिव सुमनो व्रजाधारस्सुभगतरकल्याणाकरश्च चिन्तामणिरिव चिन्तितार्थप्रदानसंतोषितविबुधसन्तानस्सदाजिष्णुवशवदश्च, जानकीजानिरिव जितजनस्थानगतखरदूषणः स्वोदयप्रकाशितमित्रगोत्रश्च,स्पर्धमानो महीधराग्रगण्यतया गौरीगुरुणा, समाकलयन्नात्मप्रतापाप्रतिमप्रभावेन प्रद्योतनं खद्योतमानं अपहसन्ननवरताश्रयावनैकतानतया स्वाश्रयाशं, सागरस्सरसतायाः, संस्थानं सदाचारस्य, समाचरणज्ञस्सर्वाध्वराणां, भृमिर्भूरिक्षमायाः, सन्मन्दिरं सकललोकप्रीतेः, सद्भाजनं सद्गुणानां, सत्पात्रं सौन्दर्यसम्पदः, सन्निधिस्स्वाश्रितानां, सगरादिसागरमेखलासार्वभैमसन्निभमहिमा, सत्याम्राज्यभूमा सर्वंसहां परिपालयामास ॥ 1.39॥
राज्यं शासति राजमौलिमकुटालङ्काररत्नोद्भट-
श्रीनीराजितपादपङ्कजयुगे भास्वत्प्रतापे नृपे।
दुष्टा नष्टतमा बभूवरभवन् शिष्टास्सुपुष्टा जहौ
कष्टं दुष्टमहीपजं क्षितिरपभ्रष्टा विशिष्टेतयः॥ 1.40॥
मातङ्गेशाचलेशाः फणिकिटिकमठाधीश्वरा विश्रमाशाः
सर्वे भूभारखेदं परिजहुरमितं प्रापुरामोदभारम्।
स्कन्धे शौर्यर्द्धिकन्दे वहति नरपतौ सागरान्तामनन्तां
कान्तामायासतान्तामिव ललितविलासातिकान्तां वयस्स्थे॥ 1.41॥
स श्रीमान्त्समदारिवीरवनितानेत्रोदकोत्पादकैः
सर्वोगीतनिजापदानविभवैः प्राह्लादयत्स्वान् जनान्।
वक्तुं तत्प्रथितान् गुणान् फणिपतिर्वक्त्रैस्सहस्त्रेण तान्
व्यक्तं नालमभूत्सहस्त्रनयनोऽप्यालोकितुं तच्छ्रियम्॥ 1.42॥
पापानां प्रल्योऽभवत्प्रतिपदं प्रापावलिःप्रोन्नतिं
पुण्यानामवति क्षमां हयपतावासन् द्विजास्सत्क्रियाः।
प्रख्याताः प्रकृतिप्रमोदकलनोद्युक्ताः परं क्षत्रियाः
वैश्याः स्वार्हतरार्थलोलमनसश्शूद्राश्च तत्संश्रयाः॥ 1.43॥
गद्यम्-तस्य चाखिलाचलातलपुरुहूतस्य, पूर्वदेवप्रथनपुरुहूतपुरस्कृतस्य, रमेव भगवतो नारायणस्य; पार्वतीव वृषा कपेः भारतीवाम्भोजसम्भवस्य, त्रिभुवनविश्रुतविलासिन्यभिल षणीयविभ्रमविशेषपोषणी जननी जगतीजातजनजातश्रेयसां, ज्यायसी जगद्विदितजगतीदयितजायासु, जम्भारिमुखामरस म्भावनीयरम्भादिरम्भोरूसंसददम्भसौन्दर्यनिकषायमाणसहजस्वरूपैश्वर्यधुर्या, सर्वलोकसन्नुतचर्या, सदाऽवितार्या, सत्कार्यकरणसाहसिकसतीवर्या, सुरसंहतिरिव सुधर्मानुरक्ता, सुधर्मेव स्ववैभवोद्भासितविबुधलोका, वल्लकीव निजगुणविनोदितनिखिलभुवना, वरटेवं हंसगामिनी, लक्ष्मणेव सारसाप्रियकरा, चन्द्रिकेव कुवलयामोदकारिणी, राकानिशेव द्विजराजसमृद्धीकरणपटुतरा, जानकीव रामाभिरामा, पद्मे पुण्डरीकाक्षशोभमाना, मयूरीव मञ्जुलकलापा वर्षामेघलेखेव श्यामा, तारकामण्ड लीवाम्बरमध्यविद्योतमाना,जलनिधिवेलेव नलितमालकालङ्कृता, देवसेनेव मुकुमारभावा, पुलोमजेवानिशवृषायत्यभिलाषिणीमहितमहिमोन्मेषिणी, भगवत्यन्तःपुरपुरन्ध्रीप्रधानभूता, देवी मालवीनामाभूद्राजकुमारिका॥ 1.44॥
तदङ्गमसृजन्मनोहरतमैर्विधिर्यैर्मुदा
पदार्थपरमाणुभिस्तदवशिष्टरेणून् जहौ।
त एव तदिदम्बुदे विधुकला विहायस्स्थले
बभूवुरमृतार्णवेऽपिच महाप्सरस्संहतिः॥ 1.45॥
सृष्ट्वा तां पद्मयोनिस्तदुचितकरणैस्तादृशीं तोयजाक्षी
अन्यां निर्मातुकामोऽप्यसुकरमिति यन्नैव शक्तो बभूव।
तस्मादेषैव भूयाज्जगति युवतिषु श्रेष्ठरूपेति चित्ते
संचिन्त्यैतत्सदृक्षीकिलनमतिमतीवात्यजन्नूनमेतत्॥ 1.46॥
सा मालवी सप्तिमहीमहेन्द्र-
संतोषसाम्राज्यरमोद्भवोर्वौ।
स्वर्गेशलक्ष्मीरिव साधु देवी
ब्रभ्राज भानिर्जितभर्गदेविः॥ 1.47॥
तपोभाग्यादश्वक्षितिमघवतश्शम्बररिपुः
प्रसन्नश्रीखण्डाम्बुजशशिसिताभ्रादिशकलैः।
किमेनां निर्मायादिशदिति च मेने भुवि जनो
यदत्रान्या नासीदजविराचितास्वेतदुपमा॥ 1.48॥
गद्यम्-आसीच्चास्याश्वसर्वंसहासहस्त्राक्षस्य, सुराचार्यस्सर्वमन्त्रेषु, कविस्सर्वरहस्यकथनेषु, जिष्णुस्समरोद्यमेषु, वर्तिष्णु रवनीशाभिमतकृत्येषु, हाहास्सङ्गीतकलासु, शेषाहिश्शास्त्रवादेषु, परमदण्डधारी परेष्विव दुर्जनेषु, परब्रह्मणीव परिकलितमनास्सज्जनेषु, क्रतुष्टिव कृतानुष्टानः प्रजापालनकर्मसु, मूर्तिमनिव शृङ्गाररसः, परिपाक इव पुण्यराशेः प्रकृतीनां, सत्सदनं सकलसल्लक्षणानां, उत्पत्तिभूमिरुरुगभीरतायाः, सप्तार्चिरन्यायगहनस्य, सर्वतोभद्रस्सन्नयस्य, तिग्मदीधितिरखिललोकलोचनाम्बुजानां, अमृतमरीचिरज्ञानतिमिरस्य निर्जरतरुर्निजाश्रितानां, धूमयोनिर्दुर्जनपलालजालस्य, प्रख्यातविक्रमः प्रद्युम्नशेखरनामा प्रधानस त्तमः, एतादृग्गुणग्रामाभिरामस्सकलागमसारार्थतत्त्वसम्पत्सर्व ङ्कषसंविदुद्दामस्सुरगुरुणाऽपि सुश्लोकितशेमुषीप्रकमः पुण्यकृदुत्तमः पुरोहितोत्तमो हरिशर्मनामा च॥ 1.49॥
एकदा तु सोऽयमश्वपतिरनपत्यतया, धीरोऽपि दीन इव,धनदोऽपि निर्धन इव, महीमहेशमान्योऽपि महीविहीन इव,तूष्णीं स्थित्वा मुहूर्तमालोच्यान्तः सर्वथा नियतिवशेनाहं भविता पुत्रवान्नन्यथा तदिदानीं मालवी द्रष्टव्येति मनीषया राजसदनाद्विनिर्गत्यातितरसा बहिर्द्वारादूरस्थितैरनाशङ्कितागमनावनीशुनासीरावलोकनजानूनभयसम्भवसम्भ्रमोत्थितैरत्युद्धतैरतिमानुषशरीरैरहितभीकरैरतिललितवेत्रलतालाञ्चितकरैरप्रमत्तैः प्रतीहारैरादर्शितदेववीरान्तःपुरमार्गः किञ्चिद्दूरमागत्यामृतकरकान्तसोपानपथेन, नैकविधायुधयूधधारिभिरापीनभुजबलावलेपदुरासदैरुत्कटकङ्कटस्थपुटितकवाटविशङ्कटकटुतरवक्षोदुर्निरीक्षैः, मन्देतरेन्दिन्दिरानीलाभालवालश्यमश्रुजालातिवेलविराजमानैः, चण्डतरोद्दण्डारिवेतण्डमण्डलखण्डनोद्दण्डमण्डलाग्रमण्डितकरैः, पुरुषपुण्डरीकपूगैरन्यैस्सत्तमैश्चानवकाशीकृताभ्याशदेशं, अन्तरान्तरा साञ्चरद्भिः किञ्चित्काञ्चनकणचञ्चत्कञ्चुकाञ्चितभुजान्तरविलक्षणैः कैश्चिद्वर्षधरलक्षणैर्जनगणैस्त्रिपुरान्तकस्याप्यादमेशाना देशादागतस्यार्धचन्द्रमातन्वानैः कुब्जवामनवितानैश्चोपरञ्जितकक्ष्याभेदं, एकत्रानवरतखरतरखुरोद्धूतधूलिधूसरीकृतहरिदम्बरान्तरैरनन्यसुलभाविच्छिन्नधाराधरैरवाग्गोचररयनिर्जिताहिपरिपन्थिभिरश्वोत्तमैरभिन्नाभिर्मन्दुराभिरभ्युपेतासन्नावकाशं, अन्यतः परवाहिनीद्विरदमदापनोदविशारदवीर्यानुभावैरैरावताभिजनसम्भवैरनवरतदानधारावर्षिभिर्वार्षिकवारिवाहाकारैरभितस्सृतनिर्ज्झरैरिन्द्रनीलगिरिशिखरैरिव कारिवरैरधिष्ठिताभिश्शालाभिर्विशालाभिस्सङ्गतसनीडं, आरब्धतौर्यात्रिकातिलुब्धबुद्धिभिरामिरूप्याधरीकृतगन्धर्वामरमानिनीमदाभिर्वारवनिताभिरधिगतकक्ष्यान्तरं, आबद्धातिस्निग्धमुग्धमरकततोरणं, आलिखितमौक्तिकपिष्टातकपञ्चाङ्गुलं, आरक्ताभिव्यक्तजतुभक्तियुक्तभित्तिकाप्रान्तं, आलिख्यमानामरमिथुनचित्रीकृतापरिभागं, अन्तराविशदीकृताच्छहीरगुच्छवितानाच्छिन्नवलभीच्छादनं, आस्तीर्णातिमनोहरानेकाविकं, अतिललितमूलाञ्चलचञ्चलाचञ्चत्काञ्चनपाञ्चालिकंआकल्पितानुपमानरत्नसिंहासनं, अप्रमत्तायत्तानन्तान्तःपरिजनं आत्ममनोरंञ्जन, आलोकिलोकलोचनोत्सवभाजनं, अन्तःपुरमासाद्य चारुताभवनलभीच्छादनलम्बमानादीनाभानिकेतननूतनमुक्तावितानविराजमाने, धारायन्त्रविसृमरघनसारोशीरकाश्मीरजसङ्करनीरशीकरनिकरनीरन्ध्रितनिरुपमप्रान्तरे, विजृम्भमाणासारवर्षिवर्षाम्बुधरविडाम्विनि, कस्मिंश्चिदभ्यन्तरमण्डपे, विद्योतमानां विद्युल्लतामिव तां देवीमपश्यत्॥ 50॥
शरदिन्दुनिभाननां स पश्यन्
अरविन्दायतलोचनां महीपः।
नवकुन्दरदामभीष्टदां तां
नयनानन्दकरीं तदा ननन्द॥ 1.51॥
सानन्दं तमवेक्ष्य मन्दगमना स्वानन्ददं सुन्दरी
तत्पादारुणवारिजातयुगलं मन्दं ववन्दे मुदा।
कुन्दैश्चन्दनपल्लवैश्च ससखीबृन्दा विकीर्यादरात्
मन्दाक्षानमितामलेन्दुवदना तस्थै निबद्धाञ्जलिः॥ 1.52॥
सुमशरसुन्दराकृतिधरस्य महीशवरः
त्रिभुवनविश्रुताकृतिरियं सुदती च सती।
विलसति सर्वलोकनुतयोरतिभासुरयोः
कलयति सङ्गमः किमु विलोकयतां न मुदम्॥ 1.53॥
गद्यम्-तदनन्तरमश्वविश्वेश्वरोऽपि,-शिरीषसुमसुकुमारशरीरामात्ममनोविश्रान्तिपदवीं देवीं माल्वीं, अम्बुजाहंकारपरिहारधुरन्धरेण आश्रितजनदारिद्र्यापहरणप्रवीणेनात्मकरेण परा मृशन् उत्सङ्गसङ्गिनीमारचय्य सलीलं सादरं सानुशयं चेत्थमा चचक्षे॥ 1. 54॥
पान्थश्शान्तोऽध्वभाजं फलदलरहितं पादपं प्राणिवर्गः
पापाचारप्रवृत्तं प्रभुमपपयसं पल्वलं सम्पिपासुः।
लुब्धं लब्धार्थमर्थौ विषयचयजितं वीतरागो यथैव
निन्दत्यत्रानपत्यं जगति पितृगणस्साधुभावे! तथैव॥ 1.55॥
तस्यामुत्र परत्र चापि न सुखं यः पुत्रहीनः पुमान्
तद्वृत्तिर्विफला तदीयरचनाश्रान्तिर्विरिञ्चेर्वृधा।
पुन्नाम्नो नरकात्सुतो हि पितरौ पातीति वेदस्स्मृतिः
चापुत्रस्य गतिर्न हीति वदतस्तत्पुत्रवान् पुण्यभूः॥ 1.56॥
धनैर्धान्यैर्वाऽन्यैरितरदुरवापैः किमु फलं
प्रिय! प्राज्ञः पुत्त्रः कुलसमुचितो यस्य न भवेत्।
गतेऽन्तं तस्मिंस्तन्निखिलविभवोऽप्यन्यमयते
ततः पुत्री लोके कुलधनजनश्लाघनपदम्॥ 1.57॥
निष्पुत्रं पुरुषं विनिन्दति पिता माताऽपि नो तुष्यति
भ्रांता गौरवमातानोति न सती चान्ये जनाः किं पुनः।
तस्मिन्बन्धुजनः कथं नु कुरुते बान्धव्यमैत्रमितः
सर्वश्लाघ्यतमस्य एव हि भवेद्यः पुत्रवान्भूतले॥ 1.58॥
सत्त्वेऽपि रत्नादिसमस्तवस्तु-
सप्पूर्णसम्पत्प्रकरस्य लोकः।
पृच्छत्यलं पुत्रधनं सुवृत्ते!
तस्मादहं पुत्रधनं समीहे॥
गद्यम्- देवि दिव्यचारित्रभावे! पुराकृतं कर्म पुरुषं सुखं वा दुःखं वा नयति, कीदृशां वा कृतं कर्म पूर्वजन्मनि मया, पुत्रः खलु जगत्यस्मिन् महत्तरः पुरुषार्थः, तेन विना किं वा सुखमत्र परत्र चापि, गरीयसी खलुभवितव्यता, निरर्थकं जन्मेदं मामकं, विफलं च मे प्राप्तराज्यभारोद्वहनं, वृथा गताः परश्शताश्शरदः, संप्रति जराऽपिकर्णोपकण्ठपलितङ्करणी व्याघूर्णयति देहबन्धमनुदिनमप्रतिमाङ्गपटुतां च, चक्षुरपि क्षीणं लक्ष्यग्रहणे, बुद्धिरपि बद्धानादरा विषयनिषेवणे, श्रुतिरप्यजागरूका शब्दग्रहणे, जिह्वाऽपि प्रह्वा बह्वास्वादने, इदानीमक्षमः स्थातुमिहोदासीनतया, भजमानभद्रप्रदं भगवन्तमम्भोजसम्भवमन्तरेणाहं नार्हामि पुत्रवतां धर्तुं धुरन्धरतां, अतस्तत्परितोषणकारणतपःकरणाय हरिणादिमृगगणशरणमुपगच्छामि तपोवनमित्युपांशूक्तवचने विरमत्यात्ममनोरञ्जने मद्रावनीन्द्रकुलनन्दने देवी साञ्जलिर्मालवी प्रत्यवादीत्॥ 1.60॥
युक्तं भवता प्रोक्तं वक्तुं धीरुद्गता कथं नाथ!।
त्वच्चरणाम्बुजशरणं विना जनमिमं वनं व्रजामीति॥ 1.61॥
कृपा यदि मयि स्थिता वसुमतीसहस्त्रेक्षण!
त्वया सह नयोत्सुकां रचय सम्प्रहष्टां च माम्।
वनान्तरमुपाश्रिता नियममाश्रितं त्वामहं
दिवानिशमितोऽधिकं विरचयेय शुश्रूषणम्॥ 1.62॥
वने वासः कदाचित्स्याद्वसुधापतिना सह।
इति स्थिता मनोवृत्तिः फलिताऽस्तु मम प्रभो!॥ 1.63॥
गद्यम्-इत्थमारचितवचनरचनायामनुपहतवनगमनोत्कण्ठायामात्मप्रियायां, अवनीदयितस्तथेत्यूरीकृत्य तदीयवचनमादरात्सहोत्थायासनादखिलैरन्त पुरजनैः परिजनैश्चाद्वारमनुगम्यमानो वेत्रवतीभिर्देवीदयापात्रीभिरादर्शितावरोहणमार्गः प्रकृतीनामात्मानुचिन्तितार्थनिवेदनार्थं अन्त पुरवनितापदसक्तव्यक्तालक्तकरसपाटलीकृतेन, परिलसत्पाकारिमणिपटलशोभितेन सोपानपथेनावतीर्य चञ्चच्चञ्चलोपमामात्मप्रियतमां पङ्कजाहङ्कारसर्वङ्कषेण करेण समनुगृह्णन् आगत्य अविदितागतावनीदयितावलोकनोद्भ्रान्तप्रान्तप्रणिपतन्नरपतिसहस्त्रमौलिज्वलन्मकुटपालिप्रत्युप्तप्रत्यग्रहरानन्तरत्नप्रभारुणीकृतस्फटिकुट्टिमां, प्रज्ञातिरस्कृतामरगुरुभिः, अज्ञातानृतातुलमतिभिः, अधीतनीतिशास्त्रततिभिः अप्रमत्तैः अधिगतात्मकार्येषु अवितथात्मप्रागल्भ्यपरितोषितात्मप्रभुभिः अन्वयक्रमागतैः, धर्मेरिव सविग्रहैरमात्सैयरधिष्ठि तैकदेशां, आत्मकार्यनिवेदनावसरप्रतीक्षकेण गतागतजुषा जानपदेन जनजातेन निबिडीकृतद्वारदेशां वन्दिमागधगणपणायितापरिमिताभ्यन्तरां, आखण्डलसभासधर्मां सुधर्माख्यां निजां सभामाससाद॥ 1.64॥
सोऽयं सभां सद्गुणसार्धसान्द्रः
सम्प्रायं सभ्यैस्सकलैर्महीन्द्रः।
अभ्युद्यतोऽभूत्स्वसभामुपेत्य
सर्वेश्च देवैस्य यथा महेन्द्रः॥ 1.65॥
गद्यम्-तदनन्तरमयमश्वविश्वम्भरेश्वरः तत्र स्वाभिजन क्रमागतनरपातिसहस्त्रभुक्तोज्झितं, आधिराज्यपदोचितं, माणिक्यमयं उत्तप्तहाटकपटुपट्टिकापरिघटिततत्तत्सन्निवेशसंशोभिततया उन्मदमातङ्गदशनशलाकानिर्मितमध्यभागतया च सौदामनीसंहतिसंयुतशरज्जलधरपरिवीतरोहणगिरिशिखरमिव स्थितंउदग्राग्रभागसङ्कीर्णसौवर्णरत्नप्रभाप्रकरैः पीताम्बरपटलपरिस्तीर्णमिव सभाभ्यन्तरमातन्वानं सिंहासनं अधिवसन्, आत्माभि मतार्थावेदनाभिलाषेणाहूयामरगुरुसमीड्यमनीषाविशेषपरिभूषितानशेषानात्मपुरुषान् परिजनमुखात्सम्मान्य, यथोचितमुपविशत्सु तेष्वासनेष्वात्मार्हेषु, स्वरेण प्रावृडम्भोधरगर्जितगम्भीरेण, सर्वानाबभाषे॥ 1.66॥
पदेऽस्मिंस्तातो मे भवदनुमतिं प्राप्य महितां
नियुज्य प्रीत्या मामविशदटवीं दारसहितः।
यथाऽहं लोकानां हितमकरवं सर्वजगती-
स्पुटीभूतं यूयं तदिदमखिलं वेत्थ सुधियः॥ 1.67॥
गतं मे तारुण्यं द्रढिमदृढमूलं शिथिलितं
यथा कूलं नद्याः पलितमभवन्मेऽद्य जरया।
अहोरात्रं चिन्ता नयति तनयाभावजनिता
शरीरं मे क्षैण्यं शुचिरमलमब्जाकरमिव॥ 1.68॥
चिरान्मे क्ष्मामेतां सनयमवतः कोऽपि गलितो
भवद्भिर्धर्मज्ञैस्सदयमुपदिष्टस्य समयः।
मया सन्त! किं वा फलमुपगतं जीवितवता
ऋणान्मुक्त पित्र्यान्न यदहमभूवं विधिवशात्॥ 1.69॥
लोकेऽस्मिन्नुदितोदितं कुलमिदं मद्रेश्वराणां तु तैः
युष्माभिस्सह काम्यभोगविभवेष्वर्धांशभाग्विश्रुतम्।
सन्त! कालमियन्तमप्रतिहतं तन्मेऽद्य दोषाद्धतम्
किं कर्तव्यमनर्थतः कथमितस्त्रातं भवेद्बूत तत्॥ 1.70॥
इत्थं ब्रुवन्तं नृपपुङ्गवं तं
सन्तश्शसंसुस्सकलास्स्तुवन्तः।
सर्वज्ञ! का ते सकलोत्तमस्या-
प्यस्मादृशेष्वद्य विचारणैषा॥ 1.71॥
तथाऽपि-
न्याय्यो नयज्ञनृपतेस्सर्वज्ञस्यापि सद्भिराप्ततमैः।
सम्मन्त्रस्साधुरिति प्रोक्तः प्राग्भिः प्रकृष्टकार्यकृते॥ 1.72॥
गद्यम्-स्वामिन् धरित्रीपुरहूत! सर्वथाऽनपत्यता हि दुःखकारिँणी प्राकृतानामपि मानवानां, किमुताखण्डधरामण्डलमण्डनायमानानां मूर्धाभिषिक्तानां, अतः कर्तव्यैवात्र विचारणा श्रूयते हि कथा पौराणीकी-पुरा खलु पुण्यैकधुरन्धराः पृथ्वीपुरन्दराः पुण्यस्वरूपिणं पुरहूताद्यमरपूजितचरणं पुण्डरीकशरणमभिराध्य तपसा, प्रपन्ना पुत्त्रवतां धुरन्धरतां, अतो मही यसा भवताऽपि देव्या सह भगवत्या मालव्या भगवानभिराद्धव्यः पद्मयोनिरिति॥ 1.73॥
प्रज्ञाजितविबुधार्योर्मन्त्रज्ञैर्मन्त्रिपौरजानपदैः।
विज्ञापितोऽधिपतिरजैमच्छदभीष्टार्थमभिराद्धम्॥ 1.74॥
इच्छन् समाराधयितुं सदारः
सदारमम्भोजभुवं स भूपः।
तथेति संमान्य वचांसि तेषां
व्यचिन्तयच्चेतसि किञ्चदन्यत्॥ 1.75॥
गद्यम्-तदनु सर्वसम्मतकार्यकरणधुरन्धरमतिस्सैन्धवपतिः, सम्मुखावस्थितान् आत्मादेशनिशमनकौतूहलान् अमात्या नवलोक्य तेष्वप्रतिमप्रज्ञाधुरन्धरं प्रद्युम्नशेखरमहिताजेयमखिलराज्यधौरेयं मन्यमानः सर्वामात्यानुमत्या, सम्पीड्य तत्करमाम्मकरकमलेन, स्वरेण स्तनयित्नुस्तनितगम्भीरेण सप्रश्रयं तमित्थमादिदेश॥ 1.76॥
मन्त्रीश्वराद्य तु विधिं विबुधाभिराध्यं
आराध्य पुत्त्रमधिगन्तुमहं तपोभिः।
गच्छामि काननमिमामवनीमव त्वं
यावन्ममागमनमित्यवनीपचन्द्रः॥ 1.77।
तदनु यथाधिकारमितरान् हितमन्त्रिवरान्
अपि भटचेटिकाप्रमुखवेतनजीव्यनुगान्।
नरपतिरादिशन्त्सविनयान् बहु सानुनयं
वितरणकर्मण व्यतनुतार्थचयस्य मनः॥ 1.78॥
कृत्वा देव्या स्वचेटीजननिजनिकटानीतया स्वाज्ञयाऽसौ
पृथ्वीदेवार्पितानि प्रचुरमणिधनान्यर्हभूषादिकानि।
देवानां पूजनानि स्वपुरि विलसतां कारयन्नश्वभूप-
स्तांस्तानाज्ञाप्रतीक्षानखिलनरपतीन् लालयन्गन्तुमैच्छत्॥ 1.79॥
गद्यम्- अथायं तैस्सहाश्रितप्रान्तैः परिजनपौरजानपदाप्तजनैरतीव बहुमानितोऽमात्यनिवेशिताखिलराज्यतन्त्रस्वातन्त्र्यः सम्प्राप्य सर्वानुमतिं समुत्थाय सिंहासनादखिलधर्माचरणपदव्या स्वदेव्या सह सभाद्वारमागत्य, राजोत्थानसमु त्थितानुगतपीठमर्दविदूषकादिपरिजनेन जय जीवेत्युच्चैः पठता वन्दिमागधजनेन, निजकार्यनिवेदनावसरप्रतीक्षकग्रामाधिकारिनिकरेण, द्वारवितर्दिकास्थितराजमुद्राञ्चितवैकक्ष्यकवक्षोऽय तिदक्षपुरुषहर्यक्षपुञ्जेन, विपक्षाक्षयभयदव्यायामशिक्षापरीक्षितवीरभटसमवायेन मन्देतरपदातिबृन्देन चातिदूरमनुगम्यमानो जवविजितवातवैनतेयमन्याविधेयमनुपमेयमात्मनस्स्यन्दनं, प्रथममाधिरोप्य प्रियां स्वयमप्यधिरुह्य, स्वाङ्कचरकिङकरकरोद्धृतकनत्कनकदण्डिकाकमनीयधवलातपत्रः, त्रिदशवरवर्णिनीवर्ण्यागण्यलावण्याङ्गनासमुद्धूयमानचारुतरचामरपवमानपरिधूतोपरिचेलाञ्चलः’‘समभ्येति राजराडपसरतापसरतेति" वदद्भिर्वेत्रवद्भिः निर्निरोधीकृतरथ्यासन्निवेशः, तत्रतत्र समानन्द्य सज्जनसम्भावनां, लालयित्वा पौरान्मधुरवचनैरागत्य नगरादादित्य इवोदयगिरिगुहाकुहरादासलिलं प्रतिप्रस्थाप्य रथं निवर्तयामास बलमखिलम्॥ 1.80॥
प्रस्थाप्य पश्चात्स्वयमश्वभूपः
स्वीयान्त्सहायातसमस्तपौरान्।
प्रियासहायः प्रययौ प्रभूत-
वनाटकोट्युत्कटमुग्रदुर्गम्॥ 1.81॥
वनान्तरं वारिजवन्धुरश्मि
प्रभाप्रतप्तोऽपि नृपः प्रियायाः।
वचस्सुधावर्षवशादतापः
प्रहर्षयंस्तामगमत्प्रहृष्टः॥ 1.82॥
शचीन्द्रतुल्यावथ दभ्पती तौ
प्रभाकराभापरितप्यमानौ।
शिरीषपुष्पावयवावभूतां
श्रमान्वितौ कापथगावतीव॥ 1.83॥
श्रमान्वितावप्यरविन्दयोनि-
पदाम्बुजध्यानविधानयोग्यम्।
निवशेमन्तर्गहनस्य तस्य
विचेतुकामावभिजग्मतुस्तौ॥ 1.84॥
गद्यम्-इत्थमम्बुजाडम्बरनिबर्हणप्रवीणाभ्यां पद्भ्यामेव स महीपतिः साध्व्या सह समागत्य सुदूरं, मध्यं गतेऽम्बरस्य भगवत्यरविन्दबान्धवे सदालसमलयाचलानिलहेलाविलोलातिकोमलदलजालीनलीनातिवेलकोकिलकुलकाकलीविनोदितमुनिबालैः, सन्तकान्तानन्तामोदकशाखान्तनिशानतशकुन्ता श्रान्तकोलाहलैराह्वयद्भिरिवासन्नाध्वगान्परिश्रान्तिविश्रान्वितवितरणाय, मन्दानिलस्पन्दिसुमबृन्दस्यन्दमानानन्दकन्दामन्दमकरन्दास्वादनतुन्दिलेन्दिन्दिरसन्दोहसङ्गीतामन्दितोत्कण्ठाकुण्ठनी लकण्ठकाहलीध्वनिभिराघोषयाद्भिरिवात्माभिरामतामुल्लसद्रसालसालहिन्तालतालतमालतक्कोलाङ्कोलोद्दालपाटलपिचुलपिच्छिलसरलमुखानेकानोकहनिवहैः, अनवरतललितमारुतपोतोद्धतान्तिकपतितामितकुसुमजातैरर्भ्यचयन्तिभिरिवात्मनीनाधिष्ठानदायिनीं वनावनीमसमानभासमानाभिरपरिमिताभिर्वनमल्लिकावाल्लिकामतल्लिकाभिः, अध्ययनमुखरिताननानूनमुनिवटुजनसलिलापूरितोदरैः शमप्रधानतपोवनोपवनावसथतया नानुबद्धविरोधौर्नानाविधमृगयूधैः उपशोभितोटजप्रान्तं, अनवरतास्तोकतापसानीकस्त्रानपानसन्ध्योपासनपरिकलनपवित्रीकृपयोभिः, अच्छाच्छसलिलसञ्चलच्छकुलकुलचपलालोलवालजालरुचिहेलाविभासिताभ्यन्तरैः, अन्तःप्रतिबिम्बितचराचरप्रकरैः, अरुणारुणकिरणैरिव पद्मिनीमनोहरैः, यामिनीकामिनीकामुककरैरिव अमृतस्वरूपैः, सन्मनोभिरिव सदाऽमलैः, सज्जनगुणैरिव सकलानन्दनैः, सन्मुनिचित्तैरिव सर्वदाऽधिगतहंसैः, सद्भूपैरिव समुल्लासितकुवलयैः, सत्काव्यैरिव सरसाभिरामैः, महाराजपुरुषैरिव मकरचक्ररेखाञ्चितपदैः, विकटाटवीनिकटैरिव विजृम्भमाणपुण्डरीकैः, पुण्ड्रेक्षुकाण्डैरिव अविरतघनरसान्तरैः, कासारवारैरनवरतानपेतं, अतितरपरिणतवयःपाण्डुरीकृतालकाभिः, जराजर्झरितजानुजङ्घ्राभिः, तिर्यगसकृद्वेपमानांसावनतोत्तमाङ्गीभिः शिशिरवेदनापनोदनाय बालातपमासेवमानाभिः वृद्धतापसीभिराकलितामितकुटीरद्वारादूरदेशं, अगणितक्रतूपकरणगणपरिपूरितपुण्यवेदिकाप्रज्वलद्भिः, अतिमात्ररुचिपात्रहेतिचित्रैः पवित्रैग्निहोत्रैरन्वहध्यानावमीलितनेत्रैः कृतानेकसत्रैः स्वतेजोऽभिभूताग्निहोत्रैः मौनिपुत्रैः पौत्रैश्च परिष्कृताभ्यन्तरं, क्षीरोदमिव अधोक्षजैकनिलयं, कैलासमिव सर्वज्ञाश्रयं, सत्यलोकमिव सद्विधिविलासनिलयं, स्वर्लोकामिव सर्वदाप्रकटीकृतसुमनःप्रपञ्चामोदं, अद्वितीयं, अद्धुतमाहिमाम्बुराशेर्माण्डव्यस्योद्दण्डमुनिमण्डलाखण्डलस्याश्रमपदमाससाद॥ 1.85॥
हसद्भिस्स्वोत्कर्षाद्दिवि सुमनसोऽधःकृतवतः
सुरद्रून् शीर्षेषु स्वयमधिवहद्भिस्सुमनसः।
प्रपोषद्भिर्मूलेष्वभिमतफलैर्भूसुमनसः
द्रमुर्दृष्टवोपेतं मुदमगमदीशो मुनिवनम्॥ 1.86॥
दृष्ट्वा तद्द्रष्टृदृष्ट्युत्सवदमविरतं दुष्कृतध्वान्तपूग-
ध्वंसादित्यैस्ससत्यैर्मुनिभिरपधुतासत्यकृत्यैरुपेतम्।
आदित्यारामभव्यं कृतसुकृतसमालोकितव्यं प्रसेव्यं
नित्यं स्तुत्यैरमर्त्यैरकलितसुकृतासेव्यमीशो विवेश॥ 1.87॥
गद्यम्-तत्र सुत्रामप्रमुखसुमनस्स्तुतमहामहिभवति सिद्धाश्रमे॥ 1.88॥
शिष्या मुनेस्तं प्रियया समेतं
दृष्ट्वा हयोर्वौशमदृष्टपूर्वम्।
हृष्टाः परं प्राप्य गुरोस्सकाशं
ईशं सदेशागतमुक्तवन्तः॥ 1.89॥
विज्ञाय शिष्योक्तिभिरागतं प्रभुं
मुनिः प्रियासङ्गतमाश्रमं निजम्।
प्रवेशयध्वं तरसा ससत्कियं
मदन्तिकं तानिति तं समादिशत्॥ 1.90॥
गद्यम्-इत्थमाज्ञप्तास्तेन ते तदादेशभनुपालयांचक्रुः॥ 1.91
तदनु-
द्वितीयं धातारं क्षितिगतमिवैकेन शिरसा
स्वयं द्रष्टुं लोकं स्वकृतमखिलं कौतुकवशात्।
निरस्यन्तं ध्वान्तं स्वरुचिविभवैराश्रमगतं
महर्षिं माण्डव्यं कुलपतिमथैक्षिष्ट नृपतिः॥ 1.92॥
शमधनवरं शान्ताकारं शचीशमुखामर-
प्रकरसततोद्गीतं वन्द्यं सुयोगिधुरंधरम्।
सकलनियमोदारं सर्वेड्यसद्गुणसागरं
शरणमिति तं मत्वा सोयं समीपमुपागमत्॥ 1.93॥
ववन्दे वनद्यानामपि दिविषदां वन्द्यमनघं
सपत्नीकस्स्वाख्यां तमृषितमभिशंसन् क्षितिपतिः।
दयापारावारो दरदलितनेत्रोऽथ स मुनिः
तमालोक्य प्रीतं पुनरपि सदर्ध्याद्यरचयत्॥ 1.94॥
पृष्ट्वाऽनामयमाब्जभूप्रतिनिधिस्तं मद्रभूपं यमी
तद्भार्यामपि मालवीमुपविशेत्याज्ञापयत्प्रीतधीः।
आदेशादथ तस्य पावनतमे तच्छिष्यसंदर्शिते
भक्त्या सोऽयमुपाविशत्क्षितिपतिस्तत्सन्निधानेऽग्रतः॥ 1.95॥
मुनिमघवा तमात्मदयितासहितं सदयं
वनगमनस्य कारणमपृच्छदथाश्वनृपः।
नतहितदं नितान्तमखिलार्चितमङ्घ्रियुगं
पुनरपि संप्रणभ्य हृदयस्थितमाह मुनेः॥ 1.96॥
मयेदं संमान्यं कुलमवसितं मद्रधरणी-
पतीनां पद्माप्तप्रतिममहसां च प्रतपसाम्।
दयापारावापरिमिततपोभार! भवता
यथा तत्प्रक्षीणं न भवति तथा कार्यमनघम्॥ 1.97॥
मयि करुणां कुरु महतीमलमतनयतादरिद्रतादूने।
त्वत्करुणारसपात्रीभूतोऽहं धन्यतां यायाम्॥ 1.98॥
मंहीनाथाः पूर्वं महिततपसस्त्वादृशमुनेः
प्रसादात्संप्राप्तानघसुतधनास्सौख्यमभजन्।
इति ख्यातिर्ब्रह्मन् जगति विततां तां बधुजनात्
विदित्वा त्वत्सेवाकलनमनसैवास्म्युपगतः॥ 1.99॥
पुत्त्रार्थं भगवन्तम्बुजभुवं कर्तु प्रहृष्टं तपः-
प्राग्भारात्प्रियया सहाश्रितमिहारण्यं मया दुर्गमम्।
स्वामिन्! पुण्यवशान्ममात्र भवतस्संदर्शनं श्रीकरं
जातं निष्फलतां कदाऽपि न महत्संदर्शनं प्राप्नुते॥ 1.100॥
किञ्चि-
तपोधनाग्रेसर पुत्रलाभः
त्वदीयसंर्दशनलाभतस्स्यात्।
इत्येव मत्वा प्रियया युतस्त्वां
शरण्यमेवं शरणं गतोऽस्मि॥ 1.101॥
इत्थं विज्ञापयन्तं तं प्रज्ञानिधिरुवाच सः।
देशिकेन्द्रस्स्वयं ज्ञात्वा देशकालहितं वचः॥ 1.102॥
पुत्रार्थं प्रिययाऽब्जिनीमृदुलया पद्मासनं तोषितं
कर्तुं त्वं तपसाऽऽगतो वनपिदं मन्येऽहमश्वेश्वर।
योगात्सर्वमहं तवाद्य गृहिणीयं शीतनीरे कथं
त्रीन्वारानभिशृण्वतीह तपसां कष्टं कथं वा श्रयेत्॥ 1.103॥
राजन्! भवानप्यनवाप्तकष्टः
कदाऽपि नित्योत्कटसौख्यपुष्टः।
क्व वा मुनीनामतिकष्टभाजां
चर्या सुखार्हा क्व च राजरीतिः॥ 1.104॥
येन प्राप्यं सुतं गमिष्यसि मुदं यद्गेत्रवृद्धिप्रदं
सूक्तं ब्राह्ममुपादिशामि भवते तत्साधुं संभाबय।
इत्युक्त्वोपदिदेश तन्मुनिवरश्श्रुत्वा गृहीत्वा च त-
त्प्रोक्तं सूक्तमसौ ततो धियमजायत्ताममत्तां व्यधात्॥ 1.105॥
ततः-
महीसुरमहेन्द्रं तं महीभृन्मन्त्रविद्वरम्।
गुरुमान्त्र्य मालव्या गतस्सह वनाद्वहिः॥ 1.106॥
गत्वा तत्सविधगतं वनमन्यत्तन्महर्षिराडुक्तम्।
तत्र शुचिर्भूत्वाऽसौ जप्तुं तं मन्त्रमारेभे॥ 1.107॥
त्रिवारानश्वेशः प्रहतविषयाशो नियतधीः
जजापोक्तं सूक्तं महिममहता मौनिविभुना।
ततस्तन्माहात्म्यान्मुदितहृदयः पद्मनिलयः
तदिष्टार्थं दातुं धियमतनुताप्तुं च धरणीम्॥ 1.108॥
गद्यम्-अथ भगवान् पितामहोऽप्यविरताधिगतसुरतानुरागः, पद्मनन्दनोऽपि विराचितपद्मालयः, सत्यलोकक्षयोऽप्यसत्यलोकक्षयः, पुण्यजनासेव्योप्यपुण्यजनासेव्यः, पारावार इव कर्बुरोदरः, सत्कविरिव स्वाधीनभारतीविलासः, स्वर्लोक इव सनन्दनाधिगतामोदः, सदाराम इव सकलागमाश्रयः, शर्व इव ससर्वमङ्गलः, पूर्णिमाविभावरीश इव सर्वकलानाथः, प्रावृट्काल इवोरुप्रकटीकृतनारदोदयः,पतङ्गाधिपतुरङ्ग इव अभङ्गदयातरङ्गितान्तरङ्गः, चक्राङ्गुतुरङ्गः, अनन्यसाधरणतां गतामात्मीयभक्तावनैकनिघ्नतां चतुर्मुखतां च प्रत्यक्षीकुर्वन्निव, किम्महिमा विधाता, किम्भूत इत्यनवबुद्धात्मतत्त्वान्, अज्ञानान्धकारविलुप्तविज्ञानदृष्टीन् अदृष्टपूर्वेः अपारानुकम्पामयैः प्रत्याशं प्रसर्पद्भिः, अमृतपयोनिधिवीचीविवर्धमानफेनपाण्डरैरपाङ्गोत्करैः, अतिप्रबुद्धानाकलयितुमुद्यततयेव, प्रतिसर्गोत्पादयिष्यमाणतारातारेशाचलेशार्थमार्जितानिशावितबीजशुद्धशलाकयेव धृतशरीरया. अखिललोकराज्यलक्ष्म्येव उपपादिताकारया, कमलयेवाधिगतपुण्डरीकलोचनया, दाक्षायण्येव अन्तरतशिवावष्टब्धया, गङ्गयेव विबुधाभ्यर्थनीयया,शच्येव वृषैकविषयया भगवत्या, भारत्या सद्धर्मर्श्श्रितलोकपरिपालनं महतां भवादृशानामित्यभिशंसितस्स्वयमासनादुत्थायाम्भोरुहमयात् पृथ्वीनाथमनोरथप्रदानमनीषया आसन्नसंनिविष्टाननामन्त्र्यानुश्रविकार्थरहस्यनिर्णयकलहायमानान्वसिष्ठादिगरिष्ठाधिकारिणः, सुदूरसञ्चरणपरिश्रान्तिमसहमान इव अविदूरविराजमानं विराजमानगुणगरिमाणमात्मयानमदिरुह्य मरालराजं, अनुगम्यमानस्सिद्धचारणगन्धर्वेः प्रसन्नततातपत्रचारुचामरधरैरमरैश्चोदीयमानापदानः, सनकादिभिस्सत्वप्रधानैस्सहतपोधनैरतितरसाऽवरुरोह सत्यलोकाज्झडिति मर्त्यलोकम्॥ 1.109॥
यत्कारुण्यकटाक्षदूरविधुताविद्यातमोग्रन्थयः
संपश्यन्ति चिदञ्जनेन कवयस्सारस्वताख्यं निधिम्।
भारत्या सहितस्तयाऽखिलजगन्निर्माणकर्मा विधिः
सौहार्दात्स्वजपैकतानमनसस्तस्याविरासीत्पुरः॥ 1.110॥
आविर्भूतोऽमरस्त्रीकरकमलचलच्चामरोत्सारितार्त्या
भारत्या भव्यमूर्त्या सह सरसिजभूर्भक्तमात्मैकसक्तम्।
ध्यायन्तं स्वं प्रशान्तं मनसि तमवनीकान्तमाहालमस्मात्
ध्यानाद्राजन्! प्रसन्नोऽभवमहमिह यच्चेप्सितं तद्वदेति॥ 1.111॥
यत्ते भूप! मनीषितं भवति तत्तूर्णं कृपाद्वीपव-
त्येषा दास्यति भारती जहि जपं प्रीतोऽहमस्म्यागतः।
इत्थं श्रोत्रगतां विधातृगदितां वाणीं सुधाधोरणीं
कृत्वा श्रोत्ररसायनं स गगनस्थं तं ददर्शाग्रतः॥ 1.112॥
गद्यम्-तदनन्तरमसावधीश्वरो मद्रजनपदानां, अचिन्तितागमनं अकाण्डाविर्भूतमिव घनममृतासारवर्षिणं, अम्भोजबान्धवमिवापरमम्बरविद्योतमानं, अम्भोजभवनमापन्नजनपरायणं, उद्वीक्ष्याक्षिभ्यामुत्क्षिप्ताभ्यां, मङ्क्षूत्थायाब्जाक्ष्या सह प्रणिपत्यारचय्याञ्जलिकुट्मलमुत्तमाङ्गे अतीव कृतार्थोस्म्यहमनुगृहीतोस्मि, कृतं मदीयं जन्माधिगतसाफल्यं, जाता मदीयतपस्सिद्धिः, उद्भिन्नो मामकजन्मान्तरसुकृताङ्कुरः, तारिताश्चास्मत्पितरः, सञ्जातमिह यदीदृशं भगवत्या सह भारत्या भवदीयदिव्यसंदर्शनमित्युच्चैर्विज्ञापयन् मुहुर्मुहुरमन्दानन्दामृतपूरनिमग्न इव स्थित्वा मुहूर्तमनुध्याय सनिदर्शैस्सेतिहासैश्च वचोभिरित्थमस्तावीत्॥ 1.113॥
मात लक्ष्मीः पिता ते मुररिपुरमरास्सेवकास्साधुचर्या
भार्येष्टा भारतीयं तव महितसुता नारदाद्या मुनीशाः।
वाचस्ते वेदरूपास्सकलनुतिपदं सर्वलोकाधिपत्यं
सुस्थानं सत्यलोकस्तव विभवमतः कोऽत्र वक्तुं समर्थः॥ 1.114॥
तथाऽप्यहं तावकपादपद्म-
चिन्ताविशेषादिह वक्तुकामः।
जातः प्रसन्नो भव सर्वलोक
स्बामिन्मयि त्वामनुसंदधाने॥ 1.115॥
आबाल्याद्भवदीयपादनलिनध्यानस्थितोऽप्यात्मवि-
त्स्तोमस्ते पददर्शनाय सुचिरान्नालं बभूव स्वयम्।
यच्छीघ्रं भवतोरिहाभिगमनं भव्यात्मनोर्भद्रदं
भक्तानाममितं तपःफलमिदं मत्पूर्वधात्रीभृताम्॥ 1.116॥
पयोधौ पद्मेशः फणिपतिफणाधः प्रमदया
शयानोऽगान्निद्रां पशुपतिरभूत्पर्वतगृहे।
जगन्त्येतानि त्वं यदि कमलभूर्नावसि भवेत्
कथं लोकेशत्वं तव गतिरमीषामपि कुतः॥ 1.117॥
वाणीं पाणिपयोरुहादृतरणद्वीणां मनोहारिणीं
एणीदृक्समलोचनां फणिलसद्वेणीं शुभोद्गरिणीम्।
देवैकामपि तां चतुर्मुख! महासौधेषु मोदात्सदा
नृत्यन्तीं वितनोषि यत्कुत इदं चातुर्यमभ्यस्यते॥ 1.118॥
पुरा नाभीकोशात्सरसिजमयात्कैटभरिपोः
बाहिः प्रत्यागच्छन् जलमयमिमं लोकमखिलम्।
प्रपश्यन् जन्तूनां स्थितिमरचयद्यत्करुणया
यथापूर्वं तस्मात्कमलज! विधाता खलु भवान्॥ 1.119॥
त्रिमूर्तौनां मध्ये प्रथमगणनीयोऽसि भगवन्!
यतस्सृष्टेः कर्ता प्रथमतरकार्यस्य जगताम्।
ततः ख्यातिर्लोक विधिहरिशिवा इत्यविहता
प्रभूता त्वन्मूला भवति विदुषामप्यभिमता॥ 1.120॥
देव्याऽऽलापनमेककेन मुनिभिस्संभाषणं चापरे-
णान्येनाननपङ्कजेन जगतीसृष्टिक्रमाणां कथाः।
अन्येनाखिलवेदपाठमसकृत्कुर्वाणमत्यादरात्
तच्चातुर्यंवशाच्चतुर्मुख इति त्वां मन्वते योगिनः॥ 1.121॥
जनयति भवांस्त्रिलोकीं रक्षति लक्ष्मीपतिः कटाक्षेण।
क्षीणयति भूतनाथस्त्वत्तस्तस्मादपत्यमाशासे॥ 1.122॥
गद्यम्-इत्यब्जभवमभिस्तुत्याश्वमहीश्वरः स्वाभिमतार्थं चाभिधाय तत्सहधर्मचारिणीं आश्रितजनगणरक्षणकरणधुरीणचरणां वाणीमस्तावीच्च॥ 1.123॥
करक्वणितकङ्कणध्वनिविशेषसम्मिश्रितं
निजाङ्गुलिदलाञ्चलैर्माणिविपञ्चिकावादिनीम्।
श्रुतिस्वररसोज्वलां श्रवणयोस्सुधासेचिनीं
समस्तबुधसेवितां मनसि भावये देवताम्॥ 1.124॥
दरहासचन्द्रिकारुचिधवलीकृतदिव्यतनुसौधाम्।
शरदभ्भ्रसदृशवसनां शुभ्रां वैधात्रसुन्दरीं कलये॥ 1.125॥
मन्दारमुकुलमालासन्देहावालहारवलयाढ्याम्।
हारगिरिहीरताराकारां सारां सरस्वतीं कलये॥ 1.126॥
इत्थं स्तुवन्तं बहुधा नमन्तं
स्वस्मिन् दृगन्तं मुहुरर्पयन्तम्।
कारुण्यपूर्णः कमलासनस्तं
सस्त्रेहमालोक्य समाजगाद॥ 1.127॥
पुत्त्रस्ते न भवेन्महीरपमघवन! किं त्वद्य पुत्त्री भवेत्
पुण्यश्रीरिव साकृतिस्सुचरिता त्वपूर्वधात्रीभृताम्।
वाग्देवीकृपयोदितां रचय तां नाम्ना युतां त्वत्सुतां
सावित्रीति भवान्भविष्यति यमात्पुत्त्री तदाराधितात्॥ 1.128॥
विश्रुतकीर्तिर्विबुधश्लाघितमूर्तिर्विधूतविनतार्तेः।
स्थास्यति रुचिरस्फूर्तेस्या सुचिरं प्राप्तभव्यगुणपूर्तेः॥ 1.129॥
गद्यम्- तया च विनयविवेकादिगुणगणाभिरामया, निजाभिरूप्याभिनिर्जितनिर्जरेश्वररामया, आर्यादरणीयातिलोभनीयकीर्तिसोमया,सकललोकलोचनोत्सवारामसीमया, अनन्यसाधारणात्मचारित्रतुलितरमायामस्यां भवदीयमहिष्षामाविर्भूतया अभूतपूर्वाश्रुतचरचरितया सुतया भगवत्या जनककुलमिव भर्तृकुलमप्यतिपवित्रीकरिष्यत इत्याज्ञाप्यान्तर्दधे भगवान् भारत्या सहाम्भोजयोनिः॥ 1.130॥
गद्यम्-अन्तर्हिते चाखिलभुवननिर्माणचातुरीधरीणे, दुरन्ताश्रितगणरक्षणपारीणे द्रुहिणे, क्षोणीपतिरपि वाणीप्रणिशवदनाम्बुजक्षरदक्षीणमकरन्दमसृणवाणीसुधाधोरणीपानपरिपूर्णान्तःकरणषट्चरणः हैरण्यगर्भविरहासाहिष्णुतया मन्देतरव्यसनाम्बुधिमग्न इव स्थित्वा मुहूर्तमालोव्य गत्वा चाश्रमाभ्यन्तरं, अम्भोजसम्भवमिवापरमनुभावादवभासमानं, अम्भोजबान्धवमिव विराजमानमभिप्रणम्य माण्डव्यनामानमात्मसन्ताननिदानमन्त्रायतनं, अनुकम्पितस्तेनसाकं सहचरन्त्या स्वनगरमभिगन्तुमभिलषन् इत्थं विज्ञापयामास॥ 1.131॥
भवतोऽनुग्रहवशतो भक्तावनभवनमब्जभवनमहम्।
परिसेव्यास्मयपदुरितः किं कर्तव्यं मयाऽद्य वद भगवन्!॥ 1.132॥
विज्ञापयन्तमेवं नृपवज्रिणमाह विश्वऋषिवज्री।
कमलोदवसितकरुणाकलितेक्षणकलनधूतकलषघनम्॥ 1.133॥
कतिपयदिवसान मामकसिद्धाश्रमसन्निकाशवासिऋषीन्।
परिसेव्यं तदादेशान् प्राप्य स्वपुरीं ततः प्रयाहीश!॥ 134॥
गद्यम्- इति वदति मुनिवरे महामहिमवति स भूपति स्तथैवाकरोत्॥ 1.135॥
आज्ञापितः पुनरपि स्वमनोरथार्थ-
संप्रत्प्रपञ्चनिधिना स बभूव तेन।
सम्प्रस्थितस्सह यथाऽऽगतमम्बुजाक्ष्या
सर्वान् प्रणम्य च ऋषीननुमोदितस्तैः॥ 1.136॥
आजगाम सहसाऽथ भूपतिः
भार्यया सह तयाऽब्जवक्त्रया।
आश्रमाद्बहिरुपेत्य नागरीं
संप्रपद्य पदवीं समाययौ॥ 1.137॥
मृद्वीं शिरीषकुसुमादपि मञ्जुलाङ्गीं
नागाङ्गनामिव मुहुस्सविधे श्वसन्तीम्।
देवीं विलोक्य दययाऽधिकयाऽधिपस्तां
ऊचेऽम्बुजातविततेन विलोचनेन॥ 1.138॥
कान्ते श्रान्ताऽस्यनशनवशादातपोऽयं प्रवृद्धः
कायस्तेऽसौ किसलयनिभो म्लानतां संप्रयाति।
पादावेतौ पयसिजसमौ काननं कण्टकाढ्यं।
तस्माद्भूमौ चरणयुगलीं मन्दमन्दं निधेहि॥ 1.139॥
इत्थं तैस्तैर्मधुरमधुरैर्मोहयन् मोहनाङ्गी
नर्मोद्भूतर्नवमधुनिभैर्भावगर्मेर्वचोभिः।
गच्छन् राजा कुचभरनमन्मध्यया राजपुत्त्र्या
तत्रापश्यत्स्वभुजयुगलीरक्षितान् भूमिभागान्॥ 1.140॥
गद्यम्-एवमागच्छन्तौ, इतरेतरमनोहरालापाधिगताध्वखेदशैथिल्यौ अखण्डराजमण्डलराजन्मुखपुण्डरीकौ, अरुन्धतीवसिष्ठाविव तनुजन्मशक्तियुक्तौ, अपर्णान्धकारी इव सौकुमार्यसम्पन्नौ, रोहिणीशशधराविव अनवरतविरचितबुधानुमोदौ, शचीपुरन्दराविव सुमनोरञ्जनसुगुणालङ्कारौ, स्वाहावितिहोत्राविव सत्रविधिनियुक्ताभिमतार्थसङ्ग्रहसमेधितामोदौ, राजदम्पती, कियद्दूरमागतमावाभ्यामधिवसति कं देशमस्मदीयनगरी, किं वा विस्मृतः पन्थाः पूर्वयात्राभ्यस्तः पितामहप्रत्यक्षप्रभव प्रमोदभरात्, नहिनहि गिरिश्चित्रालय इति पुरः पौरकृतनामा जागर्ति लोचनगोचरोऽयं महान्, तत्परिसरे खलु विराजति पुरी हेमवती इत्यन्योन्यं विचारयन्तावतितरमगमतामात्मीयनगरोपवनमनुपमानसौभाग्यापहसितामरोपवनम्॥ 1.141॥
तत्र-
रमामाधवौ वा रतुश्रीसुतौ वा
भवानीभवौ वा सरस्वत्यजौ वा।
जगद्रक्षणार्थं चरन्तावितीमौ
ननन्दुः प्रजा वीक्ष्य जायापती तौ॥ 1.142॥
कुवलयबान्धावस्यमधुरस्स महीशवरः
सुललितचन्द्रिकातिरुचिरास्यवधूरपि सा।
क इह जनो न याति परमाद्भुतरूपभृतोः
मुदमवलोकनेन नितरामितयोस्स्तुतयोः॥ 1.143॥
गद्यम्- तदनु महीमण्डलमण्डनायमानावनीपपुण्डरीकोश्वावनीनायकः उपवनपालकमात्मरूपोपहसितराजीवसायकं, अतिकोमलपल्लवारुणपरिधानपरिलसत्प्रतीकं,अनन्यसुलभात्मानुगुणपटवासपरागपरिमलवासितहरिदम्बरं, आत्मावलोकनभयसम्भ्रमेणोपेत्यारचितप्रणामं आरात्किञ्चिदाकुञ्चितमस्तकं कंचन मधुकरनामानमवलोक्य सविश्वासमयमेधुकर! त्वमद्य प्रतिगतो नगरीं सचिवगरिष्ठं प्रद्युम्नशेखरनामानममात्यमाकलय्य सज्जीकृतरथेन तेन सह त्वरितं त्वया समागन्तव्यं, इति तदन्तिकं तं प्राहिणोत्॥ 1.144॥
गद्यम्- सोऽयमपि संप्रणम्य तं तथेत्यूरीकृत्य तदाज्ञां अतिजवेनागत्य, सुधर्माधिष्टितं अनेकराजपुरुषावष्टब्धप्रान्तंआत्म धिषणाधरितधिषणं. अमात्यकेसरिणं तमवलोक्य नत्वेत्थं विज्ञापयामास॥ 1.145॥
गद्यम्-देब! मन्मुखेनोद्यानवनगतस्तत्रभवान् देव्याऽनुगतः पृथिवीदयतिस्त्वामनामयं पृच्छत्याज्ञापयति चात्मनस्सन्निकाशमायुष्मता भवता समानेतव्यस्सज्जीकृतस्यन्दन इति॥ 1.146॥
गद्यम्-अथ तद्वचनसुधारसमतिसरसास्सर्वे सुधर्माधिगतास्सचिवाः पीत्वाऽऽत्मश्रोत्रचुलकैरमन्दानन्दतुन्दिलहृदन्तरा बभूवुः॥ 1.147॥
किरीटी कोदण्डी कुटिलगुणदण्डी गुणनिधिः
जितारिर्जोमूतश्श्रुतचरितहेमाङ्कशिखरः।
मुकुन्दःकुन्दश्चेत्यवनिपहितास्तेऽष्टसचिवाः
स्थिरेशालोकार्थं द्रतमुपवनं प्रत्युपगताः॥ 1.148॥
समायातास्सभ्यास्समधिकमुदुन्मेषसहिताः
समस्तास्तैस्साकं सवनितसहस्त्राक्षसदृशम्।
समानेतुं स्वाराडुपवनसमानान्मधुवनात्
सभक्त्युन्मेषं तं सदमलमतिं सप्तिनृपतिम्॥ 1.149॥
गद्यम्-एवमेते ससचिवास्सभाजना बहिरवस्थितेन राजज्ञानिवेदनसन्नाहितेन रथेन सूतानीतेन परिजनेन, चासेदुरनुपमानभवनमुद्यानवनम्॥ 1.150॥
समागतास्तत्र समुल्लसन्तं प्रियायुतं ते ददृशुर्नरेश्वरम्।
शचीयुतं शक्रमिवावनीं गतं समीक्षितुं तद्वनरामणीयकम्॥ 1.151॥
नेमुर्विभुमतिविनता निजनिजनामान्युदीरयन्तस्ते।
अमरा इव हरिहयमतिमहितास्सर्वे प्रियासहितम्॥ 1.152॥
राजा ततस्समवलोक्य निजानमात्यान्
प्रद्युम्नशेखरमुखानखिलान् विनीतान्।
पृच्छन्नसौ कुशलमीरितनैजभद्रान्
आमोदयत्स्वकुशलस्य निवेदनेन॥ 1.153॥
गद्यम्-तदनु धरामरेशस्तान् स्वकुशलोपपादनोत्खातात्मीयविरहात्मकहृहयशल्यान् अखिलोपलाल्यराजकार्यधुर्यताकल्यान् उपलाल्यामात्यान्, निवेश्य च रथे देवीं स्वयमपि निषण्णः, संचोदय रथ्यानित्यभिजगाद् सूतवरम्॥ 1.154॥
सोऽयं विमुच्य रयनिर्जिततार्क्ष्यवात-
वेगाश्वसंयमनधीरतरांस्तु रश्मीन्।
प्राचूचुदद्रथमनेकजनावकीर्णं
आद्वारमद्बुततरं नगरस्य तस्य॥ 1.55॥
गद्यम्-तत्र च राजावलोकनकुतूहलेन,क्वचन समुदायवस्थितैः, क्वचन विरलावस्थितैः, क्वचनोर्ध्वदेशावस्थितैः, क्वचनाधोऽवस्थितैः, क्वचनोपविष्टैः, क्वचनोत्थितैः, क्वचन शनैश्शनैस्सञ्चलद्भिः, क्वचन धावद्भिः, क्वचनान्यत्रोपसर्पाद्भिः क्वचन किञ्चिदापृच्छमानैः, क्वचन किञ्चिद्ब्रुवाणैः, क्वचन किञ्चिदाकर्णयद्भिः क्वचन किञ्चिद्विचारयद्भिः, क्वचन किञ्चित्तपश्चरणक्षीणविग्रहतायामप्यामासावसानं किमेतदत्यद्भुतं महो महाराजस्येत्याश्चर्यावलिप्तान्तरङ्गैः, पत्तनान्तर्गतैः, नरपुङ्गवसङ्घैस्संगतोत्सङ्गापणवाधिकामवलोक्य पुरीं हेमवतीमन्यपुरीपरिभाविकां प्रविश्य पुण्यलक्षणोपलक्षितैः, महासत्तवाधिकैः, विन्ध्याचलप्रान्तैरिव, कल्याणभाजनैः कनकोर्वोधरकटकैरिव, सर्वकलासंपूर्णैः पूर्णिमासुधाकरैरिव, परदुरापतेजःप्रदीप्तैः तपस्याम्भोजिनीप्रियैरिव, सकलरञ्जनगुणगणरत्नाकरैस्सागरैरिव, बालारुणकिरणारुणीकृतैः केसरिकिशोरैरिव काश्मीराङ्गरागावलिप्तसंहननैः, खर्जूरकदलिकाकमुकवीटिकादिकानेकमाङ्गलिकफलानीकपरिपूरितस्वर्णभाजनाञ्चितुपञ्चशाखैः, किञ्चिद्दरहासविलासोल्लसन्मुखैः, शृङ्गाररसैरिव संगृहीतविग्रहैःअधिकारिपुरुषैरन्तरा प्रत्युद्गन्तुमागतैः, निबिडिते नागत्य शृङ्गाटकेन मन्दमन्दमुपयातैः परिपूर्णजरापलितोत्तमाङ्गैः अतितरशुद्धोर्ध्वपुण्ड्रमण्डिताननैः अक्षीणलक्ष्मीकराक्षतकरण्डिकाकरीम्भतकरकञ्जैः वृद्धद्विजपुजैः प्रयुज्यमानाः शतमानं भवतीत्याशीषः प्रतिगृह्णानः, शिरसाऽभिवाद्य, धिषणातिरिस्कृतधिषणैः प्रत्येकप्रकटितस्वनामधेयैः पताद्भिः पादयोः परमाप्तैः पौरैरनुगम्यमानः, सुदूरमारचितनूतनसंस्कारं, अप्रमत्तवीरभटवारं आयोजितकरितुरगप्रान्तरं, आबद्धमणितोरणद्वारं, अतितरलशिखरासम्बितातिरुचिराम्बरैरैत्युत्कटात्मकोटिविपाटिताम्बरचरवनवाटीपरिसरैः उत्तप्तहाटकोद्भटकेतुप्रकरैरलंकृतोपरिभागं, आत्मा वलोकनकलितानन्दतुन्दिलपौरसुन्दरीसन्दोहसान्द्रितान्तःपुरादूरविश्वम्भराभासुरं, आत्ममन्दिरमनुप्रविश्य, समावेदयन्नटवीतटगतमात्मचरितमन्यूनाधिकखिलं, आमोदयन्नाश्रितसमवायं अवधीरयन्नमित्रसमुदायं, आपादयन्नखिलमनोरथार्थसञ्चयं, आखण्डल इवान्वपालयद्यथापूर्वमुदधिमेखलामखिवलां विपुलामयममलगुणरत्नगणखनिरश्वमहीपमणिः॥ 1.56॥
यत्कारुण्यकटाक्षपातविधुताविद्यातमोग्रन्थयः
प्रख्यातास्सुधियो भवन्ति कविताचातुर्यधुर्याः परम्।
तद्देवीकरुणाबलाद्विरचिते चम्बूप्रबन्धेऽनघे
सावित्रीचरितामृतैर्विलसिते चाद्यो विलासोऽगमत्॥ 1.157॥
इत्यखण्डपाण्डित्यसमुहण्डपण्डितप्रकाण्डपरिमण्डितमण्डिकल्न-
गरमण्डनायमानस्य, विश्वविख्यातविद्यावैदुष्यविभूषितस्य,
अस्मानयामुनाभिजनतिलकायमानस्य, श्रीमतो वे-
ङ्कटरामार्यवर्यस्यान्ते वासिना तदग्रजन्मनः
श्रीवेङ्कटनृसिंहार्यस्यात्मजेन वरदाचा-
र्येण विरचिते सावित्रीपरि-
णये प्रथमो विलासः
********************************************************
** अथ द्वितीयो विलासः**
अथाश्वराडदैवतगीतशौर्य-
शाली द्विषद्व्राततमोंशुमाली।
सच्छ्लाघनीयैस्स्वगुणैस्सुधांशुः
आह्लादयल्लोकमिवांशुभिस्स्वैः॥ 2.1॥
हयावनीशेन वितीर्यमाण-
दानाम्बुनिर्यन्मणिपूरितोऽब्धिः।
तदादि रत्नाकर इत्यमानि
महीतले पण्डितपामरैश्च॥ 2.2॥
स्वतजेसाऽनङ्गसतीसहोदरा
कृशोदरा बिम्बफलारुणाधरा।
रमेव राजीवदृशं रसोदरैः
अनन्दयत्सा रमणं स्वविभ्रमैः॥ 2.3॥
तन्वी ताराधिनाथोज्ज्वलनिजवदना तर्कयन्ती विधातुः
वाक्यं वर्षावसानं व्यरचयदमिताभीष्टदानि व्रतानि।
पश्चात्पत्युस्सकाशात्परममुदमगात्पावनापत्यकामा
पाकारातेस्सकाशात्पतिहितचरिता सा पुलोमात्मजेव॥ 2.4॥
सा रामाऽथ मनोरमतमा गर्भं वहन्ती तदा
पृथ्वीशार्पितमात्मवंशजलधे राकाशशाङ्कायिताम्।
जीमूतार्पितमम्बुबिन्दुमिव सच्छुक्तिस्ततः प्रत्यहं
शोभां कामपि संदधार कमितुः कौतूहलापादिनीम्॥ 2.5॥
उपचितावयवा समयक्रमात्
परमराजत पद्मदलेक्षणा।
अनुदिनोदितपल्लवदीपिता
द्युतिमतीव सुदिव्यतमा लता॥ 2.6॥
आनीलचूचुककुचद्वयमायताक्ष्याः
आसक्तभृङ्गमिव पङ्कजकोशयुग्मम्।
प्राप्यापि कञ्चुकनिबन्धनमाप वृद्धिं
भूमौ निरुद्धमपि बीजमुपैति वृद्धिम्॥ 2.7॥
कतिपयवासरेषु गतवत्सु महीदयित-
प्रियतमया धृतस्सपदि गर्भभरोऽलसया।
व्यरचयत क्रमादनवलोकनमार्गगतं
मगधसुतावलग्नमवलोकनमार्गगतम्॥ 2.8॥
नाभीकूपतटोद्गता नवनवा श्यामा मनोहारिणी
जाता रोमलता तिरःप्रचलिता याता वलीनां त्रयी।
स्त्रस्तं सैकतसन्निभं सुललितं साध्वीनितम्बस्थलं
नाभिर्गाधतरा बभूव नलिनारात्याभमासीन्मुखम्॥ 2.9॥
भर्त्रा क्षिप्तं वरतनुरियं गर्भमाधत्त देवी
यस्मादित्थं विमलमनसा भूभुजामुत्तमेन।
तज्जाताऽस्यास्सरसिजदृशः केतकीगण्डपालेः
मृद्द्रव्येच्छा मधुरिमगुणे वस्तुजाते स्थितेऽपि॥ 2.10॥
गद्यम्-ततः परमेकदा तु सा कठोरतदुर्भरावयवभारा माराहितदारार्थितोदाराकारा, दूरीकृतदुराचारा, सर्वदासर्वसंस्तुतसदाचारा, मद्रवसुन्धरापतिमहिषी, पूर्णैषु नवसु मासेषु, विमलतरविधुकरनिकरविभूषणविभूषितासु विभावरीषु, विरलतरतारकाकोरकविकीर्णेषु वियद्वीधीविभागेषु, सुरभितरमालतीसुमगन्धसुगन्धिपवनेषूपवनेषु परिपाण्डुरपयोधरपरिशुद्धपटपटलपरिष्कृतासु प्राच्याद्याशाप्रमदासु, जैत्रयात्रायुक्तेषु जगतीपतिषु, पत्यागमनमुदुतविरहिणीहृदयोष्विवापहतकालुष्येष्वखिलकासारान्तरङ्गेषु, सत्पुरुषचरितेष्विव सर्वलोकरञ्जनेषु, उपचितशोभासमागतेषु, समागतेषु शरद्वासरेषु, पक्षे वल्क्षे शुभतरे वासरे, निखिलजनहृदयानन्दकरे विहतानिष्टे सन्मौहूर्तिकाभीष्टे, लग्ने भद्रसंलग्ने, प्राचीव पूर्णिमामृतांशुमण्डलं, अमृताम्भोधिरिव कौस्तुभरत्नं, असूत कन्यकारत्नम्॥ 2.11॥
तत्कन्यातनुविभया तपनीयगृहाभमखिलभवनमभूत्।
भव्यतमभर्मभाया महसा मायाः पयःपयोधिरिव॥ 2.12॥
मुमुदे तनयां निशाम्य जातां
मुकुलीभूतविलोचनाञ्चिताम्।
तनुजातनुशोभया हयेश-
प्रियजाया प्रतिलिप्तविग्रहा॥ 2.13॥
अनन्तरमभून्महीदयितमन्दिरं सुन्दरं
त्वमन्दतरमन्दरप्रमथिताणर्वाभ्यन्तरम्।
महोर्मिनिनदैरिवाहतमृदङ्गभेर्यानक-
प्रणादकलितप्रजाकलकलैस्समापूरितम्॥ 2.14॥
निशम्य तनयोदयं निजमहीमहेन्द्रस्य त-
त्पुरं परमलङ्कृतं पुरजनाः प्रचक्रुर्मुदा।
महार्हमणितोरणैर्महितकायमानैर्महा-
ध्वजैर्मसृणभौक्तिकाञ्चितवितानकैश्चाद्भुतः॥ 2.15॥
गद्यम्-ततः परमधिपो मद्रजनपदस्य, अपगतबालारिष्टाद्यनिष्टां, अशेषविष्टपाधीशतनूजोत्कृष्टां, अमृतमयूखरेखामिव दिष्टवषादवनीतलगतां, अमरहिलाललत्पाणिकमलच्युतामिव पारिजातकुसुममञ्जरीं आत्मतनुप्रभामिभूताचिरप्रभामालोक्यात्मकुमारीं, आनन्दामृताम्भोधिमज्जनमाचरन्नप्याकलितजलावगाहनुः, समतिक्रान्ते दशमेऽहनि समागते चाहनि दशमाधिके, पुण्ये मूहूर्ते पुरोहितपरिकीर्तिते गाः कोटिशः सुवर्णं चात्मनामधेयसुवर्णप्रकीर्णमवनीसुरसाद्विधाय, अमृतनिमित्तामरनिर्मथ्यमानामृततरङ्गिणीरमणतरङ्गारवभङ्गीमङ्गीकुर्वद्भिः, गम्भीरतभेरीपु रस्सरमाङ्गलिकास्तोककाहलानकवेणुशङ्खढक्विकाध्वानोत्करैः अतिवेलजनकोलाहलबहुलीकृतावनीसुरस्वस्तिवाचनिकसंरावैश्चातिसंकुलायामुत्सववेलायां, अखिलानुमत्यासरसिजम्भवसद्भाषितगौरवेण विशेषतो विद्योतमानां, विद्याधिदेवतानुकम्पामिव विधृताविग्रहां, अगृहतिशोभावग्रहां चकार सावित्रीं नाम्ना तां कन्याम्॥ 2.16॥
ततः-
ताम्बूलामलवस्त्रपात्रमणिभूदानादिभिर्भूसुरान्
हृष्टान् बन्धुजनाप्तवन्दिमगधान् चेटीजनांश्च प्रभुः।
कृत्वा भोजनपूर्वकं स्वयमपि प्रीतः कृतार्थोऽभवत्
स्त्रष्टुर्दिव्यदयातिरेकविभवान् सञ्चिन्तयन्मानसे॥ 2.17॥
तन्नामकरणवैभवतदुत्सवालोकलोलुपो लोकः।
तत्राभूत्पृथिवीपतिपरिरचितात्पारितोषिकात्प्रीतः॥ 2.18॥
यातो यथागतं तन्नृपशासनतस्समन्ततस्स्वपदम्।
साधुस्स सर्वलोकस्स्वस्त्यस्मै सादरं शंसन्॥ 2.19॥
तदनु तावत्-
सावित्री सर्वलोकप्रथितनृपसुतारूपसौभाग्यजेत्री
सारस्वत्याः कृपायास्सकलसुरसदाप्रार्थितायास्सुपात्रम्।
सा स्त्रष्टुस्सर्वनारीकरणपरिणता चातुरीवात्तगात्री
भेजे चान्द्री कलेवान्वहमपि वयसा वृद्धिमश्वेशपुत्त्री। 2.20॥
कन्येयं कमनीयकाञ्चनमयी पाञ्चालिका वा कला
वेन्दोः कञ्जभवातिभूरिकरुणा वा कल्पिताङ्ग भुवि।
मा वा मद्रनरेन्द्रसत्कृतभवोमा वा तु नो मानवी-
त्येवं तामवलोक्य मुग्धनयनामूचुस्तथा नागराः॥ 2.21॥
सकृत्पांसूत्क्षेपेंस्सकृदनुपमेयैर्विलसितैः
सकृन्मत्पाञ्चलीकरणनिपुणालीसहगतैः।
सकृल्लीलानृत्यैस्सकृदतुलहेलाकलकलैः
अमन्दामोदं सा व्यतनुत सवत्रीजनकयोः॥ 2.22॥
माध्वीकमृद्वीकसुखण्डसार
माधुर्यधुर्यैर्मसृणैर्वचोभिः।
साऽतोषयत्साधु सबालवृद्धान्
स्वान् बन्धुलोकान् सकलान् किशोरी॥ 2.23॥
बाला बालमृणालकोमलवपुर्लोलाविलासान्बहून्
बाल्यार्हान्बहुमानभाजनतमान्बालेन्दुफालोज्ज्वला।
कुर्वाणा स्वविलोकनोत्सुकजनानाश्चर्यसिन्ध्वन्तरे
मग्नान् सा सततं चकार चपला चञ्चच्चकोरेक्षणा॥ 2.24॥
वाचं शीतकरे कुरङ्ग इति संश्रुत्यालिसञ्जल्पितां
सावित्री सकलङ्कमिन्दुमथ संप्रेक्ष्याहसत्सा मुहुः।
मन्ये तत्क्षममित्यसौ धुरि यतस्तत्सौम्यवक्ताज्जितः
तन्नेत्रेण जितं कुरङ्गमुदरे धृत्वा समुज्जृम्भितः॥ 2.25॥
सोत्प्रासान्मृगलोचना मृगधरं संलोकयन्तीं सखी-
मित्याहाम्बुजयोनिरेनमसृजत्सद्वस्तुसारांशकैः।
चक्रेऽन्तर्मषिकाङ्कनं कुजनदृग्दोषापहारोचितं
नोचेच्छीतकरे कुतश्शुचितरे स्यात्कृष्णसारागमः॥ 2.26॥
सारा सारसनयना सालसगमना सुराङ्गनाकारा।
सारङ्गसदृशचिकुरा सा रामा स्वालिकेलिकसलोला॥ 2.27॥
पूषोपममणिभूषा वेषाधरितामरेशवरयोषा।
सैषाऽऽसीद्गतदोषाऽशेषाभिनुताङ्गवैभवविशेषा॥ 2.28॥
स्तोतुं वाक्यपतिरक्षमोऽभवदिमां द्रष्टुं सहस्त्रेक्षणः
तत्सौन्दर्यमहीश्वरो गुणगणान् संख्यातुमप्यंशतः।
चन्द्रास्यां चपलामनोहरतनुश्रीभासमानां शुभां
को वा वर्णयितुं क्षमते मनुजः पद्मक्षणां तां भुवि॥ 2.29॥
एवं बहुलीलानिशलोला यातेषु दशसु वर्षेषु।
उचितं वपुषि विलासं वयसस्समधत्त सैन्धवेशसुता॥ 2.30॥
तदनु-
तदङ्गमालिङ्गति यौवने यथा
वनं वसन्ताधिगमे मनोरमे।
शाणे स्वबाणोत्कषणं शनैश्शनैः
कुर्वन् मुदा भेत्तुमियेष तां स्मरः॥ 2.31॥
संप्राप्ते सरसे तु यौवनमधौ सा सुन्दरी वल्लरी
जाता पल्लवतल्लजाधरदलप्रद्योतमाना ततः।
जाताऽत्यच्छकुचद्विगुच्छकलिता जाताऽथ पुष्पोच्छ्रिता
जाताऽऽमोदयुताऽथ कोकिलरुतोपेता च जाता ततः॥ 2.32॥
कान्तानन्तेन्द्रपुत्रीजननिकरसमाकाङ्क्षिताभा नितान्त-
स्वान्तस्संगुप्तकान्ताभिरूचिरीलिचयभ्राजमानालकान्ता।
सा रेजे सूनबाणासनकरविलसत्खड्गवल्लीव सर्व-
क्षोणीपालान्तरङ्गप्रमथनकलनारम्भसरंम्भरूक्षा॥ 2.33॥
अहर्निशमितोदयादधृतसंविकासक्षयात्
अनाश्रितजडाश्रयादनुपमेयशोभालयात्।
नरेन्द्रतनयाननात्परिभवं गतावब्जत-
द्रिपू विविशतुर्ध्रुवं जलमहाबिले लज्जया॥ 2.34॥
तद्बाहासमतां मनाक्कलयितुं स्वर्गापगासन्निधिं
याता कल्पलता चकार सततं लोलज्जटाढ्या तपः।
नौनात्पुष्पपरागभूतिभरिता नागात्तथाऽप्यर्हतां
तस्मात्तत्समतां प्रयाप्तुमधुनाऽप्यस्मिंतपस्यत्यलम्॥ 2.35॥
तदूरुसाम्यं कदलीकरीन्द्रकरौ ग्रहीतुं कथमार्हतां वा।
कबन्धगर्भा कदली यतोऽभूत्करीन्द्रहस्तो यदभूच्च दुस्त्वक्॥ 2.36॥
तदङ्गकौपम्यमगम्यमन्य-
स्त्रीभिरन युक्तं तटिताऽपि लब्धुम्।
यत्सा प्रभा निर्मथितान्धकारा-
ऽप्यभूद्वनान्तर्वशगा चला च॥ 2.37॥
तामेनामभिवर्णयेज्जगति को ब्राह्मप्रसादोद्भवां
तन्वीं पञ्चशरातिशातशरदृक्कोणां कनद्भूषणाम्।
वीणावादनसंप्रवीणफणिराड्गीर्वाणशोणाधरा-
श्रेणीसाधुपणायिताद्भुतगुणां सल्लक्षणैर्लक्षिताम्॥ 2.38॥
सुधासुमधुराधरां सुखधूसुशोभाधरां
सुलोचनसुनासिकासुमुखभासुरां सुस्वराम्।
सुफालफलकान्वितां सुभगकुन्ददनताङ्कितां
सुतां नरपतेस्स्तुमस्स्मरधनुर्लताभ्रूलताम्॥ 2.39॥
यौवनवसन्तलक्ष्मीकिलिता वनितालतोत्तमा ललिता।
मदनविनोदोत्सवभूर्जाता जाताऽतिकोमलता॥ 2.40॥
गत्या हंसीमपि जितवती कोकिवलालीं च गीत्या
वृत्त्या वाचां विधुतसुधया सा शुकीं शारिकां च।
इत्यामाज्ञारतभटपरीभावमालोच्य कामः
कोपाटोपादिव नृपसुतां बाणलक्षीचकार॥ 2.41॥
रतेरपीदं लावण्यं नासीद्राजसुतागतम्।
लोके तां दर्शयन्मारः प्रहन्नपि नावधीत्॥ 2.42॥
गद्यम्-एवमारूढयौवना, यौवनानुरूपरूपाभिनिर्जितपद्मभवना, भवनावितहंसाध्यापितभव्यतरात्मगमना, मन्देतरभुवनानन्दकन्दसौन्दर्यधुरन्धरसुन्दरीसन्दोहसमुत्पादनाभ्यासदृढीकृतारविन्दमन्दिरकरचातुरीव कल्पितशरीरा, कामिलोकाखर्वगर्वसर्वस्वापहरणप्रसर्पद्दर्पकन्दर्परञ्जत्करकञ्जाकाण्डगलितेव करवाललता, पश्यज्जनलोचनामृताञ्जनवर्तिकेव कञ्जयोनिपरिकल्पिता, पद्मेव प्रसन्नपुण्डरीकलोचना, पार्वतीवानवरताश्रितशङ्कराभिनन्दिता, गङ्गेवाकलङ्कुशुभ्रांशुविराजितशिवोत्तमाङ्गविराजमानां, भारतीव लोकेशार्भ्यथनीयरूपा, वननिधिवेलावन मालेव अतिनीलतमालकजाला, पुरुषोत्तमवक्षस्थलीव अनन्य सुलभलक्ष्मीनिकेतनभूता, कौमुदीव निजविभवामोदितकुवलया, तिरस्कुर्वतीव द्विजराजलक्ष्मीसमृद्धीकरणपटुतया द्विजराजलक्ष्महिरणपटुतरां वाससलक्ष्मीं, अनवरतमित्रोल्लासकरस्वश्रीकतया अधःकुर्वतीव मित्रावसानसमयोरीकृताप्रतीकाशस्वप्रकाशां राकानिशां, कामवैजयन्तीव अखिलयुवलोकधैर्यहरणार्थमङ्गीकृताङ्ग, मद्रवसुन्धरापुरन्दरमानन्दयितुमादराद्धृतमनोहरशरीरा साम्राज्येन्दिरेव तन्मन्दिरान्तरविचरितविहारा, परा देवतेव पञ्चशरोदञ्चत्पराक्रमप्रपञ्चस्य, परां कोटिमापन्ना गिरां पण्डितानां, प्रमदारूपेण परिणता महाराशिरिव प्रसूजनयितृप रिकलितपरमव्रतफलानां, अमराणामप्याश्चार्यापादनधौरेयरूपधेया रराज राजतनया॥ 2.43॥
मरालिका मधुकरिका मरीचिका
मधूलिका मदतिलकेति सुभ्रुवः।
मदालसा मदनविलासभूमयो
महोज्जवलाः परमभवन् सखीजनाः॥ 2.44॥
सखीभिस्साकं सा सततकृतलीला सरसिजा-
हितास्या सर्वोर्वौदयितहृदयाकर्षणचणा।
मनस्याकाङ्क्षन्ती दयितमनुरूपं मनसिज-
प्रतापप्राचुर्यापलपनपराऽऽसीत्प्रतिपदम्॥ 2.45॥
कदाचिदश्रावि कलानिधिप्रभो
युवा कलानाथकुलप्रदीपकः।
हयावनीन्द्रामजयाऽत्र सत्यवान्
इति श्रुतस्याल्वमहीपतेस्सुतः॥ 2.46॥
कर्णाकर्णिकया श्रुतं कमालिनीकान्तप्रतापान्वितं
कल्याणाचलधैर्यमार्यचरितं कल्याणवर्णाङ्कितम्।
साल्वक्ष्मापतिनन्दनं स्वदयितं सञ्चिन्त्य सा सन्तता-
नन्दाऽनन्दयदालिलोकमतुलानन्दं स्ववाग्विभ्रमैः॥ 2.47॥
यदाद्यम्भोजाक्षी प्रथितगुणभारं क्षितिपतेः
कुमारं शुश्रावासमशरसमाकाररुचिरम्।
तदादि स्नेहार्द्रा सुमशरशरासारशकली-
कृतोदारस्फारानघतरशरीरा समभवत्॥ 2.48॥
निद्राभाववशान्नितान्तविधुरा निद्रां गता जातु सा
माराकारमधर्मदूरमरिदुर्वारं तमात्मेश्वरम्।
स्वप्नेऽदृष्टचरं समीक्ष्य मधुरं तस्याधरं सादरं
पीत्वा तत्परिरम्भणोत्सुकमनाश्शेषामनैषीन्निशाम्॥ 2.49॥
प्रातर्बुध्वा प्रकाश्य प्रियतमचरितं प्राणकल्पालिपालौ
सा स्वप्ने स्वानुभूतामितदयितकृतप्रेमपूर्वप्रमोदम्।
स्मारंस्मारं तमेवासकृदसकृदसंदर्शनात्तन्मुखेन्दोः
तन्वी मूर्छान्विताऽभूत्क्षणमथ चलिता जागरूका च भूयः॥ 2.50॥
वपुस्तस्याः कार्श्यं गतमभजतां मार्दवमधः-
कृतेभेन्द्रोत्कुम्भौ मदनपदपीठौ घनकुचौ।
कपोलौ व्यालीनावनुदिनमभूतां मुखमभूत्
अहश्चन्द्रप्रायं तुहिनतुलिताऽभूद्दयुतिरपि॥ 2.51॥
नाहारग्रहणे मतिस्समभवत्सप्तीन्द्रपुत्र्यास्सखी
संभाषासु च पादपद्मविनमच्चेटीप्रसादेऽपि वा।
किंत्वस्यै समरोचतालिकालिता शय्या प्रसूनाञ्चिता
सा माराभिहता लतेव ललिताऽभूद्वातधूताऽसकृत्॥ 2.52॥
अथ मगधसुता शरस्स्त्रवन्ती-
मिव तनयां कृशतां गतां निशम्य।
अपगतभयसम्भ्रमानुषङ्गाऽ-
प्यतिचकिता समभूत्तदा मृगाक्षी॥ 2.53॥
कुतो नु सैषा कृशतां गताऽथवा
भवेद्गदाद्वा विदिताच्छरीरजात्।
इतीव सा संशयिताऽश्वराड्वधूः
व्यचिन्तयत्तत्प्रतिकर्तुमात्मानि॥ 2.54॥
विजयकमलां निजालिं विनततमां साऽश्वराण्महिला।
तनयार्ते प्रतिबोद्धुं तन्निकटं प्राहिणोत्तरसा॥ 2.55॥
गद्यम्-अथ साऽनन्यसीमन्तिनीसामान्याखिलराजन्यभामिनीसंमान्यसौजन्यसाम्राज्यसीमा, विजयकमलानामाभिरामा, देवीवयस्योत्तमा, निदेशतस्तस्यास्समागत्य बहुलतरभद्रभाजनं भर्तृदारिकाभवनं. तत्रानुदिनाभिवर्धमानानूनसूनबाणासनवेदनातिदूनां साल्वावनीसंक्रन्दननन्दनसद्गुणसंतानसंस्मरणौषधसेवनेनाप्यत्युल्बणमनोरोगां, अनवरतानूनलक्ष्मीनिकेतननिजानननिर्धूतनीरजाभिमानामप्यतिदीनवदनामश्वावनीन्द्रनन्दनामवलोक्य सन्निपत्य पदयोः, समुद्विग्रहृदया सानुनयं रहसि तामपृच्छत्॥ 2.56॥
बाले! बालमृणालनालमृदुले! बालेन्दुफालोज्ज्वले!
वक्त्रश्रीस्तव कृष्णपक्षशशभृल्लक्ष्मीरिव क्षीणताम्।
किं? याताऽधरपल्लवोऽरुणतमः किं? पाण्डुपत्रोपमः
किं? पीनं मृदुतामगात्कुचयुगं किं? स्विन्नमङ्गं भृशम्॥ 2.57॥
मया साकं किं वा न रचयसि संभाषणमिमां
त्वदीयाम्बादूतीं विजयकमलां विद्ध्युपगताम्।
पिधायाक्षिद्वन्द्वं किमु सुचरिते पश्यसि न मां
प्रियोक्त्या देव्यास्ते सविधमुपयाताऽस्म्यभिहिता॥ 2.58॥
सा भामिनी श्रवणमार्गगतां निशम्य
तां वाचमात्मविषयां समुपेत्य संज्ञाम्।
कस्यास्तिवयं खलु भवेदिति संविचिन्त्य
मेने स्वरेण निजमातृसखीरितां ताम्॥ 2.59॥
तदनु तां परिवर्त्य विलोचने
विरचिताम्बुजगर्वविमोचने।
सवहुमानमलोकयदागताम्॥ 2.60॥
विलोक्य विश्वासभराद्विनीतां
आकृष्य हस्तेन मनाक्समीपे।
कृत्वा तदालिङ्गनमायताक्षी
न्यवेशयत्सादरमासने ताम्॥ 2.61॥
सा राजपुत्री निपुणा नितान्तं
आकल्पितात्यन्ततरोपचारा।
हस्तेन हस्तं परिगृह्य हर्ष-
प्रस्फीतचित्तामतनोद्वधूं ताम्॥ 2.62॥
प्रहर्षयन्ती प्रमदा स्वमातुः
आलिं रहस्यात्मगतामवस्थाम्।
वक्तुं समस्तां कलिताभिलाषाऽ-
प्यवाप्य मोहं पुनराप संज्ञाम्॥ 2.63॥
तदुदितवचनस्य साधु शय्या-
तलविनेवशितपाणिरुन्नमय्य।
मुखमलकविकीर्णमायताक्षी
प्रतिवचनं प्रददौ प्रकीर्णबाष्पा॥ 2.64॥
मातुस्सखि! त्वां किमु वच्मि मामिकां
दशां मनोजाकलितां मनःप्रिये।
काऽन्या जनन्याऽपि च माननीयया
त्वया विना मान्यतमा भवेन्मम॥ 2.65॥
गद्यम्-अतस्ते विज्ञापयाम्याकर्ण्यतां तदिदं भवत्या॥ 2.66॥
शीतांशुप्रतिमाननस्ति! मया श्रीसत्यवान् स श्रुतः
कर्णाकर्णिकया मनस्तु मम तल्लग्नं पुनर्नागतम्।
स्वप्ने तन्मधुराधरो धुतसुधः पीतो यथेच्छं मया
तद्वत्तेन कृतं तदा न हि ततो जाने किमासीदिति॥ 2.67॥
पूर्णचन्द्रनिभं तस्य स्वप्ने दृष्टं मया मुखम्।
तच्चक्षुर्गोचरीकर्तुमुपायोऽद्यापि नेक्षितः॥ 2.68॥
दयादूरो मास्स्सति! मम शरीरे शिततरान्
शरान् सूनाकारानपि कुलिशसारान् कलयति।
विधुश्चाग्निज्वलान्किरति हिमरूपैरपि करैः
व्यथां किं वच्मि स्वां मलयपवनो यां प्रथयति॥ 2.69॥
चन्द्रे शीतलतां वदन्ति सति! ये तेऽसत्यवाचो न किं
सा भूयो विचिताऽपि नात्र सकृदप्यासीन्मया लक्षिता।
शुद्धोऽपि द्विजराज इत्यभिहितोऽप्यस्मादृशीनां दह-
त्यङ्गानीन्दुरनागसामपि यतो दृष्ट्या समालोकितः॥ 2.70॥
किञ्च-
श्रिया साकं श्रीत्मत्यमृतजलधाविन्दुरुदितोऽ
प्यनालोच्य स्त्रेहं श्लथयति तदावासकमलम्।
कलङ्की तत्प्रोक्तः कुटिल इति सर्वेस्स भगिनी-
ध्रुगन्यस्त्रीद्रोहं वद कलयितुं नेच्छति कथम्॥ 2.71॥
चन्द्रे नैल्यमिदं कलङ्क इति संजल्पन्ति केचित्परे
सारङ्गेऽब्जपिचण्डमध्यगत इत्याहुर्मृषा तद्भिरः।
तज्जन्मावधि तद्गतं किमिति चेत्तत्सम्यगावेदये
मादृक्स्त्रीवधजातमेव कलुषं तद्गात्रग्नं ध्रुवम्॥ 2.72॥
इन्दोर्दोषाकर इत्यभिधां द्रुहिणस्स्वयं व्यधादिति युक्तम्
मित्रावसानसमये स्वश्रीप्राचुर्यमातनोति यदेषः॥ 2.73॥
गुरुद्रोही याति प्रतिदिनमयं क्षैण्यमति स
त्पथस्थोऽप्यस्यासावभवदपकीर्तिस्सुमहती।
अमुष्येन्दोः केयं कुमतिरबलानां विरहशु-
ग्विधूतानां प्राणापहरणविधावम्ब वद मे॥ 2.74॥
मदनस्य मानिनीहृन्मर्मभिदस्त्रस्य मार इति नाम्।
मादृग्विधाबलानां मारणकरणाद्यथार्थतामाप॥ 2.75॥
पुरा पुरारिफालाग्निभस्मीभूतोऽभवत्स्मरः।
इति प्रतीतीर्वितथा जाता मद्विषये न किं॥ 2.76॥
मलयपवनो मदीयान् प्राणानादाय गूढमतिवेगात्।
गच्छति मदनादेशादाशुगसंज्ञां विधातुमिव सार्थाम्॥ 2.77॥
कान्ते! कान्तः पाययित्वाऽधरं द्राक्
अन्तर्धानं मे मुषित्वा मनोऽगात्।
स्वप्ने तत्संशोषयत्यङ्गमेषा
चिन्ता सोऽयं यन्मयाऽभाषि नेति॥ 2.78॥
गद्यम्-सुसुखि! किमिदानीं बहुधानिवेदनेनानादृतमर्यादायाः कदाऽप्यनितरगोचरायास्स्वात्मैकवेद्यायाः पञ्चसायकसंरचितव्यथायाः परमार्थमाकर्णय मामकं मनोगतमनवशेषमभिवक्ष्यामि॥ 2.79॥
स्त्येन्द्रदिव्याननदर्शनं विना
सत्यं न मे जीवितमत्र संवसेत्।
सा त्वं मदम्बामुपगम्य वेगतः
संगोप्य चैतां वद मामिकां व्यथाम्॥ 2.80॥
मातुःप्रिये! मामकजीवितं तु ते
पाणीं गतं संप्रति तत्वया तथा।
मत्कान्तसंदर्शनसम्पदुद्भवां
कर्तव्यमेषा मुदमाप्नुयां यथा॥ 2.81॥
गद्यम्-इत्थमावेदितात्ममनोरथया भर्तृदारिकया परमनुनीता प्रस्थापिता च सप्रश्रयं सानुतापं विनिर्गत्य तदीयभव्यतरभवनान्तरात्, अमन्दमणिसंदोहबन्धुरमन्देतरशिखरचुम्बितपुरन्दरपुराण्यतिक्रम्य मन्दिराण्याजगाम परममनोहरप्रभाप्राग्भारागारोदारहीरगोपुरद्वारवारातिरुचिरमचिरमप्रतिममालवीमहान्तःपुरं, अतिललितलवलीलताकोमला कोमलकमलारिकलाविमला सा विजयकमला॥ 2.82॥
मरालिकाद्यखिलतदालिपालिकाः
प्रकाशितां नृपसुतया स्मरव्यथाम्।
निशम्य तत्परिहरणोचिताः कियाः
त्वरान्वितास्समकलयन् यथोचिताः॥ 2.83॥
मृणालनालान्मृदुलान्मरालिका
न्यवेशयत्कण्ठतले मरीचिका।
न्यधादुशीरान्वितचन्दनं हृदि
स्तनद्वये च प्रसभं मृगीदृशः॥ 2.84॥
मधुकरिका मधुललितप्रसूनशय्यां चकार मृद्वङ्ग्याः।
मकराङ्कबाणकलितव्रणव्यथाहरणधैरेयीम्॥ 2.85॥
मधूलिका श्रुतिमधुराः कथाः क्रमात्
प्रतिक्षणं प्रचुरतरं व्यबोधयत्।
मनोहरं मदतिलका विशेषकं
मुखे व्यधान्मृदुहिमवालुकामयम्॥ 2.86॥
सदागतिव्यथितलतासमानता-
समन्विता मनसिजबाणसंहता।
निनाय सा बहुविधसेवया मनाक्
अनेहसं हयधरणीपतेस्सुता॥ 2.87॥
गद्यम्-विजयकमला तु विपुलाधिपमन्दिरमधिगम्य प्रविश्य चान्तःपुरं तत्र सन्ततानन्तसीमन्तिनीसन्तानसंस्तूयमानासमानसाधुशीलायास्साधुशीलाभिलषितललितलक्षणजालायास्स्वलक्षणजालानुरूपाभिरूपाभिभूतामरवरवर्णिनीरूपवैभवलीलायास्सन्निकर्षं गता देव्यास्याप्तिमहीन्द्रस्य, नत्वा तां, स्तुत्वा च, मस्तकतलविन्यस्तहस्तकमलकोशा प्रस्तुतामतिविस्तृतां व्यथां तत्सुतागतामाख्यातुं तदन्तिकस्था बभूव॥ 2.88॥
विनतार्त्यपगमपदवी विनतां तां मालवी विलोक्याह।
किं कुशलिनी कुमारी कृशोदरी मे वदाशु मुग्धेऽद्य॥ 2.89॥
तद्वचनात्तत्तनयागतां व्यथां तां विलोकितां राज्ञ्यै।
विजयकमलाऽभिवक्तुं निष्कलुषा निरवशेषमारभत॥ 2.90॥
गद्यम्- देवि! दीनावनपरायणे! समाकर्णय सुतागतां व्यथाम्॥ 2.91॥
जेता यस्सुरविद्विषां भवति यश्छेत्ता गिरीणामहेः
हर्ता यस्त्रिदिवस्य यस्त्रिजगतां भर्ता च धर्ता पवेः।
तस्याश्वक्षितिनेतुराशरवधे मित्रस्य पुत्रीं हरेः
सावित्रीं किमु वच्म्यहं प्रहरते पुष्पास्त्रजाल्मशशरैः॥ 2.92॥
अपिच-
उदयति हिमरश्मौ मानिनीमानशत्रौ
मदनकितवमित्रे देवि! ताराकलत्रे।
पिहितमुखसरोजा वेदनावेपमाना
गमयति रजनीस्सा कौमुदीकान्तिरम्याः॥ 2.93॥
किंच-
सा पुत्री तव देवि! मन्दपवने दैन्यं भजत्याविला
सन्ध्यायां चलिते सखीभिरसकृत्पृष्टाऽपि नाशंसति।
नादत्ते मधुरं घृतान्नमपि वा पक्वं फलं वा पयः
किन्त्वम्भोजमयीं सखीविरचितां शय्यां रहः काङ्क्षति॥ 2.94॥
सखीभिः क्रीडां वा न खलु कुरुते स्वादुवचनैः
इयं कर्णामोदं न कलयति बाला बहुमतैः।
स्तनौ नेत्रस्त्रस्तैरशिशिरतरैरत्यविरलैः
असौ बाष्पौस्सिक्तौ रचयति मुहुर्जृम्भणभवैः॥ 2.95॥
शुकीं क्षुत्क्षामाऽहं वितर कमपि स्वादुमशितुं
त्वमाहारं नो चेत्क्षणमपि न जीवेयमधुना।
इतीवोत्ताम्यन्तीं सकृदपि न ते पश्यति सुता
तदीयालापान्वा न कलयति कर्णान्तरगतान्॥ 2.96॥
आज्ञप्ताऽहं त्वया तद्भवनमधिगता तत्र तामात्तशय्यां
निर्निद्रां निश्वसन्तीं निरवधिमदनोन्निद्रबाधाकुलाङ्गीम्।
अद्राक्षं शोचनीयामथ विधुरमनाश्चक्षुरुन्मील्य सा मां
नाद्राक्षीन्नापि पुत्रीत्यसकृदपि मयाऽऽहूयमाना बभाषे॥ 2.97॥
उद्धृत्याङ्के निवेश्य क्षणमथ सलिलक्लिन्ननेत्रारविन्दां
तन्नेत्रे संप्रभृज्य प्रसभमधिगतप्रत्यभिज्ञां कृशाङ्गीम्।
प्रीत्या संमानयन्ती प्रबलतरवपुस्तापमेनामपृच्छं
पश्चान्मां व्याचचक्षे प्रतिपदमबला सा मया लाल्यमाना॥ 2.98॥
सत्येन्द्रसंदर्शनसम्पदं विना
न ते सुता जीवति नानृतं वचः।
मदीयमालोचय देवि! सा द्रुतं
तदीयसान्निध्यगता यथा भवेत्॥ 2.99॥
गद्यम्-इत्थमभिधाय सा विजयकमला स्वाधिकारार्हकर्मव्यापृता बभूव॥ 2.100
तद्वचनक्रकचच्छिन्नस्वहृदन्तरा महादेवी।
भूत्वा क्षणं विसंज्ञा पुनरपि संज्ञामवाप साऽऽलिगिरा॥ 2.101॥
अन्येद्युरभ्यागतमात्मगेहं
व्यजिञ्पत्कान्तमुपांशु देवी।
सखीश्रुतामात्मसुताव्यथां तां
कृताञ्जलिः प्रीतिकृतोपचारा॥ 2.102॥
कल्यणोदरकरुणारसैकपात्रं
कल्याणी कनकलतासमानगात्री।
सावित्री स्मरशरवेदनाधरित्री
जाता श्रीतुरगमहीन्द्र! तेऽद्य पुत्री॥ 2.103॥
मारक्रूरासमतरशरोद्वेलसंपीडिता सा
स्मारंस्मारं शयनसमयालोकितोर्वोशमेकम्।
कान्का कालं कथमिव नयेत्कान्तहीनाऽतिदीना
कान्तेनैनां कलय मिलितां कान्त कान्तेन तेन॥ 2.104॥
गद्यम्-अथाश्वमहीश्वरोऽप्यादरादाकर्ण्यात्मजागतानङ्गव्यथाबोधकात्मप्रियाव्याहारं, अम्बुजाभिमानाडम्बरनिबर्हणार्हेणाक्षियुगलेन तां निरीक्षमाणः, सुदुर्लभमिदमनुकूलदाम्पत्यकल्पनमस्मादृशामपि जगति. तथाऽप्येतद्धृदयसीमनि को वा युवा कलकण्ठ इव विराजते, किमेतया श्रुतः कोप्यवनीशकुमारसुकुमार इत्यपृच्छत्तां दयितामात्ममनोरथसंपदधिदेवताम्॥ 2.105॥
तदनु तं दयितं मगधात्मजा
सविनयं विनिवेदयते स्म सा।
निशमितं तनयापरिदेवितं
सकलमालिमुखान्तरतो यथा॥ 2.106॥
विपुलाक्षिविजितकमला विमलास्यविलासविधुतविधुलीला।
विजयकमलाऽऽह विमला काञ्चिद्वाचं श्रुणोतु तां देवः॥ 2.107॥
कर्णाकर्णिकया श्रुतं तव सुता श्रीसत्यवन्तं स्वकं
कान्तं काङ्क्षति यत्नमारचय तत्पाणिग्रहे साम्प्रतम्।
सस्नेहं समवेदयन्मृदु मया सन्तोष्यमाणा च सा
स्वामिंस्तत्त्वमुपेक्षसे यदि सुता सा ते न जीविष्यति॥ 2.108॥
यदि नो जीवति सेयं सन्ततिहानिर्भवेत्तवाश्वेश।
मज्जननमिव वृथा स्यात्तन्मुनिमन्त्रो विरिञ्चिवचनं च॥ 2.109॥
अखिलावनीशनिवहः प्रतिसभमनिशं हसेत्प्रभो प्रसभम्।
परिदूषयेच्च बन्धुप्रकरस्त्वां दोषदूरगुणभूषम्॥ 2.110॥
गद्यम्-तद्भवता भव्यकार्याचरणमतिमता अखिलशा स्त्रतत्त्वपरिणतधिषणावता तूर्णमेव करणीयस्तत्पाणिग्रहमहोत्सव इत्यावेदयन्त्यामात्मसुदत्यां तदुतिताकर्णनप्रक्षिप्तस्वान्तस्तुरगावनीशस्तत्रैव नीत्वा निशां तां निशान्ते प्रातः कर्तव्यं कर्मारचय्य तया मगधमहीमहेन्द्रतनयया किञ्चिद्दूरमनुगम्यमानो भटचेटकसंघातसंभृतायां सभान्तस्सीमायां सिंहासनमलंचकार॥ 2.111॥
तदानीं किल-
स्वर्लोके सुरपतिरन्तरा सुधर्मां
स्वर्वेश्यानटनमहोत्सवे प्रसङ्गत्।
सावित्रीसुगुणसुरूपशीलभाग्यं
संशृण्वन् त्रिदशगरणैस्तुतोष सर्षिः॥ 2.112॥
अथाम्बुजासनतयोऽभ्रंसंयमी
हरेर्गुणान् परिगुणयन् विपञ्चिकाम्।
प्रणादयन्नमरसभान्तरात्सभा-
स्थितैस्सुरैरविदित एव निर्गतः॥ 2.113॥
गूढं निर्गत्य सावित्रीसद्गुणौघावबोधने।
वीतरागोऽपि विक्षिप्तबुद्धिर्भूरि चचार सः॥ 2.114॥
नारायणगुणनामान्यापद्वारणकराण्यनन्तानि।
इति बोधयितुमिवामरलोकाद्भूलोकमभ्रमुनिरागात्॥ 2.115॥
गद्यम्-तदनन्तरमम्बरादागच्छन्तमादृतवीणागुणक्वणनाकर्णनातिलोलुपविमानान्तरावतीर्णवियच्चरोपश्लिष्टविप्रकृष्टदेशं, गृहीतप्राग्रहरविग्रहमिव गीर्वाणभुवनधर्ममुर्वोमवतरन्तं,अप्रतीकाशात्मप्रकाशप्रकाशीकृताशमापतन्तमिवौषधीश,अतिप्रशान्तं, अप्रतिमतेजोनिशान्तं, अश्रान्तकलहाविश्रान्तस्वान्तं, अतिविशङ्कटचटुलकपिलजटापटलजटिलितोत्तमाङ्गं, उत्तमाङ्गाकल्पकल्पितानल्पकृष्णमृगाजिनं, अकुटिलनिटलतटपटुतरपरिघटितपटीरोर्ध्वपुण्ड्रं, अपगतार्थकामतया केयमखिलभुवनस्यानर्थसंपादनसमर्थार्थकामपरता चतुर्थपुरुषार्थप्रत्यर्थौभूता धिगेनामितीर्ष्यया किञ्चिदाकुञ्चिताभ्यामिव भ्रूलताभ्यामवष्टभ्यमानां दृष्टिमनतिस्पष्टमभितः प्रसारयन्तं, अतिविस्तृतान्तर्विवरविनिर्गतात्युत्कटरोमराजिना नातिनिम्नोन्नतेनात्यायतेन श्रवणयुगलेनाभिविपाजन्तं, नात्युन्नतया नातिदीर्घया च नासिकया सनाथं, आनलिलोलत्पद्माक्षमालापरिशोभितने ललितवनमालिलपनसुगन्धाकृष्टषट्पदसमाश्लिष्टेन पाञ्चजन्येनेव परमसुन्दरेण कन्धराबन्धेनोपेतं, आनाभिप्रालम्बिजीर्णकूर्चकलापं, अंसावलम्बितधवलयज्ञोवीतं, आजानुलोलामलमृणालकोमलभुजं, अङ्गुलिदलैरच्छाच्छस्पटिकाक्षघुटिकावलयमावर्तयन्तं, अनितरसुलभैरमृतमयूखांशुतुलितैरङ्गान्तरविसर्पद्भिरुत्तरङ्गैरभङ्गसङ्गैस्तेजस्स्फुलिङ्गैः परिष्कुर्वन्तमिवासन्ननभोविभागं, असकृदामोदभरात्सलयमारचितहस्ततालमध्वनि बोधयितुमिवात्मागमनमितरानम्बरचरान्, अभिनवापिशङ्गमौञ्जीपरिणद्धाधोवल्कलं, अप्रतिद्वन्द्वेनोन्निद्रसहस्त्रपत्रजैत्रेणाङ्घ्रिद्वयेनाभ्युपेतं, अनधिगतविग्रहाभिलाषमप्यधिगतविग्रहाभिलाषं, परित्यक्तसुदृक्संगमस्पृहमप्यपरित्यक्तसुदृक्संङ्गमस्पृहं, अविरतापेक्षिताच्युतश्रीपदमप्यविरातानपेक्षिताच्युतश्रीपदं, दूरीकृतसुरतानुरगमप्यदूरीकृतसुरतानुरागं, कदाप्यनपेक्षितवामलोचनानुकम्पमप्यनिशापेक्षितवामलोचनानुकम्पं, स्वयमधोक्षज. मप्याराधिताधोक्षजं, उपदेष्टारमध्यामविद्यारहस्यस्य, पारं गतंसर्वशास्त्राणां, अहस्करमज्ञानान्धकारस्य, आयतनमखिलधर्माणां. अभूमिमधर्माणां, पुण्यसंचयमिव पूतव्रतानां, पुरुपार्थमिव प्रपश्यत्प्रजापूर्वार्जितकर्मणां, भगवन्तं भक्तावनात्यन्तमतिमन्तं, अखिललोकसंचरणशक्तिमन्तं, आश्रितजनवनवसन्तं, अधिगतसकलभुवनोदन्तं मुनिं नारदं तमश्वावानीन्द्रोऽदाक्षीत्॥ 2.116॥
अम्बुजरिपुरुचिसान्द्रं मद्रः प्रेक्ष्यान्तरिक्षयोगीन्द्रम्।
चन्द्रमिव निम्नगेन्द्रस्तुतोष सर्वाभिरञ्जनातन्द्रम्॥ 2.117॥
शक्रादिसर्वसुरसंस्तुतसद्गुणौघ-
सम्पूर्णमभ्रमुनिवासवमश्वभूपः।
साकं सभाङ्गणभुवं समुपेत्य सभ्यैः
प्रत्युद्ययौ प्रणतिपूर्वमपूजयच्च॥ 2.118॥
नारदमनयत्स्वसभां वारिदमीशोऽथदुरितवनवह्नेः।
शारदशीतकराभं सारदमनघस्य तत्त्पमार्गस्य॥ 2.119॥
अथोपविशति स्पुरन्मणिमयासने स्वर्मुनौ
परापरविदग्रगे परिजनार्पिते प्रोन्नते।
निमज्ज्य मुदपांनिधौ प्रणिपतन् प्रमुर्मस्तके
कृताञ्जलिरुदैरयत्प्रकृतयुक्तमित्थं वचः॥ 2.120॥
अद्यास्माकं पौर्विकाः पुण्डभाजः
सम्यग्दीप्ताश्चाद्य नो वीतिहोत्राः।
अद्य द्वेष्या दूरमुत्सारिता नः
प्राप्तोऽसि स्वं यन्मदीयं निकायम्॥ 2.121॥
चकोरशीतांशुं नवजलमुचं चातक इव
प्रकृष्टं त्वां दृष्ट्वा विगतपरितापोऽहमभवम्।
इहायातं तावत्प्रजनयति शङ्का भगवतः
प्रसादादेनां मे परिहर समावेद्य भगवन्॥ 2.122॥
गद्यम्-एवमतिविनयादतितरमाराद्विज्ञापयन्तं, अलिकतलकल्पिताञ्जलिकंजातकलिकंजातकलिकयोल्लसन्तं, अवनिसीमन्तिनीकान्तमवलोक्याम्बरचरमुनिवरस्तमात्मागमानन्दस्त्रवन्तिकान्तान्तरेनितान्तमामज्जन्तमादरादामन्त्र्यानामयं सानुनयमखिलाप्तबोज्यप्राज्यराज्यानुपद्रवतां च स्वागमनकारणमावेदयामास॥ 2.123॥
गद्यम्-राजन्नयमहमखिलभुवानद्भुतावतारामनितरसुन्दरीदुर्लभाकारां अमरसभान्तराभिगीतगुणभारां निशम्य दुहितरं तवाभ्याशमागतोऽस्मि॥ 2.124॥
श्रुत्वा सबान्तरे तां वाचं सर्वे ननन्दुरभ्रमुनेः।
पीत्वाऽमरा इव पुरा सुधां सुधासलिलनिधिकूले॥ 2.125॥
किं वा वदति मुनीन्द्रः परापरविदग्रगः पुनश्चायम्।
इति संसदि जननिवहः परमभवन्निस्तरङ्गजलधिरिव॥ 2.126॥
गद्यम्-अथायमश्वावनीश्वरोऽपि मुनिवरवदनारविन्दस्यन्दमानामन्दवाङ्मरन्दबिन्दुपानानन्दतुन्दिलहृदयेन्दिरःकञ्चनादूरे सञ्चरन्तं प्रतीहारामाहूय रे प्रभञ्जन त्वं तरसा गत्वाऽन्तः समालोक्य सावित्रीं पिता ते त्वामाह्वयति मन्मुखेनाम्बरमुनिवरसन्दर्शनायेत्यावेद्य तामस्मत्सकाशमधिगमयेत्यादिदेश॥ 2.127॥
गद्यम्-सोऽपि निर्गत्यादेशतस्तस्य समासाद्यान्तःपुरमुत्तुङ्गशिखरचुम्बिताम्बरचरेश्वरपुरं, अवलोक्य परितस्स्थितपरिचारिकामात्मीयशयप्रदीयमानफलचयपरितोषितभवनशुकशारिकां भर्तृदारिकां व्यजिज्ञपद्राजादेशम्॥ 2.128॥
सा रामा सरसीरुहाहितसमस्वास्याभिरामा तदा
श्रुत्वा नारदमात्मदर्शनकृते दौवारिकादागतम्।
तत्संदर्शनसं भ्रमात्परिधृतापर्याप्तभूषा सखी-
सन्दोहानुमता सभां निजगुरोश्चक्रे प्रयातुं मनः॥ 2.129॥
मातुरावेद्य तद्वृत्तं तदाज्ञां प्रतिगृह्य च।
सा सखीवचनादासीत्सर्वालङ्कारशोभिता॥ 2.130॥
अथ निजपरिवारजनेनानीतां समधिरुह्य शिबिकां द्राक्।
प्रविवेश राजमार्गं सालिस्स्वस्स्त्रीव सन्मार्गम्॥ 2.131॥
तामापतन्तीं तटिदुज्ज्वलाङ्गी
तारुण्यलीलारसमुद्गिरन्तीम्।
आंलोकयन्नश्वनरेनद्रपुत्रीं
आलोचयच्चेतसि पौरलोकः॥ 2.132॥
एषा पुरतश्शिबिकामारूढा श्रीर्भवेदथवा।
तन्वीमयी तदिद्वा तारा वा तरुणचन्द्रररेवा वा॥ 2.133॥
कंजोद्भवकरकलिता काञ्चनपाञ्चालिकेयमसुभरिता।
नोचेत्तत्कृततरुणीष्वीदृक् स्त्री कुत्र वीक्षिताऽस्माभिः॥ 2.134॥
इति चिन्तयन् महुर्मुहुरखिलजनश्चित्ररचित इव तूष्णीम्।
अभवत्समन्ततस्तच्छिबिका दृङ्मार्गमतिययौ क्षिप्रम्॥ 2.135॥
सा गत्वाऽथ गुरोस्सभाङ्गणभुवं द्रागुह्यमानाज्जनैः
सद्यानाच्चतुरन्ततः परिवृतप्रान्ताऽवतीर्यालिभिः।
पद्भ्यामेव नवप्रवालललिताभाभ्यां प्रवालाङ्कितां
कुर्वाणा सविधावनिं तटिदिव प्रद्योतमाना ययौ॥ 2.136॥
गतेनात्तव्रीडां मदकलमरालीं विदधती
युवालीहृत्पालिं परिधृतभयां रूपविभवतात्।
पिशङ्गभं सद्यस्स्वतनुमहसाऽपि प्रभुसभं
सनन्ताच्चापाङ्गैः कुवलयवितानं व्यतनुत॥ 2.137॥
गद्यम्-तदनन्तरमरविन्दमन्दिरनन्दनस्तामरविन्दारिसुन्दरवदनां दूरादेव परिदृश्यमानामसमानशोभानिधानभूतां, अनेकवर्षधरप्रायपुरुषसमवायसमाक्रान्तसन्निधानां, अत्यद्भुतात्मतनुप्रभाभिभूताभितस्थितेन्द्रनीलस्तम्भद्युतितमोवितानां, इतस्ततोऽवलोकयतामवलुम्पन्तीं च दृष्टिं, अखिललोकाश्चर्याकरानितरसुम्बबिन्बेनावर्जयन्तीमिवाखिलमपि भुवनजालं, रोभराजिलता लवालशङ्कावहमेखलाकलापपरिष्कृतेन नितम्बबिम्बावष्टम्भेनेवाभङ्गुरेण गुरुतरपयोधरमहीधरभारोद्वहनदुःखेनेव परिक्षीयमाणेन मध्यभागेन परिस्फुरन्तीं, अन्तःपरिपूर्णावकाशतया गुरुतर पयोधरमहीधरानतराधःप्रसर्पल्लावण्यरसस्त्रोतःप्रसर्पणप्रतिरोधकेन नाभीकूपेनाभिविराजन्तीं, अभिनवयौवनानिलकल्लोलितरागसागरान्तर्विहर्तुकामेन कामेन संप्लवनलसौकर्याय पाणियुगलपरिधृतमिव भर्मकुम्भयुगलं कन्धराप्रालम्बितारहारतरलपद्मरागमणिमालोक्यारुणोऽयमस्मत्परितोषणप्रवीण इति भ्रमेण परिसेवितुमागतं चक्रवाकमिथुनमिव कुचयुगलं दधानां, घनतरकुचभर्मभूधरप्रान्तरोद्भूताभ्यां कमनीयकार्तस्वरलताभ्यामिव मृंणालनालामलकोमलाभ्यां बाहाभ्यां पश्यज्जनजातानामनिमेषतामा पादयन्तीं, अपर्युषितचन्दनाङ्गरागरूषितेन कुण्ठीकृताकुण्ठाब्जाभिमानेन कण्ठभागेन दृष्टिमनोहरां क्षीणः क्लीबो वा प्रभुत्यवायोग्य इत्यनवरतदुःखितेन कदाऽप्यनुपहतमण्डलतया के नाप्यनपहृतलक्ष्मीकतया च वद्योतमानमदसीयवदनेन्दुमाश्रयितुमागतेन मण्डलेनेव तारकाणामुरुतरमुक्ताकलापवल येन परिशोभितकण्ठभागां, अतिरुचिरताटङ्कप्रभाविभासितयोरन्तःप्रतिबिम्बितचराचरनिकुरुम्बयोः कपोलमणिदर्पणयोः प्रसर्पन्त्या प्रचुरतरप्रभाप्रवाहिन्या पक्षालयन्तीमिव सभाभ्यन्तरभागं,अविरतताम्बूलरागावलीढाभ्यामभिनवविद्रुमलतारुणाभ्यामधरदलाभ्यामभितः पुरतश्च किरन्तीमिव कोकनदवितानं, अर्धोन्निद्रचम्पककलिकाप्रतिमया अप्रतिममौक्तिकसनाथया नातिदीर्घया नासिकया समानन्दयन्तीमालोकिलोचनानि, अमृतमथनसमयसमुज्जृम्भितामिततरङ्गिणीरमणतरङ्गसंक्षुभितफेनक्षोदधवलैरपाङ्गदर्शनैस्सर्वतस्सृजन्तीमिव क्षीरतराङ्गिणीः, सल्लक्षणोपलक्षितोन्निद्रेक्षणारविन्दमकरन्दामन्दलोलुपतया द्विधाप्रवृत्ताभ्यामुन्मदरोलम्बराजिभ्यामिव भ्रूलताभ्यामुपशोभमानां, सहजातोऽपि सहजतामविगणय्य मदीयमन्दिरमवसादयत्यविनीतो धिगेनं दोषाकरमन्तःकलङ्किनमधिगतमनुदिनक्षयि ष्णुतां अस्य भगिनीति प्रथा ममानुचितेतीर्ष्यया किलादोष ताकलङ्कताक्षताक्षयतातिरस्कृतामृतकरस्यादसीयास्यामृतमयूखस्य सहजभावेन परिमार्ष्टुमिव प्रथां द्विधा परिणम्य श्रीवर्णरूपेण तत्पा श्र्वाभयगतां श्रियमिव शोभमानां श्रुतियुगलीमाबिभ्रतीं, दर्श विनाऽन्येषुरात्रिभागेषु दोषाकरोऽयमपहरति मदीयाडम्बरमात्मकरनिकरकशाप्रहारैःतदद्य लब्धोऽयमस्मदमित्रं ताराकल्त्रइत्यदसीय माननेन्दुमवस्कन्दितुमागत्य तदूर्ध्वभागावस्थितेनान्धकारनिकरेणेव आनीलकुटिलकुन्तलजालेनालङ्कृतां, अचिरप्रभामिवावनिगतां, अमरवनवाटिकामिव सुमनोलोबनीयां, अरविन्दाल यामिव माधवहितविलासभूमिं, अम्बिकामनोवृत्तिमिवाविरता धिगतशिवां, भारतीमिव सन्ततसमाबद्धसत्यलोकेशभावामंश्वावनीशतनृभवामालोकयन्नम्बरचरमुनिवरेश्वरः परमविस्मयपारावारान्तरविहरमाणमानसः परमविस्मयस्तब्धकन्धरश्चिरमासांचक्रे॥ 2.143॥
सविनयमुपगत्य रांजपुत्री
सरसिजसम्भवसम्भवं सखीभिः।
परतरपदयोः पयोजदर्पा-
पहरणपण्डितयोः पपात तस्य॥ 2.144॥
सावित्रीं सनयं समेत्य ससखीं स्वीयं पदाम्भोरुह-
द्वन्द्वं सप्रमदं प्रणम्य पिचुरप्याराल्लसन्तीं मुनिः।
दृष्ट्वाऽऽहोषविशेति मोदभरितस्या सालिरर्हासने
तद्वाचोपविवेश तातपुरतो व्रीडावनम्रानना॥ 2.145॥
तदालोकनसंभूतहर्षाब्धौ संपतन्मुनिः।
व्यचिन्तयद्भवेत्कान्ता कस्येयं कन्यकेति सः॥ 2.146॥
अस्यास्सौन्दर्यसम्पन्न भवति जगतां मातुरब्जालयायाः
भारत्या भव्यमूर्त्यास्तुहिनगिरिवरेन्द्रात्मजायः पुलोम्नः।
पुत्र्याश्चान्याङ्गनानां किमुंत विधिरिमां मेदिनीरत्नभूतां
सृष्ट्वैतद्रूपयोग्यं पुरुषमिह मुनिः कं ससर्जेति दध्यौ॥ 2.147॥
अथाश्वराजेन्द्रमुवाच हर्ष-
संपूरितान्तःकरणस्सुरर्षिः।
सभास्थितानाकलयन्नवाब्भ्र-
नादात्मनादान्मुदितानतीव॥ 2.148॥
कन्यामिमां नरपते! कमनीयरूपां
कन्यामिवावनिगतां कलशार्णवस्य।
कस्मै प्रयच्छसि महीपकुलामृताब्धि-
चन्द्राय तं कथय चक्रधराद्य तूर्णम्॥ 2.149॥
एतद्रूपसरूपं भूपं भूमिप्रदीपमन्विष्य।
भूमीश? देहि तस्मै तनयां विनयान्वितां झटिति॥ 2.150॥
गद्यम्-इत्थमनवरतामरसन्दोहसमाराधिताङ्घ्रितामरसाभिरामेणाम्बरमुनिवरसार्वभौमेण सादरं समादिष्टस्सविनयमश्वसर्वंसहादयितसार्वभौमस्स्वयमेवं विज्ञापयामास॥ 2.151॥
श्रुत्वा कंचन सत्यनामकमियं सत्यात्मकं ते सुता
तं नित्यं हयभूपते कलयति स्वात्मानुरूपं पतिम्।
एवं मामवदत्सुताप्रियसखी मत्संनिधौ स्वर्मुने
तद्राजन्यविचारणापरवशं चेतो ममोत्ताम्यति॥ 2.152॥
गद्यम्-तद्भगवन्भक्तजनावनभव्यानुभावा सत्यवन्तमात्मकान्तमभिकाङ्क्ष्य अनया प्रत्याख्याताः प्रत्याशासमागताः पृथ्वीदयिताः, स्वामिनस्तवाखिलवेदिनो जगत्यस्ति न किञ्चिदज्ञातं, अयं सत्यवान्नाम कस्याभिजनामृताम्भोनिधिमभिवर्धयत्यामोदयेनाम्भोजपरिपन्थीव, कं वा देशमामोदयत्यलं कमलाकर इव, को वाऽनेन राजर्षिवंशामृतशरधिशरच्चन्द्रमाः पुरस्सरतां पुत्त्रवतामधिरोपितः, तद्वृत्तसमावेदनेन समाह्लादयतु मदीयमान्तरं तत्वं भगवान् भवान्॥ 2.153॥
इत्युक्त्वा विरमति मद्रभूधरेन्द्रे
प्रोवाचाम्बरचरयोगिराण्महेन्द्रः।
तं चान्यानविपतीन् सभान्तरस्थान्
सोत्प्रासं सलिलदनादधीरनादः॥ 2.154॥
गद्यम्-भोभो भूमिपाः कथयाम्यहमुदन्तमतिविस्मयनिशान्तं तदीयमवहितहृदयैः श्रूयतां भवद्भिः॥ 2.155॥
द्युमत्सेनो नाम क्षितिपतिरिहास्ते क्षितितले
सपत्नध्ववान्तार्कस्स्वहितकुमुदेन्दुस्स कृतधीः।
विधेर्योगद्योऽयं विगतनयनस्साल्वधरणी-
वधूनेताऽरण्ये सह वसति वध्वाऽरिविजितः॥ 2.156॥
तस्यास्ते सत्यवान् सूनुस्सत्यात्सार्थौकृहाह्वयः।
सत्येन यस्य लोकोऽयं सत्योपेतः करिष्यते॥ 2.157॥
सौन्दर्येण सुंमेषुं क्षमया पृथिवीं धिया गुरुं यशसा।
शक्रं महसाऽहस्करमास्येनेन्दुं स राजते जित्बा॥ 2.158॥
गद्यम्-सोऽयं पित्रा चित्राश्व इति प्रथमं कृतनामा जागर्ति जगति जितामित्रतिमिरकदम्बोंऽशुमालीव, कन्दर्पदर्पमुद्वोधयिता कामिनीनां रूपसारेणापादयति रोहिणीरमण इवामर्यादं कुवलयामोदं, भिनत्ति सहजसत्त्त्वावष्टम्भदम्भोलिना जम्भाहित श्वाश्रितात्याहितमहीध्रमण्डलानि, चण्डभानुकुलमण्डनायमानरामभूमण्डलरमण इव धर्मारण्याहिण्डमानस्स्वोद्दण्डभुजदण्डमण्डितकोदण्डदण्डिताखण्डोच्चण्डदनुजमण्डलः वितरति वैतानिकक्रियाणामविध्नोपलम्भमारण्यकानां महामुनीनां, वाचस्पतिरिवोपयाति गुरुतां विबुधसङ्घेषु विद्याप्रसङ्गेषु, दाक्षायणीदयित इवाधिगच्छति राजशेखरप्रथामनन्यसुलभामात्मानुभावेन, पुण्डरीकाक्ष इव पुण्यतमेनातितरलोकान्तरप्रतीतेनात्मचरितेन प्रथयति पुरुषोत्तमतामन्यादृशेन, अम्भोजनिकेतन इवाखिवलानन्दनीयेन संप्रकाशयति साधुभावेन सत्यलोकेशतां, सहस्त्रभानुरिव सकललोकसंतोषाकरेणाधिगतो लोकबान्धवतामन्यादृशेनाप्रतिमेनात्मतेजःप्रकाशेन, महासत्त्त्वाभिशोभितो विन्ध्यावनीधरकटक इव, कल्याणभाजनं कनकावनीधर इव, सुमनोलोभनीयस्सुरमहीरुह इव अनन्तगुणरत्नखनिरमृतार्णव इव, अखिलजगद्वल्लभो वर्षावारिवाह इव न शक्नोम्येनमभिवर्णयितुं, अथवा किमस्य बहुना गुणकथनेन, एवंविधोऽप्यनुपमैरसंख्यैरखिलहरिन्नितम्बिनीवदनवनजवैरिमण्डलान्यलंकृत्यानुत्तमैरात्मगुणविभूषणैरष्टादशसु वर्षेषु, समागते वत्सरेऽष्टादशाधिके विहाय विस्वंभरां विभूषयितुमिव विबुधलोकमप्युपगम्य पुरन्दरपुरस्सरैरमरैरभिनन्दितात्मसमागमः सर्वसुमनस्संतोषाय सुधर्मायामर्धासनमलंकरोति तेन सह पुरुहूतेनेत्यावेद्य तत्रैवान्तर्दधे भगवान् पैतामहः पारिकाङ्क्षी॥ 2.159॥
यत्कारुण्यकटाक्षलब्धकविताचातुर्यधुर्याः परं
प्रख्याताः कवयो भवन्ति भुवि वाग्गुम्भाभिसंसम्भिणः।
चम्पूनामनि तत्कृपाविरचिते काव्ये द्वितीयश्शुभैः
सावित्रीचरितामृतैः कृतसमुल्लासो विलासोऽगमत्॥ 2.160॥
इत्यखण्डपाण्डित्यसमुद्दण्डपण्डितप्रकाण्डपरिमण्डितमण्डिकल्न-
गरमण्डनायमानेन, विश्वविख्यातविद्यावैदुष्यविभूषितस्य,
विश्वविश्वंभराविश्रुतविनयवेवेकादिगुणगणविराजित-
स्य असमानयामुनाभिजनतिलकायमानस्य, श्रीमतो
वेंकटरामार्यवर्यस्यान्तेवासिना तदग्रजन्मनश्श्री-
वेंकटनृसिंहाचार्यस्यात्मजेन च वरदाचा-
र्येण विरचित्ते सावित्रीपरि-
णये द्वितीयो विलासः
*************************************************
.
** अथ तृतीयो विलासः**
अथ मद्रभूमिपतिरब्भ्रमौनिनं
पुरतस्स्फुरन्तामेव पूर्णिमाविधुम्।
अवलोकयन्नपि जवात्तिरोहितं
समवेत्य सोऽभवदतीव विस्मितः॥ 3.1
विस्मितसकलानुगोऽश्वभूपः
सस्मितमात्मसुताननं समीक्ष्य।
स स्मृतिमधिगम्य संशुशोचा-
कस्मिकनारदवाक्पविप्रभूताम्॥ 3.2॥
आलोच्य सोऽश्वनरपालपुरन्दरस्त-
द्योगीन्द्रवर्णिततरस्य सुतेप्सितस्य।
श्रीसाल्वभूमिपसुतस्य समस्तवृत्तं
भीत्यब्धिमग्न इव गाढमभून्मुहूर्तम्॥ 3.3॥
गद्यम्-एवमतिवेलममरमुनिभाषितजातभीतिविलोलचेतास्सोऽश्वमहीनेता नितरामत्यारुढसत्यावनीदयितकुमारविचारजागरूकतोपेतः,प्रान्तरमन्देतरवृन्दारकेन्दुवदनासन्दोहसंसेव्यमानारविन्दमन्दिरसुन्दरीमिवानन्यसुन्दरीसुकरनिजकरसरोजारावितवीणारावभेदैरामोदयन्तीमालीकदम्बकं, अनाशाङ्कितात्मकान्तापद्वृत्तान्तामात्मनन्दिनीमालोक्य विस्मितमनास्तामुवाच॥ 3.4॥
सुते? श्रुतं किं वचनं महर्षेः
त्वयाऽखिलं सत्यवति प्रसक्तम्
विसृज्य तं दीनमरण्यदूनं
स्वयंवरेऽन्यं वृणु राजसूनुम्॥ 3.5॥
क्रव्यादाहवसंकटेषु सुमनश्चक्रेशसंप्रार्थिताः
प्रत्यर्थिक्षितिपालकाद्रिदलने दम्भोलितुल्यायुधाः।
भूमीन्द्राः कति वां न सन्ति भुवने तान्मामकीयानुगाः
संमान्याद्य समानयन्तु फलितं भूयात्त्वदालोचितम्॥ 3.6॥
श्रुत्वा तद्वचनं पितुर्नृपसुता हित्वा सखीजल्पनं
मत्वा मौनमनर्हमित्यथ गुरुं नत्वा च धृत्वाऽञ्जलिम्।
कृत्वा सर्वसभासदश्शुचितरापाङ्गप्रसूनोत्करैः
आकीर्णान् कलकण्ठम़ञ्जुलरुता स्वाभीप्सितं व्याहरत्॥ 3.7॥
कान्तं वाक्वायकर्मादिभिरहमन्घं सत्यवन्तं विभाव्य
स्वप्ने वा न स्पृहेयं सुरपतिमपि वा किं पुनर्भूपमन्यम्।
आत्माभीष्टं पतिं या जगति कुलवधूस्संविहाय प्रपन्ना
स्यादन्यं स्वैरिणी सा भवति तदधुना मद्व्रतं न त्यजेयम्॥ 3.8॥
कर्णाकर्णिकया स कर्णपथगस्स्वर्णाद्रिधीरो ममा-
पर्णाधीशसुपर्णवाहनसमश्चित्तेन योऽभूद्वृतः।
तच्चञ्चच्चरणारविन्दमकरन्दास्वादने लोलुपः
तत्रैवास्ति कदाऽपि निस्सरति नो मन्मानसेन्दिन्दिरः॥ 3.9॥
अपिच-
पुरः पश्चात्पार्श्वेऽप्यमृतरुचिवद्टृष्टिविपयः
स सत्येशस्सर्वेन्द्रियचयविनोदं वितनुते।
गुरो! जाग्रत्काले शयनसमये च प्रतिमुहुः
ततश्चेतोवृत्तिर्न विचलति किं वच्मि परतः॥ 3.10॥
यथा वा तथा वा भवत्वेवमस्मिन्
मदीयं महीपे मनस्साधु लग्नम्।
किमेतैः प्रतीपैर्वृथावाग्विचारैः
नरेन्द्राद्य तस्मै प्रदेहि द्रुतं माम्॥ 3.11॥
प्रयच्छसि यदि त्वं मां न तस्मै प्राणधारणम्।
क्रियते न मया तात कुलं नङ्क्ष्यति तेऽनघम्॥ 3.12॥
गद्यम्-एवमुक्ताभीप्सितविचारायामश्वावनीदयिततनयायामनन्यार्हगुणगणायां अमात्यशेखरः प्रद्युम्नशेखरनामा सादरं तामवादीत्॥ 3.13॥
गद्यम्-बालिके बालाब्जालिके भव्यतरचरितमालिके भर्तृदारिके लोकेऽस्मिन् कुतस्त्वमेतस्मिन् लुब्धाऽस्यल्पायुषि आरण्यक इव वन्योपजीविनि वर्षातपोद्वेगक्लेशितशरीरे द्विषदपहृतराज्यभारे शीर्षपरिष्कारीकृतजटावारे जगतीपतिचारित्रदूरे दूरीकृतसुखञचारे दुरतिक्रमदुःखैकागारे केनाप्यदृष्टचराकारे दुर्गतोदारे द्युमत्सेनकुमारे, विदितं किल भवत्या नारदोदितमवितथं वचनं, अत्र जनो जगति नेच्छति खल्वमृतोपममपहाय भोज्यं प्राज्यमपि विषसंस्पृष्टतया त्याज्यमुपभोक्तुं, अन्वहं पूजनीयवचनाः खलु गुरवः कुलजातेन गुणभाजनेन जनेन, तदद्याश्वावनीपुरुहूतस्यावितथोदितमवश्यं वचनमङ्गीकर्तव्यं सोदर्कं भवत्या भव्यानुभाववत्येति॥ 3.14॥
गद्यम्-साऽप्याकर्ण्य तदुक्तिमतियुक्तियुक्तामाकलय्य च तमाहामात्यशेखरं प्रद्युम्नशेखरम्॥ 3.15॥
प्राज्ञोत्तमालमाभिर्वचनचमत्कृतिभिरिह तवार्हस्य।
तमिममपहाय सत्यव्रतमन्यं नेहतेऽद्य मम हृदयम्॥ 3.16॥
लक्ष्मीर्नारायणं वाक्कमलभुवमुमा वामदेवं शचीन्द्रं
स्वाहाऽग्निं रोहिणीन्दुं सचिववर! सरित्सागरं सन्मनीषा।
ब्रह्माध्यात्मैकगम्याद्भुतमहिम यथा सत्यवन्तं तथैति
प्रज्ञा मे नान्यमिच्छत्यलमिह भवतः किं बहूक्तैर्वचोभिः॥ 3.17॥
विलसति विधेर्नियोगे कस्तं हन्तुं समर्थतामेति।
यद्यस्ति सुकृतशेषस्सर्वं सद्यस्समञ्जसं भवति॥ 3.18॥
गद्यम्-इत्थमवधीर्यामात्यशेखरभाषितमश्वावनीश्वरसुता विरराम्॥ 3.19॥
आकर्ण्य तद्वचनमश्वपतिर्न तस्मात्
सत्यात्सुतां प्रतिनिवर्तयितुं शशाक।
गङ्गां पुरः प्रचलितां शिथिलात्पतीरात्
रोद्धुं समुद्यत इव प्रतिभाबलेन॥ 3.20॥
दातव्या सर्वथैषा त्वहतनिजमता साल्वराट्सूनवे द्राक्
इत्थं दैवे नियोगे सति जगतिं पुमान् कोऽन्यथा कर्तुमीष्टे।
इत्यश्वेशो विचार्य स्वमनसि सविधक्ष्माधरानित्यवोचत्
कर्तव्योऽस्याः प्रयत्नः परिणयविषये जागरूकैर्भवद्भिः॥ 3.21॥
सरसिजभवनः पुराऽवदन्मां
सरसिजलोचनयाऽनयाऽवनीश।
तव कुलममलं भवेत्प्रदीप्तं
कलय वचो मम नो भवेन्मृषेति॥ 3.22॥
तदिहावनीशवर्यास्तद्वचनप्रत्ययादियं तनया।
तस्मै प्रदीयतेऽसौ भवदनुमतिपूर्वकं मया शृणुत॥ 3.23॥
एवमभिधायासन्नसन्नतानश्वावनीरमणसंक्रन्दनस्तान-
नवरतात्मीयकार्यकरणैकधन्यान् राजन्यान्, राजसदनमभि-
गन्तुकामः प्रतीहारान् भीमनादमहानादसुनादा-
ब्भ्रनादप्रमुखानाहूयेत्थमाज्ञापयामास॥ 3.24॥
कन्यां सत्यवते प्रदातुमधुना देवेन यत्नः कृतः
तस्मादद्य पुरस्थितैर्द्विजमुखैः पौरैः परं भूषितैः।
गन्तव्यं पुरतो वनं निजवधूवर्गेस्सहागच्छति
श्वः पृथ्वीपतिरित्ययेऽत्र नगरे युषमाभिराघोष्यताम्॥ 3.25॥
किंच-
प्राकारः परिलिप्यतां मलयजैस्सौधाग्रभागास्सितैः
बध्यन्तां घनकेतुभिर्गृहबहिर्द्राराणि हैरण्यकैः।
भूष्यन्तामभितोऽम्बुजैश्च कदलीस्तम्भैः पुरीदेवताः
सेव्यन्तां सुभदः प्रयाणपदहस्संताढ्यतां सर्वतः॥ 3.26॥
करिरथतुरगोष्ट्रपत्तिजाला-
कुलपुरसंस्थितवाहिनी पुरस्तात्।
सरभसमभितोऽध्वशोधनाया-
प्रहततमायुधसंकुला प्रयातु॥ 3.27॥
अपिच-
हिरण्यरत्नाम्बरवारपूरिताः
सरक्षकास्संप्रति यान्तु सद्रथाः।
पर प्रयाणार्हसुपात्रसंभृताः
सुसंहतास्सच्छकटाश्च सत्वरम्॥ 3.28॥
गद्यम्- अथाज्ञापितास्ते तेन सर्वंसहादयितसार्वभोमेण प्रतीहारिणः प्रवीणाः प्रस्तुतप्रयोजनकरणेष्वप्रमत्तास्च प्रयाताः प्रणामपूर्वकमनुज्ञाताः॥ 3.29॥
प्राकारं गोपुराणि प्रतिपथविलसद्देवतामन्दिराणि
प्रासादान् प्रान्तरस्थान् परिजननिकरैर्भूषितान् कारयित्वा।
देवीशुद्धान्तमेते प्रकटमरचयन् दिव्यगन्धानुलेषं
राजत्केतूच्छ्रितं च द्रततरमवनीराण्निदेशैकतानाः॥ 3.30॥
गद्यम्-ततःपरमयमश्वावनीश्वरोऽपि स्वयं समुत्थाय सिंहासनात्प्रद्युम्नशेखरदत्तहस्तः तनयया सवयस्यया सह वयस्यैश्च बहिस्सदसो विनिर्गत्य परितः पश्चात्पृथिवीपतिपरिवृतस्तूर्णमपहृताम्वुजावष्टम्भया दृष्ट्या प्रदर्शितप्रसादस्तान् प्रस्थाप्य पश्चात्स्वयमन्तःपुरमासाद्य सखीसन्दोहसङ्गतया अन्तःपुरमहिषीमहितया मगधमहीन्द्रात्मजया सरभसं प्रत्युद्गम्यमानः सरसिजनाभ इव सरसिजभवया, सह तया समुपविश्य सारासने नारदोदितवृत्तान्तनिवेदनपूर्वकमित्थमकथयत्॥ 3.31॥
नारदमुनीन्द्रकथितं साधु श्रुत्वाऽपि देवि तद्वचनम्।
काङ्क्षति तमेव कन्या विधिना विहितं विलड्घयेत्को वा॥ 3.32॥
सर्वज्ञस्स मुनिस्तथा समवदद्यस्सर्वलोकस्थितं
वृत्तं वेद करस्थितामलकवद्भूतं भविष्यत्सुधीः।
मुग्धेयं वृणुते तमेव तनया नान्यं वरं कांक्षते
किं कर्तव्यमतवि चक्रवदहो चेतो मम भ्राम्यति॥ 3.33॥
कन्या विधातुर्वरसंभवेयं
स सत्यवान् सत्यवतां गरीयान्।
मनस्तु तस्मिन् चिरसक्तमस्याः
पुमान् समर्थः क इहापनेतुम्॥ 3.34॥
रमासमेयं रमणि त्वदात्मजा
पुमान् स राजीवविलोचनोपमः।
सुरर्षिवाक्यं तु महाशनेस्समं
किमत्र कर्तव्यमुदीरयानघे॥ 3.35॥
पुराकृतं कर्तुमिहान्यथा क्षमः
पुमान् भवेत्कस्सुभगे सुरैरपि।
स्वतोऽनुभोक्तव्यमतः प्रिये मया
क्षमं किमद्य क्रियया निवारितुम्॥ 3.36॥
विरिञ्चिवचनं श्रुतं न किमरण्यसीम्नि त्वया
सुतास्तव भवन्तु साध्बभिनुताद्यमादेतया।
नृपात्मभवया मनःकलुषतां वृथा मा गमः
प्रयाहि पुरमित्यहं गतभयोऽस्मि तद्गैरवात्॥ 3.37॥
विरिञ्चिवचनं वृथा भवति किं पुरा पौर्विकाः
विधाय मुदितं तमात्मतपसा कृतार्थाः किल।
मया स च विधिस्त्वया परमभक्तितः पूजितः
वने तु वचनेन संमदयुतो व्यधाद्यः कृपाम्॥ 3.38॥
गद्यम्-तत्त्वमपि तदात्मभूप्रोक्तोक्तिगौरवेणैव गतभया भव प्रमुदितहृदया चेत्युपदिश्य तस्यै तदितरान्तःपुरजनाय चातितरोरीकृततनयावैवाहिकयात्राप्रमोदः तत्क्षणमेवः प्रभुः प्रद्युम्नशेखरप्रमुखामात्यशेखरैः मालवीमुखमहनीयान्तःपुरमानिनीभिश्चाकलितस्वस्त्ययनः प्रथितमाहिम्ना हरिशर्मनाम्ना पुरोहितेन वैवाहिकयात्रारम्भमातन्वानः प्रयाणप्रबोधनायाखिलानां प्रयाणसूचकवाद्यान्युद्घोषयामास॥ 3.39॥
कल्याणं भवति कदा नरेन्द्रपुत्र्याः
कल्याणं वितरति वा कदा नरेन्द्रः।
कल्याणे कृतमनसामिति द्विजानां
कल्याण्यः श्रवणगताः प्रयाणभेर्यः॥ 3.40॥
वारिवाहनिनदभ्रमभाजः
तत्स्वने पुरविहारिमयूराः।
नर्तनान्यकलयन् परितुष्टाः
तत्रतत्र विततीकृतबर्हाः॥ 3.41॥
अक्काम्ब पश्याश्वमहीन्द्रपुत्र्याः
पाणिग्रहाय प्रतियान्ति पौराः।
यूयं किमायाथ वयं व्रजामे-
त्यासन् प्रमोदात्प्रतिवेश्म वादाः॥ 3.42॥
वाराङ्गना वनजवैरिसमाननाश्श्री-
भाराधरीकृतसुरप्रमदाभिमानाः।
सौदामनीसदृशसंहननास्सगानाः
चेरुमर्हन्द्रिपुरतो द्विरदेन्द्रयानाः॥ 3.43॥
वन्दिविदूषकमागधभटनटचेटकमुखाः प्रहृष्टमुखाः।
परितः परिकृतरेखास्समागतास्सैन्धवेश्वराप्तसुखाः॥ 3.44॥
राज्ञ्यस्तदा सरभसासवसखीसमेताः
संव्यानसंवृतनिजाङ्गलताः प्रजग्मुः।
आदेशतस्सपरिवारममन्दहर्ष-
पूरातिमग्नहृदयाः पृथिवीधवस्य॥ 3.45॥
गद्यम्-तत्क्षणमेव सरभससमागतैस्सपरिकससंघातैस्सकुटुम्भैः सर्वागमरहस्यसर्वंकषनीषाविशेषैः सर्वशास्त्रपुराणेतिहासकोविदैस्सप्रमोदैश्चातिवृद्धैः पुरोहितैराचरिताशीर्वादः, सौधान्तरद्वाराविदूरमागत्यानीतरत्नाद्युपहारैः सर्वंसहारमणसंदर्शनप्रतीक्षकैः प्रतिजनपदागतैः पृथिवीदयितसहस्त्रैरनुगम्यमानः, समन्तान्नातिदूरमदभ्रतरसिन्दूरबन्धुरीकृतोरुतरकुम्भस्थलैः सन्ध्यासमयसमुज्जृम्भिताम्भोधरप्रकरपरीतैः चरिष्णुभिरिव चारुतराञ्जनमहीधरशिखरैः अध्यासिताधोरणप्रवरैः परमलीलापरिचालितकरैः करटिनिकरैः समारोप्यमाणपल्याणाकल्पानल्पभासुरैरवितथखलीनवरनिगृह्यमाणकन्धरैरदीनवदनविवरासंकीर्णोद्गीर्णडिण्डीरोद्दण्डखण्डभरैः अतिविशेषीकृतहेषानिर्घोषबधिरीकृतदिक्कोटिकरटिघटाविशङ्कटकर्णकन्दरैः खरतरखुराघातविदारितवसुंधरैः अभृततरङ्गिणीरमणतरङ्गसंक्षुभितफेनपिण्डपाण्डरैः सैन्धववरैस्समधिगतसादिशेखरैः, अतित्वरितमितस्ततश्च पुरतः प्रधावतामाधृतकङ्कटानां असंभुग्नवलग्नसंलग्नाच्छकच्छविच्छुरिकाणां निस्तुलप्रशस्तहस्तविन्यस्तास्तोकरुचिपात्रवेत्रलताभिः अतिमात्रमुभयतः प्रचारगतामपसरापसरेति उत्सारयतां जनतामनीकेन कञ्चुकिनां, सन्ध्यासमयसमुत्तीर्णवेलार्णवोर्मिजालेनेव सरभसमुपसर्पता पदातिनिकरेण चातिसंकटप्रचारमनुगम्यमानः तत्रतत्र संवाद्यमानानामनल्पतरकल्पान्तसमाक्रान्तरोदोन्तराम्भोधरगर्जितभैरवैर्विरावैर्दुन्दुभीनां, अतिबलिप्रबलताडितानामप्यस्फुटितानां रणितेन पटहानां, आशीविषराट्फूत्कारपरुषबलिपुरुषास्यपृषदश्वपूरितानामलघुरवैः काहलीनां, आत्मतमनीयताधरीकृतगन्धर्वाणां दूरीकृतस्वरदोषतोषिताशेषगीतविशेषाडम्बरेण शैलूषाणां, अजाण्डभाण्डमापूरयन्नागत्याश्वविश्वंभरानेता, अमरावत्यास्वानीकसंपत्या स्वराडिव बहिर्नगरादत्यवाहयत्कञ्चित्पन्थानम्॥ 3.46॥
रराज राकाद्विजराजतुल्यः
महीमहेन्द्रो महसाऽतिसान्द्रः।
तदा स्वतेजोविभवात्स्वसैन्य-
पयोधिमध्वन्यभिवर्धयन् सः॥ 3.47॥
तत्पालिता वर्त्मनि सर्ववाहिनी
महीपतेरग्रभुवि प्रयायिनी।
संसत्सुराणामिव नाकगामिनी
याता सुदूरं सुखतश्शुभान्विता॥ 3.48॥
पथि व्रजन् पार्थिववज्रपाणिः
पत्युस्सुतायाः परिमार्गणोत्कः।
स्वकैर्वचोभिः पथिकान् पथि प्रभुः
परं प्रहृष्टानकरोत्सहागतान्॥ 3.49॥
गद्यम्-एवमतीतवर्त्मा वाजिमहीस्वराट् अलघुतरसेनासंक्षोभजन्मना सर्वतः प्रसर्पता सेनान्धकारेणान्धीकुर्वन् हरिदन्तराणि, आनन्दयन्नात्मवान्धवान्, मानयन्मित्रवर्गं, प्रति गृहणान् प्रविदितकन्याविवाहैरध्वाभिमिवलितैरवनीधवैः पुरस्कृतान्युपायनानि,अभिनमन्नध्वाभिलक्ष्यमाणान् भक्तिपूर्वमक्षीणतेजोविलक्षणान् पारिकाङ्क्षिणः, परितोषयन्नपेक्षितार्थविश्राणनेन कुक्षिंभरीन् भिक्षुकान्, सुदूरमुपगम्याम्बुनिधिवेलातभालवनमिव दर्शनमनोहरमध्वायासकर्शनोदारमवलोक्यं कंचन वनोद्देशं निवे शयामास तत्रैवापारं स्कन्धावारम्॥ 3.50॥
गद्यम्-अथ भगवति सहस्त्ररोचिषि प्राचीदिगङ्गनासंगमाभिरक्तमनधिगतसन्निधानमात्मानमधिकृत्य संजातमानां प्रतीचीपुरन्ध्द्रीमुपलालयितुमिव चरमगिरिशिखरोपान्तमुपसर्पति॥ 3.51॥
मन्दं मद्रेन्द्रपुत्रीं मलयमरुदुमारूपसौभाग्यजेत्रीं
सावित्रीं साधुगात्रीं सुरपतिसुदृशाऽप्यर्थ्यसौशील्यपात्रीम्।
आलोक्याश्लोष्टुकामोऽप्यतिभयभरितस्संकुचन् स्प्रष्टुमेनां
आत्मार्थं प्रष्टुमश्वक्षितिपतिमभितस्संचचारेति मन्ये॥ 3.52॥
किंच-हयो मे सारङ्गस्तमियमजयद्वाजिनृपजा
दृशेति प्रख्यातिर्जगति वितता सा श्रुततमा।
मया द्रष्ट्व्याऽसौ क्वनु नृपतिजाऽत्रेति पृथुकः
मरुत्तामन्वेष्टुं विचरति समन्तात्किमु शनैः॥ 3.53॥
अपिच-मलपयवनः प्रगल्भो मद्रमहीराण्महेन्द्रपरिसरतः।
निजगुणनिकरं नितरां चचार किं दर्शयितुकामः॥ 3.54॥
तदा-अघ्वश्रान्त्या स्वसविधगतं मद्रनाथं द्रुमौघाः
मन्दप्रेङ्खन्मलयपवनान्दोलितैस्स्वाग्रहस्तैः।
संवर्षन्तः कुसुमनिकरं काममामोदयंस्तं
सन्तस्स्वार्थेस्स्वभवनगतान् साघु किं नार्चयन्ति॥ 3.55॥
सन्ध्याविकसितकुवलयमकरन्दास्वादलोलुपा मधुपाः।
आनन्दयन्नरेन्द्रं गायन्तस्सहचरीसमाकलिताः॥ 3.56॥
मदकलपिकशारिकानिनादो-
सुकमाहिलाजनमण्डितान्तरालम्।
त्वनममरबिलासिनीसमेतं
नवमिव वासवनन्दनं विरेजे॥ 3.57॥
गद्यम्- ततःक्रमेणोल्लसितप्रचारेषु सन्धयारम्भाडम्बरेषु, तमस्स्तोमप्रकामाभिलिप्यमानेषु प्राचीमुखहरिन्मुखेषु, शनैश्शनैस्संकुचितशोभासुभगेषु सन्ध्यारागेषु, रथाङ्गविहङ्गान्तरङ्गखेदस्मरणादिव विगतालापेषु शुकशारिकादिविहगकदम्बेषु, उत्पन्नेष्वाकाशार्णवभवमौक्तिकेष्विव सर्वतस्तारतरतारकानिकरेषु तारकानिकरविद्रावितयाऽन्धकारपरम्परयेव निद्रया मुद्रितेष्वरविन्दबृन्देषु, अनुपमानरसभावपोषणे प्रतीपदर्शिनीस्पृहानिर्वहणालंकर्मोणे मन्दंमन्दं प्रविशत्यङ्गनारङ्गदन्तरङ्गरङ्गमरविन्दबाणे,स्वसमानशोभासंशोभिततया मन्देतरस्यन्दमानमकरन्दसन्दोहसंपूरिततया चामन्दीकृतप्रचारेष्विन्दीवरेष्विन्दिन्दिरेषु, ज्वलत्सु प्रदीपेष्विव विरहविधुरविलासिनीहृदयेषु, विस्फुरन्तीषु विद्युल्लतास्विव विशङ्कटमोषधीषु, बुभुक्षाशमनपर्युत्सुकेषु चकोरेषु, धृतोत्साहेषु दिवाभीतव्रातेषु, निष्प्रत्यूहविकासेषु प्रकटितामोदभरितेषु पांसुलाहृत्पङ्कजेषु, प्राचीदिगङ्गनावदनलालाटिकायमानासमानयामिनीकामिनीकामुककरप्रकरप्रचुरतरप्रभाप्रकाशीकृतावकाशे सर्वतोऽप्याकाशे- 3.58॥
कोकद्वंद्वमगाच्छुचं कमलिनीश्रीर्दैदन्यभूष्षपद-
श्रेणीगीतमपेतमन्दतिमिरैरासीज्जगद्विस्तृतम्।
लोकश्चाक्षुषकर्मशर्मरहितो लीनाऽभवत्कोटरे
पक्षिश्रेणिरथाप्रमत्तविभुतामाप स्मरस्स्वोद्यमे॥ 3.59॥
सुधामयमरीचिरुत्कटतमोमषीसंगमात्
मलीमसमिदं जगत्करसुधारसैः क्षालयन्।
उदन्वदुदरान्तरादुदयभूधराग्रं गतः
व्यधाद्विगतकल्मषं तदभवत्ततो निर्मलम्॥ 3.60॥
पूर्वाद्रीशनितम्बे शीतांशोः प्रोत्थिते बिम्बे।
अभवन्मध्ववलम्बे भ्रमररवः कैरवकदम्बे॥ 3.61॥
अमृतमथनकाले मन्दरापातकीर्णं
किमु वियति विलग्नं मण्डखण्डं पयोधेः।
रतिपतिविहितं किं मोहयन्त्रं वधूनां
इदामिकि नृपपुत्री वीक्ष्य मेने सुधांशुम्॥ 3.62॥
नामान्वर्थं कलयितुमिवान्यत्र देशेऽपि वेगात्
अन्तर्धानं भजति तपने तत्क्षणं सारसानाम्।
बृन्दं सर्वं मुकुलितमभूत्स्वोदयोन्निद्रमिन्दुः
द्रष्टुं किं तद्गगनमगमद्राजपुत्रीमुखाब्जम्॥ 3.63॥
प्राचीरामां रमयितुमिव द्योतयन्नात्मरागं
स्वीये भर्तर्युदयशिखरिप्रान्तसंचारभजि।
मानाद्याता इव विकलतां तारकास्तद्विदित्वा
तासामिन्दुर्जनयितुमिवामोदमब्भ्रं किमेति॥ 3.64॥
शुकीं वाण्या गानात्परभृतवधूं भृङ्गवनितां
अपि श्वासाज्जित्वा मलयपवनं भूपतिसुता।
दृशा मन्मध्यस्थं हरिणमजयन्मां मुखरुचा
स्मितेनेन्दुर्ज्योत्स्नामिति किमभवद्विष्णुपदभाक्॥ 3.65॥
कुवलयपतिरित्यहं प्रसिद्धः
कुवलयवल्लभतां धरन्नयं च।
विलसति हयभूपतिर्विलोक्यः
तदयमतीव वियत्किमेति चन्द्रः॥ 3.66॥
राजति राजनि रतिपतिरामोदभरादकारयदतीव।
वनितान्तरङ्गरङ्गेष्वसदृशनाराचनर्तकैर्नटनम्॥ 3.67॥।
चन्द्रज्योत्स्नाविधुततिमिराडम्बरेऽरण्यभागे
प्रद्युम्नोद्यन्मदचलहृदां चन्द्रमुस्यः पतीनाम्।
रम्योदञ्चाद्विमलशयनप्रान्तभाजां सकाशं
मन्दं चेरुर्मनसिजशरैर्लूनमानास्तरुण्यः॥ 3.68॥
मलयपवनानुयायी मदनो दृढमानमानिनीसदसाम्।
मर्माणि निर्ममन्थोत्साहं संप्राप्य मातुलमहिम्ना॥ 3.69॥
अमृतमयूखकान्तिविमलीकृतमद्रमहीट्-
पटगृहपालयो रुरुचिरे लिखिताम्बुधराः।
नृपदुहितुर्गुणान्निजसुताऽमितरम्यगुणान्
सममिव वीक्षितुं हिमगिरीरितपार्श्वधराः॥ 3.70॥
मद्रस्साल्वमहीधरसंमार्गणकौतुकी निशाकान्तम्।
जागर्ति वीक्षमाणो यावत्तावद्भतोऽस्तनगमिन्दुः॥ 3.71॥
विधुबिम्बेऽस्तनितम्बे लम्बेऽहर्मुखदलद्दलकदम्बे।
अभवत्सुधावलम्बे बम्भरनिनदोऽरविन्दनिकुरुम्वे॥ 3.72॥
प्रातःपोतवणिग्वरेण जठरप्रोद्भवासिरव्यै लस-
त्प्राच्यै प्रेमवितीर्णमौक्तिकमिव प्राप द्युतिं काव्यभम्।
भानुर्लोकनमस्कृतोऽयमुदये भायादिहेत्यभ्रगैः
कीर्णाः कल्पसुमोत्करा इव बभुस्तारास्तदग्रे दिवि॥ 3.73॥
पतिं नश्शीतांशुं विगतविभवं स्वोदयवशात्
करोत्यालोक्योऽयं न हि रविरितीवाम्बरतले।
गतास्तारा दूरं चिरलविरला विह्वलरुचो
हसन्तीव प्राची तदनु रुरुचे तास्स्वमहसा॥ 3.74॥
प्राची प्राभाकरकरपरीरम्भसंरम्भशोभा
सम्भारश्रीरभवदमितामोदभूः पद्मिनी च।
वाताश्शीता ववुरतितरस्वाधरास्वादिकान्त-
त्यक्तप्रान्ता युवतिजनताऽभूत्स्मरोद्वेगतान्ता॥ 3.75॥
अरुणकिरुणरागापारसिन्दूरभूमा
लसति करटदेशे व्योमतुङ्गद्विपस्य।
स्फटिकशकलतुल्यास्तत्र तारा विरेजुः
मुकुरसदृगबूद्गलौः स प्रतीचीमृगाक्ष्याः॥ 3.76॥
पलायनपराः परं प्रतिदिशं द्रुमेभ्यः खगाः
स्वनादमुखरीकृतद्रुमलतान्तरास्सत्वराः।
महीधरमहगुहान्तरचरास्तमिस्त्रोत्कराः
प्रयाणकृतकौतुकास्समभवंश्च सद्योऽध्वगाः॥ 3.77॥
प्रचण्डमार्तण्डमृगेन्द्रपोतः
तमिस्त्रवेतण्डततिं कराग्रैः।
बिभेद तन्निस्सृतरक्तधारा
विभाति नायं नवसान्ध्यरागः॥ 3.78॥
प्रातःपूरुषसंगमात्सुतमियं प्रासूत बालारुणं
प्राची नः परमप्रियेति हृदयोल्लासात्पराशाङ्गनाः।
सन्तुष्टा इव सर्वतोऽर्ककिरणश्रीकुङ्कुमाङ्काननाः
प्रत्याख्यातहिमानिकायवनिकाः प्रापुः प्रकाशं तदा॥ 3.79॥
प्रचण्डे चण्डांशौ गगनरणभूप्राङ्गणगते
करस्तोमाकाराः किरति शरधाराः प्रतिभटे।
स राजा कुत्रास्ते कुवलयपतिस्तत्प्रियसखी
निशा क्वासीत्ताराः क्व नु हिततमास्तस्य गलिताः॥ 3.80॥
कोकाश्शौकभरं विसृज्य कुतुकात्कौटुम्बसंपद्युताः
घूकाः पोतयुतावनीधरगुहाव्यूहाद्बहिर्नागताः।
लोकः पाकविरोधिदिङ्मृगदृगुद्भूषायिताब्जप्रियो-
द्धूतोद्दण्डतमोमल. शिवतमा सर्वा मही चाभवत्॥ 3.81॥
गद्यम्-तदनु प्रभातायां च निशीथिन्यां, अखिललोकजागरूकीकरणधुरीणारुणकिरणाडम्बरपरिमण्डिततले गगनम ण्डले, कमलोदरबन्धनागारनिर्गतेषु मधुकरनिकरेषु, निलीनेषु नितरां नीलोत्पलविजृम्भणेषु, सरभससमागतसहचरसंसर्गसंभूतादम्भसमुज्जृम्भमाणानन्दतरङ्गिणीतरङ्गेत्तरङ्गेषु रथाङ्गविहङ्गाङ्गनान्तरङ्गेषु, प्रत्यूषोद्बुद्धपरिशुद्धातिप्रबुद्धमुनिजनमाणवकमुखास्तोकमुखारितस्वाध्यायाध्ययननिर्दोषनिर्घोषनीरन्ध्रितेष्वाश्रमावकाशेषु, समन्ततस्समारचितसंचारेषु संयमीश्वरसंरक्षितशंबरादिसत्वसंघातेषु, संगृहीतगृहक्रियारम्भसंभारेषु सर्वतस्तापससतीसन्तानेषु, अभिनवोदितप्रद्योतनद्युतिव्यतिकरात्यन्तद्योतितात्मकान्तिष्वादित्योपलव्रातेषु, महर्षिसङ्घप्रक्रान्तास्तोकहोमधूमस्तोमेष्वाश्रमशाखिशाखादिग्विहायःप्रान्तरेषु, पूर्वोर्वोधरशिखरातिशोचिषि भगवत्यन्धकारसर्वस्वमुषि सहस्त्ररोचिषि, शयना दश्वावनीसंक्रन्दनः समुत्थाय यथाविधि क्रियामाणप्राभातिकक्रियाकलापः साल्वाब्धिमेखलाखण्डलपरिमार्गणकौतुकावकृष्यमाणान्तरङ्गतया सन्नद्धसूतसमानीतमाखण्डलस्यन्दनमिव अखण्डमणिप्रकाण्डमण्डितोद्दण्डध्वजदण्डमण्डनमालोककलोकलोचनानन्दनमधिरुह्य स्यन्दनं, अभितः पुरतश्च ससंभ्रमं संचरद्भिः अतिमानुषप्रमाणैर्धार्यमाणधैर्यभूषणैर्वृद्धशार्दूलचर्मनिर्मितशबलाभीवलवारवाणैः अनेकविधवर्णनीयोष्णीषशीर्षेः सामर्षैरुच्छृहखलललदतिवेलश्मश्रुजालजाटिलाननैः भीरुभूरिभयदनिनादैः उद्दण्डकोदंण्डगुणारावविद्राविद्रावितक्षुद्रातिक्षुद्रविपिनचरश्वापदवितानैः आननविरविसर्पदविच्छिन्नलालाक्लिन्नरसनासन्नप्रधावद्दुर्जयामेयसारासंख्येयसारमेयसंवृतैः शल्यकोलाच्छभल्ललुलायाद्यालम्भनकल्पयशल्यभल्लशूलशिलीमुखमुखोद्भीतिदद्युतिहेतिसंहतिसंधुक्षितशरधिदीपितस्कन्धदुर्दर्शेः अतिरभसकृतादीनकोलाहलस्वनैः अनवरतव्यायामशिक्षितमेदश्छेदलघुतरापघनैः कैश्चिन्मृगयापारीणैः महावीरपुरुषैर्द्विगुणीकृतप्रयाणोत्साहः संख्यातीतोत्तुङ्गमातङ्गतुरङ्गशताङ्गपदातिसङ्घेन कम्पयन्नटवीवसुन्धरां आत्मप्रतापप्रधूतग्रहपतिभिरारूढहरिहयतृलिततुरङ्गरङ्गद्भिरात्मरथोपान्तप रिवर्तिभिस्सह कैश्चिद्वसुन्धराधिपतिभिरतीत्यातितरदूरमध्वानं आत्मानीकिनीविद्रावितप्रद्रवत्प्रस्खलत्पदश्वापदनिनादभरितोर्वो धरपर्यन्तजरीजृम्भमाणादम्भजीवशिलाप्रतिध्वानमजाङ्गलमन्यमसमानमधिगत्य तत्र भक्तिपूर्वकं प्रणाममारचय्य अभिरा जते कुत्र साल्वभूसंक्रन्दनाश्रम इत्यामन्त्र्याध्वादूरवासिनस्सं यमिनः सहानुयायिभिस्संचरमाणः तरसा तन्मुनिवरोपदिष्टेन पथा साल्वेशाश्रमसन्निकृष्टे सन्ततसोमपीथिसंचारवरेण्ये सर्वसत्वशरण्ये धर्मारण्ये कांश्चिदवलोकयन्नाश्रमभागान् सर्वलोकालोकनोत्साहकरे कस्मिंश्चित्प्रदेशान्तरे निस्सीममहिमधामतया करिकलभकदरपरिवीतशरीरैः केसरिकिशोरैः प्रचण्डतरपुण्डरीकमण्डलाहिण्ड्यमानैर्मृगडिम्भवितानैः कुण्डलिफणामण्डलपरिकलितताण्डवैः शिखण्डिप्रकाण्डैश्च परिमण्डिते, तत्रैवोपनिवेश्य भूरिभयादुद्वृत्तगर्वोर्वोधराडम्बरनिर्हरणवागशनीनां अति वेलवागतीतानुभावखनीनां महामुनीनां अतिक्रान्तवर्तनीं आत्मवाहिनीं स्वयमङ्घ्रिभ्यामेव संचरमाणः पुत्र्या सत्रा स्वपुरोधसा च शनैश्शनैः द्युमत्सेनाश्रमसन्निकाशमाससाद॥ 3.82
उपरिविवरप्रवृत्तप्रभाकराभाप्रदीपितायामम्।
साल्लवोर्वोन्द्रकुटीरं स नृपश्श्लथभुग्नकुड्यमद्राक्षीत्॥ 3.83॥
अभितः प्रलम्बिजीर्णाजिनमुरुवल्मीकसंकटसमीपम्।
पुरतःप्रलम्बिनीव्रं परितः कीर्णं पिपीलिकारन्ध्रैः॥ 3.84॥
प्रान्तप्रस्तरफलकाप्रक्षेपितगोमयोरुपिण्डयुतम्।
द्वारन्यस्तहसन्तीनिकटार्पितकाष्ठकूटमकवाटम्॥ 3.85॥
त्रुट्यत्खनित्रपिटकालयशोधिन्यञ्चितोच्चलन्मञ्चम्।
ऊर्ध्वोद्वेलत्तुम्बीरकरोटिकं विततजीर्णवेणुकटम्॥ 3.86॥
संभुग्नकुढ्यकीलितशंकुललज्जीर्णचीरभरनिचितम्।
छिद्रक्षुद्रप्राक्तनपत्रलवाकीर्णपरिसरोद्देशम्॥ 3.87॥
द्वारे तस्य कुटीरस्य तिष्ठन्तं साल्वभूपतिम्।
प्राक्कर्मसंगताभद्रमिव रुद्रं ददर्श सः॥ 3.88॥
ज्ञात्वा तं दृग्विहीनं वदनशशभृतस्तेजसः कायदार्ढ्यात्
रम्यत्वादङ्गकानां घनचिकुरभराद्भव्यभावानुभावात्।
साल्वादीशं हयेशः कुलगुरुसहितस्सात्मजस्तस्कुटीरा-
भ्यर्पक्षोणीं प्रपन्नः प्रमुदितहृदयस्सोऽयमासीत्क्षणेन॥ 3.89॥
सारससदनासदृशी सा सारसदृक् स्वमीशमात्मदृशा।
स्वप्नेक्षितं तमीक्षितुमैच्छत्प्रत्यक्षमिक्षुचापरुचम्॥ 3.90॥
गद्यम्- ततसोऽयमन्धावनीरमणोऽपि अतितरसंक्रान्तकर्णविवरेण अश्वराजन्यतनयाङ्घ्रिकञ्जुमञ्जीरशिञ्चितेन तच्चरणविक्षेणविरावेण च समायान्ति स्वान्तिकं महान्तो दुरन्तमहिमनिशान्तास्तपस्स्विनोऽतिशान्ता इत्युत्थाय निस्तुलस्वमस्तकतलविन्यस्तप्रशस्तहस्तकमलकोशः प्रस्तुतमित्थमवादीत्॥ 3.91॥
के यूयं मुनयः प्रभो न मुनयः कस्त्वं हयोर्वोधरः
का सेयं वनिता मम प्रियसुता कोऽन्यो भवत्सन्निधौ॥
अस्मद्गेत्रपुरोहितः कुशलिनस्त्वद्दर्शनादद्य ते
पुत्र्या साकमिहागमः कुत इमं त्वां द्रष्टुमासन्मिम॥ 3.92॥
इत्युक्तिप्रत्युक्तिप्रख्यापनविदितहयविभुस्साल्वः।
आगत्यारादभिमुखमकरोदुपचारमादरात्तस्य॥ 3.93॥
अथायमाश्लिष्य तमर्चयन् परं
मुदा स्वनिर्दिष्टतरे सुविष्टरे।
सुखोपविष्टे हयविष्टपाधिपे
मुदा तदाऽपृच्छदनामयं विभुः॥ 3.94॥
पुरे राजन्! राज्ये किमु जनपदे शं परिजनः
किमास्ते संप्रीतः किमु शुभयुतोऽन्तःपुरजनः।
भवन्तं सेवन्ते किमु सुमतयस्त्वत्प्रकृतयः
प्रतीपाः किं नष्टाः कथय शुभदाः किं तव गृहाः॥ 3.95॥
अश्वक्षोण्यमृताशनेश भवतस्स्वाधीनदेशे तपः-
प्राग्भारातपधूतपापतमसां न श्वापदोपद्रवः।
कच्चित्संयमिभास्वतां किमु मुहुः कालप्रवर्षो परं
पर्जन्यः परितो भजन्ति किमलं सस्यानि सोल्लासताम्॥ 3.96॥
कुलेमद्रेशानां महितचरितानां तव जनिः
प्रतापस्त्वद्बाह्वोः सुरमनुजलोकश्रुततमः।
मदीयालोकेच्छा कथमभवदश्वक्षितिपते
दारिद्रालोकेच्छा स्मरहरसखस्येव भवतः। 3.97॥
आकर्ण्य तद्वचनमन्धनराधिपस्य
मद्रेश्वरोऽतिमधुरां गिरमाबभाषे।
सर्वं त्वयोदितमिदं कुशलाभ्युपेतं
श्रोतव्यमस्ति तव यच्छृणु तद्ब्रवीमि॥ 3.98॥
वचनं करोषि यदि मे हस्तं हस्तेन संस्पृशेदानीं
वक्ष्ये ततस्तवाहं यत्सुखदमिहावयोः परत्रापि।
इति वदतोऽश्वमहीभृच्छतमन्योर्हस्तमात्महस्तेन
पस्पर्श परममोदात्साल्वस्तं व्याजहार सोऽश्वेशः॥
कन्यां सत्यवते प्रदातुमधुना पुत्राय ते बन्धुभिः
मत्रैर्मन्त्रिपुरोहितैस्सममहं त्वत्सन्निधानं गतः।
एषा ह्याहितलक्षणा मम सुता श्रीसत्यवन्तं विना
नान्यं काङ्क्षति सत्कुलेन भवता तत्प्रीतिराधीयताम्॥ 3.99॥
श्रुत्वा नाकमुनीश्वरात्तव वने वासं तथाऽत्यद्भुतान्
त्वत्पुत्रस्य गुणांस्त्रिलोकविदितानुत्कण्ठितामात्मजां।
आनीय प्रतिवीक्षितुं तव सुतं संप्रत्यहं त्वत्कृपां
याचेऽद्य क्रियतां मदीप्सितमिदं कारुण्यवारांनिधे॥ 3.100॥
विधिना पुरुषस्य स्त्रियो वा
लिखितां फाललिपिं प्रवेत्ति कः।
प्रकृतं पुरुषेण साधितव्यं
परमार्थप्रतिवेदिना न किम्॥ 3.101॥
पूर्वपुण्यफलमब्धयगाधता
पुण्यकृन्निपतनं दिवो भुवि।
अद्रिराजगरिमा वधूगुणो
मन्त्रशक्तिरपि केन वेद्यत॥ 3.102॥
तदहं तव सन्निकाशमेतत्प्रकृतं साधयितुं समागतोऽस्मि।
करुणावरुणालयेन तावद्भवता संप्रति तत्समर्थनीयम्॥ 3.103.।
इत्थं सविनयमश्वक्षितिपे बोधयति साल्वेशः।
तद्वृत्तमात्भवृत्तं स्वमनस्यालोच्य तमवादीत्। 3.104॥
गद्यम्-राजन् मद्रमहीमण्डलाखण्डल! अखण्डराज्यलक्ष्मीविहारागारभुजाभिरामस्त्वं, असमतरसंप्रहारारिवीरापहृतराज्योऽहं, अखिलानन्ददमणिबृन्दतुन्दिलबृन्दारकमन्दिरसुन्दरसौधान्तरविहारी त्वं, अनवरतवातोत्कीर्णरेणुपूर्णजीर्णपर्णकुटीरकुटीरकुटुम्ब्यहं, अतोऽधिकतरमद्यावयोरुल्लसत्यन्तरममृतपारावाराल्पसरोवरयोरिव, खरकिरणखद्योतयोरिव,कुबेरकौपीनधरयोरिव, खगपतिखञ्जरीटयोखि, कालायसकाञ्चनयोरिव, कथं तवैतादृशस्तनया निवत्स्यतीह निरन्तरनिखिलापत्प्रसवभूमीषु भूरिभीतिदध्वान्तविभावरीषु वनवसुमतीषु, कथमेतादृशमन्नमशिष्यति नीवारमयमपरिचयनिवेशं, कथं वा पिबत्युकानि जीर्णपर्णसंकरकषायाणि, तस्मादननुरूपमसुखावहं चास्मत्संबन्धमुपहाय सर्वथाऽस्यास्सममेवान्वेष्य सर्वंसहासहस्त्राक्षकुमारं, तस्मै दीयतामेषा योषा॥ 3.105॥
श्रुत्वा तदीयं वचनं हयेशः
साल्वेन्द्रमित्थं पुनरप्यवोचत्।
त्वया यदुक्तं तदयुक्तमत्र
सुखं च दुःखं च जगत्यनित्यम्॥ 3.106॥
सुराधीशः पूर्वं विपदुदाधिमग्नस्समभवत्
स मान्धातुः पित्रा परिहृतनिजैश्वर्यविभवः।
हरिश्चन्द्रस्तादृक्किमिह न गतस्ते श्रुतिपथं
किमेवं शुद्धात्मन् विधिविलसिते मुह्यासि मुहुः॥ 3.107॥
पुत्रस्ते महितश्श्रुतश्शुभगुणैर्मत्पुत्रिका तादृशी
लक्ष्मीमाधवयोरिवास्तु समयोस्सांगत्यमत्युज्ज्वलम्।
तद्दैवेन निरङ्कुशेन घटितं का तत्र संचिन्तना
यच्चिन्त्यात्परधा जगत्युपनतं तद्दैविकं ज्ञायते॥ 3.108॥
फाले गर्भस्थजन्तोर्विलिखति विबुधाराधितो यद्विधाता
तद्दुःखं वा सुखं वा भवति न च भवत्यन्यथेत्यात्तबुद्धिः।
लोकस्तूष्णीं न तिष्ठत्यभिमतकलने व्याप्रियेतायतीच्छुः
सामर्थ्यात्साधितं तत्सफलमिह विना तेन दैवेन किं स्यात्॥ 3.109॥
सार्थं व्यर्थं भवति व्यर्थं सार्थं ध्रुवं भवत्येव।
कर्म कृतं मरुतामपि विध्यनुकूलत्वतत्प्रतीपत्वात्॥ 3.110॥
गद्यम्- राजन् विश्वविश्रुतमहिमन्! विज्ञापनामिमां शृणु मामकीनामिदानीं,यूयं धनिनो वयं दुर्गता इत्यास्तामेतदुपचारवचनं,सर्वदा किं निवसति कुलाचलमालेव पुण्यस्नेहोज्जवलदीपिकाज्वालेवातिचञ्चला राज्यलक्ष्मीः, पश्यतु भवानेव साक्षाल्लक्ष्म्या सह संभूतस्याप्युक्षाङ्कसेखरस्य भगवतश्शशाङ्कस्य कतिपयेषु क्षीणता वासरेषु कतिपयेषु समृद्धिः, एवंविधैव धनिता दुर्गतता च, तन्नैव चिन्तनीयाऽद्य त्वया, विभावरीविभूत्याऽऽगता दीनताऽभ्भोजगताऽऽदित्यज्योतिषेवाभिभूता भवति भवदीयाऽपि दुर्गतता भवत्पूर्वपुण्यादित्यज्योतिषा, तत्प्रतिगृह्णीष्वात्मसौन्दर्यनिन्दितकन्दर्पसुन्दरीमस्मत्कुमारीमात्मरूपापहसिताङ्गजाय स्वात्मजाय सत्य वीरायेति॥ 3.111॥
सत्यं वचस्तस्य निशम्य सोऽयं
विनाऽर्थनामात्मवशंवदां वधूम्।
संचिन्तयन् संमदसागरान्तरे
संमग्नचित्तोऽभवदन्धभूपतिः॥ 3.112॥
साल्वेशं प्राह सप्तीशस्सत्यचन्द्रं समीक्षितुम्।
पुत्त्रः कुत्रोति ते प्राप्तो मत्पुत्रीप्रीतिपात्रताम्॥ 3.113॥
तदनु साल्वमहीपतिरञ्जसा
प्रतिनिशम्य वचस्तदुदीरितम्।
उटजमध्यगतं प्रियमात्मजं
निजसमीपमुपाह्वयदादरात्॥ 3.114॥
आहूतो निजगुरुणा निजोटजान्त-
स्सीमायासलिलधरान्तराच्छशीव।
कौपीनाजिनकटिसूत्रमात्रयुक्तः
मात्रा द्रागनुनयबोधितस्समागात्॥ 3.115॥
मान्योदारं माननीमानचोरा-
कारं मारकूरनिस्त्रिंशदूरम्।
वीरं पारावारगम्भीरमेनं
दृष्ट्वाऽतुष्यन्मद्रराण्मेरुधरिम्॥ 3.116॥
शान्तं स्वान्तर्विरचितरमाकान्तमग्रे स्फुरन्तम्
दान्तं प्रान्तप्रतिहततमध्वान्ततेजोविभान्तम्।
कान्तारान्तः प्रतिदिनपरिभ्रान्तितान्तं नितान्तम्
कान्तं कञ्जाहितसममुखं प्रैक्षत प्रीतचित्तः॥ 3.117॥
गद्यम्- ततस्तावदश्वविश्वंभरेश्वरः पर्णकुटीराभ्यन्तरादात्मगुरुवचनगौरवादुपसर्पन्तं सत्यवन्तमवलोक्य, सामोदमहो गरीयसी खल्वनन्यसुलभानुभावधाम्नः सृष्टिप्रतिष्ठा परमेष्ठिनः, तेन मनसैव निर्मितोऽयं विभाव्य नूनं, यज्जगति न दृश्यते खल्वेतादृशं रूपवैशेष्यं, श्लाघनीया प्रीतिरस्मिन् मम पुत्रिकायाः, किं वा न लिखितमस्य कुटिलेन निटिलतले हतविधिना भाग्यं, अथवा भविष्यन्ति किमु श्रेयांसि भूयांसि केन विज्ञायन्ते पुरुषस्य भाग्याभाग्यायूंषि, इदमस्यानुरूपं रूपमभिरामस्य मदात्मजाभिरूप्यस्य, सवर्था देयैवास्मै द्युतिजितद्युमणये पुत्रिका मामिकेत्यन्तर्बहुधा विचिन्त्य साल्वपुरन्दरमित्थमाचचक्षे॥ 3.118॥
क्षीराम्भोधिसुताऽम्बुजेक्षणमिव श्रीपार्वतीवेश्वरं
वाणी वाब्जभवं पुरन्दरमिव प्रीत्या पुलोमात्मजा।
मान्या मत्तनया मनोहरममुं त्वत्पुत्रमाकाड्रक्षते
लक्ष्मीमाधवयोरिवायमनयोर्भूयाद्विवाहोत्सवः॥ 3.119॥
युतयोस्स्वत एव तयोर्गतयोरन्योन्यमित्रतां सुतयोः।
सावित्रीसत्यवतोस्सदृशं साङ्गत्यमस्मदामोद्यम्॥ 3.120॥
विचार्यतामाशु विवाहकालः
शुभं च लग्नं सुतयोरिदानीम्।
शुभस्य कार्यस्य तु शीघ्रयत्नः
कर्तव्य इत्यस्ति हि लोकवादः॥ 3.121॥
गद्यम्-भो भूपतिसार्वभौम! याप्यते किमर्थं कालः, संप्रति समाहूयन्तामाश्रमान्तरकुटुम्बिनः पारिकाङ्क्षिणः, सम्यग्विनिश्चीयतां लग्नसमयः, संपाद्यन्तां पुरोहितैर्हरिशर्मादिभिर्वैवाहिकहोमसंभारप्राग्भाराः, प्रतिष्ठाप्यतामुटजाग्रेषु बहुपरीणाहभासुरेषु भव्यतरकायमानप्रकरः, समारभ्यन्तां गृहदेवताराधनकर्माणि, आज्ञाप्यन्तां वाद्यवादकाः, दीयतां वरनिश्चयवीटिका, क्रियतां भवताऽतिकृपया तावकशरणैककाङ्क्षिणो मर्मेषा मनोरथपरिपूर्तिरिति॥ 3.122॥
आकर्ण्याश्वपतेर्वचोऽन्धनृपनिस्संतोषभारं गुरुं
धर्तुं तद्वचनश्रुतिक्षणभवं स्थित्वाऽतिशक्तोऽपि सः।
नेत्राभाववशादशक्त इव तत्संबन्धलाभाद्भृशं
निर्वेलाद्भुतसागरान्तरलुठत्स्वान्तः पुनर्व्याहरत्। 3.123॥
गद्यम्-राजन्! राकाराजमानराजानन! यथा रोचते भवते तथा क्रियतां, अन्धेनाहितापहृतावनीतलेन क्रियते किमेतेनातिजराजर्झरितावयवेनेति सानुनयं सप्रमोदं च साल्वावनीरमणसार्वभौमेन सम्यग्विज्ञापितो मद्रभूपतिः स्वयमेव सर्वं निर्वर्तयाचक्रे॥ 3.124॥
यथा पूर्वं स्वप्ने समधिगतरूपस्समभवः
तथाभूतं कान्तं तपनतुलिताभोज्ज्वलतनुम्।
जटावन्तं कानतं जितजलरुहस्फारनयनं
लसन्तं पश्यन्ती सपदि मुमुदे सा नृपसुता॥ 3.125॥
कान्तं रतीशकान्तं प्रान्ते स्वपितुस्समीक्ष्य तं भान्तम्।
भास्वन्तमिव नितान्तं स्वान्तस्संतोषमाप सा कान्ता॥ 3.126॥
अटवीतटविलसन्तं कुटिलजटाजालनिटिलान्तम्।
कटिघटितवल्कलं सा स्फुटरूपं वीक्ष्य समतोषीत्॥ 3.127॥
साल्वाधीशसुतं सरोरुहसदृग्वक्त्रप्रभाभासुरं
सर्वश्लाघ्यगुणाधिकं सुरमुनिप्रख्यापितं संसदि।
सावित्री स्वमनोवसन्तमनिशं स्वप्नेक्षितं सौख्यदं
भत्वा तद्गतभावतस्सपुलकोच्छूनाखिलाङ्गाऽभवत्॥ 3.128॥
सत्येश्वरस्तां सुरसुन्दरीमिव
स्वर्गाद्गतां भूतलमग्रतस्स्थिताम्।
मद्रेन्द्रपुत्रीमभिवीक्ष्य विस्मितः
स्वान्तस्स्वयं किञ्चिदाचिन्तयत्तदा॥ 3.129॥
संकल्पजन्मनेयं संकल्पेनैव कल्पिता नूनम्।
अम्भोजभवनरचिते स्त्रैणे यद्दृश्यते न चैतादृक्॥ 3.130॥
लोके यानि मनोहराण्यसमभारूढानि वस्तूनि ता-
न्यादायाम्बुजयोनिरङ्गमतनोदस्याः किमेतादृशम्।
नो चेत्किं न भवेदिहाखिलजगन्निर्माणकर्मात्मक-
क्रीडेच्छाब्जजनिर्मिताम्बुजदृशां कस्याश्चिदङ्गं भुवि॥ 3.131॥
एतादृशी सहचरी भविता ममेति
संलज्जितं भवति चित्तमिदं मदीयम्।
आलोलमुग्धनयना हरिणाङ्गनानाम्
मध्ये कथं निवसतीह वनान्तधाम्नां॥ 3.132॥
तन्वी तापसकन्यकापरिवृता तापाभिभूता मुहुः
तातं मातरमात्मबन्धुजनतां विस्मृत्य मामाश्रिता।
वन्यानीह कटूनि वाञ्छति कथं भोक्तुं विसाराण्यहो
रूपस्यास्य समानभाग्यमलिखत्तन्नात्मभूर्बालिशः॥ 3.133॥
पुरामभवे मद्रनरेन्द्रपुत्र्या
किं वा कृतं दुष्कृतमुत्पलाक्ष्या।
प्रख्यातभाग्यान् प्रविहाय भूपान्
मामाश्रिता केनं कृतं विलङ्घ्यम्॥ 3.134॥
सुखिनो भवन्ति केचिज्जगति जना दुःखिनः केचित्।
तदिदं भवान्तरार्जितकर्मफलं तथ्यमिति मन्ये॥ 3.135॥
किं कर्तव्यमिदानीं किं फलमनयाऽद्य चिन्तया स्यान्मे।
यदभावि न तद्भावि प्रयाति यद्भावि नान्यथा तदिह॥ 3.136॥
इति विचार्य मुहुर्तंमगान्मुदं
ललितदृक्चुलकेन निपीय सः।
सुभगभावसुधारसमश्वभू-
पतिसुताननपझविरोधिनः॥ 3.137॥
अक्षीणलक्षणाढ्यां साक्षाल्लक्ष्मीमिवागतां वीक्ष्य।
सावित्रीं सत्येन्द्रस्स्वतपस्सिद्धिं व्यचिन्तयत्पूर्णाम्॥ 3.138॥
अतनोरिव सुतनुं तां सुतनुं संवीक्ष्य तत्र मुनिकन्याः।
वन्याधिदेवतेयं धन्या नान्येति निश्चयं चक्रुः॥ 3.139॥
मुकुलितनयनान्तस्संबभूवुर्मुनीन्द्राः
तटितमिव विभान्तीं वीक्ष्य तां तद्बनान्ते।
रविकरनिकुरुम्बस्फीतकंजायताक्षीं
प्रविविदुरथ योगभ्रंशसंजातलक्ष्मीम्॥ 3.140॥
लावण्यामृतमास्यपङ्कजरिपोः पीत्वाऽपि तस्यास्स्वकात्
सौन्दर्याद्विजितश्रियो नवनवोन्मेषं स सत्येश्वरः।
नेत्राभ्यां पुनरप्यतृप्त इव तामापादशीर्षं मनः
चक्रे द्रष्टुमलं हयेशतनयामन्यादृशाभामिमाम्॥ 3.141॥
गद्यम्-अथ तामश्वविश्वंभरेश्वरसुतामापादमस्तकमवलोकयितुकामस्सत्यसोमस्स्वाकारविजितकामः, तातान्तिकोपविष्टां अवचनीयगुणरूपाभिरद्वितीयाभिरात्मवयस्याभिः किमपिकीमपि जल्पन्तीं, अन्यागोचरमभिवीक्षमाणामात्मानमनुरागपुरस्सरेणाधरीकृताम्बुजाडम्बरेणाक्षियुगलेन, मञ्जुतरगुञ्जत्पदकञ्जरञ्जदाभरणपाजिरत्नांशुसंशयदायिनीभिः अतिकोमलविद्रुमपल्लवतल्लजविस्फुरन्तीभिः अलक्तकरसपाटलिताभिः अङ्गुलीभिरुपेताभ्यां चरणारुणसरोरुहाभ्यामुपशोभमानां, अधिकतरश्रीरमणीयतयाऽप्यसुकरदर्शनतया च सुकरदर्शनं करभमपहसदिवोरुयुगलमादधानां, अनन्तमणिमहितकाञ्चीक्षेत्रतया पीताम्बरपुरस्कृततया च विष्णुपदाख्यतामुखरमम्बरमवधीरयन्तमिव मध्यदेशं बिभ्राणां, विष्णुपदजत्वतन्निवासिताभ्यां विबुधसंसेव्यत्वमासीत्सुरापगाया इतीर्ष्ययेवैतदीयमध्यापदेशं विष्णुपदाधिकतरं देशमधिरोढुमुद्युक्तयेव यमुनया रोमराज्या विभ्राजमानां, अखिलजगद्विरुद्धमहोमात्रसंयुक्तत्वमयुक्ततरमावयोरिति निशीथिनीषु निर्योगतपोऽनुष्ठानेन भगवन्तं विधुमभिराध्य एतद्वदनाभिधानविधुसन्निधौ निर्भोकतया निरन्तरमिलितेन चक्रवाकयुगलेनेव कुचयुगलेन समुद्भासमानां, कोमलत्वादिधर्मैर्मत्तकाशिनीबाहुलतातौल्येऽपि ईषन्नयूनतापादकं तत्कल्पत्वं स्वस्याप्रतिहतमेवेति जन्मान्तरमवलम्बमानेन कल्पतरुशाखायुगलेनेव बाहुयुगलेनोद्भासमानां, लक्ष्म्यासहामृतरत्नाकरगर्भसंभूतस्य मम अतिविशुद्धतया विरागित्वेन च परमपुरुषपरिगृहीतत्वमासीदित्यहंकृतिवशाद्रागास्पदं जन्म प्राप्तवता शङ्खेनेव स्थितया सुन्दरया कन्धरयोपगतशोभां, कमनीयतरकल्याणाभरणनिक्षेपणपात्रत्वेनाक्षरश्रीमहिततमयोरनयोस्सान्निध्यमावयोर्लक्ष्मीकरमिति श्रुत्युलल्लङ्घनामसहमानाभ्यामिव तदन्तमात्रविश्रान्ताभ्यां अतिविशालाभ्यां विलोचनाभ्यां विराजमानां, अविरतागमान्तस्थितिमतीमपि सद्वासनासहितामपि मां न पुरस्करोत्यतिमुग्धोऽयं मधुहारीत्यधरात्मकं मधुहारिणमधःकृत्य स्थितया चम्पककलिकयेव नासिकया विकासितमुखभागां, मदीयस्मितमात्रनिर्जितस्य सकलङ्कस्य दोषकरस्यास्य विष्णुपदावलम्बनेन केयं द्विजराज इति महती प्रतिष्ठेति विष्णुपदं मध्यस्थीकृत्य द्विजा नपि स्वान्तर्गतान्विधाय स्थितेनेव वदनसरोरुहेण विद्योतमानां, अमानुषगण्यलावण्यपुण्यपण्यसीमां,आभिरूप्यविनिर्जितकन्दर्परामां, अश्वावनीरणनन्दनामभिरामामनुपदमनुस्मरन्नेव, नत्वा गुरुनिदेशेन तमश्वनरेश्वरं, पर्णशालाभ्यन्तरमाससाद॥ 3.142॥
आसाद्य पर्णशालाभ्यन्तरमभिवन्द्य तत्र मातृपदे।
सत्येन्द्रस्सानन्दस्तद्बृत्तं समवदत्तस्यै॥ 3.143॥
सा सम्मदामृताम्बुधिमग्ना स्वोत्सङ्गमधिगमय्य सुतम्।
शिरसि च समुपाध्राय श्रीर्भुयादाशिषं तवेत्यकरोत्॥ 3.144॥
अथ मद्रनायकनिदेशधारिणः
सपुरोहितास्सचिवसत्तमाः पुनः।
परमाह्वयन् वननिवासिनोऽश्वभू-
पतिपुत्रिकापरिणयोत्सवं प्रति॥ 3.145॥
गद्यम्-ततस्साक्षतैस्सामात्यैरश्वक्षोणीशपुरोहितैःसप्रश्रयं सानुनयं चाहूतास्स्वतपोमाहिमाभिभूतपुरुहूतपुरोहिताः, संप्रत्यत्यद्भुताधरीकृतामृतघृतसूपापूपान्नभोजनमनुपमानन्दभाजनं भविष्यत्यस्माकमित्यतिसंभ्रमकलितान्योन्याह्वानाः, पारातिगपरमानन्दपारावारान्तरपरिपतितपरात्मावबोधनितान्तस्वान्ताः, सरभससंगृहीतांसावरोपितकुशचरिग्रन्थयः, शरीरधारिणस्त्रय्यर्थसारा इव, शमधनरूपपरिणताश्शान्तिरसप्रकर्षा इव, सागरा इव सन्ततानुकम्पासर्वतोमुखस्य, साधूपदेष्टारस्सर्वशास्त्राणां,, आकरा इव साधुतायाः,सौधा इव सत्यज्ञानप्रपञ्चस्य,कल्पतरवः कामितफलानां, धौरेयास्सर्वाध्वराणां, स्वर्भानवस्समारोन्मादोद्रेकचन्द्रमसः, सहस्त्ररोचिषः प्रभूताज्ञानान्धकारपरम्परायाः, सन्मन्त्राः कुटिलतराशापिशाचिकानां, दावानलाश्चान्यायगहनस्य,अनुपमानुभावखनयो निर्मत्सरास्त इमे तपोधनाः परमपावनशीलाभिः स्वगृहिणीभिस्स्वहितबन्धुभिश्च सर्वालंकारसन्निवेशं साल्वपुरन्दराश्रमसकाशमासेदुः॥ 3.146॥
मद्रोर्वोशस्य पुत्रीपरिणयविभवं वीक्षितुं स्वाङ्गनाभिः
प्रत्युद्गम्यागतांस्तान् मुनिवरनिकरान् सानुगस्सानुमोदम्।
नत्वा कृत्वा सपर्यां कुशलमपि समामन्त्र्यं संक्षालय पादान्
तत्तोयैस्स्वोत्तमाङ्गं ससुमणिमकुटं प्रौक्षदुर्वौमहेन्द्रः॥ 3.147॥
साल्वेन्द्रसससुतः प्रणम्य तपसा संक्रामिताशान्तरान्
तान् सर्वान् मुनिपुंगवांश्चिरमरण्यावासबन्धूकृतान्।
पृष्ट्वा क्षेममथाश्रमाध्वरसरोवेश्मागमान्तेवस-
द्वन्याटाजिनयोनिषु व्यरचयत्तेषां सपर्यां तराम्॥ 3.148॥
तदनु राजभटार्पेतविष्टरा-
ण्यधिवसत्सु महर्षिषु तैर्युतम्।
उटजमब्जभुवस्सदसा समं
समभवत्सकलोत्सवसंभृतम्॥ 3.149॥
हयभूपतिपरिकल्पितपरिचर्याप्रमुदितात्महृदयास्ते।
तस्मै स्वस्त्ययनमदुः पावनशीलास्सहात्मपत्नीभिः॥ 3.150॥
तानूचे हयपतिरेष साल्वभूपः
मत्कन्यां स्वसुतवराय संग्रहीतुम्।
आकाङ्क्षत्यनुमतिमद्य वस्समीहे
सर्वेषां युगपदरण्यबान्धवानाम्॥ 3.151॥
निशम्य तद्भूपसमीरितं वचः
महर्षयोऽपि स्वयमाबभाषिरे।
न कस्य नन्द्यं भवतोरनिन्दितं
सुसंगतं रत्नसुवर्णयोरिव॥ 3.152॥
गद्यम्-तत्किमिवाश्वविश्वंभरेश्वर! विलम्बसे, कमलां कमलनाभाय कलाशम्भोधिरिवामलां बालामिमां तावकसाम्राज्यलीलामिव लीलातनुगतां सकललोकसंतोषदायकसद्गुणसौभाग्यवते सत्यवते समर्प्यं अस्मानपि संप्रमोदयेति समकालमेव सर्वे संयमिनः संजजल्पुः॥ 3.153॥
श्रुतिचुलकयुगेन तन्मुखाब्ज-
प्रसृतवचोमधुनिम्नगां निपीय।
अशिषदथ वधूवरौ हयेशः
सपदि विभूषयितुं भुजङ्गवेणीः॥ 3.154॥
गद्यम्-तदनु प्रागेव भर्तृदारिकाप्रसाधनप्रकामप्रकलितोत्साहाः सम्प्रति सप्तिनराघिपसन्देशद्विगुणीकृतसम्मदसन्दोहाः,सुन्दरतरमन्देतरबृन्दारकेन्दुमुखीसौन्दर्यस्मयनिकषायमाणानुपमानलावण्यलक्ष्मीविलासविशालशालाः, सावित्रीसाप्तपदीनसमासादितसर्वभूषासंभूषितसाधुसंहननाः, सरससम्मदागारोदारशृङ्गासाररहस्यसर्वस्ववहाः,तास्सद्वरारोहाः, तां वारिजलोचनां वाजिराजनन्दिनीं मञ्जुतरमञ्जरीरञ्चितं किञ्चनेन्दिन्दिरामन्दतरझंकाराङ्कुरितकीरहुंकारसहकारकोकिलाहंकारारावविरावितान्तरं लतागृहान्तरमुपनीय प्रसाधयितुमारभन्त॥ 3.155॥
पादालक्तकरेखा सख्याकलिता विभाति तन्वङ्ग्याः।
सरसत्वमार्दवे तत्सहजे लब्धं नतेव पदयुग्मे॥ 3.156॥
गुञ्जत्पदयुगलं तन्मञ्जीरयुगेन मञ्जुना तस्यः।
गर्जदिव सपदि जेतुं गत्या तत्रत्यहंसनिकुरुम्बम्॥ 3.157॥
मनोजपदपीठौ तत्कुचौ काचिद्व्यभूषयत्।
कपोलावपि कस्तूरीमकरीभिर्मृगेक्षणा॥ 3.158॥
कण्ठे हारं कान्तिभारोज्ज्वलन्तं
तन्व्याः काचितत्तापनीयं न्यधात्प्राक्।
नेत्रद्वंद्वं काऽपि धूताब्जदर्पं
चक्रेऽतीवाभूषितं कज्जलेन॥ 3.159॥
नासाग्रभागकलितं नव्यं मौक्तिकमशोभत वराङ्ग्याः।
अभ्यसितुमागतामृतबिन्दुः किं मधुरतामधरात्॥ 3.160॥
चक्राकृतिकमनीये ताटङ्के ते विरेजतुस्तस्याः।
सत्येन्द्रहृदयलक्ष्यं भेत्तुं मदनस्य चक्रयुग्ममिव॥ 3.161॥
सुवर्णमणिकङ्कणस्फुरितरत्नकान्तिछछटा-
विभासि सहजोज्ज्वलं करयुगं मृगाक्ष्यास्तदा।
नवोदितरविस्फुरत्किरणमालिकावेल्लितं
सरोरुहयुगं यथा विलसति स्म सख्याधृतम्॥ 3.162॥
इत्थं सम्यग्भूषितां भूपकन्यां
वन्यावासिप्रेयसीबृन्दधन्याम्।
वेदिं द्राग्वैवाहिकीं विश्वमान्यां
निन्युः पुण्या योषितस्तां वरेण्याम्॥ 3.163॥
विनयावनतं विश्वप्रथितं तद्वेदिकान्तरं प्रणतम्।
साल्वोर्वोराट् स्वसुतं प्रापयदभिपन्नमङ्गलं च हितम्॥ 3.164॥
रमेव रेजे सावित्री राजीवाक्ष इवाबभौ।
सत्येशः सा सभा देवसभाकल्पा समाबभौ॥ 3.165॥
सभाभ्यन्तरे वेदिमभ्यर्च्य पुष्पैः
सुगन्धैः कुशैश्चाक्षतैर्लाजमिश्रैः।
निवेश्याग्निमश्वेशितुस्सत्पुरोधाः
जजापाथ मन्त्रान् विधानाद्विधिज्ञः॥ 3.166॥
वधूवरौ समुपनिवेश्य पीठयोः
तयोश्शुभं हयनृपतेः पुरोहितः।
कराब्जयोः प्रतिसरमर्कभासुरं
बबन्घ सन्मणिमयमग्निसन्निधौ॥ 3.167॥
सदा धर्माद्यर्थे महिततनया मेऽम्बुजभव-
प्रसादात्संजाता नृवर भाविता ते सहचरी।
गृहाणैनां पाणाविति मुदितचेताश्च स ददौ
हयेशः सत्येन्द्रोऽप्यथ स जगृहे तां प्रमुदितः॥ 3.168॥
राजन्! प्रजास्त्रिभुवनप्रथितास्समृद्धिं
कीर्तिं सुखानि च बहूनि भजाम्बुजाक्ष्या।
श्रीसत्यवन्तमिति तं सुहितः कृशानुः
शंसान्निवोद्धतशिखावलयश्चकाशे॥ 3.169॥
देवाः कल्पलताप्रसूनकलिकापूगान् किरन्तस्तयोः
मद्राधीश्वरसाल्वभूपसुतयोरामोदमातेनिरे।
आरब्धं गगनेऽप्सरोभिरतुलं तौर्यत्रिकं नागरैः
वादित्राण्यभिवादितान्यरचयन् विप्रास्तथैवाशिषः॥ 3.170॥
मुनिपत्न्यस्तदा गातुं प्रवृत्ताश्शुभदाः कथाः।
मुदा पद्माक्षनामाङ्कास्सरसाश्श्रवणोचिताः॥ 3.171॥
सावित्रीसत्यवन्तौ सकलमथ महायोगिबृन्दं प्रकामं
तातावन्योन्ययोगात्प्रमुदितहृदयौ मातरौ च प्रणम्य।
अन्योन्याश्लोषवाञ्छापुलकितवपुषौ गात्रसंसर्गंमात्रात्
मन्दाक्षाकुञ्चितास्याविव रतिमदनौ रेजतुस्तत्र कान्तौ॥ 3.172॥
भूरिद्रव्यं भूपतिर्भूसुरेभ्यः
भूयो भूषाहारताराम्बराणि।
दत्त्वा दिव्यैर्भोजनैस्तोषयित्वा
सर्वान् सभ्यानर्चयामास मोदात्॥ 3.173॥
स्थित्वा मुदा तत्र दिनानि पञ्च
कृतोत्सवस्सर्वमहर्षिसङ्घैः।
संतोषगोष्ठ्यां स्ववधूवराभ्यां
ददौ महार्घं हरणं महीशः॥ 3.174॥
गद्यम्-तदनु मद्रनरामराधिपपरिकलितसपर्यापरितुष्टमानसेषु मानसपरिनिश्चितभर्तृदारिकाभाविभवितव्यताभव्येषु भव्यतरभूसुनासीरवितीर्णभूषणभूषितात्मीयभामिनीसहचरेषु सह चरवनचरनिकरकरम्भितसामीप्येषु सामीप्यदीप्यमानान्तेवास्युपदिष्टोपनिषदर्थसारसर्वस्वसंचयेषु सर्वेषु संयमिवरेषु यथागतं गतेषु॥ 3.175॥
संबन्धिनं साल्वमहीमहेन्द्रं
समुज्ज्बलत्सद्गुणसत्यसान्द्रम्।
प्रीत्या समामन्त्र्य पुरं प्रयातुं
चक्रे मनोऽश्वक्षितिराण्महेन्द्रः॥ 3.176॥
प्रीतं बन्धुजनं प्रियानुगयुतं भूषाम्बराद्यैरलं-
कृत्य स्वात्मनि चिन्तयन् निजसुतां वृतिं च तत्प्रेयसः।
तन्मोदाय तदाऽऽत्मसंपदितयोर्दत्त्वाऽर्धभागं हय-
क्षोणीराण्मघवा तदाश्रमतलादासीत्प्रयाणोन्मुखः॥ 3.177॥
गद्यम्-ततः परं सहानुयायिभिर्धर्मपत्न्या चातित्वरितप्रयाणोन्मुखमात्मानमवलोक्य बाष्पायितदृष्टियुगलां अवनतातिदीनाननां अनभिनन्दितासन्नसखीजनां अन्तराशङ्कितामरमुनिवरवचनां अतिविनयविरचितवन्दनां अखिलानन्दनामात्मनन्दनामभिवीक्ष्य दीर्घमुष्णं च निश्वस्य, पुत्रि सावित्रि! किमत्र क्रियतां दैवायत्तायां भवितव्यतायां, गच्छाम्यहमिदानीमितो नगरं, मा खिद्यस्व मद्गमनदुःखेन जन्मान्तरविहितं कर्मोपनयति फलं स्त्रियं वा पुरुषं वा, त्वमितः परमधिकां कुरु भक्तिं भर्तर्युपपादय सपर्यां च, मा कार्षौः प्रमादं कदाऽप्यारण्यकेषु, विशेषतो विधेहि विगतचक्षुशोश्शुश्रूषां श्वश्रूश्वशुरयोः, आराधय दैवतानि, कदाऽपि कलुषितं कलय मा मनः, इत्युपलाल्य तां शोकाकुलितामात्मतनुजातां, प्रश्रयादञ्जलीकृतकरं उदारं अमृतकरमिवाखिललोकाह्लादकरं जामातरं च बहुधा सानुनयैः सर्वामोदनीयैः सर्वसास्त्रार्थरहस्यसर्वस्वाश्रयैर्वचोनिचयैस्समाश्वास्य तेन ताभ्यां वृद्धदम्पतिभ्यामन्यैश्च तदाश्रमावसथैरासलिलमनुगम्यमानः सबलस्सपुरोहितस्सामात्यस्यैन्धवपतिस्सर्वसौख्यसदागारं निजनगरमाससाद॥ 3.178॥
यत्रावसन्नरिनृपालवराबलादृ-
ग्बाष्पाम्बुवृष्टिजनका निजपौर्विकास्ताम्।
स्वीयां परीमनुसरन् हयभूमहेन्द्रः
तत्रात्ममन्दिरमनुत्तममाविवेश॥ 3.179॥
प्रस्थाप्य तातं सबलं सवाहनं
समन्त्रिवर्गं सवधूजनव्रजम्।
धवेन युक्ताऽथ शचीव नन्दनं
प्रकाशयामास वनं नृपात्मजा॥ 3.180॥
सत्येन्द्रस्संगतः पत्न्या शुक्लपक्षे शशी यथा।
रुच्या प्रतिदिनोच्छ्रायगतया रुरुचे परम्॥ 3.181॥
यत्कारुण्यकटाक्षपातविधुताविद्यातमोग्रन्थयः
प्रख्यातास्सुधियो भवन्ति कविताचातुर्यधुर्याः परम्।
तद्देवीकरुणाबलाद्विरचिते काव्ये तृतीयश्शुभैः
सावित्रीचरितामृतैः कृतसमुल्लासोविलासोऽगमत्॥ 3.182॥
इत्यखण्डपाण्डित्यसमुद्दण्डपण्डितप्रकाण्डपरिमण्डितमण्डितल्नग-
रमण्डनायमानेन विश्वविख्यातविद्यावैदुष्यविभूषितस्य विश्व-
विश्वंभराविश्रुतविनयविवेकादिगुणगणविराजितस्य अस-
मानयामुनाभिजनतिलकायमानस्य श्रीमतो वेंङ्खटरामार्य
वर्यस्यान्तेवासिना तदग्रजन्मनः श्रीवेंकटनृसिंहार्य-
स्य आत्मजेन च वरदाचार्येण विरचिते
सावित्रीपरिणये तृतीयो विलासः
**************************************************
** अथ चतुर्थो विलासः**
गते ततो निजपुरमश्वभूपतौ
निजैर्गुणैर्निरुपममात्मवल्लभम्।
दिवाकरं द्युतिरिव सर्वदाऽनुगा
ह्यनन्दयद्धयनृपतेस्सुता सती॥ 4.1॥
सती सावित्री सद्गुणगणयुतं सद्गुणवती
पतिं शुश्रूषुस्सा परमचरितं पापरहितम्।
जहावश्वक्षोणीधरविरहदुःखं समधिकं
स्त्रियः पत्युर्योगस्सकलमपि दुःखं शमयति॥ 4.2॥
आलोकैर्हरिणीव मन्दगतिभिर्हंसीव कर्णामृतैः
आलापैरसमैश्शुकीव ललितैर्नृत्तैर्मयूरीव सा।
संगीतैर्भ्रमरीव सत्यनृपतिं संमोदयन्ती सती
सावित्री न्यवसद्यथा स्वविभुना स्वर्गे पुलोमात्मजा॥ 4.3॥
शुश्रूषया विश्रुतवृत्तशील-
समन्वितौ सा श्वशुरौ विधाय।
अहर्निशं हर्षपरीतचित्तौ
बभूव तत्प्रीतिसुपात्रभूता॥ 4.4॥
अक्षीणलक्षणाढ्यौ लक्ष्मीपक्षीशवाहनौ भर्तुः।
क्षेममभिकाङ्क्षमाणा साऽनिशमाराधयत्पयोजाक्षी॥ 4.5॥
पयोजाक्षी साऽत्मप्रियतमहिताय प्रतिदिनं
प्रभाते स्नाताऽर्काभिमुखकृतवक्त्रा स्तुतिशतम्।
अकार्षौदारण्यव्रतयुतसतीगीतचरिता
प्रियक्षेमादन्यत्किमु जगति सत्याः प्रियतरम्॥ 4.6॥
प्रियमपहायाश्वमहरिमणसुता चरति न क्वापि।
क्षणमपि विहाय चन्द्रं न प्रचलति कुत्रचिज्ज्योत्स्न्ना॥ 4.7॥
तप्तस्वर्णसवर्णकायलतिकां ताराधिपार्धालिकां
प्राणेशाक्ष्यमृताञ्जनात्मघुटिकां तत्काननोद्दीपिकाम्।
तां कारुण्यरमामिवात्ततनुकां लोलालिनीलालकां
तन्वीं वीक्ष्य मुमोद तापसवधूवर्गो जनामोदिकाम्॥ 4.8॥
प्रभाते सावित्री विपुलविपिनान्तःस्थितिमतां
मुनीनां तन्वाना प्रणतिमतिभक्त्या प्रतिदिनम्।
स्वमावासं प्राप्यापचितिमतनोद्भर्तुरथ त-
पितुस्तन्मातुश्च प्रियहितधिया वत्सरमलम्॥ 4.9॥
वृद्धास्तापसयोषितः प्रतिदिनं गत्वा सपर्यां परां
कृत्वा भूषणवस्त्रमाल्यनिचयैर्नत्वा च नुत्वा मुहुः।
ताभिर्दौर्घसुमङ्गला भव बहून् पुत्रान् भजेत्याहिताः
सावित्री परमाशिषः प्रजगृहे भर्तुहितियानघाः॥ 4.10॥
सरसिजभवनन्दनोदितं यत्
सदसि हयाधिपतेः पितुस्सभायाम्।
वचनमवितथं विचिन्तयन्ती
चिचरिषति स्म हरिप्रियाव्रतं सा॥ 4.11॥
अथ मधुरसपरिपूरितमल्लीसुमगन्धवासिताशेषु।
मधुमासवासरेषु व्रतचर्यार्हेषु तावदुदितेषु॥ 4.12॥
भर्तुस्सती मृतिदिनं त्रिदिनावशेषं
मद्रात्मजा सदसि नाकमुनीरितं तत्।
ज्ञात्वाऽपि भीतिमगमन्न रमा ममाद्य
श्रेयःप्रदा भवति नूनमिति स्मरन्ती॥ 4.13॥
स्मर्तव्यो विपदि विभुर्हरिस्सभार्यः
सर्वेषामपि जगतामिति प्रतीतिः।
रूढा तं जगति विना शरण्यभूतं
कोऽत्र स्यान्मम विपदब्धितारकोऽद्य॥ 4.14॥
वसन्तश्रीकान्ते मुखिरितदिगन्ते शुकपिकैः
वनान्ते सा श्रान्तव्रततिविनतान्ते नृपसुता।
नितान्तं श्रान्कान्ताव्रतकलनचिन्तासमुचितं
कृतस्वान्ता कान्ते त्रिदिनमुपवासं समकरोत्॥ 4.15॥
स्थलोपवासं सलिलोपवासं
पञ्चाग्निमध्योपगतोपवासं।
कृत्वाऽपि बाला त्रिविधोपवासं
नाजीगणद्भर्तृरता स्वकार्श्यम्॥ 4.16॥
व्रतस्था सा पझापदमकलपूजां कलयितुं
प्रवृत्ता पझाक्षः प्रथममभिराध्योऽस्त्बिति तदा।
हृदि स्मृत्वा प्राज्ञा प्रहतदुरितप्रार्थ्यचरिता
बभूव श्रीकन्तापतिपदपयोजार्चनरता॥ 4.17॥
विरिञ्चेशानादीत्रिदशपरिषत्पूजितपदं
निधायार्चारूपं निरुपममहस्सान्द्रमबला।
मणिस्यूते पीठे मकुटकटकार्हाङ्गदमुखैः
अलंकृत्याकल्पैर्मधुरिपुमखापूजयदसौ॥ 4.18॥
भक्त्या नत्वाऽऽगमतरुशिखापल्लवीभूतपादं
पादाम्भोजप्रणतजनताकल्पितात्मप्रसादम्।
ध्यात्वाध्यात्वा श्रितजनविपद्ध्वंसनात्तप्रमोदं
प्रास्तावीत्सा हरिमुरुदयं संप्रमार्ष्टु स्वखेदम्॥ 4.19॥
यन्नाभीनलिनादजायत विधिर्यद्रोमकूपस्थिताः
शक्राद्या मरुतस्सुतो रतिपतिर्यस्याब्जमित्रे दृशौ।
यस्य स्तोतुमनीशतामधिगता वेदास्त्वनन्तान् गुणान्
सोऽयं श्रीरमणस्तनोतु दयया भर्तुर्ममायुः स्थिरम्॥ 4.20॥
अखण्डं ब्रह्माण्डं भवति जठरे यस्य महतो
निमेषोन्मेषास्स्युः प्रलयजगदुत्पत्तिविभवाः।
यमाख्यातुं नालं निरवधिगुणं सर्वनिगमाः
सदाऽपायात्पायान्मम हरिरयं प्राणदयितम्॥ 4.21॥
इति स्तुत्वा पारातिगपरहितापादकदया-
पयःपारावारं परमपुरुषं पद्मनयनम्।
प्रकीर्याम्भोजातैः प्रकटितपरार्थ्याञ्जलिरभूत्
प्रभूतप्राशस्त्यप्रहतदुरिता सा नृपसुता॥ 4.22॥
स्तुत्या प्रत्यक्षभूतं हृदि निखिलजगत्सृष्टिहेतुं स्वतेजः-
प्राग्भारोद्धूतसूर्यायुतममितगुणैस्संभृतं सा प्रसन्नम्।
शङ्खं चक्रं गदासी धनुरपि मकुटं कौस्तुभं पीतवासः
श्रीवत्सं चापि धृत्वा हृदयकमलमामोदयन्तं व्यनंसीत्॥ 4.23॥
मुनिजनहृदयानन्दं मुकुन्दमानन्दकन्दमाराध्य
सा साधु तद्भुजान्तरसमुल्लसन्तीं रमामभावयत॥ 4.24॥
कलापैः कान्तैस्तां कमलनिचयैः काञ्चनमयैः
मनस्येवाराध्याप्रहतपतिभद्रार्थिधिषणा।
श्रियं श्रेयोदात्रीं श्रितजनविधेयां नृपसुता
प्रसन्नां प्राणंसीत्सविनयमसौ भक्तिभरिता॥ 4.25॥
गद्यम्-इत्थमनवरताश्रितामितमङ्गलप्रदमञ्जुलतत्पदारविन्दद्वन्द्वाभिवन्दना सकलानन्दनसद्गुणसंपत्सपन्ना अश्वविश्वम्भरेश्वरनन्दना, मन्देतरवन्दारुसंदोहानन्दनां, अरविन्दमन्दिराद्यमरबृन्दाभिवन्द्यमानां चन्द्रिकाचारुतोदवसितमन्दहसितसुन्दरारविन्दारिवदनां, कुन्दकोरकरदनां, इन्दुधरसुंदरीनन्दनीयसौन्दर्यनिधानायमानां,इन्दीवरनयनां,इन्दिराभिधानां, अरविन्दनाभहृदयेन्दिन्दिरानन्दकरदयारसमकरन्दमञ्जुलमाकन्दमञ्जरीं, अनवरतावनतार्तिनिर्वापणधुरीणां, पुण्यजनलभ्यामपि पुण्यजनालभ्यां, शम्बरारिजननभूमिमपिशम्बरजननभूमिं, सहजीकृतकमलासनामपि तनुजिकृतकमलासनां, आकलितकमलजावनामप्याकलितकमलजक्षयां, पुरस्कृतसुमनस्सन्तानामपि तिरस्कृतसुमनस्सन्तानां, गङ्गामिव सर्वमङ्गलालिङ्गितशिवोत्तमाङ्गस्फुरन्तीं, अद्रीन्द्रनन्दनामिव श्रीकन्ठोपशोभमानां, वाणीभिवाक्षररूपां, शची मिव वृषैकगम्यां, अमरवाहिनीमिव हर्येकवशंवदां, ज्योत्स्न्ना मिव स्वविलासाह्लादितविश्वम्भरां, फणिपतिफणापङ्क्तिमिवाधरीकृतानन्तमणिविभाविभासितपीताम्बरां, सत्कविकृतिमिव सरसालङ्कारां, वीणामिव सकलानुरञ्जनसद्गुणाभिरामां, राजीवलोचनलोचनक्रीडामनोरमारामसीमां रमामस्तावीत्॥ 4.26॥
जय जय जगन्मातश्श्राम्यज्जगद्भयवारण-
प्रवणकरुणापाङ्गलोकप्रतोषितवल्लभे।
श्रितजनगणश्रेयोदायै स्वभक्तभयच्छिदे
भगवति नमस्तुभ्यं देवि! प्रसीद दयां कुरु॥ 4.27॥
कमलाक्षि कमलवासिनि! कमलाक्षामोदिनीह भव शरणम्।
कलशाब्धिनन्दिनि! त्वां कलयेऽहं स्वीयहृत्कमले॥ 4.28॥
यज्जातानि जगन्त्यमूनि दयया यद्रक्षितानि स्वयं
यल्लीनानि भवन्ति चाप्रतिहतप्रज्ञास्वरूपे रमे!।
त्वामाकलयामि देवि! स हरिश्श्रीवत्सवक्षा अपि
त्वल्लीलावशगस्त्वदङ्घ्रिविलसल्लाक्षाङ्कितोरस्स्थलः॥ 4.29॥
त्वं नित्यं रमयस्युरस्थितिगता येनाम्ब! पीताम्बरं
चातुर्येण कुतोऽनघे तदिदमभ्यस्तं भवत्याऽद्भुतम्।
सन्त्यन्याः पतिदेवतास्सुमहिताः प्रागल्भयमेतादृशं
नेक्षे तास्वबलासु नान्यसुलभा रीतिस्तवान्यादृशी॥ 4.30॥
कमले! तव च सुतद्वयनाथानां कमलमेकमेवाप।
यत्सदनबाणजन्मालयशयनत्वं तदेतदाश्चर्यम्॥ 4.31॥
इत्थं स्तुत्वा सद्गुणग्रामसीमां
सा रामा मां सर्वलोकाभिरामाम्।
कान्तां शौरेः कान्तमुद्दिश्य तान्त-
स्वान्ताऽत्यर्थं स्वव्यथां वक्तुमैच्छत्॥ 4.32॥
इच्छन्ती तामिन्दुरुङ्मन्दहासां
भक्ताभीष्टप्रापणोद्यत्प्रयासाम्।
विष्णोर्वक्षोरङ्गक्लृप्तामलासां
भर्तुर्भाव्यं साऽऽचचक्षेऽब्जवासाम्॥ 4.33॥
मातश्शीतांशुबिम्बप्रतिनिधिलपने! त्वां प्रणम्याद्य याचे
साचीभूतं कटाक्षं कुरु मयि करुणासान्द्रमब्धेस्तनूजे!।
मद्भर्तुस्तेन तूर्णं भवतु शुभततिर्मृत्युराशु प्रणश्यात्
विज्ञाप्यं किं मया ते मधुरिपुदयिते! कान्तवक्ष्योगतायाः॥ 4.34॥
नापन्नास्त्वां संप्रपन्ना इतीह
ख्यातिर्लोके विस्तृता विश्वमातः!।
तां श्रुत्वा त्वां संप्रपन्ना यथाऽहं
नापन्ना स्यां त्वं तथाऽऽलोचयाद्य॥ 4.35॥
कमले विमले त्वत्पदकमले कलयेऽहमिह मनःकमले।
मकलं कमलजफाले कलय त्वं कमलनयनहितलीले॥ 4.36॥
भजति भुवि यः पद्मां पद्मोद्भवाद्यमरस्तुतां
दिशति करुणासान्द्रा तस्येयमिष्टमिति प्रथाम्।
जगति विततामकर्ण्याहं तवाश्रितभद्रदं
शरणमभजं त्वत्पादाब्जं प्रदेहि ममेप्सितम्॥ 4.37॥
यदाश्रिताऽहं जगदम्ब! यस्मै
गुणानुरागाद्भुरुणा च दत्ता।
यं सर्वलोकास्सततं स्तुवन्ति
तस्याद्य भद्रं वितर त्वमाशु॥ 4.38॥
सोऽयं यथा मदीयो भर्ता न भजेद्विपत्तिमयि देवि!
रचयाद्य तथाऽनुग्रहमेतस्मिन् रक्षिताश्रितसमूहम्॥ 4.39॥
अन्यामहं न याचे याचे त्वां याचनामेनाम्।
रचय सफलामिमां चे जगतां जननीति संस्तुतां चाख्याम्॥ 4.40॥
गद्यम्-इत्थमारचितकलमाप्रार्थनाभिवन्दना साऽश्वविश्वम्भरेश्वरनन्दिनी, सदानन्दनानूनसद्गुणसन्दोहसाम्राज्यमण्डनामम्भोजनन्दिनीं आत्मवेदिभिरप्यप्राप्तसंनिधानां अरविन्दनाभभुजाभ्यन्तरनिकेतनां तामनिर्वचनीयवात्सल्यभवनवनजलोचनवामलोचनां, अञ्जलिकलितैर्मञ्जुलतमैरवकीर्य सुमनस्स्तोमैः, अतुलमहीदयितायुतमणिमञ्जुलकुटमहस्तिरस्कृतायामात्मतातान्तस्सभायां, अप्रमेयमहिमधौरेयवाचंयमगेयनारदनामधेयादितेयमुनिवरसमीरितां वाचं स्मृत्वा निजदयितजीवितपरिमितिं च विचिन्त्य त्रिदिनावसानां, भूरितरभयभारभरिताऽप्यवमुच्य चक्षुषी चारुतररोचिषी, कलितकमलागुणकथैनकशेमुशी परित्यक्तदेहपोषाभिलाषा दूरापास्तसमस्तदोषा, क्षणमभिमतदेवताराधनेन, क्षणमनघमुनिमानिनीसेवया, क्षणमश्वत्थवन्दनेन, क्षणं वनदेवतासंभावनया, क्षणमगण्यारण्यसंचरद्धरिणतर्णकतरुणतृणप्रदानेन, क्षणमभ्यागतातिक्ष्यसंरम्भेण, क्षणमात्मप्रियप्रियापादनपरिश्रमेण, क्षणमनुकम्पनीयादरणीयाभिनन्दनेन, क्षणमग्निशरणालंकारकरणादिकर्मणा, क्षणमाश्रमवासिवयोवृद्धदम्पत्यभिवन्दनेन चकालमपगमयन्ती,स्मरन्ती नारदगदितदयितजीवितान्तसमयं, अम्बुजाभिमानाडम्बरहरणप्रवीणयोरश्रूण्यनन्यालोकितमपमार्जयन्ती नयनयोः, मृगीव दवदहनपरीता, कुमुदिनीव दिवसकरकरपरिपीडिता,कमलिनीव हिमोन्मेषदूषिता, सतीव दुरपवादसंस्पृष्टा, करिणीव विकटावटपरिभ्रष्टा, नाकाङ्गनेव नरादनिरादरोन्मथिता, तारेव तारापथच्युता,ग्रहगृहीतेव, शल्यकीलितहृदयेव, . शापग्रस्तेव, उन्मत्तेव, दुर्वारदुरितदूषितेव, गूढामयकलितेव, गुरुतिरस्कृतेव, गुणहीनपरिणीतेव, दुर्भरदुः- खोपहता सावित्री त्रीणि दिनान्यतिवाहयामास॥ 4.41॥
अखिलनुतं व्रतमनया विरचितमब्जालयाहितं महितम्।
अतुलितमश्वक्षोणीदयितात्मजया समापितं तावत्॥ 4.42॥
महिता दुहिताऽश्वभूमिनेतुः
न च जाता तृषिता बुभुक्षिता वा।
जनता निखिला जगन्नुतां तां
अतिपूतामभिवीक्ष्य हर्षिताऽऽसीत्॥ 4.43॥
कलितोत्तमव्रतान्तां कमनीयाभोज्ज्वलत्तनुलतां ताम्।
अतिमुदिता मुनिवनिताः प्रेक्ष्य परं विस्मयोद्भरिताः॥ 4.44॥
पतिमृत्युभयात्पतिव्रता सा
परमार्ता कमलापदद्वयस्य।
प्रणतातिभयापहस्य चक्रे
प्रणताऽर्चां दिवसे तुरीयकेऽपि॥ 4.45॥
कृत्वा माचरणार्चनां क्षितिपजा स्मृत्वा मृतिं स्वामिनः
ध्यात्वा चेतसि तां पयोजसदनां नत्वाऽतिभक्त्या मुहुः।
धृत्वा धैर्यमतीव दुग्धनिधिभूर्मां श्रीर्ध्रुवं रक्षती-
त्यालोच्यालपितैस्तदाश्रमसतीस्संतोषयन्ती स्थिता॥ 4.46॥
पत्नीवचसा सैन्धवविश्वेशसुतां व्रतार्दितां मत्वा।
तन्निकटं द्रुतमागातां भोजयिर्तु द्युमत्सेनः॥ 4.47॥
आगत्य तन्निकटमात्मसतीनियुक्तः
साल्वक्षितीशमघवा महतः प्रयासात्।
अन्धोऽपि यष्टिमवलम्ब्य शनैस्स्नुषायाः
वाणीं सतीभिरशृणोदुपलाल्यमानाम्॥ 4.48॥
विजितामृतपरिपार्टि वाग्धाटीं वनतटीजटिवधूटीः।
घटयन्तीं स्ववधूं तां साल्वमहीशोऽवदत्सुगुणपेटीम्॥ 4.49॥
श्रीमद्राजकुमारिकाऽसि सुभगे! त्वं नैकदाऽप्यन्विता
कष्टेन व्रतमेतदभ्युपगतं कष्टावहं किं त्वया।
उत्तिष्ठानशनव्रतादनुचिताद्दीनाऽद्य शोचत्यलं
श्वश्रूस्स्वीकुरु भोजनं तव धवं मां चापि सम्मानय॥ 4.50॥
पुर्त्रार्थं क्रियते त्वया व्रतमिदं किं? पुण्यलाभाय किं?
किं राज्यागमनाय? किं विमतविध्वंसाय? किं त्वत्पितुः।
पुत्रार्थ? तव वल्लभस्य महते भद्राय किं? ब्रूहि मे
शीघ्रं त्वं विनिवेद्य तत्त्वमखिलं मत्संशयं वारय॥ 4.51॥
वनवासमसहमाना व्रतकपटात्किं जहासि निजकायम्।
किं वा चिकीर्षितमिदं कृत्यं वत्से! भयावहं कथय॥ 4.52॥
गद्यम्-एवमारात्पृच्छन्तमत्यन्तकलुषितस्वान्तमन्धभूकान्तमश्वभूकान्तसुता नत्वा सभक्त्युन्मेषं प्रत्यवादीत्॥ 4.53॥
सार्थं यत्कलितं व्रतं तु भगवन्! लोकोत्तरं श्रेयसां
मूलं मूलविनाशनं वनसदामस्माकमद्यापदाम्।
तन्मामद्य न रोद्धुमर्हति भवांस्त्वद्वंशभव्यार्थिनीं
नैतन्मे श्रमकृद्व्रतं मम कृते तात! प्रसीदाधुना॥ 4.54॥
वक्ष्याम्यहं व्रतान्ते फलमस्य भवन्तमद्य कथितं चेत्।
व्रतविहितनियमभङ्गात्कृतमखिलं निष्फलं भवति॥ 4.55॥
यदि भाग्यं तव भगवन्! तावकसूनोश्च यदि भाग्यम्।
फलति व्रतं तदैतत्पूर्वेषां श्वशुर! यदि भाग्यम्॥ 4.56॥
जानात्येतद्व्रतफलमहो सोऽयमम्भोजयोनिः
जानात्यव्याहततमतपाः स्वर्मुनिर्मभाग्यमूलं
नान्यो वेदाखिलनुतमिदं सर्वसौभाग्यमूलं
श्वस्साल्वोर्वौदयित! भवता ज्ञास्यते तत्समग्रम्॥ 4.57॥
गद्यम्-इति विज्ञापयन्तीमात्मनस्स्नुषामनिवार्यसंकल्पामाकलय्य बहुमन्यमानः, वत्से! भवत्यै यथा रोचते तथाऽनुष्ठीयतामित्युक्त्वा सप्रणयमाशिषं चारचय्य स्वनिवासमाससाद॥ 4.58॥
सत्येश्वरस्सत्यवतां वरिष्ठः
समित्कुसापादनसंभ्रमोत्कः।
धृत्वाऽऽश्रमान्तर्गतपुष्पपात्रं
इयेषगन्तुं विपिनान्तरालम्॥ 4.59॥
कठोरं कुठारं करस्थं विधाय
प्रतस्थे व्रतस्थेमवत्या सुदत्या।
प्ररूद्धाध्वगत्याऽऽत्मपन्न्या स सत्य-
क्षितीन्द्रोऽथ भक्त्या प्रणम्यार्थितोऽभूत्॥ 4.60॥
त्वयोपेता नाथ! प्रसवरसलोलैरलिकुलैः
समाक्रान्तप्रान्तान् व्रततिकलितानाश्रमतरून्।
मुनीनां कासारानधिकरुचिरानम्बुजवनैः
त्वया साकं द्रष्टुं भृशमभिलषाम्याश्रममृगान्॥ 4.61॥
दरीभव्यानूर्ध्वस्खलदुरुझरीन् धातुभिरलं
परीतान् प्रस्थस्थप्रचुरचमरीनुत्तमगिरीन्।
करीन्द्रान् कान्तोरुप्रतिमकरकाण्डांश्च तदरीन्
हरीन् नारीमध्यान् स्पृहयति मनो द्रष्टुमिह मे॥ 4.62॥
विना मया ते विपिनप्रयाणं
अनर्हमद्यावनिभृन्महेन्द्र!।
मदागमस्त्वच्छुभदस्ततो मे
विधेह्यनुज्ञां विपिनप्रयाणे॥ 4.63॥
इत्यात्मानं प्रार्थनाभिः प्रसन्नं
कुर्वाणां तां प्रयसीं प्रेमपूर्वम्।
चित्राश्वोऽयं चित्नचारित्रपात्रीं
तत्कालार्हां वाचमूचे व्रतार्ताम्॥ 4.64॥
काले ग्रीष्मगुणाकुले वनतले बालेऽभ्रगङ्गामले
लोलद्गात्रविभाविधूतचपले बालेन्दुफालोज्ज्वले।
श्रान्ताऽतिक्षुधिता त्रिरात्रमशनाभावादशक्ताऽसि यत्
तस्मात्त्वं पदमेकमप्यधिभुवि क्षेप्तुं स्वयं नार्हसि॥ 4.65॥
मार्गाः कण्टकसङ्कटास्तव पदौ मल्लीमतल्लीमृदू
ग्रीष्मोऽयं निरवग्रहस्तव तनुर्मृद्वी शिरीषादपि।
दिव्यामन्दमरन्दपूरविसरस्फारस्त्वदीयोऽधरः
कान्तारं मधुपावृतं तदधुना कान्ते! गृहे स्थीयताम्॥ 4.66॥
मुग्धे! त्वं न हि वेत्सि काननतलक्रौर्यं जनैर्दुस्सहं
निर्बध्नासि कुतोऽनघे! द्रुततरं प्रत्यागमिष्याम्यहम्।
श्रान्ताऽसि व्रतचर्यया मृगशिशूनालोकमाना मुहुः
गेहे त्वं श्वशुरौ वयःपरिणतौ शुश्रूषमाणा भव॥ 4.67॥
गद्यम्-इत्युपलाल्याश्वराण्नन्दिनीमन्धभूपनन्दनस्तां अगण्यारण्यदौर्गुण्यमपरमपि वर्णयितुमारभत॥ 4.68॥
करीन्द्रमदघींकृतिः क्वचिदकुण्कण्ठीरव-
प्रचण्डतरगर्जितं क्वचिदमन्दभीत्यावहम्।
क्वचित्पृषतभक्षणप्रकटतीक्ष्णकोपस्पुर-
त्तरक्षुगुरुनिस्वनस्तदतिभीतिहेतुर्वनम्॥ 4.69॥
क्वचिद्भीरोर्भोमाः विकटकटुवक्वान्तरलस-
द्बृहद्दंष्ट्राभीलाः भ्रकुटिकुटिला भीषणदृशः।
चरन्ति क्रव्यादाः क्वचिदतुलभल्लूकविततिः
चरत्युद्दंष्ट्रास्या तदसुखदमारण्यगमनम्॥ 4.70॥
लुठन्ति भृशमेकतः पथि मुहुर्वमन्तो विषं
विकीर्णदहनोत्करैस्सहजकोपजैः फूत्कृतैः।
सरीसृपवराः प्रिये! परमहार्यशङ्कावहाः
ततो वनमतीव ते भयदमिन्दुबिम्बानने!॥ 4.71॥
गद्यम्-इत्थमरण्यानिष्टकष्टाभिवर्णनेनात्मानमतिवेलमाभीषयन्तमतितरानुरागसुभगमालोकयन्तमसकृत् रतिकान्ताति कान्तमात्मकान्तमन्यकान्तादुरापैरामोदयन्ती दूरीकृतामृतमधुरिमाभिरालापैः अश्वमहेन्द्रनन्दिनी पुनरपि शनैस्तं प्रार्थया मास॥ 4.72॥
अस्मिन् दिने त्वया सार्धमागन्तव्यं मयाऽनघ!।
एतद्व्रतफलं सर्वं ज्ञायतेऽस्मिन् दिने त्वया॥ 4.73॥
वरमन्यमितः परं न याचे
वरदस्त्वं भव वारिजाक्ष! मेऽद्य।
भवदीयपदाम्बुजाश्रितायाः
वनकष्टं सकलं सुखाय मे स्यात्॥ 4.74॥
पिता माता भ्राता महितदुहिता म़ञ्जुलसुतो
धनं धान्यं धन्यं गृहमपि न भर्त्रा सममिह।
सतीनां सत्येन्दो! तदहमनघ! त्वामनुसृता
भवेयं किं ज्योत्स्न्ना शशिनमपहाय प्रचलति॥ 4.75॥
एवं विज्ञाप्य भर्तारं तदाज्ञाप्रेरिता ततः।
विज्ञापयितुमारेभे श्वशुरावाश्रमस्थितौ॥ 4.76॥
पुत्रं भवतोर्यान्तं विपिनान्तं कान्तमद्य मत्कान्तम्।
अनुगन्तुं मत्स्वान्तं काङ्क्षति याचेऽद्य भवदाज्ञाम्॥ 4.77॥
अनुज्ञा देया मेऽनुपमकरुणाभ्यां सकरुणं
युवाभ्यां मत्वा मां व्रतकलनखिन्नेति नितराम्।
निरोद्धव्या नाहं विपिनगमनं मामकमिदं
प्रियेणातिश्रेयो दिशति परमस्माकमनघम्॥ 4.78॥
वचनं निशम्य तस्यास्सारतरं साल्वभूपतिः प्राह।
गच्छेदानीमिति तां साध्वि समागच्छ सहदयिता॥ 4.79॥
अन्धावावां विकलौ नयने सत्यश्च भवतीच।
तस्मादम्ब युवाभ्यां जीवावो न रहितौ मुहूर्तमपि॥ 4.80॥
इति वदन्तमनन्तदयानिधिं
श्वशुरमश्वसुतेत्यवदच्छनैः।
सविनयं प्रणिपत्य समादिशेः
इह यथा भगवन्! क्रियते तथा॥ 4.81॥
इत्थं विज्ञाप्य तातं द्रतमनुगतया सत्यवान् साधुवृत्त्त्या
सप्युर्वौनाथपुत्र्या सह समुपगतामोदभारोऽतिधीरः।
सद्वल्लीसंवृताङ्गान् सकलवनचरैस्संगतानाश्रमाणां
संपश्यन् भूमिभागान् विपिनपदमभिप्रस्थितोऽभूद्विदूरम्॥ 4.82॥
गद्यम्- तदनन्तरमुभावपि छायांशुमालिनाविव धर्मानन्दितौ, त्रिपथगापगेशाविवान्योन्यघनरसतरङ्गितान्तरङ्गै,इन्दिरारविन्दनाभाविवाधिगतकमलभवनौ, शचीपुरन्दराविव धिषणाभिमतगतौ, अन्योन्यरचितसल्लापकलापाभिभूतशुकशारिकाकलापौ तावश्वेशसुतासाल्वेशसुतौ, समागत्य सोल्लासमतिदूरं, अम्बरान्तरविहरदमरवरवर्णैनीविनोदशय्याविलूनप्रसववितानकैः अनेकैस्तालसालतमालतक्वोलाङ्कोलपाटलबिल्वामलकरसालसरलहिन्तालवकुलवञ्जुलादिकागमकदन्बकैराभूषितप्रतीरसर्वंसहां, मन्दाकिनीमिवाश्रितानन्तां विबुधमुनिगणसेवितां च, रतिमिव मदनाधिष्ठितां, कात्यायिनीमिवानवरतानपेतनीलकण्ठां, अरविन्दाक्षवक्षस्स्थलीमिवाविरतकलितामोदकमलावभासितां, चतुराङ्गनामिव च़ञ्चच्चित्रकाननबभासमानामतिपावनां यमुनामपश्यतां॥ 4.83॥
क्वचिद्भ्रमरसुन्दरीमधुरगीतसंनादितां
क्वचिद्धवलहंसिकाविततपक्षविक्षोभिताम्।
क्वचिच्छफरसंहतिप्रचलितारविन्गोज्ज्वलां
विलोक्य तरणेस्सुतां मुदमवापतुर्दंपती॥ 4.84॥
क्वचित्पतगमण्डलीपरिगतां क्वचिच्छैवल-
प्रपञ्चपरिशोभितां क्वचिदमन्दफेनान्विताम्।
क्वचित्कुमुदिनीयुतां क्वचिदगाधतोयोद्धतां
विलोक्य तरणेस्सुतां मुदवापतुर्दंपती॥ 4.85॥
चक्रस्तनीमब्जदृशं सुनलि-
वेणीं महावर्तमनोज्ञानाभिम्।
साधूज्ज्वलत्सैकतसन्नितम्बां
श्यामामिवालोक्य ननन्दतुस्तौ॥ 4.86॥
शमनावरजां दृष्ट्वा तुष्टाव सती नितान्तपरितुष्टा।
विषरधरविषस्य शमनीं लतिकां दृष्ट्वे सर्पसंदष्टा॥ 4.87॥
जय जय भगवति यमुने! जय रक्षितसकलसत्वसन्ताने!।
जय सकलपापशमने! जय कृतगङ्गाप्रवाहसंगमने!॥ 4.88॥
विबुधोत्तमसेव्याऽऽसीद्विष्णुपदप्रोद्भवा हि सा गङ्गा।
तन्नयनादुद्भूतामधिकां तस्या विभावये भवतीम्॥ 4.89॥
कृतान्तभगिनि! प्रियं रचयितास्मि ते पूजनं
प्रियेण सह संगता यदि विशेयमात्मोटजम्।
तदा परमभासुराम्बरसुराहरिद्राक्षत-
प्रसूनवरकुङ्कुमाभरणपक्वमांसौदनैः॥ 4.90॥
मातस्त्वं मधुराम्बुपूरभरिते! त्वां सेवप्रानामिमां
प्रेम्णाऽऽलोकय लोकबन्धुतनये! लोकैकपूज्येऽद्य माम्।
त्वत्सेवानिरतात्मनां तनुभृतां सन्तापमुच्छिद्य यत्
सत्कारुण्यनिभैर्ददासि सलिलैस्त्वं भुक्तिमुक्ती द्रुतम्॥ 4.91॥
इति स्तुत्वा देवीं सुभगसलिलां तां सुरुचिरां
समीपे सभूतैर्मधुरमधुरैस्सारसरुतैः।
तयाऽऽश्वस्तेवागात्प्रियतमयुता किंशुकवनीं
अदूरस्थां तस्याः कलितसुकृता सा नृपसुता॥ 4.92॥
गद्यम्-सत्यवानपि देवार्चनोचितैरतिललितैस्तत्रत्यतत्तल्लुतापचितैः प्रसूनजातैरापूरितं प्रसूनभाजनमगमशाखावलम्बिनमारचय्य समिद्वितानं संपादयितुमारभत॥ 4.93॥
परशुं करपल्लवेन धृत्वा
समिधश्छेत्तुमसौ समुद्यतोऽभूत्।
सपदि श्रमसंगतस्य तस्य
प्रबला मार्धनि यातना तदाऽऽसीत्॥ 4.94॥
प्रचण्डपवनोद्गमप्रकटितस्फुलिङ्गस्फुर-
त्कृशानुपरिवेष्टितद्रुम इवायमसीत्ततः।
गताऽस्य वदने प्रभा विगलितं शरीरे बलं
बभूव कलुषं मनः क्षुभितमक्षजातं शनैः॥ 4.95॥
परशुं प्रविहाय सोऽतुवेगात्
उपगम्य प्रियवल्लभासकाशम्।
परिरभ्य च तां भुजद्वयेन
प्रचुरं दुःखमुपाश्रितो व्यलापीत्॥ 4.96॥
गद्यम्- हा प्रिये प्रेमपात्रि! हा मनोहरगत्रि! हा हयनरेन्द्रपुत्रि! हा सावित्रीत्यतिदैन्योन्मुक्तार्तनादः निरर्गलनिस्सर न्निश्श्वासनिबिडितवदनः किञ्चिदुद्धाटितबाष्पाविललोचनोऽतिशोचन्, पारातिगपरितापाभिभूतोऽस्मि, अहो दुरतिक्रमः कालपरिपाकः, किं मया पूर्वजन्मन्यनुष्ठितं कर्म दुरीकृतध र्ममर्म, किमिदमापतितमतिकष्टं, हा दग्धोऽस्म्यविज्ञातागतेन आपदाश्रयाशेन, हा च्छिन्नोस्मयतिसंकटकरवालेन, हा भगवन् द्युमत्सेन गुरो,हा पुत्रवत्सल, न वेत्सीदानीमात्मजन्मानमतिकष्ठां दशामापन्नं, अहो दुर्निवारमंहःप्राचुर्यमनुभवैकपरिहार्यं,अम्ब हा निरर्थकस्त्वया धर्मो भद्रार्थमाचरितः, हा प्राणप्रिये! त्वया कृतं व्रतमासीदनर्थकं, अनाथाऽस्यद्य, गते मयि समवर्तिमसन्निधिं कथमेकाकिनी जीविष्यसि, कं याचसे शरणं, अन्धोऽस्मी दानी, उत्सन्नान्यासन्निन्द्रियाणि,शून्या दिशः, संप्रत्यनधिगतार्थमासीत्कृतमारण्यकव्रतं, संप्रत्यूर्ध्वप्रयाणोन्मुख इव मे हृद यात्प्राणवायुः, देहि मे राकेन्दुबिम्बानने! निन्दितचन्दनसु धाबिन्दुसेचनं प्राविलपतो मे प्रतिवचनं, अम्बुजाभिमानाडम्बरतस्करेण संस्पृश पाणिना मां, प्रसार्यतामुत्तमाङ्गवलम्बाय मङ्गलप्रदसङ्गस्त्वदुत्सङ्गः, चरमो ममायं त्वदुत्सङ्गसङ्ग इति विलप्य बहुधा निमील्य चक्षुषी, अधोऽक्षजे विक्षिपन् प्रेक्षां विरराम्॥ 4.97॥
गद्यम्-तदनु तमश्वमहीदयितसुता, उपशान्तमिवं कृशानुं अधःपतितमिव पुण्यसंक्षयात्पुण्यकृतं, अकालशुष्कमिव महासरोवरं,अस्तं गतमिव सवितारं, अपगतनिश्श्वासप्रचारमात्मभर्तारं अवलोक्य बाष्पाकुलितनयना बहुभयात्स्मरन्ती स्वर्मुनिवचनमात्मवल्लभविपत्संसूचनं, अपरिमितपरितापाभिभूता, करिणीव यूधपविनाकृता, हंसीव सहचरविरहिता, मृगीव मृगयुहतदयिता, वासरलक्ष्मीरिव दिनान्तदूषिता, दिशो दश विलोकयन्ती, नाहमुत्सहे जीवितुमेतेन विना क्षणमपि, किमनेन जीवितेनापि, किं पित्रा, किं श्वशुरेण, किं वा भूषणैः, किमितरैश्च, परित्यजामि पापिनः प्राणान् परिसरतोऽस्यैवेति निपत्य धात्र्यां, निकृत्ता लतेव, निर्गतसंपदिव नितरामपवाददृषितेव, भूताविष्टेव भग्नावयवेव विषदिग्धहृदयेव, ग्रहग्रस्तेव, गृहोग्वासितेव, मुक्तमूर्धजा परितः पारिलुठन्ती पुनरुत्थाय भक्तिभरिता मृणालनालमृदुलमुपबार्हौकृत्यात्माङ्कतलं प्रियोत्तमाङ्गस्य, दुःखाम्बुधिनिर्मग्ना सोरस्ताडनं भृशमरोदीत्॥ 4.98॥
अथ हरीन्द्रसुताऽमितदीनतां
परिगता परिरभ्य पतिं व्यसुम्।
पुरुषमप्रतिमं पुरतः स्थितं
स्वयमपश्यददृष्टचरं तदा॥ 4.99॥
कालाम्भोवाहाकायं कमलसदृशदृक्पाणिपादं विराजत्-
केयूरोदारहारं मणिकटककिरीटाढ्यमद्रीशधीरम्।
राजद्यज्ञोपवीतं धृतदृढकवचं दिव्यमव्याजवेषं
पझाक्षी पाशहस्तं भयदमतितरां वीक्षमाणा बिभाय॥ 4.100॥
गद्यम्-एवमात्मीयपातिव्रत्यमाहात्म्यादात्माभिमुखमागतं, सप्तार्चिषमिव सर्वतस्संप्रसृततेजस्स्फुलिङ्गं, विश्वविलक्षणविविधलक्षणोपलक्षितभयानकविग्रहं, अतिप्रचण्डमार्तण्डमण्डलोद्दण्डवदनमण्डलपरिस्फुरच्छ्मश्रुजालविराजमानं, दन्दशूकेन्द्रभोग दिर्घसुभगाभ्यां बाहुदण्डाभ्यामुपशोभमानं, दुर्गतद्विजमिव सर्वदाऽधिगतदक्षिणाशं, कन्दर्पमिव कमलाप्तनन्दनं, नन्दनन्दनमिव नरकनियमनकारिणं योगमार्गमिव भवविरोधिनं, मृगयुमिवात्मीयमहिमावर्जितरौरवसंघातं पुरुषं अप्रमेयगुणसमवायवरुणालयमवलोक्य सानुतापं सहसोपनिवेश्य भूमौ स्वीयोत्सङ्गत्प्रियोत्तमाङ्गं, भूरिभयभारकम्पितगात्री सावित्री सविनयं शनैश्शनैस्तमाचचक्षे॥ 4.101॥
कस्त्वं? श्रीमन्! कथय कमलाकामिनीकामुकः किं?
किं तन्नाभीनलिनसदनश्शारदाप्राणनाथः?।
किं गौरीशः? किमु सुरपतिः? किं दिनेशः? किमिन्दुः?
किं कालिन्दीं स्वहितभगिनीं द्रष्टुमेतः कृतान्तः?॥ 4.102॥
नेन्द्रं त्वां देव! मन्ये यदिह दशशती लोचनानां न दृष्टा
नापि त्वं वासरेशो यदिह तनुरियं भाति नीलोत्पलाभा।
को वा लोकाधिनाथः कुत इह चलितः कुत्र ते वासभूमिः
किं वा त्वन्नामधेयं विशदय भगवन्! त्वां प्रणम्याद्य याचे॥ 4.103॥
एवं संभावयन्तीं स्वभयदवदनालोकनादात्तकम्पां
वातोद्धूतां चलन्तीमिव वनजलतां तां प्रशान्तः कृतान्तः।
प्रेक्ष्य प्रीतात्मचेताः प्रविमलचरितां प्रावृडम्भोदनाद-
प्राग्भारप्रौढनादः क्षितिपतितनयामाचचक्षे स्ववृत्तम्॥ 4.104॥
भद्रे! विद्धि यमोऽस्मि तावकमुखोद्गीतेषु देवेष्वहं
त्वद्भर्तारमितोऽपनेतुमनघे! क्षोणीं समायासिषम्।
प्रत्यक्षत्वमुपागतोऽस्मि तव मामन्या न शक्तेक्षितुं
जीवन्ती विधिनिर्मितं तव विभोरायुस्समाप्तां ध्रुवम्॥ 4.105॥
यद्ब्रह्माऽऽयुर्व्यालिखददयो नास्य रूपानुरूपं
फाले साध्वि द्रुहिण इति तन्नाम सार्थं बभूव।
किं दोपस्स्यात्कमलनयनानुज्ञया तिष्ठतो मे
कर्मण्यस्मिन्नं मम विभुता कर्ममूलो हि लोकः॥ 4.106॥
इत्युक्त्वा स्वकरस्थितेन कटुना पाशेन तस्याङ्गकात्
आत्मानं विनिकृष्य दक्षिणदिशं वेगाद्ययावन्तकः।
अल्पायुस्त्वयमेष सेयमबला साध्वीवरा तन्मया
किं कर्तव्यमिहाब्जभूस्स विभुतां यातीति संचिन्तयन्॥ 4.107॥
सावित्री प्रियगात्रमाशु पिहितं कृत्वा निकुञ्जोदरे
संप्रार्थ्याखिलदेवतास्तदवने पञ्झामरुद्वेगिनम्।
खिन्ना काममिभेन्द्रमन्दगमनाऽप्यात्मप्रियाकाङ्क्षया
वेगादन्तकमन्वगात्प्रतिपदं क्लिष्टाऽपि कष्टे पथि॥ 4.108॥
गत्वाऽतिदूरमध्वानं सावित्री भृशदुःखिता।
सा जिजीवयिषुः कान्तमस्तावीत्समवर्तिनम्॥ 4.109॥
शमप्रधानं शमनं भवन्तं
शंसन्ति सन्तश्शतशो महान्तः।
मनः कथं व्यापृतमन्यदुःख-
कारिण्यसत्कर्मणि ते महात्मन्!॥ 4.110॥
वदन्ति समवर्तिनं सुकृतदुष्कृतेष्वन्वहं
भवन्तमखिला जनास्त्वमसि धर्मं देवोत्तमः।
करोषि कथमीदृशं कथय गर्हितं कर्म तत्
वृथा न हि चिरार्जितं रचय सूर्यसूनो यशः॥ 4.111॥
मद्दौर्भाग्यवशात्कथं तव मतिर्घर्मैकतानाऽप्यभूत्
मच्छ्रेयोविमुखी तथा यदि कुतस्ते धर्मराजाभिदा।
दीना दूनमना विनाशमधुना याम्येव नाथं विना
याचेऽहं परमां कृपां तव तदद्यैन समुज्जीवय॥ 4.112॥
इति ब्रुवन्तीं बहुधा नमन्तीं
मुहुः स्तुवन्तीं मुहुरुच्छ्वसन्तीम्।
तां शोकभारात्कुटिलं चलन्तीं
कृपातिरेकादवदत्कृतान्तः॥ 4.113॥
साध्वि! स्वप्नेन्द्रजालोपममिदमखिलं लोकतन्त्रं विचार्यं
यद्भाव्यं तद्भवत्यन्वहमिह सुखदं दुःखदं वा जगत्याम्।
लोकेऽस्मिन्मानवानामयमनघतमस्सत्यवान् पूर्वकर्म-
प्राचुर्यादन्तमाप स्वकृतपरिणतिं कोऽन्यथा कर्तुमीष्टे॥ 4.114॥
वरमश्वसुते ददाम्यहं ते
वृणु हित्वा दयितं वरत्रयं त्वम्।
सरणिः कटुकण्टकावकीर्णां
न हि ते गम्यतमा प्रयाहि पश्चात्॥ 4.115॥
वदन्तमेनं वनजाप्तनन्दनं
भजन्तमागस्त्यदिशं तमन्तकम्।
विमुच्य भीतिं विरचय्य साऽञ्जालिं
निवेदयामास विचिन्तितं स्वकम्॥ 4.116॥
यदि प्रसन्नश्शमनो मम स्वयं
ततः कृतार्थोकृतमानसाऽर्थये।
स नेत्रहीनश्श्वशुरो ममानघः
तव प्रसादाद्भवतु श्रितेक्षणः॥ 4.117॥
तथैव भूयादिति तेन बोधिता
पुनस्तमाभाषत सा पतिव्रता।
यतस्त्वया साप्पदीनमापिता
ततोऽर्थये मच्छशुरस्य राज्यकम्॥ 4.118॥
यमस्तदा तद्वचनं निशम्य
प्रहृष्टचेताः परमार्थयुक्तम्।
भूयात्तथैवेति निगद्य पत्युः
प्राणान् विनाऽन्यद्वरयेत्युवाच। 4.119॥
नयेन लोकान् नयसे यम! त्वं
अद्रोहयुक्ता हि सतां प्रवृत्तिः।
इत्यादिवाक्यैः परितोष्य साध्वी
पितुश्च तं पुत्रशतं ययाचे॥ 4.120॥
ततस्य सन्तुष्य तथेति शंसन्
शमप्रधानश्शमनश्शनैश्शनैः।
पुनश्चचक्षे पतिजीवितं विना
वरं तुरीयं वरयेति साध्वीम्॥ 4.121॥
ततः प्रहृष्टा क्षितिपालपुत्री
तमात्मनः पुत्त्रशतं ययाचे।
यमोऽपि सन्तुष्टमनाः प्रकामं
स्मित्वा तथाऽस्त्वित्यवदत्सुशीलाम्॥ 4.122॥
गद्यम्-ततः परमश्वविश्वंभरेश्वरतनयाऽपि सभक्तिप्रकर्षं शिरसि विनिहिताञ्जललिः सदैन्यमित्थमावेदयामास॥ 4.123॥
गद्यम्-स्वामिन् भक्तवत्सल! युक्तमेव भवदुक्तमखिलं, अनुगृहीताऽस्मि वरप्रदानेन भवता दयासंगतवता, तथाऽपि विज्ञापनीयमिदमाकर्ण्यतां, प्रियमप्राणोज्जीवनं विनाऽन्यदपरिमितानन्दभोगसाधनमपि फलहीनजीवनमिव लुब्धस्य महैश्वर्यमिव व्यर्थतामुपयाति, अनवरतपतिदेवतानां पतिरेव खलु सर्वस्वमिति विदितमेव भवता सकलधर्मवेदिना, तन्मम प्राणेश्वरमन्तरा किमन्यैः प्रार्थनान्तरैः, समित्समापादनार्थं मया सममरण्यनीमागतं मन्मनोरथावासमपगतासुमेकमस्मिन्नरण्ये परित्यज्य कथं जीवेयं, कथंवाऽन्यस्य मुखं दर्शयेयं, किं ब न्धुभिः, किं धनेन, किंवा मया च जीवन्त्या, तदद्य यथा मदीयं जन्म सार्थकं भवेत्तथाऽनुग्राह्येयं त्वदीयपादारविन्दाश्रयिणी कृपापारावारेण भवता॥ 4.124॥
गद्यम्- अपरं च स्वामिन्नद्य भवतैव दयापरवशधिया पदत्तः किल मम सन्तानप्रदो वरः,तदद्य मत्प्रियतमोज्जीवनं विना नैव संगतं भवेत्, प्रियतमाभावे पतिव्रतानां कथौरसाः पुत्रास्समुत्पद्येरन्, अतस्त्यैव वरप्रदानेनानुगृहीतं मत्प्रियतमोज्जीवनमिति प्रमुदितधीरहमिदानीमभवं, तदद्य भव दीयस्तुरीयस्य वरो भवतैव सफलयितव्यः खलु॥ 4.125॥
नाथस्त्वं सर्वभूतानां रक्षणे हिंसनेऽपि वा।
नाथं दत्त्वा विनाथां मां सनाथां रचय प्रभो॥ 4.126॥
गद्यम्- अथ तद्वदनवनजस्त्रवन्तीमसाधारणवचनामृतस्त्रवन्तीमसकृन्निपीयात्मश्रवणचुलुकाभ्यां अगण्यकारुण्यरसतरङ्गितान्तरङ्गः प्रणततदङ्गनादैन्यभङ्गाभङ्गापाङ्गः पतङ्गाङ्गसंभवः सा दरं तामित्थमवादीत्॥ 4.127॥
सुदति! भवदीयवचसां पद्धतिरश्मोपममपि हि जनस्य।
द्रवयस्यधिकं हृदय चन्द्रकला चन्द्रकान्तमिव॥ 4.128॥
अमृतमिति ये वदन्ति त्रिदशानामन्नमश्वराजसुते!।
भवदीयवाक्सुधारसमाधुर्यं ते न जानन्ति॥ 4.129॥
नन्दयति मां त्वदीया वाग्रीतिर्भुवनभाविता साध्वि!।
भीषयति चायमन्यासाधारणतां गतस्त्वदनुभावः॥ 4.130॥
पुरीं मदीयां मधुतुल्यवाक्ये
न मानुषी जीवयुता प्रवेष्टुम्।
न चार्हति द्रष्टुमपि प्रयत्नात्
अतो निवर्तस्य निजं निवासम्॥ 4.131॥
सेयं पुरी मे सकलापदां भूः
सर्वत्र मत्किंकरसंवृता च।
दुरन्तदुःखाकुलनारकीयैः
जनैः प्रकीर्णा तव भीतिदा स्यात्॥4.132॥
भगवति! भर्तारं ते पाशान्मुक्तं करोम्यधुना।
प्रमुदितहृदया भूत्वा प्रयाहि सध्वि! स्वमावासम्॥ 4.133॥
जीविष्यत्ययमक्षतकायश्शरदां चतुश्शतीमवनौ।
रक्षिष्यति जगदखिलं यज्ञैरिष्ट्वा गमिष्यति ख्यातिम्॥ 4.134॥
कीर्त्या वासवमाभया हुतवहं धर्मेण मामोजसां
सारैर्नैऋतमात्मनीतिविभवेनाम्भःपतिं स्वाशुगैः।
वायुं पूर्णधनेन किंनरपतिं सर्वज्ञभावेन तं
गौरीशं च विजित्य ते पतिरयं संपत्स्यते सन्नुतः॥ 4.135॥
सत्यमहीपत्यवितं भवतु ससत्यं समस्तमपि राज्यम्।
आकल्पमखिलजगतश्चाकल्पो भवतु चे चरितम्॥ 4.136॥
पठति शृणोति च चरितं लिखति च जगतीह यस्तु भवदीयम्
अपदुरितोऽखिलविनुतस्स श्रीमान् भवतु ते प्रसादेन॥ 4.137॥
गद्यम्-इत्याशीःपूर्वकं तां मस्तकतलविन्यस्तकोशीकृतहस्तामुपलाल्य, पश्यन्त्यास्तस्याः पुरस्तात्सवयमन्तर्दधे भगवान् वैकर्तनिश्शमनः॥ 4.138॥
मदचलितपुलिन्दे म़ञ्जुगुञ्जन्मिलिन्दे
मधुरतरमरन्दे मञ्जुलोर्वोजबृन्दे।
मदगजगमनाऽपि क्षिप्रमागान्निकुञ्जम्॥ 4.139॥
गद्यम्-एवमदूरत एव दूरतरमप्युपगम्यान्तकानुग्रहेण निकुञ्जं, तत्र च यथापूर्वमुत्सङ्गतमारचय्योत्तमाङ्गमात्मवल्लभस्य क्षणमवतस्थे॥ 4.140॥
गद्यम्-तदनु धर्मराजानुग्रहेणोत्थाय सुप्तोत्थित इव सत्यभूवल्लभः किञ्चिदवनतपूर्वकायोऽवष्टभ्य कन्धरामात्मवल्लभायाः चिन्तयन्नलमश्रुविन्दुसन्दोहकन्दलितलोचनारविन्दः प्रियसुन्दरीति मन्दमुच्चार्य पुनरपि तदुत्सङ्ग एव निपपात॥ 4.141॥
स्वर्भानुमुक्तमिव मण्डलमैन्दवं सा
संवीक्ष्य भर्तृवदनाम्बुजमम्वुजाक्षी।
पांसुप्रकीर्णमवमृज्य तदीयमङ्गं
नेत्रंद्वयं च विदधे विविधोपचारान्॥ 4.142॥
सती सावित्रीत्थं श्रममुपगतं शोणनयनं
श्लथाङ्गं संताम्यत्करचरणमात्मैकशरणम्।
विसंज्ञं विस्त्रम्भादलमुपचपरन्ती स्वरमणं
क्षणं तस्थै क्षौणीं गतमिव दिवस्स्वर्गिणमसौ॥ 4.143॥
गद्यम्-ततस्सोऽयं तदीयसानुनयोपचारात्किंञ्चाद्विश्रान्तस्तामधिकृत्य प्रेयसीत्युच्चार्य निश्श्वस्य च दीर्घतरं तां निजगाद॥ 4.144॥
गद्यम्-अहो कियन्तं कालमधिगतनिद्रोऽस्मि, मद्रे! निद्रापरवसे मयि-4.145
भास्वद्दिव्यविभाविभासितमुखो धीरस्स्वतश्शैलवत्
गाम्भीर्याकलितोऽब्धिवन्नवघनश्यामस्सरोजाक्षवत्।
कोटीराङ्गदतारहारकटकालंकारजालोज्ज्वलः
कश्चिन्मामतनोत्स्वपाणिविलसत्पाशावबद्धं पुमान्॥ 4.146॥
यदाऽहं तत्पार्श्वे दृढमुपनिबद्धस्समभवं
तदा प्रज्ञाहीनस्सपदि भवदङ्के निपतितः।
ततः किं वा जातं तदिह न हि जाने किमु मति-
भ्रमो वा स्वप्नो वा विधिविलसितं वा प्रियतमे!॥ 4.147॥
गद्यम्-अथाश्वावनीन्द्रात्मजातमज्ञातात्मजीवितान्तमतितान्तमात्मकान्तमवष्टभ्य अभिरामाभ्यां अभिभूकाम्भोजनालाभ्यामात्मभुजाभ्यां, उपवीज्योपरि चेलाञ्चलेन सविनयं व्यजिज्ञपत्॥ 4.148॥
गद्यम्-देव! धैर्यमवलम्ब्यतां भवता नावलम्ब्यतां विलम्बश्च, क्रियतामाश्रमप्रयाणप्रयत्नः, नात्रेदानीं स्थातुमुचितं क्षणमपि, आसन्ना शर्वरी, प्रतिज्ञातं किल यदोटजाद्बहिर्गमनमध्यवसितं भगवता भवता तदा यावत्सायमागच्छामि भवदन्तिकमिति तातान्तिके, तद्वृथा कलयसि कथं, सोऽयमपि पिता ते संप्रत्यश्रान्ताश्रुमिश्रितनेत्रः कान्तया सह समा पृच्छते कान्तारादागच्छतोऽध्वगान्’ आलोकितः किमस्मत्सुत- स्वकानतासहितस्सत्याख्योऽस्मज्जीवितायितः’ इति, भवान् येन तादृशीं दसामुपनीतः पुनरपि येनावोज्जीवितश्च तमावेदयिष्याम्यहमन्तिके तयोरेव ताताम्बयोः, इदानीमसमयः, सरोजिनीमनोरञ्जनस्तावद्रविरस्तावनीधरशिखरविहारपर्युत्सुक इव वर्तते, प्राचीदिगङ्गनावदनचन्दनलालाटिकायमान इव परिपन्थी पङ्कजानां, परितः प्रतिपन्नाहारपूरितोदरास्सदारास्सत्वराः स्वकुलायाननुसरन्ति पत्ररथप्रकराः, तद्गच्छ गच्छावस्सहसा साल्वसर्वंसहामरेशसमीपमिति सादरं सप्रश्रयं चाभिधाय प्राणंसीत्॥ 4.149॥
निशम्य सत्यक्षितिभृद्वचोऽर्हं
तस्यास्ततस्तां दयितामवोचत्।
यदात्मनोक्तं पितुरन्तिके तत्
स्मृत्वा भृशं शोकपरीतचेताः॥ 4.150॥
गद्यम्-अयि दयिते विपन्नावननिरते सतीनुतचरिते अश्वक्षितिपतिसुते! किं कथयाम्यद्य मन्दभाग्यः, त्वया सहाश्रमादटवीमायाते मयि क्वः परोऽस्ति निकटे मत्तातस्य पारिचर्यापरः, अनभिज्ञातास्मदागमनेन तातेन क्व भुक्तं क्व वा शयितं कुत्रवाऽध्युषितं, एवमपराधिना अधिगतपापेन मया कथं प्रवेष्टव्यमाश्रमपदं, अथवा कथं दर्शयितव्यमाननमनन्यसाधारणतेजोनिकायाय तस्मै, दातव्यं वा किमुत्तरं, किंवा करोमीदानीमिति॥ 4.151॥
गद्यम्- सावित्री चेत्थमालपन्तमनाधिगतकरणीयविचारमात्मभर्तारमधरीकृतामृतैरालापैरनुनयन्ती तमनुरञ्जयामासा॥ 4.152॥
सावित्र्यास्सरसिजपत्रमित्रगात्र्याः
साल्वेशप्रियतनयस्स सामवाचा।
निश्रित्य प्रकृतविचिन्तितं तदैच्छत्
संप्राप्तुं स्वपितृसदेशमाशुगत्या॥ 4.153॥
गच्छन्नथ स्वदयितासहितस्समागात्
सूर्यात्मजातटगतेन पथा वनान्तम्।
मार्गे सुधोपमहयेशसुतामनोज्ञ-
संलापसंश्रवणसंहृतसर्वखेदः॥ 4.154॥
आगतो मधुरमानिनीमुख-
व्वाहृतोक्तिभिरतीव तोषितः।
विस्मितः पथि निरीक्ष्य विस्मयं
सस्मितोऽयमवदत्सहानुगाम्॥ 4.155॥
स्तवकयुगलमेतद्दर्शितं मन्दवातैः
स्थगयति लतिकेयं धूतपत्रच्छलेन।
तदपि मधुकरस्तत्सनिधत्ते जिघृक्षुः
स्वयमतिरमणीयं त्यज्यते किं रसज्ञैः॥ 4.156॥
गद्यम्-इत्थमारण्यरामणीयकमात्मनो दर्शयन्तमात्मकान्तमतीव त्रिरात्रोपवासपरिश्रान्ताऽपि नितान्तकृतान्तानुग्रहादपगतव्यथा सनाथतासंभूतसंपूर्णमनोरथा साऽश्वभूनाथसुता प्रस्तुतमाचचक्षे॥ 4.157॥
भगवन्! भवता दर्शितमटवीगतरामणीयकं त्वेतत्।
द्रष्ट्व्यमादराच्छ्वस्संप्रति साल्वेन्द्र एव संसेव्यः॥ 4.158॥
क्रव्यादप्रकराश्चरन्ति परितः क्षुद्धाधितास्सांप्रतं
प्रत्याशं परमप्रमोदचलिता रात्रिंचरा भीकराः।
स्नात्वा स्वाश्रममाश्रिताश्च यतिनां सङ्घाः खगास्संगताः
नीडान् धूमचयास्स्पृशन्ति हरितस्सायाह्नहोमोत्थिता॥ 4.159॥
गच्छन्ति काननतलात्पथिकास्स्वधामा-
न्यावां तदन्तिकमितो द्रुतमद्य यावः।
नो चेन्महाविपिनसीमनि मार्गदर्शौ
कोऽस्त्यावयोरिह तदीश! भव प्रसन्नः॥ 4.160॥
त्वद्गात्रोल्लेहनेच्छुः करकलिततृणैर्नित्यसंवर्ध्यमाना
सारङ्गी सर्वादिक्षु प्रणिहितनयना त्वद्दिदृक्षाकुलाऽऽस्ते।
अन्ये वन्या मृगास्त्वद्विरहभवशुचं प्राप्य नेच्छन्ति गन्तुं
कुत्राप्यत्तुं तृणानि त्वटुटजानिकटे संगतास्संचरन्ति॥ 4.161॥
पीत्वा तदीयवदनेन्दुविनिस्सृतं तत्
वात्यामृतं श्रुतियुगेन स सत्यचन्द्रः।
आगत्य शीघ्रमतिदूरमतिप्रमोदात्
जायायुतस्स्वपितुराश्रममाससाद॥ 4.162॥
हा पुत्र! हा रक्षक! हा प्रदीप!
वंशस्य हा प्राणसमानघ! त्वम्।
प्रेयस्युपेतः क्व गतोऽसि तादृक्
प्रेमावयोः कुत्र गतं तवेति॥ 4.163॥
क्व गतस्तनयास्तपस्विनां म-
त्तनयो ज्ञातपरावरास्सखायः!।
न हि चेद्वदतावयोस्सुतं तं
नियतं क्षिप्रमसूनिमांस्त्यजावः॥ 4.164॥
सत्येश सत्यव्रत सत्यचन्द्र
सत्यप्रतिष्ठापक सत्यकीर्ते!।
संत्यज्य वृद्धांवधुना क्व यातः
कुत्रासि कान्तासहितः पथीति॥ 4.165॥
गुरुवक्त्रविनिर्गतानि मातुः
वचसा संकलितानि सत्यचन्द्रः।
श्रुतवान् श्रुतिशल्यतुल्यरूपा-
ण्यतिदीनानि वचांसि तत्र काले॥ 4.166॥
अश्रान्तमापदि रुदन्तमधः पतन्तं
अन्तर्व्यथापरिलुठन्तमसौ नितान्तम्।
तान्तं कृतान्तवरलब्धदृगम्बुजातं
क्रान्तायुतः पितरमैक्षत तं महान्तम्॥ 4.167॥
दृष्ट्वा तं सत्यचन्द्रः परिणतवयप्तं भार्ययोपेतमार्यं
तत्रत्यानां मुनीनां मृदुतरवचनैःकिंचिदुद्भूकधैर्यम्!
साश्चर्यं स्वाक्षिलाभादपगतकलुषं सप्रमोदं व्यतानीत्
संपूर्णः पूर्णिमाभूर्भुवनमिव शशी दर्शनादेव सद्यः॥ 4.168॥
ततश्च-
अवन्दत सतीयुतस्स्वपितरौ निजाख्यां वदन्
तदन्तिकनिवासिनः परमयोगिनश्चानघान्।
वनात्किमु सुखागमस्तव सुतेति हस्तेन तं
स्वमङ्कधिरोपयन् स्वयमपृच्छदस्योद्यमम्॥ 4.169॥
कुत्र नीतस्त्वया कालः किं वृत्तं वनवर्त्मनि।
इति पृष्टस्स्वपित्राऽसौ सावित्रीमिदमूचिवान्॥ 4.170॥
त्वया ज्ञातं सर्वं विपिनभुवि यद्वृत्तमिह तत्
समाचक्ष्व प्रीत्या सखि वनगतं वृत्तमखिलम्।
मया ज्ञातं यावत्पथि सति! समावेदितमभूत्
मदीयप्राणान् योऽहरदविदितस्तं च कथय॥ 4.171॥
गद्यम्-इत्थमाज्ञापिता अनवरतानन्तात्मश्रेयोदता सत्यवताऽऽत्मभर्त्रा अभिज्ञातवनान्तवृत्तान्ता अश्वविश्वंभराकान्तात्मजाता आत्मनः पितृगृहनिवासे माहानुभावेनाखिलभुवनवृत्तान्तवेदिना अमरपारिकाङ्क्षिप्रवरेण परिकथितं यत्सात्यवतमन्यूनाधिकमन्याज्ञातमतिविचित्रं वृत्तान्तं, अस्मिन् दिने महाविपिने स्वाक्षिसाक्षाद्भूतात्मविरचितस्तुतिशतप्रसन्नस्वान्तान्तकात्यन्तानुग्रहागतप्रियतमप्राणागमनप्रक्रमं, श्वशुरनयनागमनप्रवृत्तिं,आत्मनस्समवर्तिना सह संभाषणादिकं चाकंथयत्॥ 4.172॥
पीत्वा स साल्वनृपतिस्सहवासतुष्टैः
सर्वैर्महामुनिभिरश्वसुतामुखेन्दोः।
स्त्रस्तामनल्पतरवागमृतस्त्रवन्तीं
आत्मीयकर्णचुलकद्दूयतस्तुतोष॥ 4.173॥
श्रुत्वाऽथ साल्वक्षितिभृन्महेन्द्र-
चन्द्रप्रियाऽप्यार्यगुणौघसान्द्रा।
सहैव मौनिप्रियभामिनीभिः
तद्वाक्सुधाम्भोनिधिमज्जिताऽसीत्॥ 4.174॥
गद्यम्-साल्वावनीसंक्रन्दनोऽपि संक्रन्दनाद्यमरसुन्दरीसन्दोहाभिनन्द्यमानामन्दसद्गुणबृन्दमन्दिरीभूतां, अश्रुतानालोकितचरानुभावमहितां अखिललोकाद्भुतेहतुभूतचरितां आत्मस्नुषां तामवलोक्य कंचित्कालममन्दानन्दामृततरङ्गिणीरमणोत्तरङ्गतरङ्गसङ्घतरङ्गितान्तरङ्ग इव स्थित्वा वहुमान्य च वहुवारमुपघ्राय तदीयोत्तमाङ्गं, उन्नमय्य तन्मुखं, अहमद्याम्ब! कृतार्थौकृतोऽस्मि भगवत्या भव्यतरवृत्त्या, भवत्योद्धारितमस्मत्कुलं, उद्धारिताश्चास्मत्पितरः, तावककीर्तिरखिलसतीशिरोजालकायिता, अस्मदन्ववायालयप्रतिष्ठाप्रकृष्टस्तम्भभूताऽसीत्युपलाल्य, प्रस्थाप्य च सप्रश्रयमाश्रमवासिनः, सपत्नीकेन सत्यवता सह स्वसहचर्या च सप्रमोदं तत्रैव. कतिचिद्दिनानि गमयामास॥ 4.175॥
काले याते कतिपयदिने कालधर्मं द्विषत्सु
प्राप्तेष्वस्य प्रबलतपसाऽराजकं वीक्ष्य राज्यम्।
प्राप्यारण्यं प्रहतदुरितं प्रार्थयामासुरेनं
सर्वामात्यास्तदवितुमलं दुर्लभं किं सतां स्यात्॥ 4.176॥
सावित्री स्वपतियुता वने स्थिताऽसौ
चारैश्श्रीतुरगमहीवधूधवस्य।
संजातं तनुजशतं विधेः प्रसादात्
इत्युक्ते प्रमदमगात्सहाखिलैस्स्वैः॥ 4.177॥
सावित्रीवरलाभलब्धमिदमित्यालोच्य साल्वाधिपः
सावित्रीसाहितं तनूजममितक्षोणीतलाधीश्वरम्।
कर्तुं चेतसि निश्चयं विरचयन् सद्योगिसंघोत्तमा-
शीर्वादप्रहतापदं शुचितमादागाद्बहिस्स्वाश्रमात्॥ 4.178॥
आगत्य तान् स्वसचिवान् परितो विनम्रान्
पादान्तिके विनयपूर्वमुवाच साल्वः।
किं शत्रवो विलयमापुरनर्गला किं
पूर्मे किमद्य सुकिनस्सकलाश्च पौराः॥ 4.179॥
नष्टास्ते त्वत्तपसा राजन्! राज्यं त्वराजकं. जातम्।
चिरमव भूप! स्वमहीमिति जगदुर्मन्त्रिणः प्रमदात्॥ 4.180॥
श्वेतं छत्रं स्वीयमर्हं किरीटं
हस्तीन्द्रं चोद्रत्नसिंहासनं सः।
तैरानीतं वीक्ष्य तानित्यवोचत्
मत्सूनोस्स्यादाधिराज्येऽभिषेकः॥ 4.181॥
आकर्ण्याश्रमवासिनस्तदुदितं ते मन्त्रिणश्च स्वयं
सावित्रीसहितस्य सद्भुणजुषस्सद्योऽभिषेकं वने।
श्रीमत्सत्यवतः सुरा इव शचीनाथस्य नाके पुरा
चक्रुर्मङ्गलवाद्यनादबहुलं साल्वावनीन्द्राज्ञया॥ 4.182॥
यथा शौरिश्श्रिया गौर्या शम्भुर्वाण्या चतुर्मुखः।
तथाऽनपेतस्सावित्र्या बभौ श्रीसत्यवान् नृपः॥ 4.183॥
गद्यम्-इत्थमभिषिच्य निजमत्यधरीकृतामर्त्येन्द्रामात्यास्त एते सपोरजानपदास्साल्वाधिपामात्याः तमगणमनीयाद्वितीयसद्गुणौघसान्द्रं अनिवार्यधैर्यतुलिताहार्येन्द्रं अनुपमानात्माननलावण्यनिर्जितचन्द्रं अनुत्तमात्मगुणनिर्जितमहेन्द्रं आश्रितावननिस्तन्द्रं सत्यचन्द्रं उपनीयाखिलश्रेयःपदं सकलसौख्यास्पदं साल्वजनपदं, तत्र चानन्यसुलभामेयविभानिकायात्मीयदिव्यालयवैचित्र्यनिर्जितनिर्जरनगरं मूलनगरमधिगतेन पौरवनिताप्रसारितलोचनोत्पलमालामलिनीकृतश्वेतातपत्रेण परिप्राप्तनिजपौर्विकप्रभुभुक्तचरशुभोदारराजमन्दिरेण सर्वसाम्राज्यलक्ष्मीसङ्गमसंभृतसर्वभद्रेण दूरविद्राविताभद्रेण निद्रापितक्षुद्रनृपोपद्रवेण विबुधहितकरामृतसमुद्रेण सत्यसंपत्सर्वस्वसारास्पदाङ्गुलीयकमुद्रेण सत्यमहीमहेन्द्रेण संरक्षिता यथापुरं सुखमासामासुः॥ 4.184॥
सावित्रीत्थं सवितृतनयात्प्राप्य तांस्तान् वरौघान्
अन्यालभ्यान् सकलजगतीविस्मयानन्दहेतून्।
कीर्तिं लेभे सुतशतयुता कान्तया सत्यचन्द्रः
शच्येवेन्द्रस्त्रिदिवमवति स्माधिराज्यं धृतश्रीः॥ 4.185॥
यत्कारुण्यकटाक्षपातविधुताविद्यातमोग्रन्थयः
प्रख्याताः कवयो भवन्ति कवितांचातुर्यधुर्याः परम्।
तद्देवीकरुणाबलाद्विरचिते चम्पूप्रबन्धेऽनघे
सावित्रीचरितामृतैर्विलसिते तुर्यो विलासोऽगमत्॥ 4.186॥
इत्यखण्डपाण्डित्यसमुद्दण्डपण्डितप्रकाण्डपरिमण्डितमाण्डेकल्
नगरमण्डनायमानेन, विश्वविख्यातविद्यावैदुष्यष्यविभूषितस्य
विश्वविश्वंभराविश्रुतविनयविवेकादिगुणगणाविराजितस्य
असमानयामुनाभिजनतिलकायमानस्य श्रीमतो
वेङ्कटरामार्यस्यान्तेवासिना, तदग्रजन्मनश्श्री-
वेङ्कटनृसिंहार्यस्यात्मजेन च वरदाचार्येण
विरचिते सावित्रीपरिणये
चतुर्थो विलासः
**********************************************
]