[[यात्राप्रबन्धः Source: EB]]
[
काव्यमाला ९०.
<MISSING_FIG href="../books_images/U-IMG-1724944111ल.jpg"/>
**समरपुंगवदीक्षितविरचितो **
**यात्राप्रबन्धः। **
<MISSING_FIG href="../books_images/U-IMG-1724944175लल.jpg"/>
जयपुरमहाराजाश्रितेन महामहोपाध्यायपण्डितश्रीदुर्गाप्रसाद-
तनयेन पण्डितकेदारनाथेन च संशोधितः।
—————
द्वितीयावृत्ति.।
—————
**स च **
**मुम्वय्यां **
पाण्डुरङ्गजावजी
**इत्येतैःस्वीये निर्णयसागराख्यमुद्रणालये **
**मुद्रयित्वा प्रकाशितः। **
—————
**शकाब्दाः १८५८, सनाब्दा १९३६. **
——————
मूल्यं१ रुपकः।
समरपुंगवदीक्षितः, तदीयो यात्राप्रबन्धश्व।
<MISSING_FIG href="../books_images/U-IMG-1725026102त.jpg"/>
अतिरात्रयज्वावाधूलकुलजलधिकोस्तुभः कनकाठपाठबिरुदाङ्कःश्रीसमरपुगवदीक्षित- नामाय कविः षोडश्या ख्रिस्तशताब्द्या(१५७४ ख्रिस्ताब्दात् परम्) अन्ते दक्षिणदेशे बटवनाभिधाननाम्निनगरे श्रीवेङ्कटेशादनन्तम्माया जन्म लेभेइति तदीये यात्राप्रबन्धे लिखितयाग्रन्थनायकजननकालिकया ग्रहस्थित्या, द्वितीयाश्वासे ‘सौभागिनेयः स तदा शोभायै श्रुतिसपदाम्। असेवत शिवाकल्पकल्पमप्पय्यदीक्षितम्॥’ इत्यादिनाकृतेन तदात्व एववर्तमानस्य सुप्रसिद्धस्य विद्वद्वरेण्यस्य श्रीरङ्गराजाध्वरेस्तनूद्भवस्य चित्रमीमांसाद्यनेकनि- बन्धरचयितः श्रीमदप्पयदीक्षितस्य वर्णनेन च सुस्पष्टमभ्युपगम्यते।
सा ग्रहस्थितिर्यथा—
**अथाध्युषितकेसरिण्यहिमभासि मेषं गते
कलावति तुलाधरोदयमुपेयुषि स्वामिनि।
स्वतुङ्गजुषि वाक्पतौ मकरभाजि मित्रात्मजे
शुभैकजनने दिने सुतमसूत शातोदरी॥
सिंहिकातनुभुवा सह योगः सांप्रतमृगपतेरजनीति।
स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिहः॥’ इति। **
श्रीमदप्पयदीक्षितस्य समुद्भवसमयस्तु संस्कृतचन्द्रिकायाः षष्ठे खण्डे तदीयजीवनचरितो- पन्यासेऽस्मत्प्रियसुहृत्प्रवरेैःश्रीमद्विर्विद्यावाचस्पतिभिःश्रीमदप्पाशास्त्रिभिर्बहुभिःप्रमाणैः श्रीमद्दीक्षितवशोद्भवैः श्रीवैद्यनाथशास्त्रिभिः प्रेषितैस्तत्स्थितिमूचकश्लोकैश्च १५५४ ख्रिस्ताब्दो निर्णीतएव।उपरितना ग्रहस्थितिरप्पयदीक्षितजन्मनों विंशतेर्वर्षेभ्यः परमासीदिति नातिरोहितं ग्रहस्थितिविदाम्। एतावता पर्यवसितं यत्किलकविरय १५७४ख्रिस्ताब्दात्परं बभूवेति।
कवेरस्य अनन्ताम्मा श्रीवेङ्कटेशश्व पितरौ।द्राविडजातीय एवाय भवेदिति तदीयबिरुदावल्या तन्नाम्ना चानुमीयते।
ग्रन्थोऽयं समरपुगवदीक्षितेन स्वस्य ज्येष्ठभ्रातुस्तीर्थयात्रामधिकृत्य विरचित इति दक्षिणेषु तीर्थयात्राप्रबन्धनाम्नाप्यस्य प्रसिद्धिः।
ग्रन्थस्यास्य पुस्तकमेकमध्यर्धसप्तमाश्चासपर्यन्त स्वर्गवासिभिः श्रीकाशीनाथपरबमहोदयैः प्रेषितम्। अध्यर्धसप्तमाश्वासात् समाप्तिपर्यन्तमद्रपुरस्थराजकीयपुस्तकालयात् श्रीमता रावबहादुरपदविभूषितानाश्रीरङ्गाचार्यमहोदयानामनुज्ञया श्रीवरदाचार्यमहोदयैःप्रेषितमिति तयोः कृतज्ञाः स्मः।शेमुषीदोषादक्षरयोजकदोषाद्वायदत्र स्खलितं स्यात्तत्क्षाम्यं श्रीमद्भिरिति शम्।
केदारनाथशर्मा
काव्यमालासपादकः।
<MISSING_FIG href="../books_images/U-IMG-1725026977ोो.jpg"/>
यात्राप्रबन्धस्य विषयक्रमः।
<MISSING_FIG href="../books_images/U-IMG-1725027183ै.jpg"/>
प्रथम आश्वासे (पृ. १—१९ पृ)
मङ्गलाचरणादिकम्, वटवनाभिधानाया राजधान्यावर्णनम्, तत्रे धर्मशिवयोगिन स्वस्रासह ग्रन्थकर्तृजनकस्य श्रीवेङ्कटेशस्यपरिणय। तस्यापुत्रप्राप्त्यर्थं शिवाराधनम्, विमुक्तिकासारत्नानम्, सूर्यस्तुति, कात्यायनीदर्शनम्, कात्यायनीस्तुति, द्विपास्यदर्शनम् , द्विपास्यस्तुति, नन्दिकेश्वरस्तुति, शिवस्तुति , गौरीस्तुतिश्च। तत्प्रसादात् गर्भधारणं चेत्येते विषया।
—————————
द्वितीय आश्वासे (पृ. २०—३२ पृ.)
पुत्रोत्पत्ति, पुत्रस्य विद्याभ्यासादिकम्, पाणिग्रहणम्, सोदर्याभ्यां समरपुवगसूर्यनारायणाभ्या सह श्रीमदप्पयदीक्षितसविधे विद्याभ्यासश्चेत्येते विषया।
—————————
तृतीय आश्वासे (पृ. ३२—५७ पृ.)
वसन्तवर्णनम्, तीर्थयात्रार्थ प्रस्थानम्, प्रथम काञ्चीपुरीगपनम्, काञ्चीपुरीवर्णनम् , एकाम्रेश्वरवर्णनम्, एकम्रेश्वरस्तुति‚कामाक्षीस्तुति, विष्णुदर्शनम्, विष्णुस्तुतिश्चेत्येते विषया।
—————————
चतुर्थ आश्वासे ( प्र. ५७—७६ पु, )
सूर्योदयवर्णनम्, उद्यानवर्णनम् , सूर्यास्तमनवर्णनम्, चन्द्रोदयवर्णनम्, प्रसङ्गवशादृूतीप्रेषणम्, सभोगवर्णनम्, चेत्येते विषया।
—————————
पञ्चम आश्वासे ( पृ. ७६—९३पृ. )
कावेरीवर्णनम्, सेतुवर्णनम्, सेतुस्तुति, गन्धमादनपर्वतीयशिवस्तुति, पाण्ड्यदेशगमनम्, तत्र हालास्थपुरे मीनाक्षीस्तुति, शिवस्तुति.‚ ग्रन्थनायकस्य द्वितीय उद्वाहश्चेत्येते विषया।
पष्ठ आश्वासे ( पृ. ९४—१२४ पृ. )
ग्रीष्मवर्णनम्, गयातीर्थगमनोपक्रम’, मध्येमार्गस्वामिकार्तिकस्तुति’, माकनृपावलोकनम्, वेङ्कटेशदर्शनम्, कालहस्तिपतिशिवस्तुति अम्बिकास्तुति, श्रीपर्वतगमनम्, अहोबलपतिदर्शनम्, पुनश्चण्डीस्तुतिश्चेत्येतेविषया।
——————
सप्तम आश्वासे ( पु. १२४—१४४ पृ. )
गोकर्णगमनम्, कतिपयनदीवर्णनम्, तदनुषक्तकतिपयपुर्यादिवर्णनम्, मधुरापुरीस्थमुकुन्दस्तुति, गङ्गास्तुतिश्चेत्येतेविषया।
——————
अष्टम आश्वासे ( पृ. १४४—१६३ पृ. )
केदारेश्वरदर्शनम्, बदर्याश्रमविलोकनम्, कामरूपकामाक्षीस्तुति, कपिलाश्रमदर्शनम्, नीलगिरिगमनम्, तत्र जगन्नाथस्तुति, ततो गयाक्षेत्रगमनम्, ततश्च विविधतीर्थावगाहनानन्तर बिन्ध्येश्वरीस्तुति, प्रयागे स्रोतस्विनीत्रिकसमागमस्तुति, साकेतगमनम्, तत्ररामभद्रस्तुतिश्चेत्येतेविषयाः।
——————
नवम आश्वासे ( पृ. १६३—१७६ पृ. )
वाराणसीगमनम्, वाराणसीस्तुतिः, विश्वेशस्तुति’, ईश्वरीस्तुतिः, ग्रन्थसमाप्तिश्चेत्येते विषया.।
काव्यमाला।
** <MISSING_FIG href="../books_images/U-IMG-1725088579ूूू.jpg"/>**
श्रीसमरपुंगवदीक्षितविरचितो
यात्राप्रबन्धः।
<MISSING_FIG href="../books_images/U-IMG-1725087444ूू.jpg"/>
प्रथमआश्वास।
श्रियं स पुष्णातु वृषध्वजो मे जिगीषतो यस्य पुरानुपूर्वीम्।
चक्रीभवद्भूधरचापसङ्गी बाणोऽपि चक्री भवति स जैत्रः॥१॥
पौलोम्यर्पितपादुका चरणयोः पाणिस्फुरद्वेत्रया
भारत्या पुरतो निवारितजना पद्माकरालम्बिनी।
प्रक्रान्तस्तुतिरद्रिराजतनया प्राचीनवाचा गणै-
रायान्ती पतिमन्दिरं निजगृहादन्तर्मम द्योतताम्॥२॥
वामस्तनवलदाननमन्यकुचादानतरलहस्ताग्रम्।
आत्मजमवलोकयतोः शिवयोरेकः स्मिताङ्कुरो जयति॥३॥
विरलीभवद्विलोकनतरलीकृतगोपभीरूचेतन्यम्।
करलीलया मुखार्पितमुरलीवादनपरं महः सेवे॥४॥
आनन्दायास्तु कालिन्दी पुरः स्तान्मे सरस्वती।
निह्नता जह्नुतनया रंहसा राशिमंहसाम्॥५॥
काञ्चीमुखानि परमावधिकाशिकानि
पुण्यस्थलानि कतिचित्क्षितिभूषणानि।
चारूणि योजयितुमग्रजसत्कथायां
कुर्वे मति गुणतताविव मौक्तिकानि॥६॥
देशिकस्य कृपया हि देहिनामापतन्ति पुरषार्थसंपदः।
तत्कथारसनिमज्जन विना मत्कृतेरनघता कथ भवेत्॥७॥
कल्याणनिधिमाचार्यकटाक्षं किमिति स्तुमः।
ईश्वराणां प्रसादोऽपि यस्यावसरमीक्षते॥८॥
कालिदासकविमुख्यभारतीपारणाकृतिन एव पण्डिताः।
भाषिते मम भजेयुरादरं स्वादुसेविन इवाम्लवस्तुनि॥९॥
फाणिताञ्चितपयःसहोदरे गद्यपद्यमयकाव्यगुम्फने।
चापल किमपि मे रसज्ञया स्वानुरूपमनयानुभूयते॥१०॥
पद्येषु बाहुल्यमिह प्रबन्धे मितानि गद्यानि तु तावतापि।
अस्येव लक्ष्मानुगमो रसज्ञैर्विच्छित्तिभेदाः परमीक्षणीया॥११॥
महाकविसरस्वती मधुरकाव्यनिर्वर्तने
प्रसन्नपदलिप्सया परमुखानि नापेक्षते।
अलंकृतिविधौमणेरधिगमाय कि गाहते
भुव त्रिदशधाम वा सुजगराजसीमन्तिनी॥१२॥
अस्ति समस्तविध्यण्डरञ्जनोच्चण्डताण्डवोदञ्चितचरणकंजनखमयूस्वशशाङ्कोदयसकोचितभद्रका-लीमुखनालीकस्य भ्रमणाटोपपर्यस्तजटाजूटगमस्तिझाटघटनाभ्रेडिततडि पुञ्जपिञ्जरिम्णो डामरडमरु- डात्कारप्रतिरवपूरितामरालयस्य भ्रमरालकानुरागसृमरापाङ्गभृङ्गाखादितवदनारविन्दसौन्दर्यमकरन्द- स्य चिरंतननर्तकशिखामणेरानर्तकभूमिरभूमिरापदामनेकलोकाशयविभक्तरागाभिनिवेशविलासिनीकु- चपीठमर्दकपीठमर्दकविटविदूषकजनावटवनाभिधाना राजधानी।
यस्या वचःस्वादिमभिक्षुरिक्षुर्यानप्रशंसाकृत एवहंसाः।
वन्दी मुखस्येन्दुरणूदरीणासिन्दीवरश्रीर्नयनांशुबन्दी॥१३॥
तत्र जयति विचित्रतरचरित्रातिशयसपत्राकृतात्रिमुखतपोधनानुभावःस्वभावविमलमनीषादर्शदर्शनीय- षड्दर्शनीरहस्यः प्रशस्यतरप्रादेशनयशोदेशिकान्तेवसदरविन्देशसुतमन्दारजलदचिन्तामणिः शैवागमजैवातृकोदयशैवालिनीपतिर्नैष्ठिकाचारप्रतिष्ठापनगरिष्ठापदानो मन्मथविजयकर्मण्यपर इव पिनाकी धर्मशिवयोगी।
व्यत्यास व्याससूनोर्विनिमयममराचार्यवर्यस्य वीप्सा
पाराशर्यस्य मेत्रावरुणिगुणनिका धर्मसूनोर्विभाषाम्।
प्रत्यादेश दधीचेः सनकपरिणति नामभेद मृकण्डो-
स्तण्डोः पर्यायमत्रेर्यमकमिह सुधीधुर्यमाहूर्यमार्याः॥१४॥
कलानिधेरस्य विधोरिव श्रीः कापि स्वसा काञ्चनपेशलाङ्गी।
श्रीवेङ्कटेशव्यपदेशभाजो वरस्य जाया हृदयगमासीत्॥१५॥
अस्याकिलरमणीमणेरपरगृहिणीसमाजदुरवापा गुणकलापास्तरुणिमारम्भ एव जजृम्भिरे।
तस्याश्चङ्कमणे विलम्बनमभूत्तन्व्या न दीनावने
तारल्य दृशि नेन्द्रियेषु तनुता मध्ये न नित्योत्सवे।
वामत्वभ्रुवि न प्रियानुसरणव्यापारलीलाविधौ
काठिन्यं च कुचे न चेतसिकचे नाभाषणे वक्रिमा॥१६॥
एना भरद्वाजकुलैकमूषामनन्तमाख्यामधिगम्य योषाम्।
वाधूलवशप्रभबोऽनुरूपां सुधीमणिः सोऽयमवाप शोभाम्॥१७॥
निरतिशयानुकूल्यनिष्ठागरिष्ठयोररुन्धतीवसिष्ठ्योरिव परस्परानुभूतिसुभगभावबन्धमेदुरमनुपलम्भ- सरणिगोचरविप्रलम्भरसोदयमरलघुविस्रम्भभरनिवारितरहस्यार्थनिगूहनमनिवेदितोपपादितहि -ताहित- विधिप्रतिकारमखिलगृहमेधिपरिषदननुकरणीयसांगत्यमनयोरजायतानुकूलदांपत्यम्।
नारीललाम्नश्वरितैरुदारैर्दूरीकृतस्वर्गसुखाभिलाषः।
प्रज्ञाधिभूरेष पिनाकपाणेराज्ञाधिया कर्मसमाचचार॥१८॥
एष पुनरशेषधर्माचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्षणया प्रतिक्षणमापादितमनःसभाजनः सदनवर्तनमेव सकलपुरुषार्थमवधारयन्कदापि न वाराणसीप्रभृतिसेवासु भावमाबबन्ध।
सेयमविमुक्तरूपा श्रीपर्वतनिर्विशेषवक्षोजा।
पुष्करमुखी न कस्यैबभूव कान्तस्य कामनासिद्ध्यै॥१९॥
तस्य च सुमेधसप्रबोधतरङ्गिणीपतिकुरङ्गलाञ्छने वाञ्छितवरप्रदानसतानशाखिनि मन्दाकिनीतरङ्गमालतीदामशेखरे सागरमेखलाशताङ्गसंचारकारिणि वारिधरमेचकांशुवास्तव्यकन्धरे सिन्धुरघूर्वहाजिननिर्व्यूढचेलकर्मणि सहधर्मिणीविवर्त- भेदशरीरार्धमनोहरे वनेरुहभवादिशस्तचरितस्तोमशालिनि केलीविटावलेपनिर्वापणनिरीक्षणे सरीसृपाभरणधारिणि वरीयसि महसि गरीयसी भक्तिरभूत्।
वेधःशौरी मुकुटचरणौवीक्षितुं यस्य नालं
प्राप्तो युद्धे यदुपकरणीभावमेष प्रपञ्चः।
यस्मिच्विश्वाधिक इति पदं याति विश्रान्तिमुद्रा
कण्ठेकालःस खलुभुवने कस्य न स्यादुपास्यः॥२०॥
मानं यस्यनिवेदिताक्षिकमलोमाहानुभाव्ये पुमा-
न्दातृत्वे वपुरर्धकामसुखिता दाक्षायणी साक्षिणी।
त्रातो दण्डघरान्मृकण्डुतनुभूर्द्रष्टादयागौरवे
सेव्यश्चन्द्रशिखामणिः स हि कृतश्रेयोभिलाषैर्जनैः॥२१॥
सप्रदायसुगम निगमानां त प्रपद्यतरुणेन्दुकिरीटम्।
देवतान्तरमिरापि दरिद्रांभावयन्स जगती प्रजहर्ष॥२२॥
तस्य च सदनान्तरे हृदन्तरालविहरदीशानमुकुटभूषामणीकृतसोदर्यप्रीतिपरवशेव सरसिजालयाचिरमुवास। कुमारिकावलोकनकुतूहलसमागतः कलशतरङ्गिणीपतिरिव तदीयशृङ्गिणीनां परिणाहमेदुरेषु परमूधःप्रकरेषु विरेजे पयोतिरेकः। तस्य तपस्विजनभागधेयस्य दयाविधेयमतेरधिनिकेतनमत्यादरोपनीतमभिजातगुणकरम्बितव्यञ्जनपरम्परा- ञ्चितमतिवहुलहैयग- वीनधारानुषङ्गरभिलंकरनखपचस्पर्शकमनीयभावसंभृतममृतरसातिशायिमाधुरीविशेषसंपन्नमनैषमस्त्यशाल्यमवनीमखभुजो बुभुजिरे।
भूसुरेषु गृहे तस्य भुञ्जानेषु न केवलम्।
असख्यानमभूत्तेषामवस्थानदिनेष्वपि॥२३॥
महीसुरातिथ्यमहोत्सवेषु समेधमाने श्रमगौरवेऽपि।
प्रभातपद्यप्रतिम प्रियाया मुख स पश्यन्मुमुदे मनीषी॥२४॥
क्रतुभिरिहान्नदानविभवैरपि कन्दलितै-
रनुदिवसोऽवक्लृप्तविबुधाबलितृप्तिविधे।
न खलुनिकाममस्य हुतशेषमभूदमृत
विधसपदामिधेयमपि भोजनशेषमहो॥२५॥
उपासनामुक्तिरकृत्रिमेव प्रसूय कांचित्प्रथमं कुमारीम्।
पुत्रोदये प्रत्ययजन्मनीव कुटुम्बिनी तस्य विलम्बते स्म॥२६॥
अथ कदाचिदपरिणतमणिसमूहामिव रोहणमहीधरतटीम्, अजनितपटीरसालामिव मलयशैलमेखलाम्, अपरिफुल्लरुचिरपल्लवामिव सुरविपिनवल्लरीम्, अनङ्कुरितपतङ्गकिरणजालामिव प्रभातवेलाम्, अनधिगतकनकारविन्दामिव मन्दाकिनीम्, अनासादितसुधांशुबिम्बामिव जम्भारिककुभम्, अनवक्लृप्तभाव्यनिर्वर्तनामिव यजनभावनाम्, अविमातव्यङ्ग्यामिव काव्यभङ्गीम्, अघटितसुखप्रकाशामिव ब्रह्मविद्याम्, अनासादितसमीरसारथिमेव वितानवेदिम्, अनुपनततनयजननामसितनयनामवेक्ष्य हृदयसरणिधृतव्यथः परिणीरिदमभाणीत्।
आह्लादावहमञ्जन नयनयोरङ्गे सुधालेपन
धैर्यचेतसि खेदनामनि गदे तत्तादृश मेषजम्।
कीडापोतमिह प्रसूतिजघौगेहे प्रकाशोदय
पुण्यैरायतलोचने परिणतैःपुत्र लभन्ते जनाः॥२७॥
उरोरुहादुद्गमितैःपयोभिरापूर्यकेल्यानिजमास्यगर्भम्।
फूत्कृत्य मातुर्वदने हसन्त तनूभवं पदयति कोऽपि धन्य.॥२८॥
सप्तद्वीपवसुधराधिपतिना सक्रन्दनेनाथवा
पाथोजातभवेन कैेटभजिता पश्यन्निटालेन वा।
पुंसा केनचिदन्तरेण भुवने पुत्राभिधान धनं
शक्या कि द्रविणान्तरैर्निरसितु सा सपदि न्यूनता॥२९॥
किं बहुना।
वाधूलवाचयमशैलवर्यात्सभूय सतानलता प्रवृद्धा।
नवाङ्कुरोड्भेदविलम्बिनीयं न साप्रत मे हृदय धिनोति॥३०॥
श्रीसनाथमपि मे निकेतनं बालकेन रहितं न भासते।
कंसशासनभुजान्तरं यथा कौस्तुभेन मणिना विनाकृतम्॥३१॥
रङ्गवल्लिरचनादि भवत्या प्रस्तुत किमपि पाणितलेन।
अन्यथा विरचयन्पृथुको मे हा कदा भवतु लोचनलेह्यः॥३२॥
अथवा हरिणाक्षि चिन्तया कृतयैतर्हिकृत दुरन्तया।
विभुरेव विधास्यति प्रियं मदिराक्षीमयवामविग्रहः॥३३॥
अद्यप्रभृति समाराध्यतां कुमारावतरणाय वटवनीनिकेतनो भगवान्वृषभकेतनः।
मृकण्डुनाम्ने मुनिपुंगवाय दीर्धायुषं दत्तवतस्तनूजम्।
सपर्यया यस्य रमाकुटुम्बी साम्बेन लेभेसह सम्बरारिम्॥ २४॥
इति प्रियतमादेशमिन्दीवरविलोचना।
निरम्य परिजग्राह नियमाचरणक्रियाम्॥३५॥
तथा हि। अहरहरियमवगाहनाय निर्गत्य निवासभवनादवनीविलासमुकुरशेमुषीगोचरमरविन्दक- रनिष्यन्दमानमकरन्दसलिलदानमन्दीकृतभसलपान्थकुलपरिश्रान्तिगौरव सरसबिसभङ्गभोजनसभा- जितविशदद्विजप- रिषदनुवेलरिशीलित तरलतरपवनकीर्णतामरसपरागपालिकाम्रेडितमज्जनागतना- गरमत्तकाशिनीकुचकलशकुङ्कुमाङ्गरामम्भोज-सौधबिम्बोकलाकसकलशजलधिकन्यकाजघनमेखला-कलापकलकलानुसारिसारस निनादमेदुरम्, अन्तरङ्गमिव तरङ्गणीपतेः; प्राणसहायमिव मानसस्य, सोदर्यमिव पृथूदकस्य, पृथक्करणभेदमिव पुष्करस्य, विलासविशेषमिव प्रभासस्य, बिम्बान्तरमिव पम्पाया, सगन्धमिव स्यमन्तपञ्चकस्य, सामन्तमिव बिन्दुसरस’, दुरन्तदुरितधोरणीनिवारणनिपु- णशीकरासारमाससाद विमुक्तिकासारम्।
**व्यालेन्द्रनिर्धार्यगभीरभावोविभाव्यते यः परिणाहशाली।
त्रासादगस्त्यप्रभवात्कुतोऽपि तरङ्गमालीव निलीनमूर्तिः॥३६॥ **
**पयोग्रणालीप्रमुखेन वर्तन वितन्वती भूतिविलेपनिर्मला।
अनेहसो यापनकर्मयत्र सा तनोति हंसावनिरात्मचिन्तया॥३७॥ **
अस्तातप क्षितिरुहैरधिगम्य तीरं
यस्याध्वनीतसुदृशो दिनयौवनेषु।
कान्तोपनीतमधिपत्रपुटनलिन्या
कह्लारकैरवसुगन्धि पयः पिबन्ति॥३८॥
अथ तथात्वभबैरघसहतिग्रहनिवारणयत्त्रगणैरिव।
उपनतावृतिरूर्मिकदम्बकैरकृत तत्र निमज्जनमङ्गना॥ ३९॥
कल्लोलगतिभिरुल्लोलमम्बुजनिकुरुम्बमपहाय समुच्चरन्ती षट्चरणपङ्क्तिरखिलजनपावनज- लावगाहनसुकृतमयपलायमाना कुमारोदयविघातदुरक्षरावलिरिव मृगेक्षणायास्तत्क्षणमलक्ष्यत।
कृतेऽपि कैवल्यसरोवगाहे पश्चादभूद्बन्धविधिर्ममेति।
पयःकणव्याजविमुक्तबाष्पा स्नातोतोत्थिता सा कवरी बभार॥४०॥
अनन्तरं सा हरिचन्दनाद्यैरर्कसमभ्यर्च्यतटे सरस्या।
धरातल्यापितजानुहस्ता स्तुत्यानया स्यूतमुखी ववन्दे॥४१॥
त्रय्यात्मा त्रिगुणमयस्त्रिमूर्तिरूप. सृष्टिस्थित्यवधिकरोजगत्त्रयस्य।
कालेषु त्रिषु विधिकल्पितोपचारस्तापाना सृजतु शम रविस्रयाणाम्॥४२॥
यत्सत्ताव्यपगमयोरिहाखिलार्थप्रत्यक्षीकृतिपटिमा पटुत्वलाभः।
भक्तया मत्परिकलितेयमस्तु तस्यैदेवाय त्रिभुवनचक्षुषे नमस्या॥४३॥
घस्रान्ते घनतिमिरोदयापदेशादाकाशे निपतति सत्यवाप्तमोहान्।
काल्ये तत्करनिकरैरूदस्यकान्माखन्त भजत पुनः प्रबोधयन्तम्॥४४॥
नैराश्यादसुषु निजप्रवासरूढादालेढुंकमलकरोदरार्पितानि।
व्याधूय भ्रमरविषाणि यः कराग्रैःप्रत्यूषे रमयति पद्मिनीस्तमीडे॥४५॥
भरत्या धृतिमुषि भासि केऽपि लीनाःश्रीनीविद्रुहि महसीतरे निमग्नाः।
सक्तोऽयं जन इह तेजसि त्रिवेदीसीमन्तारुणमणिमण्डनायमाने॥४६॥
आलीभिरवनीदेवकेकीलसहचरी ततः।
कालीनिकेतनं भक्तिव्यालीढहृदया ययौ॥४७॥
तत्र च नृशंसतरकसहृदन्तरालसताडनपाटलीकृतपदारविन्दां मधुकैटभतमिस्रहारिविधुपटव- विशेषदानविशदक्षविभावरीं सैरिभदानवाबलेपसरसिजावसादतुषारधारां शुम्भनिशुम्भदनुजकुम्भिनीधरविभेदन-दम्भोलिकेलिकानिरवधिभुजप्रतापदीपशलभीकृतरक्तबीजपुरोगमदैत्यावलिमलोकतकात्यायनीम्।
निद्रा हरेरमरशक्तिनिकायमूर्ति-
रङ्गादगेन्द्रजनुषः कृतसन्निधाना।
दुर्गेति पद्मनिलयेति सरस्वतीति
शब्दैरनन्यविषयैरनुभूयते या॥४८॥
प्रणिपत्य भगवती परमाणुमध्यमेयमित्यवादीत्। ‘अविमृश्यकारिणी हरिणीदृशां प्रकृतिः’ इति निरपवाद एष निखिलजनवादः।
विश्वत्रयाशयविमोहनताण्डवेन
केलीसखेन कृतविग्रहया भवत्या।
विघ्नेविभाविनि तदात्व विकारजन्ये
प्रस्तानि महो बत साहसेन॥४९॥
महिषदनुजेन्द्रमस्तकनृत्तभवा देवि निपुणता कि ते।
नटनायकेन साक नाट्यविधाने ततान वैयात्यम्॥५०॥
अनन्तरमियमहरन्तविहरमाणखण्डपरशुताण्डवावलोकनसमयसमञ्जसादरोद्धाटयोर्मुञ्चि केशकार्कोटयोराविष्कृतनमस्कृतिरदसीयसप्रदायपरम्परान्तेवासिनमनधचरितानुबन्धभासिन धर्मशि- वदेशिकाभिधानमखिलनिर्ममजनप्रधान प्राणसीत्।
पन्नग इव भयम भक्तिं भगवानिवेश्वरः साक्षात्।
स्त्रीणापितेव विनयं दर्शनमात्रेण यः स्मरविजेता॥५१॥
तदनु तदनुमदगजगतिरवनिसुरयुवतिरियमचलपतिदुहितृसखमवनमुखसदनविहितरतिम- वनतपरिषदभिलषितफलवितरणसुरविपिनतरुमुरुकरटतटगलितमदलहरिपरिमलमिलदलिनिकरमुखरमतिविमलवमथुसमुदयकपटनटदुडुपटलविहितगगनपथमिभवदनमभजत।
क्रीडाविधौयः कलधौतशैले रन्ध्राणि दन्ताहतिभिस्तनोति।
पौरस्यविश्लेशितसधिबन्धदार्ढ्याय राङ्कूनिव दातुकामः॥५२॥
द्विस्त्रेधा वक्रमम्भोरुहपरिहसनारम्भलोलप्रवाल-
व्रीलानिर्माणलीलाचतुरमपि करास्त्रिश्चतुर्धा वहन्ती।
उत्तुङ्गेपश्चिमाङ्गेमरकतसुषमागर्हिणो बर्हिणस्य
क्रीडामाम्रेडयन्ती ततिरिह महसा कापि भेजे कृशाङ्ग्या॥५३॥
तदनु सुतनुरिय परिजनकरापवर्जितभाजनसलिलकृतचरणनिर्णेजना निटिललोचनभवनकक्ष्या- न्तरमुपेत्य दाक्षायणी यवाधिरोहणविधिपूततरमतितुङ्गशृङ्गभासुरमपरमिव रजतभूधरं महोक्षाधि- राजमद्राक्षीत्।
यदीयनासाविवरोपरूढप्रौढानिलावर्तजुषो भजन्ते।
वातूलवेगाकुलतूलरीति सेवागतव्रह्मविमानहसाः॥५४॥
क्लृप्तानतिर्गिरिशशाक्वयोरथाग्रे
भक्त्या प्रदक्षिणपरिक्रमणानि सापि।
सा तन्वती तनयसभवकारणानि
विद्योतते स सुकृतानि विचिन्वतीव॥५५॥
अथाभिधानान्तरमन्तकारेरन्त पुरद्वारि कृताधिकारम्।
नाथं गणानां सुयशा सनाथ ननाम सा नन्दिनमानताङ्गी॥५६॥
अजोऽहमीयोऽहमह सुरारिर्विज्ञापनीयो विभवे त्वयेति।
याच्ञावचो यं प्रति देवतानामुदेति सेवार्थमुपागतानाम्॥५७॥
अथ तदानीम्
उर्व्यान्यस्यापसव्य चरणसरसिजं सव्यमुत्क्षिप्य कुर्व-
न्पाणि तस्योपरिष्टात्परिकलिततिरोबाहुविक्षेपशालि।
त्वङ्गद्गङ्गातरङ्गतरलतरजटजूटरिङ्खन्मृगाङ्कं
भ्राम्यद्भूषामुजग पयसिरुहदृशादर्शिनृत्यन्नटेश॥५८॥
दृष्ट्वाच तमष्टमूर्तिमादराविष्टमतिरवनतशिर स्पृष्टभूतलाहरिणशावदृष्टिरभितुष्टाव।
पञ्चायुधालम्बनवामभागं पायादिदं वस्तु भवाभिधानम्।
वस्त्रेयदीये बलशासनाद्यादिवौकसश्चित्रदशामयन्ते॥५९॥
सोऽय मदीयाशयरङ्गमध्ये सायनटस्ताण्डवमातनोतु।
पदारविन्दाभरणे यदीये दधाति नीलोपलतामुरारि॥६०॥
** शीकरकणैरार्द्रान चेज्जित्वर-
स्फीतालीकदृगर्चिषा कथमसौ चान्द्री कलाजीविता।
तत्तादृक्षफणीन्द्रपक्ष्मलविषज्वालावलि वा भवा-
न्सोढा कि शिव कालकूटकलनापाण्डित्यमालम्ब्यते॥६१॥**
अस्थाङ्घ्रिरम्भोजममुष्य बन्धु ससुद्यतं चण्डकरं च जित्वा।
तन्नन्दनं दण्डधरं जघान व्यथावहो विक्रमिणा विरोध॥६२॥
चेतः कदाचिदपि मुञ्चन मुञ्जकेश-
कार्कोटकव्रतिमन कमलोदयार्कम्।
चञ्चन्नखांशुशशिमुद्रितमद्रकाली-
वक्राम्बुजं वटवनेशितुरङ्घ्रिपद्मम्॥६३॥
अनन्तरमसौनिरन्तरपरिष्क्रियमाणपश्यदलीकवामपार्श्वांकलधौतभूधरावलम्विनीमिव कादम्बिनीमगराजनन्द-नामभिवन्द्यवसुंधरासुरचकोरलोचना वाचमेवमवोचत।
निखिलचराचरपटलीनिर्माणमहेन्द्रजालशीलस्य।
चण्डि शशिखण्डमौलेर्भवतीशिखिपिञ्छमालिकां मन्ये॥६४॥
छायेव चण्डधाम्ना ज्योत्स्याकलिकासुधाकरेणेव।
मणिना प्रभेव मातर्दीव्यसि मिलितादरेन्दुचूडेन॥६५॥
तीव्रतप स्फारदिने गतया पार्श्वस्थितिं गिरीशस्य।
हरकोपातपपीडा चित्तभुवः कालिके त्वया जहे॥६६॥
प्रेङ्खदपाङ्गितबाणा वेल्लद्भूवल्लिकार्मुकोपेता।
सेनेव चित्तयोनेरहृतविभोरङ्गमम्बिके भवती॥६७॥
शिखरितनये भवत्या स्वीकृतमविचार्यपशुपतेरर्धम्।
शिरसि तदूढसपत्नीचरणाहतिरम्ब न खलुसहनीया॥६८॥
दुरक्षराणि द्रुहिणार्पितानि संमार्जयन्तीव सरोरुहाक्षी।
भूतिं तदा पूजकलेकदत्ता हस्तेन फालेस्वयमाततान॥६९॥
आबद्धखेलनमथो निगमाटवीषु
रूपश्रिया हिमरुचेरपि लोभनीयम्।
रंहोनिवारितरतीशगजावलेप
सिहोदरी शिवमसेवत देवसिहम्॥७०॥
समाचरितनमस्या मनस्येवमकरोत्सा
गङ्गानीरतरङ्गहारिशिरसे गेहीकृतच्छन्दसे
सध्यानर्तनसाक्षिलेखसदसे स्यात्या नटच्चेतसे।
तत्तादृग्गरलान्धसे निटिलदृग्घाङ्गजातैघसे
सिद्धश्रेणिशिखादृताङ्गिरजसे सेयं नतिस्तेजसे॥७९॥
अथ कमपि सा जटालहीरच्छायालमिन्दुचूडालम्।
श्रितवटमूलमविद्याजृम्भणमूर्च्छालभेषज भेजे॥७२॥
नानाशाखाविवृतमहिमा नारितश्रान्तहर्षो
मौनालम्बी प्रविततजटामण्डलोदारपार्श्वः।
न्यग्रोधोऽयं विलसति वियन्निम्नगासङ्गिमूर्धा
प्रत्यासत्तेरिव पशुपतेः प्राप्य सारूप्यरक्ष्मीम्॥७३॥
विश्चोन्मेषप्रभृतिरचनां व्यापरीत धुरीणैे-
राद्यैर्विद्यागुरुभिरभितो भूषितान्तेवसद्भिः।
धन्यमाशामभिमुखतया तन्वती कुम्भयोने-
रीशस्याव्यादिह वटतले भद्रपीठासिका माम्॥७४॥
अध्यासीना वटतरुतलहासदिग्धारुणोष्ठी
शार्दूलस्य त्वचमधिकटि श्लाघनीया वसाना।
बद्धैणाङ्का शिरसि दधती पाणिना बोधमुद्रा
कण्टे श्यामा जयति करुणा कापि पश्यन्निटाला॥७५॥
अङ्कस्थायाः किमपि वलता हैमवत्याः कुचाग्रे
व्याचक्षाणं मदननिगमान्वामहस्ताम्बुजेन।
अन्येनार्थानकृतकगिरामञ्चता बोधमुद्रा-
मेक्षे साक्षादखिलजगतामीशमाद्यगुरूणाम्॥७६॥
साक्षात्कृत्य श्रवणमननोपासनाभिर्भवन्तं
द्रक्ष्यन्त्यन्यत्किमिह यमिनस्तावकीनोपदेशैः।
चिन्तारूढां शिव तव चिदानन्दसत्तादिरूपा-
माकाशाख्यामखिलजननीमद्रिजामन्तरेण॥७७॥
मोहातीतस्त्वमिह भगवन्मूर्तिमास्थाय तां तां
वेलालङ्घिव्यवहृतिरतो मूढवन्नानटीषि।
आत्मत्राणं भवजलनिधेरात्मनैव प्रणेतु
वाटे मूले वससि यदिय भाति ते कापि लीला॥७८॥
दूरीकर्तु प्रभवति तवोपासनैव प्रजाना-
मेनोराशीनिति पशुपते वक्ति वाणी पुराणी।
ध्वस्ताहयुद्रुहिणबदनस्त्व वटद्रोरधस्ता-
दात किवा सृजसि भगवन्नीदृशीमात्मचिन्ताम्॥७९॥
शान्तेरेक सदनममृतासारशीत प्रकृत्या
हन्तेदानी भवति भवतो रूपमालोकनीयम्।
ब्रह्माण्डाना प्रसभकवलीकारकालेतु तस्मि-
न्द्रष्टुदृष्ट्यात्रिनयन भवानेव शक्तो भवन्तम्॥८०॥
विम्बोष्ठीनामिव वहुविधाकूतपारिप्लवाना-
मात्मायत्तीकरणघुटिकापङ्क्तिमाम्नायवाचाम्।
पाणेरस्यप्रसवकलिकां पल्लवस्य स्मरारे
स्तौमि ज्योतीरसमणिकृता तावकीमक्षमालाम्॥८१॥
पाणिच्छायाततिभिररुणा स्फाटिकीनाक्षमाला
बीजश्रेणी परिणतिमती दाडिमस्येयमास्ते।
चिन्मुद्रैष शिव तव समादाय तत्रैकमेकं
हस्तोपान्तस्थितशुकमुखेष्वर्पयन्तीव भाति॥८२॥
प्रज्ञावल्लीपरिणतिकृते भक्तिबीजब्रजानां
पुष्यन्तीव व्रतिजनमनोभूमिषु न्यासलीलाम्।
अर्थान्दातुं समभिलषितानाददानेव मह्यं
भावत्कीय त्रिभुवनगुरो भासते बोधमुद्रा॥८३॥
पाठीनाङ्कपमथनविधिप्रेष्ठ गीर्वाणमध्ये
सद्योजात सकलनिगमाः सगिरन्ते भवन्तम्।
सत्यप्येव कथमिव पुनःसाधवस्त्वामजातं
निश्चित्यैक निरवधिभवक्लेशमीत्या भजन्ते॥८४ ॥
दारान्बन्धूनपि तनुभुवस्तावकीनैर्वचोभिः
सन्तस्त्यक्ला सकलमपरावृत्तयः क्वापि यान्ति।
कृत्वा कण्ठे गरलमलघुव्याहृतोदारसूक्तै-
र्विन्दन्त्येते न खलुभवतो विप्रलम्भपुरारे॥ ८५ ॥
**विश्वस्य वेषविवृताममिता विरक्ति
पार्श्चं तपस्विजनता भजते गुरोस्ते।
त्वं दक्षिणाभिमुखतामुपदेशकाले
पुष्णासि चेत्पूररिपो किमिय विधत्ताम्॥ ८६ ॥ **
विलसति वटमूले व्यञ्जितज्ञानमुद्रा-
मतिशयरमणायामासिकामादधाना।
अनिशमुपदिशन्ती योगिनामागमार्था-
न्दरहिमकरचूडा देवता सावतन्माम्॥ ८७ ॥
ओमित्यक्षरलक्ष्यमैन्दवकलामाबिभ्रतं मौलिना
नद्या कल्पितशेखरं मरकतच्छाया दधानं गले।
क्लींकाराथेविद शिलीमुखपदन्यस्तारबिन्देक्षणं
वासस्थानकृताजिन यतिमनःसौघस्थमीशं भजे॥८८ ॥
कमपि जटालंकरण मुक्तेर्वटमूलमणितटालंकरणम्।
श्रयत महासमयानां जनकं निगमागमेतिहासमयानाम्॥८९ ॥
नियतवचा रुद्राक्षस्रगलकरणो गुणास्तचारुद्राक्षः।
आर्तसमाजपवटभागवतु गुरुर्यस्य हिमसमा जपवटभा॥९०॥
महती काचिन्मुद्रा करगतरुद्राक्षमालिकाचिन्मुद्रा।
निगमादिव्याख्यानस्व्यातत्न्रयवती पुनातु दिव्याख्या नः॥९१॥
पुररिपवे मसितेन स्फुरता लिप्ताय वासवेमसितेन।
धटजन्मारासाय क्रियता प्रणतिर्महत्तराशासयाय॥९२॥
शान्त्या परमो दान्तः स गुरुर्जगतां चकास्तिपरमोदान्तः।
शाम्यति तापः स्मारं स्मारं चरतां यमर्दितापस्मारम्॥९३॥
अञ्चिततहासाननया रक्षन्त्या जातजनिजिहासाननया।
अस्मिभश्च पावन्या धन्या कृपया जटास्तशम्पावन्या॥९४॥
पावनपादपरागः फलघटनधृताक्षकल्पपादपरागः।
इह महसामतिरेकः क्रिडति हतनम्रतापसामतिरेकः॥९५॥
सरमेदि प्रकटाक्षस्रगुपेतकरः प्रसाददप्रकटाक्षः।
जगदधिक पाति शयस्थायि सुधागुण्डिकोऽनुकम्पातिशयः॥९६॥
जननरुजातापघनश्रेणिशरण्यः सुधाभिजातापघनः।
स्वदते मायातीतः शिव एव वरोरूचित्तमायातीतः॥९७॥
एष महीयानवतात्त्रिपुरं जिग्ये यतो महीयानवता।
यस्य च पञ्चाक्षरतस्तरति भयं विषयसप्रपञ्चाक्षरतः॥९८॥
मिलदुमया देवतया जितमधिकसदृक्कथालया देवतया।
सृजति च सेवनमस्याद्युसदामखिलापि धृतरसेव नमस्या॥९९॥
इति सभावयामास नुतियुम्फामतैरियम्।
दक्षिणाभिमुखंदीनरक्षणे रसिकं महः॥१००॥
**चण्डेशमानस्य ततस्तदग्रे चकार तन्वी करतालशब्दान्।
विवासयन्तीव वृषाङ्कभक्तिशालिद्रुहो दुष्कृतपक्षिसङ्घान्॥१०१॥ **
सा मण्डपे शैलभुवो मुहूर्तमतिष्ठदीशानमनुस्मरन्ती।
पुरारिससेवनपुण्यभारैरासादितैःस्पन्दितुमक्षमेव॥१०२॥
तदनु मदनाभियातिसदनादधिगम्य निजनिकेतनमनुमेयमध्यमा सकलभूतसमुदायामोदसमर्पणको- विदमतिमात्रविशद- गोत्रैकमण्डनमकुण्ठतरवृषप्रचारमात्मनेतरमपरमिव ताराधिपशेखरमाराधयामास।
इत्यादिनियमव्रातविध्याहितमहोत्सवा।
दिनानि कतिचित्साध्वी निनाय निमिषं यथा॥१०३॥
अथ कदाचिद्खिलजनतापातिरेकसमापादनदुरितपरिणतेरिव परिक्षीणतामुपेयुषि‚ वासरायुषि, नवकुसुमसभृतकमलिनीपरिरम्भजन्मनो दुप्कृतस्येव निष्कृति विधातुमाचरति चरमसिन्धुसलिलावगाहनमरविन्दिनीपतौ, रविपतनवेगदूरापसृतनीरवाराकरोदरकुरुविन्दकिरणसदोह इव वरुणह्रिरिदन्तरामुपरुन्धति सध्यारागे, संध्यानलकीलचुम्बितव्योमाटवीधूम इव धरणीमण्डलमवकुण्ठयति तिमिरषण्डभावितेजःप्ररोहपटलइव समुन्मीलति दीपिकाजाले, नटनकेलीविहितोद्यमरजनीनर्तकत्रिमुक्तपुष्पाञ्जलिनिकर इव गगनमञ्चति तारकापुञ्जे, सकलदिक्चक्रवालसमाक्रमशिलतमिस्रकोपादिव पाटलवपुषि विजृम्भमाणे विभावरीकुटुम्बिनीबहुलान्धकारपरिपन्थिविजयवीततन्द्रस्यचन्द्रमसो यशबृन्द इव भुवनमानन्दयति मरीचिकन्दले, प्रयातैकयामायां त्रियामायामासादितनिद्रारसानुभूतौ परिणेतरि तदीयपदसदेश एवपतिदेवतेयमाशयनिवेशितप श्यदलीकचरणा सुष्वाप।
द्विगुणीकृतदोर्लतोपधाना तरुणी स्थण्डिलएव सा शयाना।
निजनेतरि निद्रयोपगूढे विदधानेव रुष तदा व्यलासीत्॥१०४॥
ततस्त्रियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि।
अगेन्द्रकन्यापरिणीरमुष्याः स्वप्नेस्वयं लोचनगोचरोऽभूत्॥१०५॥
उच्चावचानां जगतामुपरि स्थितिमानपि।
भद्रासनवरं किचिदध्यासीनः सहोमया॥१०६॥
मौलिमन्विच्छतो बक्रान्मरालस्यपरिच्युतम्।
मृणालवलयतत्र मृगाङ्कच्छद्मना वहन्॥१०७॥
संबिभ्रदलिके किचिच्चञ्चदग्निशिखाङ्कुरम्।
वतंसेन्दुयुधालोभवलज्जिह्वमिवेक्षणम्॥१०८॥
कात्यायनीमुखाम्भोजनेत्रोत्पलविकासिकैः।
आलोकैप्रकटीकुर्वन्नक्ष्णोरर्केन्दुरूपताम्॥१०९॥
सहजक्ष्वेलसौहार्दादधिगत्य गलान्तरम्।
निःसरन्तीमिव सुधा दधानः स्मितचन्द्रिकाम्॥११०॥
केलीपरबशां मूर्ध्निगङ्गामसहमानया।
कण्ठेगाढमिव श्लिष्ट. कलिन्दगिरिकन्यया॥१११॥
कस्तूरिकामिरालिप्यकघरामितराङ्गके।
परागैरिव कार्पूरैः परिक्लृप्तानुलेपनः॥११२॥
मनोवागपरिच्छेद्यमहिम्निस्वस्य तादृशे।
विश्वविस्रम्भणायेव तन्वन्पशुधारणम्॥११३॥
द्वीपिचर्माम्बरालोकत्रासेन मुकुटीविधोः।
निष्करान्तमिव सारङ्गमुद्भीव धारयन्करे॥११४॥
आगतं गिरिजोत्सङ्गादङ्के कृत्वा षडाननम् ।
कराकृष्टजटाजूटखण्डेन्दुमुपलालयन्॥११५॥
विततार विभूषणाहिमौलेर्मणिमादाय मृडस्तदा नताङ्ग्यै।
सुरनाथदिशे सुमेरुपार्श्चादहरारम्भ इवारविन्दबन्धुम्॥११६॥
तादात्विकीभिःप्रमदातिरेकतरकङ्गिणीवीचिपरम्पराभिः।
नीतेव कुत्रापि सुमध्यमाया निद्रा सदैव क्षपया व्यरंसीत्॥११७॥
तथा हि।
भूषामणि दत्तवतः पुरारेश्चूडामणौ स्वार्पणशाङ्कयेव।
शनैर्गलत्यम्बरतो जहास प्राचीदिशा पाण्डुरिमापदेशात्॥११८॥
घनकज्जलकर्दमापदेशान्मलिना मन्दिरदीपवर्तिरासीत्।
प्रमथाधिपति विहाय देवं प्रतिभेव श्रितदेवतान्तराणाम्॥११९॥
दिशिसांध्यरागमपदिश्य हरेः समये समेधयति वह्निशिखाम्।
भयसवृताप्रतिदिशंसपदि व्यघटन्त सतमसगन्धगजाः॥१२०॥
अभ्यस्य ताराकपटाक्षराणा पङ्किं विहायःफलकाधिरूढाम्।
वर्णान्तरन्यासकृते ममार्ज कालाभिधानः किलकोऽपि बालः॥१२१॥
क्षणदाया प्रयातायामपि तस्या मृगीदृशः।
सा दिनारम्भवेलैव क्षणदा समवर्तत॥१२२॥
अनन्तरमरविन्दलोचना सरयमुत्थाय समाचरिततीर्थाभिषेचनविधिरपर्णासखवितीर्णमणिसदृक्षतामिव परीक्षितु प्रभातसमयवणिजा विभावितमम्बरमर्णि प्रणिपत्य कृतकर्तव्यकलापा स्वापावसरविलोकि- तशोभनोदन्तभाषणैःप्राणबन्धुमानन्दयामास।
प्रासादमासेदुषि नीलकन्धरे दुरन्तसतापभिदाधुरंधरे।
दधार गर्भे तनयं धरेव सा करीरमत्युन्नतवंशवृद्धये॥१२३॥
इति श्रीसमरपुंगवस्यकृतौयात्राप्रबन्धचम्पूकाब्ये प्रथम आश्वास।
——————
दिनेषु यातेषु ततोऽमितेषु पचेलिमे तादृशि भागधाये।
वामालका व्यक्तमुवाह गर्भंनिधानमम्भोनिधिमेखलेव॥१॥
सा कृशाङ्गीशरीरेण शरकाण्डविपाण्डुना।
अत्यशेत दिशं पराचीमत्यासन्नविधूदयाम्॥२॥
आह्लादकारिण्यखिलप्रजाना जैवातृके जग्मुषि गर्भसीमाम्।
प्रत्यग्रलोध्रप्सरवाभिराममवाप सा रूपमपश्चिमेव1॥३॥
उदरे किमप्यमृतमुत्पलेक्षणा तपसार्जित तनयनाम बिभ्रती।
अतिसौहितीमधिगतेव भोजने बिभराबभूव विगतादरं मन॥४॥
धृत्वान्ववायाभरणा स्वगर्भेदधौ न सा प्रागिव मण्डनानि।
आसक्तिरर्थषु शरीरभाजा विशिष्टवस्त्वन्तरलम्भनान्ता॥५॥
हन्त मध्यमपरिष्करणार्हवंशरत्नवरभूषितमासीत्।
इत्यसोढवदिवाजनि तस्याःश्यामिकाञ्चितमुख स्तनयुग्मम्॥६॥
कुलाङ्कुरादर्शनखेदजन्मा वामभ्रुवो वक्रविवर्णभावः।
गर्भोदयामोदभुवः प्रसादाद्भीतो नु भेजे कुचभूधराग्रम्॥७॥
साधयिन्स्वेदमिथ्यात्वमर्दयन्मध्यशून्यताम्।
अभर्को गर्भगस्तस्यानिर्ममे समदाद्वयम्॥८॥
कार्श्यं जहौ गर्भगते कुमारे वलग्नमस्याइति किं विचित्रम्।
समृद्धिमाधातुमकिचनेषु संतानशाखीव स हि प्रवीणः॥९॥
अल्पानामपि च महत्त्वमाशु दातुं सर्वेषा प्रकटयितुं च सूष्ममर्थम्।
निष्णातं पृथुकमवोचदस्ययोगात्तन्मध्यो धृतमहिमप्रकाशभावः॥१०॥
वामभ्रुवोमध्यवलित्रयाभ्या किंव्यत्ययेन स्वगुणौदधाते।
आद्यंयदत्राजनि दर्शनीय परं तु वीक्षापदवीमहासीत्॥११॥
विद्यानिधाने सविधं विभूषयति तादृशे।
अतिहर्षादिव जहौनाभिरस्या गभीरताम्॥१२॥
भक्तिमात्मनि विधास्यतः शिशोः पालनाय परमभ्रगङ्गया।
स्थापितेव यमुना तदन्तिके रोमराजिरकुचन्मृगीदृशः॥१३॥
विरलाभरण विपाण्डुवक्र त्रिवलीभङ्गदरिद्रमध्यभागम्।
मलिनीकृतचूचुक मृगाक्ष्या वपुरासेचनक बभूव भर्तुः॥१४॥
जठरविहरमाणमाणवगुणानुसारिः परमाणुमध्यमायाबभूवुरध्यवसायाः।
व्याहर्तुमृदुलाक्षरामपि गिरं वैक्लव्यमुद्रावती
साटोप विवरीतुमैहत वधूः सर्वाणि शास्त्राण्यपि।
रूढाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी-
पूर्वाणि स्पृहयाचकार चरितु पुण्यानि तीर्थान्यहो॥१५॥
पाणिर्बभार किमपि प्रसवापचाये
ग्लानि द्वितीयकुसुमग्रहणेऽपि यस्याः।
सा बिल्वपत्रनिकरैःस्वकरोपनीतै-
रीशानपूजनमियेष मुहुर्विधातुम्॥१६॥
किमङ्गरागेषु परिष्क्रियासु वा तवेष्टमालीति धवेन सा रहः।
कृतानुयोगा निजगाद काङ्क्षितौविभूतिरुद्राक्षमणी विसिनी॥१७॥
प्रियमभिलषितोपहारशीलंनिजहृदये नितरामघत्त साध्वी।
उदरविहरदर्भकोपलम्भव्यतिकरलोभवशादिव प्रविष्टम्॥१८॥
अथाध्युषितकेसरिण्यहिमभासि मेषं गते
कलावति तुलाधरोदयसुपेयुषि स्वामिनि।
स्वतुङ्गजुषि वाक्पतौमकरभाजि मित्रात्मजे
शुभैकजनने दिने सुतमसूत शातोदरी॥१९॥
सिंहिकातनुभुवा सह योगः सांप्रतं मृगपतेरजनीति।
स्पर्धमान इव पुत्रमुदारं प्रत्यपद्यत स पूरुषसिंहः॥२०॥
तस्योदये दातुरवाप लाभबुधो न तत्पुष्यति विस्मय नः।
स्वयं कुजन्मापि धनाधिनाथो भूत्वा स रामामधिगम्य रेमे॥२१॥
विशङ्क्य पृथुकात्ततो निजनिकारमास्ता तदा
कविः स्वभवने हरि शरणमेतु तेजोनिधिः।
अजाश्रयणतत्परो भवतु स द्विजाधीश्चरः
कुलीरसदनान्तरं कथमसौजगाहे गुरुः॥२२॥
निजहृदयकण्टकायमानकुमतमण्डलीसमुद्धरणनिपुणविद्वदवतरणामोदसमासादितप्रसादशालिनीनामाशाबिलासिनीना मुखसरोजनिःसृतो निश्वासविसर इवसहजतुषारसौरभासारतुन्दिलो मन्दमन्दमस्पन्दत गन्धवाहः।
अथारविन्दोपममायताक्ष सुतानन सुन्दरमीक्षमाणा।
तपांसि सर्वाणि तदात्वहर्षे प्रसूरपर्याप्ततमानि मेने॥२३॥
क्षणमीक्षणमुद्रणा तदानीं न विमुञ्चन्नयमर्भको व्यलासीत्।
निजसूतिविलम्बस्वेदिताया वदनं मातुरवेक्षितुं विलक्षः॥२४॥
सुकुमारपाटलकरं निजोदरादुदित वितीर्णजनलोचनोत्सवम्।
अरुणं तमङ्कभुवि पङ्कजेक्षणा दधती पुरंदरदिशेव सा बभौ॥२५॥
निहिताः पुरतो निविष्टदीपा शुभयष्टीरपदिश्य सूतिगेहे।
अभजन्फणिनो नु रत्नचूडा हरभूषाहिमणेरमु विवर्तम्॥२६॥
अथ तदानीमङ्कुरितं इव मङ्गलावेदनकुतूहलमन्थरेतरपुरंध्रिकुलसजल्पितौः, पल्लवित इव नानाविधदानविस्तारैकोरकित इव विविधराजयोगविभाजकसैद्धान्तिकलोकसूक्तावलिभि, फलित इव द्विजाशीर्वचोभिर्विरोषैररोषमपि बन्धुजनमानन्दमनयत तनयोत्सव।
गुरुरादरादथ कुमारमैक्षत प्रमथाधिनाथमिव वालताजुषम्।
रुरुटङ्कसवहनरुढवासनाकृतमुष्टिवन्धविलसत्कराम्बुजम्॥२७॥
प्रागेव कण्ठनिनदेः श्रवणाभिरामै-
रावेदितामथ विलोचनलोभनीयैः।
आम्रेडितामवयबैरथ भाग्यवत्ता
निर्धार्य तस्य जनको नितरां ननन्द॥२८॥
स क्षोणीविबुधो मन्त्रैरक्षोनिरसनक्षमैः।
पूतजन्मभृतस्तस्य जातकर्मविधि व्यधात्॥२९॥
असौ पुनरवनीसुरकुमारको मुहुःसमाराधयिष्यति मामिति हृष्यन्मना इव दमुना हविर्ग्रहणकर्मणि तत्क्षणं प्रदक्षिणावर्तशिखः प्रणनर्त।
तस्य वाधूलसंतानतपसमुदयाकृतेः।
धर्माभिधानकरणात्पितृभ्यां दर्शितौचिती॥३०॥
नयनायुधनर्मगेहर्मतत्परिपाल्य भवतीति शार्ङ्गिणेव।
वृहति स्मनिवेदित स धीरो हृदि पञ्चायुधभीषण मनोज्ञम्॥३१॥
अमृत नमःसरित एव सूनवे दिशति सं सा धृतसुरोजकुम्भयोः।
सं विहाय वारि सकलकथं भवेत्परथा तदेकभजने कृतादरः॥३२॥
साधुसंघटितसुष्टिबन्धनं प्रयहाञ्चितपयोव्रतक्रियम्।
आत्मसूनुमसकृत्प्रसूर्मुदा पश्यति स शिशुभावदीक्षितम्॥३३॥
कठिना मलिनीकृता पदाभ्यामवनी स्प्रष्टुमवेक्षितु च दृष्ट्या।
घृणया मुहुरुद्यताङ्घ्रिरासीदपि चोत्तानशयः स पूतजन्मा॥३४॥
कुत्रापि धामनि कुलर्दिसुतासनाथे
दृष्टि मुहुस्तरलतारहितां निधातुम्।
अभ्यस्यतेव पटुताममुना व्यलोकि
निष्पन्दपक्ष्मनयनेन निशि प्रदीपः॥३५॥
मातृवल्लिकुचमञ्जरीभृतामाकरन्दलहरी धयधयम्।
पाणिपङ्कजवनीषु योषिता खेलनं व्यधित बालषट्पदः॥३६॥
जनकः कृतजानुयानकेलितनय वीक्ष्य तस्मादरोत्तरङ्गः।
चतुरश्चरणान्निधाय धात्र्याविहरन्त वृषमेव मन्वते स्म॥३७॥
जानुद्वयीचङ्क्रणक्रमेषु रत्नस्थलीलक्षितमात्मबिम्बम्।
हस्तेन सताडयति स सोऽयमात्मीयसाम्यासह एव बुद्ध्या॥३८॥
पञ्चषाण्यथ पदानि निधातुं प्रस्स्वलच्चरणपल्लवमेषः।
प्रा[र]भन्नपरमस्फुटनीयद्वर्णवल्गुतरमप्यभिधातुम्॥३९॥
अजनि खुरलीकेलिस्तीर्थाभिधावनकर्मणि
त्रिचतुरपदन्यासक्रीडैव तस्य गृहाङ्गणे।
फणितिरभवन्नान्दी स्पष्टेतराक्ष[र]मञ्जुला
विबुधहृदयग्राहिव्याहरनाटकनिर्मितौ॥४०॥
तन्वीपयोधरपयःकणिका निपत्य
तस्थाभिरूप्यजनर्धेर्मुखशुक्तिकायाम्।
मुग्घद्विजाङ्कुरततिव्यपदेशशालि-
मुक्तात्मना परिणति किलबिभ्रते स॥४१॥
तस्यालकप्रकरकुण्डलपद्मराग-
मन्दस्मितद्युतिमिरुन्मिषिता त्रिवेणीम्।
पित्रोरजस्रमविगाह्यमनोविषाद
तत्याज ससृतिपथभ्रमणोपजातम्॥४२॥
अयं पुनरवनिनिलिम्पशावक शुभसमयनिर्व्यूढचूडामङ्गलोनिरङ्कुशविहारकेलिनिर्माणतरलमानस समानवयःसनाथमाणवमनःसमभाजनखेलनापहृतगृहोपकरणायासितवामालकाजन वचनसीम्नाति- लङ्घितकुतूहलंकौमारमभजत।
सध्रीचीनकुमारकैरमिवृतश्छात्रायमणैःस्वय
शास्त्रकरणाभिनीतिमकरोदारोपिताचार्यकः।
काशीति त्रिदशापगेति कलयन्विश्वेश इत्यप्यसौ
केल्यामाकलयति स पासुषु पुरी शैवालिनीदेवताम्॥४३॥
क्रीडां विधाय पृथुकैर्गृहमापतन्तं
क्लान्तं क्षमातलरजोभरदूषिताङ्गम्।
आरोप्य वक्षसि कुमारममुं करेण
स्विन्नतदीयवदनं जननी ममार्ज॥४४॥
हरस्तुतीनां गुरुकीर्तितानामनूक्तिभिः प्रीणितया जनन्या।
प्रदिष्टमिष्ट कमते स्मबालःसहैव गण्डस्थलचुम्बनेन॥४५॥
कुशाग्रबोधो गुरुणा ततः सकृत्प्रकाशिता वर्णपरम्परामसौ।
मनोऽप्यनाविष्कृतमस्थ किचिन्महीसुराग्रेसरसूनुरग्रहीत्॥४६॥
पुनःपुनर्भूमितले स बालोवर्णावलीविन्यसन व्यतानीत्।
विधाय शङ्के बहुधा परीक्षा पञ्चक्षरीसग्रहणं प्रणेतुम्॥४७॥
अन्वितानि शुभस्पर्शेरन्तरूष्माश्वितान्यपि ।
व्यञ्जनानि बटोर्जिह्वासस्वरं समसेवत॥४८॥
तदनु निटिलेक्षणाभिधामुपदेक्ष्यमाणमन्त्राधिदेवतामिव विभावयितुं कुबेरदिशामासेदुषि वासराधिपतौभूसुरापत्यमिदमध्यापयितुमिव कलाकलापमह्नाय सगृह्णति द्विजाधिराजे निजापचितिभागामिनीमिव परिग्रहीतुमाविष्कृतप्रकाशातिरिकेषु कविगुरुपुरोगेषु समागते च शिवतातिदिने जनक एष कृपानिधिरेनमुपानयत।
स निर्मलात्मा गुरुणा समाहित त्रयीनिदानं तदवाप्य वाङ्मयम्।
अशोभत स्वैरममीशुमालिना शशीव सचारितमशुमण्डलम्॥४९॥
स यज्ञसूत्रच्छलतस्त्रयीमधान्मुखस्फुरन्मात्रसमावृतक्षमाम्।
पराभिचारप्रतिपादनाविलामृषेतरोक्तिं च मृगत्वचोमिषात्॥५०॥
तत्तादृशी गामिव तातदत्ता पातु नियन्तु च स बालवर्णी।
पाणौदधाति स पलशदण्ड मौञ्जीकटीसीमनि मेखला च॥५१॥
शशिपाण्डरेण समिदग्निभस्मना विहितास्त्रिपुण्ड्रविततीरयं प्रति।
प्रथमागमे गिरिशभक्तिसंपदो रचिता इवाप(ह)रत रङ्गवल्लिकाः॥५२॥
कल्लोलिताद्भजनकर्मविलम्बनेन
कोपादिव प्रकटगुम्फितशोणभावे।
सप्रीणयन्निव सुहुश्चरणारविन्दे
पित्रोरवन्दत कृती प्रवदन्निजाख्याम्॥५३॥
उपसग्रहणच्छलादसौयुगलेनात्मकरारविन्दयो।
स्वकृतेबहुतीर्थचारिणी किमुपित्रोः समवाहयत्पदे॥५४॥
द्राघिष्टमायुस्तनये निधातु प्रकाममिच्छाभरितेन पित्रा।
अस्यप्लुतालकृतिमौलि नाम प्रायुज्यत प्रत्यभिवादनेषु॥५५॥
समाश्रितस्वाङ्घ्रिसरोजनावं कुमारमेन गुरुकर्णधारः।
प्राचीनवाणीकृहनापयोधेः पारं मितैरेव दिनैरनैषीत्॥५६॥
वाक्यैर्विवृण्वती भाव वल्गुस्वरपदक्रमैः।
कण्डमेतसय सुदृढ कान्तेव श्रुतिरग्रहीत्॥५७॥
अपि च अस्य निपुणदेशिकोपदेशसलिलविमलीकृतमतिरहिराजवचनकुटजाटवीनवजीमूतमालिकां साहित्यवाहिनीपतिशीतद्युति कौमारिलवचोरसालकुसुमाकरश्रिय निगमान्तकुमुदिनीधवदिवसा- न्तसमयलक्ष्मीमक्षचरणपक्षराजीवतापनरोचिरश्छटा प्रौढिमाढौकत।
कविवाचस्पतिबुधा कलयापि न तत्समाः।
मूढता मुहुरेतेषामापतत्यनियन्त्रणा॥५८॥
निःसीमपश्यन्निटिलानुभावप्रकाशन प्रत्युपकारयन्ती।
स्वशीलिनसततमस्य मोद वेदादिविद्याविततिर्व्यतानीत्॥५९॥
अस्य पुनरभ्यस्यतः कला गुरुतर्कनिवासजनुषमुरुतरक्लेशमसहमान इव शनै शनैरपसरति शैशवे सकलकलाधिकारसहकारिबालतापनोदपरिणतं क्रोधमपनेतुकाम इव कामरिपुचरणपरिचरणोपकर- णाना करणानामतिनिपुणिमानमुपपादयन्नवतरुणिमा वपुरसोढकुसुमायुधमसेवत।
स्वभजनोचितवस्तुविवेचनंसमभिलष्य किमस्य विलोचने।
श्रवणयोरवकर्णितशास्त्रयोः सविधमूमिमभूषयतामुभे॥६०॥
ककितस्पृहमेव कालकण्ठस्थितिपर्याप्ततमावकाशभावे।
अदसीयहृदन्तरालमासीत्परिणाहातिशयप्रणीतशोभम्॥६१॥
बारोऽयमाजानुविरुम्बिबाहुरालोकिलोकैरतिरूपशाली।
आराधनैःप्रीणनमात्मशन्रोः कर्तुक्षितौ कोम इवावतीर्णः॥६२॥
तदनु द्विजकन्याया धन्यायाः सदृशैर्गुणैः।
सतानसपदे तेन पाणिमग्राहयत्पिता॥६३॥
पार्श्वभूषा भवानीव पद्मेव हृदयगमा।
सरस्वतीव सा मुख्या भर्तुरासीत्पतिव्रता॥६४॥
अजायत तयाक्रान्तममुष्य हृदयं तथा।
यथान्तरं न विन्देरतन्नीषदप्यन्ययोषितः॥६५॥
शुभलक्षणशोभिन्या भावनापरिशुद्धया।
पुरंध्य्रासोऽरुचद्वेदः पूर्वमीमासया यथा॥६६॥
अहो महीसुरभुवोमहाभागस्य भागधेयपरिपाकः, यदेष मदनगजराजमदभेषजे रजोभरविजृम्भमाणमातरिश्वनि विषयमृगतृष्णिकाज- लविभावनोष्णसमये तमोविकारसपादननिशाव- तारसपदि कुपथावगाहघटनहरिन्मोहगौरवे पटुतरविवेकिशाखिपाटनविधानहस्तिनि तत्तादृशि वयसि वर्तमानोऽपि भगवति मृगाङ्कशेखरे समनोनदीललामनि सुदतीमयार्धविग्रहे महती भक्तिरजनि।
चन्द्रमसि चन्दनतरौसुदृगाश्लेषे सुधांशुभूषे च।
स्निह्यति न कस्य चेतः कठोरसतापकन्दलीहरणे॥६७॥
अनूढभसितो मन्रेरशीलितषडक्षरः।
अपूजितपुरारातिरभुङ्क्तन कदाप्यसौ॥६८॥
आगामिनामङ्गजवैरिमेघेहृदम्बरालम्बिनि हर्षवृष्ट्यै।
पौषैकहेतुं पुलकाड्कुराणामभूषयद्वात्रमसौविभूत्या॥६९॥
नदी महोक्षं शिक्षिराशुरेखां वाताशनेन्द्रं यजन च भूतैः।
वाञ्छन्स पश्चाक्षरमल्न्रलक्ष्यादाचष्ट तद्वाचि पदादिवर्णान॥७०॥
शंभोरजस्रंजलगन्धपुष्पेराप्लवनालेपनमण्डनानि।
आत्मीयतापत्रितयापनीतिं विधातुकामः स कथं व्यतानीत्॥७१॥
अन्नमर्पितमगात्मजापतेरस्तुतं प्रतिनिलिम्पभोजनम्।
अद्भुतं तदनिवेदित त्वभूदोदनोऽयममुनैवसेवित॥७२॥
सरिद्वतंसस्यजलाभिषेको बालेन्दुमौलेप्रसवोपहारः।
स्यात्कि मुदे तस्य कृते मयेति समादि(धि)दम्भादकरोत्स चिन्ताम्॥७३॥
भक्तेषु प्रमथपतेः पदार्चनाया पर्याप्त बलिसुतमेष मन्यते स्म।
पौलोमीपरिवरदमुत्सवावलोके व्यालेन्दु विविधगुणप्रशंसनेषु॥७४॥
चेतोनिविष्टस्य सिताशुमौलेपरिच्युतं मौलिपदात्स्वगर्भे।
प्रालेयधामानमदच्छ(श्छ)लेन प्रासूत धन्या भवन कु(क)लानाम्॥७०॥
अनिशंगिरिशातिवादशील परमेष्ठी किममु प्रणेतुकामः।
अपदिश्य घटीभवादिसर्गान्पठिमाभ्यासविधिं परं वितेने॥७६॥
किमेष नन्दी शिवधर्मवक्ता कि वा कुमार श्रितनीलकण्ठः।
आहो मुरारिकृतदृष्टिरीशे पार्थोऽथवा पाशुपताभिमानी॥७७॥
एवमुत्प्रैक्ष्यत जनैरेधमानकुतूहलैः।
बाल एव परा कोटि शिवभक्तेःश्रयन्नयम्॥७८॥
अपि सकलर्थविदोऽभूदर्थत्रयमेव चिन्तनीय मनसि।
मोहोच्चाटनमूलिका तनुभृता मुक्त्यङ्गना कारणा
दूती भाग्यवतामधर्मकलमस्तोमावसादस्थली।
लीलाताण्डवशालिका पशुपतेर्लक्ष्मीमणीपेटिका
कस्मिञ्जन्मनि लोचनातिथिदशागाहेत वाराणसी॥७९॥
कैवल्यामृतकन्दली वसुमतीकान्ताप्रसूनस्रजं
मौलिक्षौमपटी हरस्य हिमवन्मातङ्गशुण्डालताम्।
स्वर्गारोहणमागेमौक्तिकशिलासोपानपारम्परी
भाग्यैरभ्यधिका जना भगवती प्रश्यन्ति भागीरथीम्॥८०॥
सुखनिधिमपहत्य मायया स्वयमतिसनिहितोऽप्यलक्षित।
सुकृतिभिरधिकाशि गृह्यते श्रुतिकथितः स हि तस्कराग्रणीः॥८१॥
** अकथयच्च सच्छात्रान्।**
तीर्थावगाहस्थितिकल्पनायामर्चाविधौवा यदि वोऽभिलाषः।
नदीषु गङ्गीनगरीषु काशी देवेषु विश्वेश्वरमाश्रयध्वम्॥८२॥
**जिज्ञासवे श्रुतिशिरोनिकरान्प्रवक्तु-
मादौ यदक्षरमुपाददते महान्तः।
श्रोत्रे तदेव विनिवेद्य जनान्भवाब्धे-
रुत्तारयन्तमुपधावत विश्वबन्धुम्॥८३॥ **
अधिकाशि देशिकानामवतसमणि तमेव सेवध्वम्।
यो रहसि किचिदक्षरमुपदिश्य जनान्करोति सर्वज्ञान॥८४॥
अथ भक्तिवशादमुष्य काशी प्रति यातु स्पृहयालुचेतसोऽपि।
अभवज्जनकाङ्घ्रिपद्मसेवानियमातिक्रमभीतिरन्तरायः॥८५॥
असौ पुनरात्मपितरावेव महीधरापत्यकुसुमास्त्रशासिनौ तदधिवासुमतीमेव सुरस्रवन्ती- मनुचिन्तयन्यथोदितसमयविधेयनियतकार्यपरायणमनाः सूर्यनारायणसमरपुगवाभिधानाभ्यामसमानविनयधुर्याभ्या सोदर्या-भ्यामश्रान्तरचितचरणारविन्दपरिचरणो निरवधिस्नेहपरिवाही जनकविहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधि-कानुरोधविधिरतिमहान्तमन्वमूदानन्दम्।
सौभागिनेयः स तदा शोभायैश्रुतिसपदाम्।
असेवत शिवाकल्पकल्पमप्पय्यदीक्षितम्॥८६॥
पुस्तककरा बुधावलिररुचव्द्याख्याकृतः पुरो यस्य।
पटुवाङ्मुखग्रवाहप्लवनावष्टब्धपोतफलकेव॥८७॥
निन्दति मकरन्दरसं न्यक्कुरुते शर्करां पयो जयति।
मोचामदमाचामति वाचामधिपस्यवैखरी यस्य॥८८॥
यन्मुखविगद्वाड्युखसुरपुरतटिनीजडीकृता विदूषाम्।
फणितिर्दन्तपटाभ्यामजीघरद्गाढमात्मसवरणम्॥८९॥
वादिमतपुण्ड्रवाटीनिष्पीडननर्मयुक्तियन्त्रेण।
भुवि यः सृजन्नजृम्भयदवदातं ख्यातिफाणितव्रातम्॥९०॥
यस्य च मनीषिणामग्रगण्यस्य शिबिकाग्रसीमनि वैतालिकिवदननिःसृता सरस्वती शश्वदेवमश्रौषम्।
दुरभ्यस्तविद्यालवेनापि केचिद्दुरन्तामहन्तामयन्तां कृत तैः।
प्रशस्ते कवित्वे समस्तेऽपि शास्त्र भवत्यप्पयज्वावतसात्कृती कः॥९१॥
रे रे मुञ्चत धावनानि विमताः सेवध्वमङ्घ्रिद्वयी-
मप्पय्यध्वरिणो घटेत भवतामेतत्प्रसादस्तदा।
तुष्यन्त्यक्षिगतेष्वपि प्रपतनास्सन्तसमद्धागस
काकस्यानतिकारिणो हि दयते कि नो रघूणां प्रभुः॥९२॥
यश्च सकलविपश्चिदावलिधुरंधरो वसुंधरोल्लङ्घनजङ्घरशोभापिचण्डिलौर्यशोमण्डलैर्यारजगर्हद- भिनवकेतकबर्हम्, अवनीवलयानन्दसदायकविलासकौर्गुणविलासैरजिह्रिपदम्भोजदुर्हृदम्, तिवेलक- लितसपर्यापरिचर्याभिप्रीणदगराजकन्यकाप्रणयिनम्, अचलगुहाविहरदिभरिपुगर्जितोर्जितप्रणादैवो- दविनोदैरततक्षदहितविबुधदाक्ष्यम्, अनवरतायातयाचकप्रियंकरणैर्वितरणैरचकम्पद शेष- दातृयशः सम्भम्, अङ्घ्रिपङ्केरुहसेवाहेवाकमण्डलितान्पण्डितानललङ्घदागमसागरसागरसघम्, अनवद्यविद्या- विशेषभूषणमञ्जुषया सनीषयाचचर्वदमरगुरुगर्वम्,
यस्याजस्रमुदित्वरेण हविषाक्रान्ते दिशामन्तरे
तस्तम्भेकुमुदस्मयेन चकृशेताराधिपच्छायया।
सस्रसे शरकाण्डपाण्डुरतया मम्ले मरालश्रिया
बभ्रशे ब्रिसकान्तिभिर्विजगले डिण्डीरखण्डांशुभिः॥९३॥
यत्कीर्तिप्रकरद्विपस्यविहृतिस्थान जगन्मण्डलं
घण्टे चण्डमयूखशीतकिरणावालानमद्रीश्वरः।
कक्ष्या व्योमतरङ्गिणी वमथवस्तारागणाः सप्तधा
निर्मुक्ता मदवारिनिर्झरपरीवाहा पयोराशयः॥९४॥
कर्णःश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयञ्शातकुम्भ-
स्तोमं हेमाभिषेकप्रणयनसमये यस्य मूर्ति प्रशस्याम्।
रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते-
र्विद्याकल्पद्रुमस्य स्वयमिव कलयज्ञातरूपालवालम्॥९५॥
नीलकण्ठमतनिर्वहणोत्कदुक्तिवृष्टिमुपलभ्य तदभ्रात्।
ईशयोग्यमयमाशयभूमौबोधशालिभरमेधयति स॥९६॥
अहो विबुधवर्गाय सकलाःसकलाअपि।
दिशन्ननिशमेताभिर्द्विजाधिपतिरैधत॥९७॥
इति श्री समरपुगवस्य कृतौ चम्पूकाव्येद्वितीय आश्वास
——————————
तृतीय आश्वास।
शक्तिमस्याभिरुपस्य सकलागमशोधने।
पटीयसीमिवामृष्यन्प्रादुरास मधुस्तदा॥१॥
मध्येवनं भूरिदिनोपजातमौनव्रातानां कलकण्टयूनाम्।
समग्रवाग्वैभवसंप्रदायससिद्धिहेतुः समयो जजृम्भे॥२॥
दिनान्यभूवन्नवरीधुनापि विना जनानां मदसाधनानि।
कदर्पबाहाविजयाङ्कगीतसदर्भनिष्णातशिलीमुखानि॥३॥
मधौ मिलत्संपदि क्लृप्तभावा सीदद्वि ति शिशिरं धरित्री।
शनैः शनैर्यद्विजहौ वधूनां साधारणीनां प्रकृतिः किलेदम्॥४॥
वियन्महोदन्वति दक्षिणाशाव्यापारभाजस्तरणेर्निवृत्तिम्।
तदात्ववातानुगुणा ततान सायात्रिककि समयाभिधानः॥५॥
शीम्ना जडिम्नशिशिरेण दत्तामात्माकृते सकुचितामवस्थाम्।
दिनानुपूर्वी त्यजति स्म जाते सुखैकहेतौसुभगे वसन्ते॥६॥
स्वीकर्तुमुर्वी शिशिरर्तुभूपे विजम्भमाणे भृशविस्तृतामिः।
गते तु तस्मिन्क्षणदाभिधाभिर्निमीलित नीलपटीकुटीमिः॥७॥
प्रादुर्भवन्ती बहिरब्जिनीना सवर्तिकासहतिराबभासे।
नीहारवर्षात्ययनिर्णयाय प्रसारिता पाणिपरम्परेव॥८॥
मनो वशीकुर्वति माधवेन व्यक्तीकृते कोकिलवशनादे।
वल्ली मुधा बल्लवसुन्दरीणां पटैरिवाभ्रश्यत पाण्डुपर्णै॥९॥
तपोनभस्वत्प्रभवेन क्लृप्ता त्रासेन नीहारसमावृति वा।
वसन्तविश्लेषवलक्षपातां जहौ जरत्पत्रमिषेण वल्ली॥१०॥
समं पुराणच्छदनैर्लतानामणूदरीणामतिधैर्यभारम्।
बालानिले मुष्णति पल्लवेषु बभूव चित्तेषु च रागबन्धः॥११॥
समीरण चापलक्लृप्तपाण्डुपर्णाशुकाकर्षणपारवश्यम्।
वल्ली वलत्पल्लवपाणिनेव निवारयन्ती नितरां चकाशे॥१२॥
आरामसीमामधिजम्मुषे नु दातुं वसन्ताय गणैस्तरूणाम्।
प्रवालकौसुम्भपटोपहारसनाथशाखाग्रकरैर्बभूवे॥१३॥
पर्यायतः पाटलमञ्चरीषु चरन्त्यलीनां पटलीचकाशे।
तत्तन्मधुस्वादिमतारतम्यविवेचनायैविहितोद्यमेव॥१४॥
अनङ्गबाणावलिरध्वनीनवान्तेषु शोकज्वलनाकुलेषु।
निपातजात किलनीलिमान निलीनलोलम्बनिभाद्बभार॥१५॥
माकन्दवाटीषु मधुव्रतानां कुलंवितेने कलकूजितानि।
पिकावलेरञ्चितपञ्चमायास्तानार्पणायेव धृताभिलाषम्॥१६॥
गलन्मरन्दप्रमदाश्रु गीतमाकर्णयन्कौकिलमाभ्रशाखी।
शाखाञ्चलेनानिलचञ्चलेनश्लाघाचलन्मौलिरिव व्यलासीत्॥१७॥
क्रोशन्तमिन्दिन्दिरघोषलक्ष्यात्पिकारवालोलितया प्रसाद्य।
समीरपोतं सहकारवाटी धन्या मधुस्तन्यरसैरपुष्णात्॥१८॥
सकिङ्किणीकः कलचच्चरीकैः प्रसूनधूलीपरिधूसराङ्गः।
अङ्कानुपारुह्यदिगङ्गनानां बालानिलः साधु बबन्ध लीलाम्॥१९॥
वने वने वल्गुगिरां पिकाना कलस्वनाकर्णनकौतुकंवा।
परागपालीषु परिभ्रमो वा मरुद्विहारेऽजनि मान्द्यहेतुः॥२०॥
पिकद्विज च स्पृहणीयवाच मत्तद्विरेफं च मधुः पुपोष।
सतो गुणानप्यसतोऽपि दोषाञ्जात्या विहीनो न विवेक्तुमीष्टे॥२१॥
वसन्तलक्ष्म्यावनकेलिभाजो लाक्षारसार्द्राः पदपङ्क्तयोवा।
छिन्नस्य वा किंशुककैतवेन शीतस्य रेजुः सरसैकदेशाः॥२२॥
पान्थप्रियालस्यभरैकहेतोरपि प्रियालस्य गणानभिज्ञाः।
उत्तानचित्ता भृशमुत्पलाक्ष्यों गानैर्विकासं घटयाबभूवुः॥२३॥
दृष्ट्यावधूनां तिलकद्रुमस्य स्वच्छन्दमासीत्सुमनोविलास।
सचेतनानां किमु शम्बरारिशरावलीजर्जरिताशयानाम्॥२४॥
निश्वासवातेन नितम्बिनीनामुद्भावितोपस्कृति सिन्दुवारम्।
अलचकार श्रवण यदासा कृतज्ञभावानुगुणः किलेदम्॥२५॥
सनर्महासाङ्कुरचन्द्रिकाणामणूदरीणामनुकुर्वतेव।
नमेरुणाभूयत सस्मितेन जनस्य चित्तेन तु विस्मितेन॥२६॥
स्वस्मिन्वधूभिःसुदृढोपगूढे विटान्प्रहर्तुविहिताभ्यसूयान्।
अस्त्रावनि नूनमनन्यजाय कदम्बक कौरवकं व्यतानीत्॥२७॥
कङ्केलिसालःकमलेक्षणानामङ्घ्रे प्रणीताभिहतेर्निपीताः।
वमन्प्रवालान्व्यपदिश्य लाक्षा स्पष्टं वितेने निजपादपत्वम्॥२८॥
तत्तदृश भाजनमङ्गनाना हस्ताम्बुजस्पर्शनगौरवस्य।
तत्पादघातैकपदं प्रसुनैस्तरुंजहासेव रसालसाल॥२९॥
अलिद्विजैरादरणीयनादव्याजेन क्लृप्तस्मरवेदपाठैः।
मन्ये न वन्या मदिरानुषङ्गकलङ्किता गन्धफली सिषेवे॥३०॥
मघुश्रियकाञ्चनकर्णिकेव मनोभुवो हैममिवातपत्रम्।
आलोकि लोकैरबलाजनोक्तिकार्यस्मितालकृति कर्णिकारम्॥३१॥
नीलालकावक्रनिपीतशेषहालारसापादितहासशाली।
मदोदयभ्रान्तमधुव्रताक्षः शाखी जनस्याजनि कामपालः॥३२॥
सेतु प्रति प्रतिष्ठासा शिष्टसूनोरथोदिता।
काशीगतिकलाधीतैरादौप्रणवतामधात्॥३३॥
ग्रहैरशेषैःकलितानुकूल्ये लग्नेपितृभ्यां रचिताभ्यनुज्ञः।
मान्यैकृतखस्त्ययनो मनीषी प्रातिष्ठत प्रेक्षितसन्निमित्तः॥३४॥
तमनु प्रस्थिता धन्या तादृशप्रेमशालिनी।
व्यद्योतत मनोवृत्तिः पित्रोरिव सहायिता॥३५॥
कथाभिधानैः सुहृदामुदारैरसभृताध्वश्रमसपदेष।
आवासमद्वैतरसालनेतुराकल्पमुर्व्यापुरमभ्ययासीत्॥३६॥
अथ तस्य नयनपथमासीदति शुनासीरवसतिरपि भूषितमहीतला, समधिगतदक्षिणपथापि सर्वोत्तरखभावा, पावनतरानुभावापि पल्लवेषु कृतस्थितिः, अयोध्यापि भोगवती, विशालापि मथुरा, महोदयापि द्वारवती, वाराणसीव वरणोपवेष्टिता, वस्वोकसारेव धनदोपशोभिनी, वार- वधूटिकेव वशीकृतधूर्तावतसा, कसारिमूर्तिरिव कमलाकरोपगूढा, रूपकपरम्परेव रुचिरविधिविराजिता, सगीतविद्येव सारङ्गनाटिकावती, पार्थसमृद्धिरिव पाञ्चालिकाञ्चिता काञ्चीपुरी।
स्पर्धाविधाय प्रभुणा गिरीणा सवर्धमानोदिवि यत्र सालः।
विचिन्त्य विन्ध्याचलशासिशक्ति तिष्ठन्निवाभाति भियार्धमार्गे॥३७॥
आनन्दामृतनिधिमर्धचन्द्रमुद्र भोगेन स्फुटमभिवेष्ट्यसालनाम्ना।
पूर्वार्धभुजगपतेरिव स्थितस्य प्रोत्तुङ्ग विलसति गोपुरं यदीयम् ३८
यद्गोरोपुरं निशि समुच्छ्रितशृङ्गसीम-
विश्रान्तशीतकिरणच्छुरितं दधाति।
पद्मासनस्फटिकपात्रपतज्जलौघ-
सप्लाव्यमानकमलासचिवाङ्घ्रिलीलाम्॥३९॥
महीयसा गोपुरमन्दरेण प्रमथ्य सिन्धुं परिखाभिधानम्।
आसादितस्येवनवामृतस्य तृप्यन्ति यत्र स्थितिमादधानाः॥४०॥
प्रतप्तजाम्बूनदपेशलाभिः पराजितायत्प्रमदातनूभिः।
सौदामिनी साध्वसपारवश्यादश्रान्ततारल्यमहो जिहीते॥४१॥
कुचाश्चले लोचनकोणभागे कचान्धकारेऽपि च कामिनीनाम्।
जागर्ति यत्राहितसंनिधानात्पिनाकिनो भीतमना मनोभूः॥४२॥
शश्वत्प्रतोलीसरणीषु कामं परम्परा भ्राम्यति यत्र यूनाम्।
शतोदरीलोकदरावलोकसमोहनास्त्राहतिविह्वलेव॥४३॥
प्रविश्यतां विपश्चितामपश्चिमोऽयमाश्चर्यवीतमतिरेतदवादीत्—अशेषजननयनयोग्यममुष्या, किमपि सौभाग्यम्, यदवलोकलोलुपतया भृशमनेकपशैलराजशिखरमरविन्दलोचनोऽपि भगवान्प्रतिदिवसमधिवसति।
वाणीसहचरस्यास्य वाजिमेधाध्वरक्षितौ।
गोपुरावलिकूटेन भाति युपपरम्परा॥४४॥
अस्याः प्रभावेण जनस्य वाणी मन्दापि धाटीमधिगन्तुमीष्टे।
विधेः प्रिधेयोदाहरण किलात्र सा मन्थरा वेगवती भवन्ती॥४५॥
प्रसार्यनानाविधपण्यजात प्रातः क्षपायामुपसहरन्ति।
इय पुरारेरनुयाति लीला प्रपञ्चसर्गप्रलयैकशीलाम्॥४६॥
शरीरिणोऽस्या मणिसाल्गर्भप्रवेशनिष्क्रान्तिशतापदेशात्।
विवोढुमह्नाय विमुक्तिकन्यामाकृष्य जन्मान्यनुमुञ्चते किम्॥४७॥
कल्याणसतानतरुं कयापि श्लिष्ट जगन्मङ्गलकल्पवल्ल्या।
आसीनमस्यावरणालवाले फलार्थिनः केऽपि भजन्ति धन्या” ४८
तत्पूर्वतीर्थयानोऽपि तत्र भूसुरनन्दनः।
समवर्तत निर्व्यूढसर्वतीर्थावगाहनः॥४९॥
अथ वेदशिरोनिष्ठानपि तीर्थातटीजुषः।
अनङ्गीकृतकन्दर्पानपि सत्याश्चितेक्षणान्॥५०॥
अपि माधुकरी वृत्तिमञ्चतो भ्रमवर्जितान्।
अपि निःसामकारुण्यानक्षनिम्रहनिर्दयान्॥५१॥
शाम्यद्विषयसचारानपि प्रव्रजनाश्रयान्।
राजहंससमारब्धसेवानप्यजडाशयान्॥५२॥
रुषमहसि विद्यासु लोभमात्मनि रागिताम्।
अज्ञत्वमन्यनिन्दासु यतोऽपि जितषड्रिपून्॥५३॥
शर्वरीसमयारम्भानिव सभृततारकान्।
भीमसेनभुजाटोपानिव दण्डितकीचकान्॥५४॥
अनल्पभसितालेपविलसद्विग्रहाञ्छुचीन्।
प्रावृट्प्रशमिताटाट्यान्वरहसधुंरधरान्॥५५॥
असमुत्तम्भितप्राशूनधौतविमलात्मन।
अखातगम्भीरतरानहिमाक्रान्तशीतलान्॥५६॥
कदम्बमुकुलाकोरै’ कण्टकैरुपशोभितान्।
तेरिव॥५७॥
तत्र कुत्रचन स्थास्नूनवनीपावनाकृतीन्।
कर्मन्दिन प्रणम्यैष गाहते स्म महोन्नतिम्॥५८॥
भृतकल्याणगुणानपि परकनकरुचित्यजोऽपि सर्वज्ञान्।
अपिना ` “““ *““ भवानपि महोराशीन्॥५९॥
शैवालापसमग्रान्भ्रमरहितान्प्रकृतिसमधुराजीवान्।
विमलान्तरङ्गवार्तान्प्राप्तानिव पुण्यकासारान्॥६०॥
उन्मत्तपत्रपुष्यैरुत्पादितविभ्रमादनड्गरिपोः।
आदातुमीहमानानावृतमानन्दमिव च सर्वस्वम्॥६१॥
सकलागममधुदिवसाञ्श्रीकण्टासक्तकसवैरिभुजान्।
नवभूतिश्रीदगृहान्पुरुषानभजत्परत्र सुधी॥६२॥
आर्यसेवी स निध्यातुमगादेकाम्रनायकम्।
वर्धते सुकृतश्रद्धावार्धक वरिवस्यताम्॥६३॥
ततः क्रमेण समतिक्रम्य कतिचिदेष कक्ष्यान्तरांणि साक्षादकृत।
कृतकेतरादरः स्वयंवरवल्लभ इति श्रुतिपल्लवाधराभिः; अगदंकार इति भवरूजातङ्कवाहिभिः, आहितुण्डिक इति कालकुण्डलिना, वाडवशिखीति वार `महार्णवेन, कूटपाकलइति कुसुमेषुदन्तिना, पुरंदरायुधमिति जलधराचलेन, करूणापयोधिरिति शरणाभिलाषिभिः, एकस्वभावमपि बहुधा विभावितम्, आत्मविवर्तजगदभ्यागारिकम्, अखिलविध्यण्डमण्डलीखण्डनवैतण्डिकम्, अतिकरालकाकोलमुष्टिंधयबन्धकविलासिनीकपोलमकरिका-भरणपश्यतोहरम्, अहरवधिनटनविभ्रमालकर्मीणम्, अद्भुतगरिमकार्मणविविधकेलिनिर्माणम् चलतनयानयन-परमानन्दनाडिंधमरूपधेयम्, आपीडपदनिवेशितसगरकुलभागधेयम्, असहायरसालतरविहारिणम् आरग्वधामालभारिण त्रिपुरवैरिणम्
विध्यादिविहितान्वेष निध्याय महसां निधिम्।
अद्रिकन्याकुचाभोगमुद्रित मोदते स्म सः॥६४॥
अभिवन्द्यतमखिलभुवनवन्दनीयचरणारविन्दमकृत्रिमवचःप्रशस्तापदानमस्तौषीत्।
हन्त च्छन्दःपारिजाताग्रभाजोमाद्यन्मायामाक्षिकोत्सारपूर्वम्।
यस्याखाद कर्तुमार्या यतन्ते माध्वीक तद्भाति माकन्दमूले॥६५॥
त्रसदद्रिसुतादृढोपगूहप्रमदाद्वैतपदाधिकारदात्रीम्।
वलयाङ्कनिधेहि मूर्धि्नकम्पा धृतया कि फलमभ्रगङ्गया ते॥६६॥
व्यर्थ, पिधातुमजिनादिविरागचिह्नैः
स्त्रिवश्यता त्रिपुरशासन ते श्रमोऽयम्।
गात्र तवैव कमनीयकुचाङ्कमस्या
विख्यापने विजयडिण्डिमता दधाति॥६७॥
सत्य जितोऽसि मदनेन यतः सकम्पं
काञ्चिपदे कलयसि स्थितिमङ्गजारे।
साहाय्यनिर्वहणसस्पृहकामकोटिः
शक्तिः किलैकसहकारवतोऽभिषङ्गे॥६८॥
सपत्त्यैसमिदुच्चयस्य परशु भद्रं भरानीतये
पाक्षाय ज्वलन जाय तटिनी पत्रोपक्लृप्त्यैवटम्।
माकन्दं च फलाय मन्मथरिपो सगृह्णति त्वय्यभू-
त्कामाक्ष्या विकलेतरः परिकरो नित्यान्नविश्राणने॥६९॥
भावना मे महादेव………………………\।
नौस्तम्भलग्नाकाकीव नान्यत्र लभते गतिम्॥७०॥
अपि च।
भगवति शंभावनया शिवया सह शीलितेभृशभावनया।
तदधिगमोदस्तस्य क्लेशात्पुंसो भवेत्प्रमोदस्तस्य॥७१॥
देव्या पारेकम्प क्ष……या दयास्पदे व्यापारे।
परिचितमधिकाञ्चितया पश्यदलीकंभजेयमधिकाञ्चितया॥७२॥
वरमेकरसालतिः श्रुतिरमुमेव स्फुटाधिकरसा लपति।
वपुरसमा तारमतेः स्वीकृत्यामुष्य विश्वमाता रमते॥७३॥
सुरभिरमाकन्दस स्फूर्जति मूले निविश्य माकन्दस्य।
प्रमथेशो भाति शये भूतमृगपरशुर्जिताङ्गशोभामातिशये॥७४॥
नाथशरीरं भायान्नगभुवि मृदितं नरत्परीरम्भायाम्।
भीत्या कम्पारयतः प्लावयितुंभुवनगोलकं पारयतः॥७५॥
परिचितवेदान्तानां प्रणिहितमनसामुमाधवे दान्तानाम्।
अलघुभवाटव्यसनं विरचयतां केन्द्रवेशवाटव्यसनम्॥७६॥
दक्षसभावस्कन्दे पटुरवतु शिवोनिरूढभावः स्कन्दे।
स्त्री कृतकरणीयस्य स्मृतिभवचेतोविशल्यकरणी यस्य॥७७॥
तमुपासे वासवतः परममरादपि च सारसे वासवतः।
अस्त्रितसारसनाभिंकमपि करासक्तकृष्णसारसनाभिम्॥७८॥
अतिरेकं दर्पस्य क्षपितवदक्ष्णा निजेन कन्दर्पस्य।
प्रशमितसन्नमदेनः स्मरत ज्योतिर्हृदावसन्नमदेन॥७९॥
पृथुकटकैलासस्य प्रसवसुगन्धैःपतिः स कैलासस्य।
भाति भवानीकान्तस्त्रिपुरान्धकमुख्यदानवानीकान्तः॥८०॥
पटुरनुसायं नटने समता सिहस्य रंहसा यन्नटने।
मा भजमान दयता पशुपतिरातङ्कभाजमानन्दयताम्॥८१॥
सरसिजधामादिशते पदजुषि विद्यापृथग्विधामादिशते।
विभवे विप्रसवाय प्रणतिरियं ध्वस्तविधिजविप्रसवाय॥८२॥
अधिफणिहारमरालःपतिरवतु कृपासरोविहारमरालः।
अघतटिनीरच्छा यं प्लवमेत्य तरन्ति गाङ्गनीरच्छायम्॥८३॥
वलदहिदाम वसान त्वचमीडे देवदुर्हृदामवसानम्।
जगदतिसधामाद्यन्नलिनशरप्लोषलालस धामाद्यम्॥८४॥
पुरजेता मम नाथो रणदमितविपक्षराजमानसमुदयम्।
………………………………………………………..॥८५॥
मतिभृङ्गिमहेशाङ्घ्रिसारस दोहलालसे।
आश्रयानन्दमाध्वीकसारसदोहलालसे॥८६॥
शंभोरवतु मामेकसहकारतलासिका।
ऋते गिरिभुवं तेन सह का रतलासिका॥८७॥
सोऽव्याद्वहन्सुरोत्तंसमकरन्दरस पदे।
दिशन्नरि ध्वजारूढमकरं दरसपदे॥८८॥
वेदविदध्वान्तस्य व्यतिकरमबलादिसौहृदध्वान्तस्य।
प्रमदाम्भोजहितेन प्रत्ययरविणाम्बिकाविभो जहि तेन॥८९॥
तं भजे बुभुजे येन तरसा गरलं घनम्।
यत्परैः सुकरं भद्रेतरसागरलड्घनम्॥९०॥
राजतेजा गरादी नः सविता नयशोधनः।
राजते जागरादीनः सवितानयशोधनः॥९१॥
**उषितः समया रसालसालखमुपासीदति या रसालसालम्।
गिरिजा मुहुराहिताङ्कपालीप्रणयः स्तौति गिरा हिता कपाली॥९२॥ **
**अद्वितीयाभ्रमूलासिकालालसनृत्तलीलारसोल्लाासिकालालसम्।
मामकी दुर्मनोभावनागाहतेः श्रीगिरीशं भिया भावना गाहते॥९३॥ **
अमितविभव सर्वदैव तेषु त्रिजगति ते भव सर्वदैवतेषु।
नतिरतिरसभावितायमानैस्फुटमिह धीरसभावितायमानैः॥९४॥
फणाभृति तवेश दोर्णवपदीरसालासिका-
रते नटति कम्पितार्णवपटी रसा लसिका।
सती प्रणयसपदा समधिकामनङ्गाहते
स्मरान्तक तवान्तरं समधिकामन गाहते॥९५॥
इह खलुतामरसाक्षीमयवामतनो त्वमानतामरसाक्षी।
इयमनुकम्पालयते नतिरीश नमस्यतोऽधिक पालयते॥९६॥
**गिरिशगभीरं दस्तस्फुरदायुधमत्र केऽपि भीरंहस्तः।
सविधिकरोटीकं ते वपु. स्मरन्तो जगद्गुरो टीकन्ते॥९७॥ **
**लघु फलमाशासानश्चरतु जनो नेदमाप्तुमाशा सा नः।
त्वयि शशिकोटीरमणे भक्ति याचेम कामकोटीरमणे॥९८ \।\। **
प्रतिदिवस सारस्य प्रकटितविपरीतस्थितेः ससारस्य(?)।
इह सपदि व्याहारशिव इति हरतेऽघमस्तदिव्याहारः॥९९॥
अमित रसारम्भणतः श्राव्य शिवनाम वेदसारं भणतः।
स्यान्मम कालापनयः स तु किलकल्याणसाधकालापनयः॥१००॥
अविहितकृदकाण्डे दण्डितोऽभून्मनोभू-
रकरुणममुनेति स्पर्धमानेव गौरी।
खकुचवलयमुद्राशालि गात्र पुरारे-
रकृत मदनजैत्रस्तम्भमेकाम्रमूले॥१०१॥
प्रणयकलहशान्त्यैपादमूले विनम्रा-
दभिचलति कपर्दादभ्रगङ्गातरङ्गे।
पुनरुपगतकम्पापूरमोदहेन देव्या
दृढतरमुपगूढ ध्यायतैकाम्रनाथम्॥१०२॥
कुवलयदामकोमलधूमयवामतनौ
भवतु भवे भवे मम भवेऽतिभवेऽभिरति।
न तु भवने धने परिजने मदनेभमद-
प्रदचरितासुतासु वनितासु सुतादिषु वा॥१०३॥
काञ्चीनगर्यामालोक्य कामकोटे किमुन्नतिम्।
रुद्रकोटिमधिष्ठाय रोचते भदनान्तक॥१०४॥
इति स्तुवन्हिमकरमौलिसनिधेर्जगत्प्रसुचरणसमीपमभ्यगात्।
अलिर्यथा नवहरिचन्दनान्तिकादुदञ्चितघ्वनिरुपकल्पवल्लिकाम्॥१०५॥
अपिचैकभागमधिजग्मुषी विभोरतितृष्णयेव परभागमाश्रिता।
स्तनयोर्मनोजवसतायुपेयुषी परदेवता पथि सुधी दृशोरभूत् १०६
** **असौपुनरसदृशप्रतिपत्तिमेदुरः प्रणिपत्य मातरमवाड्यनसगोचरणगुणामाचिकुरच- रणारविन्दमनुसदधानो विसृमरानन्दवीचिरिदमवोचत। सर्वात्मना स्तवे तव जननि जगत्या न मादृशोनिपुण।
निवहोऽपि नित्यवाचां भागत्यागेन भणति यद्रूपम्॥१०७॥
शम्बरवैरिकृपाणी शैलतनूजे तवासिता वेणी।
उन्मदयौवनकुञ्जरशुण्डालतिका शुभाय मेभूयात्॥१०८॥
**जननि तव मौलिचन्द्रो भिन्द्यान्मम बहलमान्तरं तिमिरम्।
वेणी विधुतुदेन ग्रस्तमिवार्धन दृश्यते यस्य॥१०९॥ **
**कान्तिविशेषाधीतिं कलयितुमन्ते वसन्नपि शराङ्क।
वहति न ते वदनरुचि भवति हि भाग्यानुसारिणी सिद्धिः॥११०॥ **
वदनश्रियो विधात्रा विधृतस विधुच्छलातपत्रस्य।
मृगमदतिलकमिषेण च्छायावलस्यचकास्ति तव फाले॥१११॥
**उत्तेजितः किमुत्पल्बाणो मदनेन भालशाणेऽस्मिन्।
भाति यदिय भवानि त्वद्भ्रूरूपेण तद्रजोरेखा॥**११२॥
अधिकमसितोत्पलदपि धरणीधरपुत्रि तावक नयनम्।
कर्णाश्रयेण कान्तिमदाद्य यत्तदतिपीडनेन परम्॥११३॥
**विषयमरुमार्गसीमाविभ्रमसंजातसज्वरानस्मान्।
अम्ब कृपारसपूरैरभिषिञ्चापाङ्गसारणीमुक्तैः॥११४॥ **
निध्याय कि भवत्या नासाचाम्पेयमन्तरालगतम्।
नयनमधुव्रतमिथुनं न कदापि मिथः समागमं भजते॥११५॥
कान्तिसुधया करम्बितमाननचषक तवाधिवासयितुम्।
नासामणिच्छलेन न्यस्त किमुमल्लिकामुकुलम्॥११६॥
विरसा विद्रुमवल्लीतुल्या न भवेत्त्वदोष्ठबिम्बेन।
यदमृतसेवनलोभादीशो धत्ते बहूनि वक्त्राणि॥११७॥
**अवतु तव स्मितकलिका शिखरिकुलाधीशकन्यके मातः।
प्रणयकलहप्रसक्तिषु यदवधिरीशस्य भवति चाटूक्तिः॥११८॥ **
सरघोपचितरसे वा सारे वा कालकूटसोदर्ये।
मधुरिमधियं विमुञ्चति गिरिशः प्रस्तौषि यदि गिरमपर्णे॥११९॥
वितता भवत्कपोले विलसति ताटङ्कमौक्तिकच्छाया।
अधिकतया श्रुतिगलिता हरचरितकथासुधारसझरीव॥१२०॥
न नमय वदनसुधाकरममृत निपतिष्यतीति सव्याजम्।
गिरिशेन केलिकलहे मुहुरुन्नमित नुमो भवच्चिबुकम् ॥१२१ ॥
त्वत्कण्ठदत्तभङ्गःशङ्खो भीत्या समेत्य हरिदीशम्।
भजते ततोऽपि भङ्गान्क्वापि न शर्मास्ति कुटिलहृदयानाम्॥१२२॥
कण्ठसमुदञ्चित तव कलरुतमपहृत्य सांप्रत गिरिजे।
प्रकटयति जनसमक्ष प्रायो हस्ताग्रताडिता वीणा॥१२३॥
नखरसुमनोलसत्करकिसलयमम्ब तव भुजलतायुगलूम्।
आलिड्गति सहकारं निटिलदृगभिधानमिति किलौपयिकम्॥१२४॥
आर्तान्क्षुधा पदाम्बुजसक्तानस्मान्समीक्ष्य वात्सल्यात्।
धृतया स्तन्यसमृद्ध्याभवति किमम्ब तव पीनता कुचयोः॥१२५॥
मुखचन्द्रामृतलहरी मुक्तादामच्छलात्क्षरन्ती ते।
कुचगिरिमृगमदकलिलानाभिसरो विशति रोमराजिमिषात्॥१२६॥
ज्यारोपणाय मध्ये धनुषो निहितस्य मारवीरेण।
अटनीनिपीडनोदितमवट त्वन्नाभिरिति वदन्ति जना॥१२७॥
उच्छ्रायशालिनोर्भरमुरसिजयोःसोढुमप्रवीणतया।
ताम्यति तवावलग्नंसह्यान ह्यन्यसपदल्पानाम्॥१२८॥
वसतो वृषाङ्कभीत्या भवदीयश्रोणिपर्वतनितम्बे।
रशनामिषेण रक्षावरणो मदनस्य वर्तते मात ॥१२९॥
मन्ये त्वदूरुकाण्डौमन्मथतारण्यवारणेन्द्रकरौ।
कथमिह घटतेऽपरधाकदलीस्तम्भाभिषड्गलम्पटता॥१३०॥
समरव्यतिकरसमये पश्चाद्भवतो भृशं निषङ्गस्य।
दर्पहरणेन तावज्जङ्घाकाण्डस्य जननि का श्लाघा॥१३१॥
सपल्लवास्त्वदङ्घ्रेःसक्ता वल्लीषु किसलयव्याजात्।
यत्पल्लवा इतीदं नाम्नो नामैकदेशतो ग्रहणम्॥१३२॥
प्रकृतिकठोरपदावलिरेषा नुतिरेव मत्समारब्धा।
भवति भवदङ्घ्रिपल्लवशोणिमहेतुरिति शोभते वादः॥१३३॥
जननि त्वदङ्घ्रिचङ्कमलीलालेशापहारसदेहात्।
प्रायेण निगलबन्ध नरपतयः कारयन्ति नागानाम्॥१३४॥
श्रुतिशतशिरोविहारश्रमपरिखिन्नेव चरणरेणुस्ते।
सुरवरशेखरसुमनोमकरन्दस्यन्दगाहन तनुते॥१३५॥
असितकचमायतेक्षणमुल्लसितस्मितमुदारकुचभारम्।
घनजघनमरुणचरण कलयेकामाक्षि तावक रूपम्॥१३६॥
सुधाभजनविधायिनोऽपि सपदि समुदेति सौहिती न पुनरम्बागुणकदम्बामृतझरी-निषेवणधुरीणमानसस्य। पुनरपि भूसुरधुरंधरस्तदनुबन्धिनीमेव भारतीमभिधातुमारमत।
कसिन्मुहूर्तेकरपल्लवेन तवाददे काञ्चनदर्विकेयम्।
यस्य प्रसादादयमिन्दुमौलिरैश्वर्यमव्याहतमम्ब भुङ्क्ते॥१३७॥
धामास्यकैलासगिरि करस्थोहेमाचलस्त्वदयितान्नपूर्णा।
धत्ते हरो भिक्षुकता तथापि लुब्धः समागच्छति केन तृप्तिम्॥१३८॥
गिरीशहेरम्बकुमारवाहग्रस्तावशिष्टैरचलेन्द्रकन्ये।
धान्यैरपि प्रस्थमितैःकथं वा जगत्त्रयीपोषणमातनोषि॥१३९॥
कम्पामपास्यग्रथितोद्गमानां चञ्चूपुटग्रस्तबिसाङ्कुराणाम्।
उद्भीवमोघेन मरालिकानामाकर्ण्यमानाभरणस्वनानि॥१४०॥
मृदुप्रकृत्योर्मणिनिर्मिताया पदाङ्गयोरर्पितयोः पदव्याम्।
तद्विम्बदम्भाद्दयमानधात्रीप्रारब्धपद्मास्तरणक्रियाणि॥१४१॥
कुचामृताखादकुतूहलेन दस्तावकृष्टाशुकपल्लवाभ्याम्।
अभीष्टवस्त्वन्तरदानपूर्वमाख्यतसान्त्वानि कुमारकाभ्याम्॥१४२॥
अनुद्रवच्छेकमृगीनिवृत्त्यैवितन्वतो हुकृतिमाननेन्दोः।
साचीकृतप्रेड्खितवेणिकास्तश्वासानिलाकृष्टमधुव्रतानि॥१४३॥
मध्याय मन्देतरकम्पशालिपयोधरद्वन्द्वभरार्दिताय।
अनार्यशङ्काकुलितेन भर्त्राप्रतिक्षण प्रार्थितमङ्गलानि॥१४४॥
अचिन्त्यमानस्फटिकाङ्गणोर्वीपुष्पोपहारस्खलनव्यथानि।
वेगोपयातानुचरीप्रणीतवेणीगलन्माल्यनिबन्धनानि॥१४५॥
अभीक्ष्णमक्ष्णोः श्रवणारविन्दपरागपर्याकुलभावभाजोः।
प्रसादनाय प्रणयोत्तरङ्ग पिनाकिना दत्तमुखानिलानि॥१४६॥
अद्वेतचूतप्रसवासवेषु पदे पदे प्रस्तुतमज्जनाभिः।
कम्पातरङ्गानिलकन्दलीभिराचान्तघर्माम्बुकणावलीनि॥१४७॥
अजस्रमभ्यागतमण्डलाय प्रत्यग्रमन्न प्रतिपादयन्त्याः।
आ मण्डपादा च महानसात्ते कामाक्षि नः पान्तु गतागतानि॥१४८॥
** किंच।**
मध्ये नीपवनस्यप्रचलद्गीर्वाणतरूवनीपवनस्य।
शीलितमोहनगानां जननीं भज मञ्जनाय मोहनगानाम्॥१४९॥
पुरहरमगिरिजातरसा चेतसि येषां चकास्तिगिरिजा तरसा।
अतिसरस पद्यंते रचयन्ति यशासि तेषु सपद्यन्ते॥१५०॥
इयमुपनीताम्रतरावभिके सक्ता जपावनी ताम्रतरा।
मामिह पाकं पायान्नियतविधि तन्वती कृपा कम्पायाम्॥१५१॥
बहुशो भाविता नासाशिखरन्यस्तरोचनैः।
बहुशोभाविताना सा भवानी परिपातु नः॥१५२॥
घनसारसगन्धेन वदनेन स्मितेन च।
घनसारसगन्धेन ललिता ललिता भजे॥१५३॥
अपत्यमगराजस्य भजमानसभाजनम्।
चन्द्रशेखरचाटूनां भज मानस भाजनम्॥१५४॥
कलत्रमैश दृग्भासा सन्नतामरस सदा।
सेवे श्रित पदोपान्तसनतामरससदा॥१५५॥
त्रातोऽस्मिदेव्या बन्धूककलिकोपमदेहया।
गङ्गाधरे कृतप्रेम कलिकोपमदेहया॥१५६॥
जनन्या गिरिशोद्गाढोत्कलिकालसमानया।
वयं धन्या वतंसेन्दुकलिकालसमानया॥१५७॥
अम्बा तपोवनीभूतकम्पाकान्तारमालिका।
सेव्या रिवस्मृतौवीतकम्पा कान्ता रमालिका॥१५८॥
शिवा स्पृहावती कम्पावाहिनीपवनालये।
भासते सुमनोभारबाहिनीपवनालये॥१५९॥
काशते वलयाङ्कस्य कमनी यतमानसा।
कान्तिसौभाग्यशिलैःकि कमनीयतमा न सा॥१६०॥
समरच्छिन्नदैतेयसारवद्विपदन्तया।
देव्या जितं कृतोपास्तिसारवद्विपदन्तया॥१६१॥
अत्रगौर्यासदारब्धयागवासरसार्थया।
भूयते गीयते लोके या गवा सरसार्थया॥१६२॥
भजतः स्युरिमा विद्या काश्चीदा मोदराशयः।
साधु जानाति यान्मात काश्चीदामोदराशयः॥१६३॥
धत्ते मुदा श्रियं गौरी तामसीमदमन्थरा।
अस्याश्च प्रकृतिर्दूरे तामसी मदमन्थरा॥१६४॥
कलयामीन्दकलया भूषितां तटमभूषिताम्।
कम्पायासोर्मि कम्पाया देवता शश्वदेव ताम्॥१६५॥
कुन्दराजन्नवरदा वरदानविशारदा।
शारदाविनुता पातु तापातुरमिम शिवा॥१६६॥
जननी जननीतीना गिरिजा गिरि जाग्रती।
महता महताटोपंतनुता तनुता शुच॥१६७॥
रमणीयतमा शभुरमणीयमुपासिता।
कम्पातीरं गता नाधेःक पातीरंमदाधिकात्॥१६८॥
धरा धरार्तिकृत्पयोधराधरास्तपल्लवा।
परा परापनीतितत्परा पराकरोत्यघम्॥१६९॥
अमेयविभवे भवे सहृदया दयाघनमनामनाक्सभजने।
जने धृतसुमा समाधिसुगमागमालिमहिता हितास्तिजननी॥१७०॥
रयशालिकुचा लिकुचापजये वचसैव सुधा वसुधाधरभू।
कलसारसना रसना भुवि मे तनुता नटन नटनर्मसखी॥१७१॥
मुदितामुदितारुणविम्बनिभामगजामगजानुविधेयगतिम्।
अधिकाञ्चि वनाभवने भवने रतिभाजमिहाकलयेकलये॥१७२॥
महितया हितया जगता त्रयीपथिकपालिकपालिजुषा मयि।
करुणयारुणया क्रियतां नमत्सुरगवीक्षणवीक्षणनादिका॥१७३॥
आर्तिभागशनदानवासनाशालिनी जनितदानवासना।
तादृशी जयति तापसी मया सेविता कृतिरतापसीमया॥१७४॥
श्रये महस्तरुणिमसंपदा मनाङ्मदारुणं दृशि वशिनामदारुणम्।
तनुप्रभाततिपरिभूतनिर्दलज्जपावनं विनतसमाजपावनम्॥१७५॥
शिवयागमेषु लसमानवार्तया निजशीलवागलसमानवार्तया।
स्वगुणोदयत्सकलभावलीलयाजगती कृतारिकलभावलीलया॥१७६॥
सेवन्ते नतिमिह हारमालिकायैशर्वस्यस्तनधृतहारमालिकायै।
तारल्यप्रकटिततादृशान्तरङ्गावागीशादिमवनिता दृशां तरङ्गाः॥१७७॥
हितोपसपन्नवनीपकानना वितापस्पन्नवनीपकानना।
श्रिता भवानी तरसा लसन्निधौ सदा भवानीतरसालसनिधौ॥१७८॥
अव्याजनिर्मलतरैर्नखरांशुपूरैःकम्पानदीप्रमदभिन्नगजेशयानाम्।
कर्मीकरोति मनसा भवतीमिदं मे कं पानदीप्रमदभिन्नगजे शयानाम्॥१७९॥
सहेतिमस्तच्छविपल्लवेषु शयेषु लूनाच्छविपल्लवेषु।
त्वामम्ब सिन्दूरविभासमानां ध्यायन्ति मध्येरवि भासमानाम्॥१८०॥
सति स्मरहरन्यस्तायतमानसभावने।
पाहि मामजहत्सेवायतमानसभावने॥१८१॥
अम्ब यस्य भवल्लास्यकलनादरसभवः।
स वेद तव सगीतकलनादरस भवः॥१८२॥
अधिमस्तकमेशेन सह सारसमध्यगाम्।
अम्बिके भवतीं पश्यन्सहसा रसमध्यगाम्॥१८३॥
त्वत्कृपा भुवने पुंसां कामाक्षि करसाधिका।
त्वां विनानन्दलहरी का माक्षिकरसाधिका॥१८४॥
करोषि देवि दानैस्ते करवैभवनाटनम्।
कदा ते किकरीभूय करवैभवनाटनम्॥१८५॥
नाके वलन्ते नादान्तमनसः परमेश्वरि।
ना केवलं ते नादान्तदीपिकायास्तु चिन्तकं॥१८६॥
भगवति कामाक्षि पतिप्रणयिनि भजते श्रिय न कामाक्षिपति।
तव हि कटाक्षतरङ्गः करुणोर्मिनटीविशङ्कटाक्षतरङ्गः॥१८७॥
स्तितिमधिकं पारम्ये कलयसि मातः स्थले च कम्पारम्ये।
सिध्यति तव पदवीक्षणतः सिध्यति पुसामजादिपदवी क्षणतः॥१८८॥
जगदुदयस्थेमहतीः कर्तुं काञ्चीपुरालयस्थे महतीः।
अतुल चारत्रेऽधा रूपंनिगमान्तसौधचारि त्रेधा॥१८९॥
द्विषति पुरामारभसे रषमधिमौलि धृतजलधिरामारभसे।
त्वमिव परा का रमिता तस्यशिवे दक्षिणेतराकारमिता॥१९०॥
इह पिबतः स्तन्यं ते कस्य न वाचः सुधाभृतस्तन्यन्ते।
अम्ब तदाशु भवत्या प्रदीयतामस्य सर्वदा शुभवत्या॥१९१॥
शुभमनसा कमनेन द्युपतिसुताया गुहेन साकमनेन।
स्तनरसदायजुषो मे समयं गमय स्तुते सदा यजुषोमे॥१९२॥
कार्यादेवि चिकित्सा कुक्षिरुजः का दयापदे विचिकित्सा।
सन्यरसायनमस्ते तमसि प्रदिशाङ्घ्रिसारसाय नमस्ते॥१९३॥
चिदुदधिराकारजने त्रिभुवनमातः कृतस्मराकारजने।
तव नुतिवाचा रचये प्रपदनमजहत्प्रियोत्सवाचारचये॥१९४॥
अश्चितशंकरवाणि व्तत्पदसेवा दिवानिशं करवाणि।
मम न गिराजनि योगं वदवचन ते वदन्ति राजनियोगम्॥१९५॥
श्रितपतिमानसदेशेशश्चत्काञ्च्याभवद्विमानसदेशे।
भवतु शिवा सानुमति स्निग्धे तव देवि मन्निवासानुमतिः॥१९६॥
इति विनिहितबुद्धिरीश्वरायां भवनमिवाद्रिपतेरसावयासीत्।
निजहृदयनिरूढकामकोटे रुचिततरा वरदोपकण्ठयात्रा॥१९७॥
पार्श्वयुग्मगता यस्य प्रसूते गोपुरद्वयी।
अन्तरस्थितशैलेभबन्धनस्तम्भविभ्रमम्॥१९८॥
कथ मनोविस्मयकारि तद्भवेदनन्तरं तत्र यदग्रणी सताम्।
समाहितानन्तसरोवगाहनःस पुण्यकोट्या लभते स सनिधिम्॥ १९९॥
अथ सुमतिरयमधिरूढशिखरिकूटभागमवलोकयति स्म विस्मयविधायि विनयगौरवावर्जिताभिरापगावेगसङ्गि-वेतसविडम्बिनीभिरुत्तमाङ्गपरंपराभिरन्योन्यनमनकर्माणि निर्मिमाणैरापाण्डरोर्ध्वपुण्ड्रमरीचिनिबिडशरीरतया श्वेतद्वीप-विहरणोचित परिणतिविशेषमिव गाहमनैःसत्वसमृद्धिमन्तरमान्ती बहिरिव विभावयद्भिरतिवेलबोधजलधिपूरा- वगाहमिलितमिव बहलफेनपटलभाबिभ्राणैरधिकण्ठमाशये च नलिनाक्षगुणमण्डितैःसारसविहंगमैरिव समाचर्यमाणलक्ष्यणाभिमतैःकमलाकरैरिव कमनीयज लजचक्रा ङ्गशालिभिरम्बरकुटुम्बिभिरिव प्रकटामृताभिलाषैरञ्जलिसनाथमौलिभिरस्तोकविसृमरस्तवैः परमभागवतसूरिभिराबध्यमानसेवानुवृत्तिमुभय-पार्श्वस्तितपरिजनकरावलम्बितैरनवरतविजृम्भमाणपतनोत्पतनकर्मभिरलघुनिर्मलाशुडामरैश्चामरैः स्वकरुणार-ससुधापयोधिवीचिनिचयैरिव समाचरितविजनोपचारमनधिगतवेपथुभिरपनिमेषचापलमात्मीयरूपसपदम- नुभवद्भिरिव दीपिकाप्ररोहैरवभासितभूषणप्रपच्च काञ्चीमध्यमण्डलमाखण्डलनीलमिव लक्ष्यमाणमेकेन पाणिना वारणविरोधियादोनिषूदनाय पत्याहमविनियुक्तेति कन्दलितादिव मन्दाक्षभरादधोमुखी कौमोदकीमवष्टभ्य तिष्ठन्तमिदमेवमदावलभयविदारणमित्यभयमुद्रा- नुबन्धिना करान्तरेण सुदर्शनमिव प्रदर्शयन्त शुण्डालव- रनिवेदित पुण्डरीकमुकुलमिवसमञ्चितं पाञ्चजन्यमापाटलाङ्गुलीदलशोभावगुण्ठितमचिरखण्डितग्राहरुधिराङ्गमिव रथाङ्गमपि हस्तारविन्दयुगलेन सदधानमध्युषितनिकषमध्यामपि कनकरेखामलकृतगगनाङ्गणामपि तरुणारुणकिरणधोरणीमम्बुदकृतावलम्बामपि शग्पालतामधिक्षिपन्त्या वक्षोनिविष्टया लक्ष्म्यासमाश्लिष्टवपुषमभिनवबन्धूकरोचिषि दन्तवाससि चन्द्रिकाशकलपेशलस्वीकृतवपैकदेशमिव हसितलेशमुद्वहन्त पुन्नागमपि भुवनमण्डलीतिलक पूतचारित्रमपि भुजङ्गभोगभुज हरिमपि प्रथमानकरिहार्दगरिमाणमसमानमहिमशेवधिं निरवधिविभूतिमनिभेषपतिम्।
अङ्गत्विषामञ्जनमेचकाना व्याजेन विस्तारयति स्फुट यः।
कठोरवक्षःस्थलकेलिभाजो लक्ष्म्यानवेन्दीवरपत्रशय्याम्॥२००॥
**वेदाकरा नीलमणेस्त्रिलोकीविभूषणानामपि भूषणस्य।
अलक्रिया यस्य किरीटमुख्यैरनुग्रहः केवलमेव तेषाम्॥२०१॥ **
आपादचूडाभरणेषु लक्ष्मीराभाति यस्य प्रतिबिम्बिताङ्गी।
आक्रम्य हृन्मध्यमपूर्णकामा समश्नुवानेव तनु समस्तम्॥२०२॥
**यद्भूषणेषु हरिनीलमलीमसेव
मुक्ताफलाम्भसि निमज्जति दृग्रमायाः।
शोणोपलातपमुपैति जडीकृतेव
तप्तेव याति हरिदश्मतमाल्वीथीम्॥२०३॥ **
यत्कौस्तुभप्रतिभटोपलसंग्रहेच्छु-
रुद्धृत्य पूर्वजलधेर्मणिमम्बरस्य।
नक्तंदिवस्फुरणदीनमसु विचिन्त्य
वेधा निरस्यति मुहुश्चरमाम्बुराशौ॥२०४॥
स्वबिम्बमन्तर्मणिराजमीक्ष्य जायान्तराशङ्किहृदः प्रियायाः।
क्षण समुद्यत्किलिकिश्चिताना यः पात्रतामेति दृगञ्चलनाम्॥२०५॥
उद्दामबाहुभरमुद्धृतकण्टकस्य
यस्योपधाय सुखसुप्तिजुषस्त्रिलोक्याः।
क्षौमोत्तरीयमिव निःश्वसितप्रणुन्न-
मास्ते महश्चटुलमङ्गदमौक्तिकानाम्॥२०६॥
यस्य वरदस्य हस्तो रंहस्तो हृतपराग्रहस्तोमः।
कटकं बिभर्ति मानोत्कटकञ्जमुखीविनोदसघटकम्॥२०७॥
शावककृष्टिपुरोगतिजगदभयत्यागदृष्टकौशलयोः।
सव्यापसव्यकरयोर्घटते मणिकङ्कणार्पण यस्य॥२०८॥
अन्तर्बहिरपि शुचयः कटकजुषो यस्य वृत्तकमनीयाः।
हृद्गतपरस्वरूपा मुक्तामणयोविभान्ति मुनय इव॥२०९॥
कटककुरुविन्दकान्तिस्थगितान्मणिदाममण्डलाद्यस्य।
करपल्लवः क्षणार्धहारग्रहणाय हन्त सदिग्धे॥२१०॥
सरसि विहृत्य वधूभिःसतरतो यस्य निर्जरेभस्य।
कटकहरिन्मणिकान्तिः सृजति कराकृष्टकमलिनीशङ्काम्॥२११॥
मध्येरण कटकमौक्तिकधामगौरो
यन्नन्दकः परिपतन्नरिकन्धरासु।
वैमानिकायतदृशा वरणागतानां
सूते वरार्पितसुरद्रुममाल्यशङ्काम्॥२१२॥
रणे बलाकृष्टसुरारिलक्ष्मीवेणीव सा दीव्यति यत्कृपाणी।
तद्वान्तजातीकुंसुमानुकारं तन्वन्तिं यत्कङ्कणमौक्तिकानि॥२१३॥
यद्दिव्याभरणोच्चयस्य महिमश्लाघाविधाने तथा
हर्षात्कम्पयते फणादशशतीमाशी विषग्रामणीः।
पर्यस्येत यथा धृतश्चिरमदः प्रत्युप्तरत्नाङ्कुर-
प्रौढालोकनिरर्थकीकृतमणीवृन्दातिभारश्रमः॥२१४॥
** **तदनु दनुशासनाय विनयोपहृतमौल्यानतिरसौकल्याणिनेयः कौतुकविकसितेक्षणो नवनवाक्षराणि कतिचिदेवमस्राक्षीत्।
काचिन्नीला भासा करुणा विकसद्द्रुमावनीलाभा सा।
कृतरचनाम्नायततेः स्थितये लोकस्य वरदनाम्ना यतते॥२१५॥
स्फुरदपदानवलोऽपःसिन्धोरवगाह्य क्लृप्तदानवलोपः।
नितरामायामी नः श्रियमनवद्यां तनोतु मायामीनः॥२१६॥
अरिजलजगदाधारं दूरं वचसामशेषजगदाधारम्।
स्वीकृतकच्छपदेह सेवेऽह (त) कृताब्धिकच्छपदेहम्॥२१७॥
बाहुषु सुरसालाभः प्रलयजलान्तःप्रणीतसुरसालाभः।
किटिरुरुनासावश पूर्णो भावः परस्यनासावंशः॥२१८॥
अधमभितापं चास्यन्नमतां वक्त्रेण भास्वता पश्चास्यम्।
सृजदरिवक्षो दमित भजत महस्तदसृगभिनवक्षोदमितम्॥२१९॥
निजपदराजीवेन न्यक्कृतदैतेयशेखराजीवेन।
कलितमहामहिमानः कल्पयतां शर्म घनमहा महिमा नः॥२२०॥
विरचितपरशुभरणया त्रिसप्तवारावनीपरशुभरणया।
सहृतकृतवीर्यजया श्रीपतिकलया भवाम कृतवीर्यजयाः॥२२१॥
पशुपतिचापलतायाः पाटयिता जयति पदमचापलतायाः।
यःकिल साकेतपतिः स्वयमटवीमाप पितरि साकें तपति॥२२२॥
आदृतहालाहलया हतमुष्टिकमुख्यदुष्टहालाहलया।
श्रयत हरिज्यायस्याश्रेयःकलया सशस्तिरिज्या यस्याः॥२२३॥
धाम्नो वशस्तस्यप्रकाशता बिभ्रदारव शस्तस्य।
अतिसुकुमारमयन्त मधुमयता गोपसतितमा रमयन्तम्॥२२४॥
मुरली वादयमाना मोद पशुपालनोत्सवादयमाना।
सदृशी तापिञ्छेन स्फुरति कृपा शिरसि भूषिता पिञ्छेन॥२२५॥
हरिमभिजातोदन्त वन्दे कृतबाणबहुभुजातोद तम्।
वक्षसि परमा यस्य क्रीडति लक्ष्मीरपोढपरमायस्य॥२२६॥
अधिगतकल्यन्तेषु म्लेच्छेषु सृजत्सु वृषमकल्य तेषु।
नटितभुजातरवारि ज्योतिरुपासे भयोपजातरवारि॥२२७॥
सार्थयन्वरदाभिख्यां साधून्पुष्यत्यय वरैः।
सत्यव्रताधिका॥२२८॥
क्रन्दति करुणमिभेन्द्रे क्ववैनतेयः क्व वैनतेय इति।
उक्त्यासह फणिशयनादुच्चलतस्ते स पातु सरम्भः॥२२९॥
श्रीचाटुवाणीश्रवणान्तरेऽपि गर्जैव भेजे करिणः श्रुति ते।
आपन्नरक्षाध्वरदीक्षिताना पुसा न भोगाभिनिवेशयोग॥२३०॥
मधुपानुबन्धमनिश मदान्धता रसनाविपर्यसनमप्यचिन्तयन्।
अतिभक्तिमेव करिणस्त्वमग्रहीर्गुण ता खलुगुणो महीयसाम्२३१
रमेश कारुण्यरसाम्बुराशेः समुज्जिहानो भवतः सवेगम्।
चक्रारुणो नक्रतमिस्रहारी बभार पद्मिन्यनुकूलभावम्॥२३२॥
भवत्सायुज्यलाभेऽपि भवादतिशयान्तरम्।
भजते स्म न वेतण्डो भवन्मुक्तैकसश्रयः॥२३३॥
**यस्तेकटाक्षविधिरार्तिमिते गजेन्द्र
यश्चास्य पीडनविधायिनि शिशुमारे।
तत्तादृशोर्वरदराज तयोरिदानी-
माद्यनिधेहि मयि मद्वृजिने द्वितीयम्॥२३४॥ **
**अजाश्वमेधाध्वरकल्पशाखिनः पचेलिम तत्फलमच्युताकृति।
अहो बताभिष्टुवतोऽपि सौहिती मनीषिणां मौलिमणेरवर्धत॥२३५॥ **
इति समरपुगवस्य कृतौ चम्पूकाव्ये तृतीय आश्वास।
—————
**चतुर्थ आश्वास। **
**अन्तर्वाणिरसौगेहमरुणस्तु नभोन्तरम्।
तौ विष्णुपदससेवातत्परौलब्धुमैच्छताम्॥१॥ **
** तथाहि। **तरलतत्कान्तिमपद्विडम्बितजाग्बूनदकुम्भमम्भोजसचिवबिम्बमम्बरसौधशिखर-
मालम्बत।
मुक्तारूचो मूर्धनि हर्म्यकेतोरासक्तमम्भोरुहबन्धुबिम्बम्।
तस्याः पुरोऽराजत दण्डशालिहिरण्मयच्छत्रमिवाबभासे॥२॥
प्रादुर्भूत प्राग्दिशा विप्रयोगादाबिभ्राणो इन्त सतापभारम्।
काले तस्मिन्कामुकः पद्मिनीनामन्यैर्भेजे दुर्निरीक्ष्यामवस्थाम्॥३॥
**भूत्वामृदुः पुरा पश्चात्तीव्रोयाति दिनेश्वरः।
प्रायो वसुसमृद्धाना प्रकृतिः किलभिद्यते॥४॥ **
अपहत्य कुलान्यभीशुमाली जगदन्धकरणानि शर्वराणाम्।
प्रकटीक्रियमाणभीमभाव प्रतिपेदे परदुःसहं प्रतापम्॥५॥
विभज्य विश्वभरयानदीभिराशागणैरप्यनुभूयमानः।
जज्ञे वियत्प्रान्तरयानजन्मा तापातिरेकस्तरणेरसह्यः॥६॥
उपगच्छति येन साकमुच्चैरुदया (द्रौ) जगदुष्णधाम्नितस्मिन्।
अखिलात्मनि तापमश्नुवाने तदभूत्तप्तमिहास्तिकि विचित्रम्॥७॥
अहह ततिरशेषदेहभाजामपि पुरत स्थितिमीक्षितु तदानीम्।
अभजत भृशमक्षमामवस्थां त्रिभुवनचक्षुषि दर्शितप्रकोपे॥८॥
निरतिशयतापनिर्वापणायेव कमलकुवलयकह्लारविपिनानि किमपि परिममर्श तरणि- करनिकरः। किमुत बहुदूरसरणिसचरणारचितसज्वरघनाः पञ्चजनाः। तत्क्षण च नगरमक्षान्तमिहिरसतापतया सेव्यमानकदलीगृहान्तरमभिनन्द्यमानशशिकान्तमणिवेदि- कमधिरुह्यमाणसरसकुसुमास्तरणमभ्यस्यमानकर्पूरालेपनमारभ्यमाणधारागृहासिकमासाद्यमानकासारखेलनमुद्भाव्यमानगन्धोदकयन्त्रशीकरासारमुद्धूयमानलाभ2ज्जकव्यजनमुपयुज्यमाननवनालिकेरसलिलपरिचीयमानपाटीरपङ्कमेदुरवधूरीकुचाचलमजायत्।
कुचमण्डलमालिलिङ्ग कण्ठ जगृहे वक्त्रसरोरुहं चुचुम्बे।
स्पृशति स्म नितम्बमारुरोह प्रमदानां जघनं श्रमाम्बुपूरं॥९॥
तालवृन्तपवनादभिकानामुत्तरीयमरुदब्जमुखीनाम्।
प्रीतयेऽजनि ततोऽपि विसर्पन्वक्त्रसीमनि तदास्यसमीरः॥१०॥
पयोधरोत्सारितकञ्चुकानां प्रासादवातायनसेविनीनाम्।
स्त्रीणां जहार श्रममब्जगन्धी सशीकरो वेगवतीसमीरः॥११॥
वीचीकणैःपौरविलासिनीना व्यत्यस्तवक्त्रश्रमवारिलेशः।
स्वसौरभक्रीतशिरोजगन्धः क्षीरापगागन्धवहश्चचार॥१२॥
प्रतिसौधगवाक्षलक्षितप्रमदावक्त्रशता पुरी बभौ।
मिहिरज्वरवारणोदयन्मृगलक्ष्मावलिभूषितेव सा॥१३॥
तदनु निर्गत्यसरोजनेत्रसदनादतनुशासनसमाराधनाय नवकुसुमनिचय- मवचिचीषुरयमवतरति स्म विविधतरुकोटरक्रोडपरिक्रीडमानचिक्रोडं पतनदलितनालि- केरफलपरिग्रहव्यग्रशावकपरिषदाबध्यमाननियुद्धकोलाहलं विटपितलनिषण्णविटज- नोत्सङ्ग निद्राणपुष्पलावीपरिष्कृत दिवसकरभीतशीतलतानिरातङ्कवसति गजतुरङ्गसं- दोहमन्दुराचारुतरवीरुन्नटिनीनिवहनर्तनानर्तमही प्रमदोपगूढमिव मन्मथारूढ- हृदय बहिरिद्धकण्ठकं च विन्ध्यमिव नमेरुविरचितामोद व्याप्तनभस्थलंच पथिकशरीरमिव प्रियालोपहृतशोमं प्रत्यग्रलोध्रपाण्डरं च पतिवरापरिगृहीतमिव भासुरमधूकमालिकाभूषितं प्रथमानमङ्गल च राशिमण्डलमिव मन्दारमण्डितपुष्पवदलकृतं चस्वर्लोकराज्यमिव सहस्राक्षसमन्वित सभावितरम्भाविलासचपार्थिवसदनमिव पृथुलसालवलयित कोशपरिपूरित च दैत्यारिरूपमिव भद्रश्रियाञ्चित धात्रीनिषेवित च सज्जनशीलमिव समधिकद्विजपक्षपातमाश्रितसतापहरं च वल्लकीवाद्यमिव रुचिरप्रवालशोभितमभिरू- प्यककुभं च फणिराजशयनमिव कृष्णलाभासित सदाभोगसदित च गणिकासनाथमपि विमलस्वभावमविरतजपानुबन्धमपि बहुतरारिष्ट जातिविशिष्टमपि नकुलचरितान्वित सर- लोदितच्छायमपि कुरबकसमग्रं सुकवीरशोभास्पदमपि साध्वसदृगन्तर प्रकटितस्पर्श नमपि नवनीपकाभिराममुत्फुल्लचिरिबिल्वमुल्लासहरितमल्लिकमुन्निद्रपुन्नगमुन्मुद्रणातिमुक्तमुद्भि- न्नकर्णिकारमुन्मेषशोभिकेसरमुज्जृम्भमाणचम्पकमुद्विकासवासन्तिकमभिजातहसित केतक- मारब्धविदल्नारग्वधमतितन्त्रमुचुकुन्दमावृन्तविकचमाकन्दमाकलितजाग राशोकमवबो- धशालिनवमालिक निखिलजननयननिर्माणफलमुन्मीलयता तारतम्यातिशयेन खाण्डवमपि निकर्षताण्डवस्य वृन्दावनमपि मन्दाक्षसपदो नन्दनमपि भूरिनिन्दनविधेर- शोकवनिकामपि निराकरणकर्मणो मधुवनमपि पृथुघृणावतरणस्यचैत्ररथमपि महात्रासपरिणतेः पात्रीकुर्वाणमलिप- टलजेगीयमानसरसर्तुसाधिमास्पद परभृतकदम्बपापठ्यमानपञ्चशरबिरुदप्रपञ्चशुकशा- रिकानिकरजोघुष्यमाणपुराणपुरुषहृद्यावदानमुद्यानम्।
पिकनिनदमयी नयन्प्रियोक्ति प्रसवरसप्रमदाश्रुबिन्दुवर्षी।
उपवनपवनस्तदाभिधावन्परिरभते स्म तमानत सगन्धः॥१४॥
तत्रपुनरत्रभवानशेषसुमनोविकासहेतुरसौवसन्त इव समन्ततो विटपिवाटीषु पर्यटन्भवितव्यशिवपदाम्बुजसपर्कबहुमानसमदादिव विस्मयमानमभिजातकुसुममाददानो जयविशिखसग्रहणशीलमकराङ्कविलासभूयिष्ठतनुरिदमाचष्ट।
मधुव्रतक्षोदसह म्रदीय सदोपभोगेऽपि ससौरभीकम्।
पुष्प प्रसूते भुवि कस्तरूणामग्रेसरं केसरमन्तरेण॥१५॥
संदृष्टा किमु कापि हानिरियता चाम्पेयलोलम्बयो
रस्राक्षीन्न परस्परं यदुभयोरम्भोजभूःसौहृदम्।
क्ष्मपालैरुपलाल्यते न शिरसा कि चाम्पकः कोरको
भृङ्गः कि कमलाकरेषु न मुहुः प्राप्नोति लीलासिकाम्॥१६॥
ललिता त्वलतावलीषु जाते सुकुमारः समयेषु माधवोऽपि।
प्रणयेद्यदिसगति भवत्या स भवेत्सर्वगुणाकरस्तदानीम्॥१७॥
हे कर्णिकार मुहुरीश्वरवल्लभत्व
सतप्तहेमसमता च तवेति हृद्यम्।
आमोदभारमलिमानसलोभनीय-
माविष्करोषि न यदत्र परं व्यथा मे॥१८॥
भजतश्चपलोदये विकासं रजसा दूषयति स्वसेविनोऽपि।
प्रमथेशपदार्चने निषेधो भवतःकेतकयुक्तमेव मन्ये॥१९॥
कर्पूरस्य पदे चिताग्निभसितं क्षौमस्यनागत्वच
प्रासादस्य परेतभूमिमुरग प्रत्यग्रमुक्तावलेः।
दिव्याहारभरस्य किच गरलं देवेन सतन्वता
स्थाने काञ्चन पारिजातकुसुम स्थाने भवद्धारणम्॥२०॥
प्रमथाधिपार्चनायैबिल्व भवत्पत्रभङ्गरचनैव।
मूलमनघेन पुसा भुक्तिवधूपत्त्रभङ्गरचनायाम्॥२१॥
श्रीखण्डसालजगतीविदितानुभाव
तत्तादृशीसहनतां तव कि वदाम।
काम यत कठिनदारणदार्यमाण-
देहोऽपि गन्धनिवहेन जनान्धिनोषि॥२२॥
पौष्पैःकल्पयसे रसैर्मधुलिहा वृन्दस्य सतर्पण
छायासपदमातनोषि जनतासतापनिर्वापिकाम्।
पुष्णासि खयमङ्कुरैशुभगिरा पुस्कोकिलाना कुल
धात्र्यामत्र तवैव चूतविटपिन्धन्या महाभ्युन्नतिः॥२३॥
उद्यानादथ मज्जनाय सुमना मध्याह्नहृद्येतर-
च्छायानायकसज्वरप्रशमनोपायादुपायात्सरः।
पाथोजावलिशीधुहृष्टमधुपव्रातप्रणादक्रिया-
सगीतोत्तरनृत्तकौशलमिलद्भृङ्गालि रङ्गस्थलम्॥२४॥
अधिगत्य च कासारमयमित्यभाषत।
नीरजानि जलनीलिकाभरैःसाकमेव सततं बकैः सह।
मण्डलीमपि च मानसौकसां पुष्यति स्फुटमसौजलशयः॥२५॥
**ग्राहब्जिनीकण्टकपङ्कराशीनन्तर्दरन्तानपि सदधानः।
बहिर्गतैरम्बुजराजहंसैर्बध्नाति विस्रम्भमयं तटाकः॥२६॥ **
हे पद्माकर मा विषीद जगतीचेतःप्रियभावुको
धत्ते यत्त्वयि चन्द्रमा विमुखतां तस्यैव तल्लाघवम्।
सौहित्यप्रतिपादने तव पुनः शक्ताः परिष्कुर्वते
पृथ्वीमध्यममी पराकृततमोदर्पारवेर्भानवः॥२७॥
अनन्तरमसावनियन्त्रणस्नेहपरवशानुचरोनिजकरविलुलितोदकमवगाह्यकमलाकरमवचितसरोजपरिष्कृताग्रहस्तःसमुत्तीर्यवारितो निषेवित दिवसबन्धुरयमवनिसुरधुरंधरो मन्दिराय मन्दमन्दमस्पन्दत।
गत्वोपकार्यांकलितेशपूजः स भुक्तवान्भूसुरभुक्तशेषम्।
ब्रह्मोद्यपाठ प्रतिपद्यते स्म सुचर्ययार्याःसमय नयन्ते॥२८॥
तथा हि।
**एष दुर्हृदनुरोधहेतुक भेदमात्मपतिना सम गतः।
आपदामहह भाजनीभवन्पूरुषो भजति भूयसी व्यथाम्॥२९॥ **
ईशवासरमणेरदर्शनादेधमानधनमोहशार्वरः।
सनिकृष्टमपि शश्वदात्मनो हर्षशेवधिमसौन पश्यति॥३०॥
**बोधचन्द्रमसि पूर्णविग्रहे मोहराहुमुषिताकृतौसति।
स्नानदानयजनादिकान्यसौमोचनावधि मुदानुतिष्ठति॥३१॥ **
**आ रसातलतलादयं विधोरा च वासभवनाद्गतागतैः।
खिद्यमानहृदयो गवेषते स्फारविश्रमसुखास्पदं पदम्॥३२॥ **
आधिवीचिमदनादिससृतिव्याधिभेषजविशेषवेदिनम्।
शर्मदं शरणमेयुषामयं ब्रह्मनिष्ठभिषजं प्रपद्यते॥३३॥
**देशिकोक्तिदृढकुञ्चिकाकृते गाढविभ्रमकवाटपाटने।
अगमान्तवसुमन्दिरान्तरादर्थमिष्टमनघोऽयमृच्छति॥३४॥ **
**पण्डितः पटुविचारशस्त्रिकाव्यस्तकोशमयवल्कसंहतेः।
सारमाकलयते जगद्धनक्ष्मारुहात्किमपि नित्यनिर्मलम्॥३५॥ **
मानतर्कमयवारिधारया क्षालितेषु गगनादिपांसुषु।
अन्तरङ्गफलकान्तरे सुधीरीशताद्रविणमीक्षते निजम्॥३६॥
**पारदुर्विधसुखप्रकाशके तत्त्वबोधतनयोदये सति।
अस्यकर्मकरणाधिकारिता नानटीति न कदाचिदप्यहो॥३७॥ **
**विश्वकण्टकिफलंविशुद्धयावेदनच्छुरिकया विदारयन्।
आन्तरं रसममुष्य निर्ममःसर्वथा निरुपम समश्नुते॥३८॥ **
विप्रयोगसमये स्वमायया विक्रियाशतमुपैति पूरुषः।
हन्त मुक्तिरमणीमवाप्य तामेष निर्विकृतिरेव तिष्ठते॥३९॥
**मुक्तिसगतिमहोत्सवो मनेरीदृशोऽयमिति केन वर्ण्यते।
चेतसा सह यतो निवर्तते श्रेणिरागमशिरोगिरामपि॥४०॥ **
अपि च।
चित्तेन वृत्त्या विषयेण सगान्मातृप्रमामेयदशा प्रपन्नः।
आत्मैक एव प्रतिभासते चेदतः किमन्तर्मुखतास्ति भिन्ना॥४१॥
निःसन्धिबन्धं निगमान्तवाचः परप्रतीचोरभिदा वदन्ति।
सा च स्वरूपानतिरेकिणी चेदहप्रतीतेरपरो न योगः॥४२॥
अजादिकीटान्तमनर्थजातमध्यस्तमेवात्मनि बोधरूपे।
स एव चेदसि भवेन्निवृत्तिरतः परं कि पुनरसि साध्यम्॥४३॥
इतीदृशीमागमदेशिकाभ्यामधीयमानामवबोधनावम्।
द्रढीयसीमेत्य तपोभिरेकः पारं परं याति भवाम्बुराशेः॥४४॥
किं च।
**विना मृडप्रपतन विगमो न हि जन्मनाम्।
भास्वतो दर्शनमृते प्रशमस्तमसामिव॥४५॥ **
आधिक्यमसाज्जगतोऽधिगन्तु विश्वाधिकोक्तेर्विषयं प्रपद्ये।
कालग्रहग्राहभयापनुत्त्यैकृतान्तशिक्षाकृतिनं प्रपद्ये॥४६॥
शृङ्गारभूजृम्भणवारणाय प्रसूनकोदण्डरिपु प्रपद्ये।
विनेतुमार्ति विषयाध्वजन्यां वटद्रुमाधोवसति प्रपद्ये॥४७॥
**मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये।
कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशु प्रपद्ये॥४८॥ **
विशुद्धविज्ञानविकासहेतोःप्रबोधमुद्राभरित प्रपद्ये।
तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये॥४९॥
**वैमल्यसपादनवाञ्छयाहमन्दाकिनीमाल्यधरं प्रपद्ये।
प्रसादलाभपरमीहमानो मुग्धस्मितोल्लासिमुख प्रपद्ये॥५०॥ **
व्यथामशेषा व्यपनेतुकामो नाम्ना मृडं नाथमहं प्रपद्ये।
…………………………………………………………..॥५१॥
सर्वज्ञतासारभृत प्रपद्ये निःसीमसौहित्यनिधिं प्रपद्ये।
अनादिबोधायतन प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये॥५२॥
**हरं प्रपद्येऽहमलुप्तशक्तिममेयसामर्थ्यमहं प्रपद्ये।
शिव प्रपद्येजनकंविधातुरीश हृषीकेशगुरुं प्रपद्ये॥५३॥ **
इति प्रपत्तिमीशस्य तन्वते तत्त्वदर्शिनः।
तत्क्रतुन्यायरसिकास्तत्तादृशफलाप्तये॥५४॥
तदनु तदनुवर्णितशास्त्रसमाकर्णनादिव विरक्तभावमापाद्यमानः कमपि शमप्रकर्ष- मुपदर्शयन्नरुणसारथिरवततार चरमगिरिशिखरम्।
**अस्ताद्रिशृङ्गादतिमात्रतुङ्गादात्माधिनाथं पतयालुमब्धौ।
द्रष्टुं नलिन्यो धृतभीतिभारा न्यमीलयन्नीरजलोचनानि॥५५॥ **
नभस्तमालद्रुमपल्लवाभा नव्या बमौसान्ध्यमयूखरेखा।
अम्भोधिनिर्भज्जदभीशुमालिरथाग्रकौसुम्भपताकिकेव॥५६॥
दिवसकरविप्रयोगतनीयसीनामाशाविलासिनीनामसितजलदानुकारिणी वेणिकाधोरणीव तमिस्रपङ्क्तिरदृश्यत।
प्रतिवेश्म तमिस्रेण बन्दीकृत्य नियन्त्रिताः।
प्रभा इव पतंगस्य दीपरेखा दिदीपिरे॥५७॥
सपदि गगनपथादपसरता वास(र)करेण सरभसानुसरणोद्भटतमःप्रतिभटविलोपनाय विस्तारितानि परिष्करणमुक्ताफलानीव तारकापटलानि ददृशिरे।
**तमिस्रकस्तूरिकयानुलिप्ता प्रदीपचाम्पेयकृतावतसा।
वाटी हरिद्वासकसज्जकाना बबन्ध चन्द्रागमनप्रतीक्षाम्॥५८॥ **
**अत्रान्तरे सिन्धुरवापदेशादानन्दयन्सर्वदिगन्तराणि।
ध्वान्ताभ्यमित्रीणतुषारतेजः प्रयाणभेरिध्वनिराविरासीत्॥ ५९॥ **
आगत्य संकोचभृतः सरोजादिन्दीवरं यावदलिस्ततोऽपि।
मौनस्पृशोयातुमियेष तावदिन्दुस्तदुद्बोधकरो जजुम्भे॥६०॥
विगतसकलाशाविकासकर्मणि परिहृतविषयानुभावे संमीलितसरोजचक्षुषि तेजः किमपि दीपाकारमन्तरनुसदधाने कालकर्मन्दिनि पृथुलतमःपटलभेदमुपपादयन्प्रबोध इव सुधाकरो भगवान्प्रादुरभूत्।
**द्यौरिन्दुनाधूतपुरस्तमिस्रा पश्चाच्च रिङ्खत्तिमिरा बभासे।
हृतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्तिमिताम्बरेव॥६१॥ **
संध्यारुणं प्रागथ सान्धकारं पश्चान्नभः प्लावितमिन्दुभासा।
रेजे विराजत्क्रमजृम्भमाणरजसस्तमःसत्त्वमिवान्तरङ्गम्॥६२॥
**प्रह्लादने महसि तत्र सतिप्ररूढे
वाराकराम्बुलहरी ववृधे यथेष्टम्।
चन्द्रोपलाः सरसतामधुरुत्पलानि
चक्रुः स्मितं किमुत यानि सचेतनानि॥६३॥ **
**न चेत्पुराणौपुरुषौनताङ्गीवशवदोरःस्थलवामभागौ।
तादात्विकं तावपि न क्षमेतां कामोद्यमं का गणना परेषाम्॥६४॥ **
**काञ्च्यांतदा कामकलाजनीति किमद्भुत तत्र कृतान्तशत्रोः।
तथा स्मरन्दग्धवतोऽपि देहे सदृश्यते शैलसुतास्तनाङ्कः॥६५॥ **
तथाहि।
**विलासिनी काचन विप्रयुक्ता सतापिताङ्गी नवचन्द्रिकाभिः।
विगर्हणापूर्वमिदं विषण्णा जगाद चन्द्रस्मरगन्धवाहान्॥६६॥ **
**कोदण्डदण्डः कुरुनन्दनेन मुक्तो रुषा मूर्ध्निशशाङ्कमौलेः।
हिमद्युते यत्त्वयि नापपात मद्दुष्कृतानां महिमा स एषः॥६७॥ **
**पान्थावलीभञ्जनसचितेन दोषेण दोषाकरता तवेन्दो।
आलोकिते त्वय्यत एवचक्रैराशास्यते चण्डकरावलोकः॥६८॥ **
**क्षपाकरक्ष्वेल विभावये त्वाहालाहलादप्यतिमात्रघोरम्।
स कण्ठ एवस्मिमितः स्मरारेरुपागमस्त्वंपुनरुत्तमाङ्गम्॥६९॥ **
**धिग्धिक्त्रिलोकीजनगर्हणीयां चारित्रमुद्रां तव शम्बरारे।
भवन्तमेकं परिहृत्य के वा धनुर्भृतः स्त्रीषुपराक्रमन्ते॥७०॥ **
**मुग्धासु चेतोभव मादृशीषु मुहुर्भवान्यत्प्रकटीकरोति।
क्रद्धे पुरद्रोहिणि पौरुषं तत्क्व वा विनिद्रातुमगात्तदानीम्॥७१॥ **
आखेटमध्वन्यवधूमृगेषु प्रपञ्चयन्पञ्चशरः किरातः।
पिकालिगीतिप्रचुरो वसन्ते मही मरुद्वागुरया निरुन्धे॥७२॥
**संभ्राम्यदिन्दिन्दिरचक्रनेमिसीमन्तिताशेषदिगन्तसीमा।
महीतलान्धकरणः परागैर्मथ्नााति पान्थानतनोः शताङ्गः॥७३॥ **
**तत्तादृशा दक्षिणतागुणेन विभावयन्विश्वसनीयभावम्।
मरुन्नवोऽय बत मादृशीषु प्रभञ्जनत्व प्रकटीकरोति॥७४॥ **
**मध्येनितम्ब मलयाचलस्यस्पृष्टो नु दावाग्निशिखाकलापैः।
विषोर्मिलव्यालमुखच्युतो वा मन्दानिलः सौति ममाङ्गतापम्॥७५॥ **
**उष्णःस्वभावादनिलार्भकोऽयमुपाधितः शीतलता दधाति।
आलिङ्गनादस्य कथघटेत पत्रावरोषःपरथा लतानाम्॥७६॥ **
**उष्णच्छिदामुष्णनिषेवणेन भिषग्जनाः प्राहुरिति प्रतीताः।
कुम्भीनसा घोरविषोष्णशान्त्यैपिबन्ति बालानिलमुग्रवीर्यम्॥७७॥ **
**हराक्षिकीलाभिहता रतीशप्राणानिला एव परं धरायाम्।
पटीरशैलानिलकैतवेन पान्थावलीप्लोषकृतोवलन्ते॥७८॥ **
**स्वय जगत्प्राणतया स्वधाम वियोगिनीविग्रहचक्रवालम्।
नभस्वतो निर्दहतः कृशानुरवाप्तजन्माभवदाश्रयाशः॥७९॥ **
**शितो यतः शैत्यमतो बिभर्ति नवः समीरो न तु शीतभावात्।
अस्यावलेहं सृजतामहीनां भिन्नारसज्ञाः परमत्र मानम्॥८०॥ **
**पटीरशैलेन्द्रफणाधरेभ्यो जनावलीजीवितमोषविद्याम्।
अभ्यस्यताचेदमुना गृहीता निद्रापि नैष प्रसरेद्विषादः॥८१॥ **
अय भुजङ्गावलिपीतशेषः समीरपोतः स्वविकासहेतोः।
वियोगिनीजीवितमारुतानामसशय संग्रहणं तनोति॥८२॥
**निरागसामध्वगसुन्दरीणामुद्वेगदानादुपजातरोषाः।
स्वच्छन्दमन्तःश्वसन निरुध्य मन्ये निगृह्णन्ति महानुभावाः॥८३॥ **
जगत्त्रयोपद्रवशातनाय पीताम्बुराशिः प्रथमो मुनीनाम्।
बालानिलाब्धिं च पिबेदवेल न चेदयं नागविलीढशेषः॥८४॥
अगस्त्यदिड्मारुतमापतन्त वृष्टेवग्राहमुशन्ति बृद्धाः।
अहो भवत्यस्य समागमेऽपि वियोगिनीलोचनवारिवृष्टिः॥८५॥
और्वं पयोधेरवलेपशान्त्यैसमीरणस्यापि च सर्पजालम्।
विधिर्विदध्यान्न यदीयमुर्वी कथं न जायेत कथावशेषा॥८६॥
श्रीरामविश्लेषविषण्णसीताप्राणप्रतिष्ठापनवीततन्द्रः।
स्त्रीणामसुग्रासपटोःसमीरादतो हनूमान्कथमाविरासीत्॥८७॥
विना जगत्प्राण भवन्तमेषा विश्वत्रयी न श्वसितुं क्षमेत।
ईदृग्विधेऽपि त्वयि स्वेदहेतौवियोगिनीभिर्वद कि विधेयम्॥८८॥
धर्मच्युतस्योचितमाशुगस्यतीक्ष्णाकृतेर्देहिवधैकरस्यम्।
आविःसुधर्माश्रयणस्य ते तु दाक्षिण्यधन्याशुग तद्विगेयम्॥८९॥
भवन्तमाहु प्रथमेशमूर्ति पदार्थशुद्धेः परम च हेतुम्।
सदागतिं चात्र समीर किं ते युक्त वियुक्ता युवतीर्निहन्तुम्॥९०॥
प्ररूढमन्तः पथिकाङ्गनानां वियोगशोकानलविस्फुलिङ्गम्।
कि मञ्जरीगर्भरजःकरीषैः समीर संवर्धयतः फल ते॥९१॥
घृणा न ते दक्षिणगन्धवाह तवावतारे तरवोऽपि धात्र्याम्।
वितन्वते व्यक्तशरीरकम्पाः प्रवालपाणिप्रविधूननानि॥९२॥
त्वामश्नुतां वाचि तपोधनानामाशीविषाणामपि वक्त्रसीम्नि।
विषाभिवृद्धिर्विदिता नभस्वन्नतो जगत्यामतिदारुणोऽसि॥९३॥
सङ्घेभृशं क्रोशति षट्पदानां कु(हू)रवाधायिषु कोकिलेषु।
अपह्नुवानो धृतिमध्वगानां भवान्विविङ्क्तेपवमान बाल्यम्॥९४॥
आः क्रूरकर्मासि फणाभृतोऽपि धरातलेऽस्मिन्स हि तीव्रदंशैः।
प्राणानिलानापिबति प्रजानां भवान्पुनःस्पर्शनलीलयैव॥९५॥
अये समीरानिशमध्वनीनवधूवधैःपातकमर्जितं ते।
वल्लीप्रवालव्यपदेशतप्तभल्लाग्रपातैरपि कि प्रशाम्येत्॥९६॥
**भृगुप्रपातं बहुतीर्थसेवा दिने दिने दीप्तशिखिप्रवेशम्।
करोषि मन्दानिल कामतस्त्वं कुर्वन्मुहुः पान्थकुटुम्बहिसाम्॥९७॥ **
**मान्द्यैकभूमे मलयाद्रिवात मासद्वयीमात्रमवस्थिति ते।
अचिन्तयन्हन्त कथ तनोषि पदे पदे स्त्रीवधपातकानि॥९८॥ **
**प्राक्सेतुबन्धावसरे कपीन्द्वैरुन्मूलितश्चेन्मलयः समूलम्।
नृशंस मन्दानिलनिर्दय त्वा पश्यन्ति कि पान्थविलासवत्यः॥९९॥ **
**मन्दं समागत्य ममाशुकाग्रमालम्बसे स्वेदमपाकरोषि।
अङ्घ्रौ पतस्याहितचापलस्त्व पराङ्गनास्पर्शभय न कि ते॥१००॥ **
**मामञ्जनेति स्पृशमा समीर वियोगिनी व्यक्तमनञ्जनाहम्।
कन्या नृपस्यान्यकरग्रहार्हाःस्पृष्ट्वात्वया कि फलमाप्तमासीत्॥ १०१॥ **
**कृतावतारो हृदि गन्धवाह कन्दर्पनाराचगवाक्षिते मे।
प्राणान्गृहाणाशु यतो भवेयमभीकविश्लेषकथानभिज्ञा॥१०२॥ **
**मय्येव सनह्यसि मन्दवात कान्ते मदीये करूणां दधासि।
मृद्गासि चेन्मामिव निर्दयं त स किं समायास्यति नान्तिक मे॥१०३॥ **
**रणे शताङ्गस्य रयातिरेको जैत्रश्रियं चापभृतः प्रसूते।
मन्दं रथ त्वामधिरुह्य मारो मन्ये महेशेन पराजितोऽभूत्॥१०४॥ **
**भवन्तमालम्ब्य रथीभवन्तं सखा रतेः शर्वजिगीषुरासीत्।
प्रप्तेरणे त प्रतिपाद्य तस्मैचक्रे त्वया स्वाशुगतानुरूपम्॥१०५॥ **
**यदा रतीशं भगवानजैषीत्तदाप्रभृत्येव समीर भीत्या।
दिवानिशं भ्राम्यसि दिङ्मुखेषु तथापि ते शाम्यति नैष दर्पः॥१०६॥ **
आयासिशीघ्र हरिदन्तरेम्यः शनैस्तु चण्डांशुभुवोदिगन्तात्।
कामारिभीतिः खलुतत्र हेतुःसा चेन्न हन्याज्जगतीमकाण्डे॥१०७॥
मा मा मरुन्माणव वल्गनानि प्रकाममन्दप्रकृते विधेहि।
पदे पदे त्वन्मदभञ्चनाय जाग्रत्यमी जातरुषो भुजङ्गाः॥१०८॥
तदनु मदनपीडा सोढुमक्षमतया तया हरिणशावेक्षणया प्रियतमाय सप्रेषिता सखी समेत्य तमित्यभाषत—
**सन्त्येव कान्तेषु समश्नुवाना रागातिरेकललना जगत्याम्।
नालोकितो न श्रुतिमागतो वा तस्या मृगाक्ष्यास्त्वयि भाववन्धः॥१०९॥ **
आखाद्य शश्वन्मधुनोऽपि हृद्या गुणावलि ते कुटिलायताक्षी।
नितान्ततृप्ता नियतं सखीनामाहारवार्तामपि सा धुनीते॥११०॥
**दूरीकृतस्त्वद्विरहार्तिभारादुदित्वरोरुश्वसितैरिवास्याः।
इन्दीवराक्ष्या वदनारविन्दे सदृश्यते जातु न मन्दहासः॥१११॥ **
**मनोभुवो धूममयैरिवास्त्रैरुत्पादितादूष्मलबाष्पपूरात्।
भीतेव तस्याभृशमायताक्ष्या निद्रा दृशोर्नैव पद निधत्ते॥११२॥ **
**पराङ्मुखी चन्दनपङ्कलेपवीटीक्रियामाल्यविभूषणेषु।
बाला विधत्ते भवदोष्ठबिम्बसुधारसास्वादकृते तपस्याम्॥११३॥ **
दूतिकावर्धितस्नेहदीपित मदनानलम्।
कामी निर्वापयामास कान्ताश्लेषसुखामृतैः॥११४॥
**आलीहितोक्तिनिकरादनु दूतिकाना-
माभाषणादनु मनोभवशासनाच्च।
अम्लानमानकलिकामपरो विलासी
सप्रीणयन्प्रियतमामिदमाबमभाषे॥११५॥ **
पाठीनकेतुपरदेवतया त्वया कि-
माज्ञापिते कबरिकारचनादिकृत्ये।
शंसामुना परिजनेन समुल्ललङ्घे
पङ्केरुहाक्षि तव केन बभूव कोपः॥११६॥
**यः शैशवात्प्रभृति पाणितले निवेश्य
संवर्धितोऽजनि मया दयिते स कीरः।
आख्याति वाक्यमहित त्वयिरोषवत्या-
मित्यद्भुत न विरुणद्धि यदात्मजोऽपि॥११७॥ **
**बालेमया न गणिता भवदादृतेन
ये मीनकेतनसमीरकिशोरमुख्याः।
आसीत्ततोऽपि मम भीतिरहो भवत्या
वैमुख्यभाजि विषमो विधिदुर्विपाकः॥११८॥ **
**मन्तुस्पृशो रचयितु मम शिक्षणानि
स्वातन्त्र्यमस्तितव जीवितनायिकायाः।
कन्दर्पगन्धवहकैरविणीविटानां
का वा कृशाङ्गि मम निग्रहणे प्रसक्तिः॥११९॥ **
**आगःसमीक्षणकृतस्तव चेदमर्ष्नः
शोणाधरे विरचय स्वयमेव शिक्षाम्।
मां विप्रयोगिजनमारणवीततन्द्र-
कन्दर्पपातकिकरे न समर्पयेथाः॥१२०॥ **
**पादारविन्दतलाताडनबाहुयन्त्र-
निक्षेपतुङ्गकुचदुर्गनिवेशितानाम्।
काम त्वया कनकगौरि समाहिताना-
मर्होभवामि मयि चेदपराधशङ्का॥१२१॥ **
प्रारभ्य पञ्चषदिनानि तव प्रसाद-
मभ्यर्थयत्रतिपतेरधिदेवतायाः।
**ध्यानाशनव्रजनजागरणादि कुर्वे
प्रीतिर्न ते तदपि यत्स ममैव दोषः॥१२२॥ **
**शातोदरि भ्रुकुटिजैत्रधनुर्लताया
भङ्गे कृतेऽपि सति कोपनया भवत्या।
अश्रान्तमाशुगर्भरेण विचित्रकर्मा
मर्माणि हन्त मम कृन्तति पञ्चबाणः॥१२३॥ **
**विश्वत्रयोदरभुवा विशिखव्रजानां
शश्वद्व्ययं रचयतो मयि शम्बरारेः।
नाणीयसा भुजमदेन नताङ्गि शङ्के
वेणीलता विरहिता तव मालिकाभिः॥१२४॥ **
**क्रीडाचकोरशिशवोऽपि कृशाङ्गि नून-
मेते परं वयमिव त्वयि सापराधाः।
मन्दस्मितामृतमरीचिकरैरमीषां
तृप्तिं यदा रचयसे न तृषातुराणाम्॥१२५॥ **
**तत्तादृशैः कुरबकीभवनं तपोभिः
प्राप्य न मेरुपदवीमपि दूरभूताम्।
हित्वा चकोरनयने भवतीमिदानी-
मभ्यर्थये तिलकभावमशोकतां च॥१२६॥ **
प्राणेश्वरस्य पटुचाटुकृतः कुचाद्रि-
कस्तूरिकाभिरनुलिप्य भुजान्तरालम्।
वेलातिलङ्घनचणप्रणयाभिरामा
रामा ददौ रदपटीं मुखवीटिकां च॥१२७॥
शक्रकोपशकलावलीसदृग्वीटिका तिम ला बभौ।
चक्रतुः प्रकटरागमेदुरस्वस्वमानसनिवेशन मिथः॥१२८॥
पाणिना प्रसवसङ्गिनीमलिश्रेणिकामिव निमृह्य वेणिकाम्।
सुभ्रुवोमुखसरोरुहासव सेवते स सृमरादरो विटः॥१२९॥
पाटलोष्ठपरिचुम्बने दृढं मेलनामधिगता मिथस्तयोः।
चारुताभरसमुद्गकश्रिय व्यानशे वदनमण्डलद्वयी॥१३०॥
आत्मनेतुरनुरागसपदः श्लाघन विदधतीव समदात्।
गाढपीडितरदच्छदामुना कामिनी व्यधित मौलिधूननस॥ १३१॥
अन्वकारि पुलकैरणूदरीबाहुनद्धपरिणेतृसवृतैः।
निर्भरस्तननिपीडनोद्गता शम्बरारिशरशल्यमण्डली॥१३२॥
मय्यमुष्य नितरां पचेलिमं मा स्म सौहृदमितश्चलत्विति।
स्वस्तनाग्रमणिकीलयोर्युग सा हृदि प्रियतमस्य सदधे॥१३३॥
अस्पृशत्करयुगेन कामिनः पश्चिमाङ्गमुपगूहने वधूः।
न्यस्तमस्य हृदि मत्कुचाञ्चल निःसरेद्ध्रुवमिहेति कि धिया॥ १३४॥
चित्तजार्चनचिरात्ययैनसो भञ्जनाय भृगुपातसाहसम्।
कर्तुमेष किमु कामुको हठादध्यरुक्षदबलाकुचाचलम्॥१३५॥
या पुरा विरहिणी स्मराशुगैराप खेदमतिकोमलैरपि।
सा बभूव वनितारतार्भटी(?)निर्दयप्रियविमर्दनक्षमा॥१३६॥
निर्विशङ्कनखसनिवेशनः पाणिरोधरदहितोष्ठचुम्बनः।
स्वस्तिकोज्झितकुचोपगूहनः स्वैरलब्धरशनावमर्शनः॥१३७॥
विप्रलम्भविहितानुतापयोः सप्रहृष्टमनसोः समागमात्।
तत्क्षण तरुणयोस्तयोरभूल्लङ्घिताशायपथो रतोत्सवः॥१३८॥
तदानीं च तरुणिममदानीतरभसमुत्प्लुत्य केलीतल्पतलादुद्वेलमेखलाडम्बरविभाव्यमा- नसंरम्भा निजनर्मसचिवस्य समरविशेषसंनाहमसदहमानेव तमधो निपातयन्ती तव कितव दर्पातिरेकमुत्पाटयामीति तर्जयन्तीव परिहृतार्जवगुणा भ्रूवल्लीमादधाना दशनदष्टाधरोष्ठपल्लवमाविष्क्रियमाणकण्टग्रहणचण्डिमातिशया मानद, सपदि मारयामि भवन्तमिति सविकारमुदीरयन्ती श्रवणावतंसकुसुमपरिमलाकृष्टमधुकर- कुलवाचालतया स्वबन्धुभिरिव दीयमानबन्धभेदोपदेशा साटोपविधीयमानचपेटाभिगातमा- यतवितायमाननिःश्वासपवनपरिवीतमाहितनव-पिष्टातपांसुमुष्टिभिरपनीयमाननिरवधिस्वे दम- तिनिशितनखरायुधवितीर्यमाणनानाविधमर्मवेदमाश्चर्यगरिमनिश्चलविलोकनोद्ग्रीवपरिसरगतप्रदीपजात किमपि विपरीतमदनरणरतिमुररीचकार शातोदरी।
तस्मिन्विलासी तनुभूनियुद्धे पराजय प्राप्तमिवातिमात्रम्।
हस्तारविन्देन नितम्बभारमास्फालयामास मृगेक्षणायाः॥१३९॥
संतुष्यता तादृशसाहसिक्यान्मीनध्वजेनेव कृता मृगाक्ष्याः।
पर्यस्तधम्मिल्लपरिच्युतानां बभूव वृष्टिः प्रसवावलीनाम्॥१४०॥
कुचौकराभ्या कुलशैलतुङ्गौ जग्राह कान्तो जलजेक्षणायाः।
प्रतायमानादनयोः प्रकम्पान्मध्यव्यथा मा भवतादितीव॥१४१॥
सा मेखलामङ्गलवाद्यघोषैः कण्ठोदयत्काकुनिनादगीतैः।
वक्षोजनृत्तैरपि वारिजाक्षी चित्तेशयं दैवतमारराध॥१४२॥
अस्या भृश पौरुषमास्थितायाःप्रपेदिरे विक्लवता प्रतीकाः।
भीरोरनीका वसे प्रकामं शैथिल्यमङ्गानि खलुश्रयन्ते॥१४३॥
श्रान्ता पुनः सामिनिमीलिताक्षी कान्ता पपातोरसि कामुकस्य।
क्रीडासमाबद्धवियातभावव्रीडादिवामुष्य तनुं विशन्ती॥१४४॥
सभोगान्ते किमपि सुमनश्चापनाडिंधमेन
प्रत्युप्तायाः प्रियतमहृदि स्त्रीमणेःस्थैर्यसिद्ध्यै।
**गाढोत्पीडावलयितकुचोद्वान्तकाश्मीरलक्ष्या-
त्प्रायोरेजे बलवदभितोघट्टिता हेमरेखा॥१४५॥ **
**चुम्बनोद्गमितवीटिकापृषद्दूषितप्रियदृगुत्थिता वधूः।
गात्रकामकरवालवल्लरीमाहवप्रकटितामथावृणोत्॥१४६॥ **
इति किल परमात्मनःसुखाब्धेर्विषयसमीरविसारितैस्तरङ्गैः।
जगदिदमभिषिच्यमानमासीदमितभवज्वरवेदनानभिज्ञम्॥१४७॥
वाधूलवशधूर्वहस्तु वावदूको निर्वर्तितसाध्यकृत्यसतानप्रस्तुतनियमादरप्रवाहनिर्मज्ज- दखिलविषयाभिलाषोऽपि मानसपथनीतमकरकेतुशासनः सुखमशेत। तदनु दिगङ्गनादृढस- मालिङ्गनचन्द्रिकाङ्गरागःप्रकटकलङ्ककैतवादतिचिरोपभोगपरिश्रान्तिगरिमविश्रान्ततनुलता हृदन्तरेण विभावरी दधानो दरनिमीलदानीलसरोजलोचनमारभ्यमाणनिद्रारसानुभूतिरि- यमुत्पलिनीति तदुपगूहनविधायिनी करसहतिमात्मनःशनैरूपसंहरन्प्रचुरविहारखेदपरिम्ला- नमूर्तिरपराद्रिनिकेतशयनमजिहीत तुहिनदीधितिः।
**गगनमणिसौधशिखरादभिसरति दिश निशाकरे चरमाम्।
प्राप कुलिशायुधाशा परिपाण्डुदशां वियोगविवशेव॥१४८॥ **
**शीर्णपाण्डुरिमजीर्णपलाशा रूढसांध्यरुचिपल्लवपङ्क्तिः।
पूर्वदिग्व्रततिरम्बरलक्ष्मीभूषण तपनगुच्छमपुष्णात्॥१४९॥ **
**आत्मनश्चिरमसनिधिहेतोर्वैकृतकिमपि वारिधिनेमेः।
चिन्तयन्निव शनैरुपतस्थे लोकबन्धुरथ मध्यमलोकम्॥१५०॥ **
**नभोमणिप्राङ्गणनर्मभाजस्ताराभिधाः केचन राजदाराः।
आलोकमार्गादरविन्दबन्धोरपासरन्नध्युषितोदयाद्रेः॥१५१॥ **
दिशोदशानन्दयितु विधाय तिरस्कृतिं ध्वान्ततिरस्करिण्याः।
**महा त्मा महसां स राशिराकाशरङ्गस्थलमाससाद॥१५२॥ **
**अर्कोदयात्प्रागधिगत्य बोध प्राज्ञस्तुस प्रातरूपास्य संध्याम्।
पिनाकिसेवां प्रणयन्ननैषीन्निशात्रयं निस्तुलसत्ववृत्तिः॥१५३॥ **
इति समरपुङ्गवस्यकृतौ चम्पूकाव्ये चतुर्थ आश्वास।
———————
पञ्चम आश्वास।
**निष्काञ्चिरैक्षिष्ट स निम्नगां ता पयस्विनी पाण्डरफेनजालाम्।
सुपर्वधेनोः सुतवत्सलायाः स्तनान्तरात्सद्य इव प्रवृत्ताम॥१॥ **
**शैवालपालिस्तटसीम्नि यस्यानिलीयते वीचिनिरस्यमाना।
क्लृप्तावगाहेन गणेन नृृणा प्रक्षालिता पातकधोरणीव॥२॥ **
**सविलासविवर्तनेषु शश्वद्विवृतावर्तगभीरनाभिगर्तम्।
दधती चलमीनदृष्टि गात्र भजते रागवतीव या पयोधिम्॥३॥ **
**पार्श्वद्वयप्रभवसारणिकासहस्र-
निःसार्यमाणलहरीकतया नितान्तम्।
आसादितापि कृशता विहधाति यस्याः
सस्यावलीकलनर्कीतिमुखेन शोभाम्॥४॥ **
**अघमर्षणमन्त्रसततेरयमावर्तनमाचरन्सुधी।
अदसीयजलान्तरावसत्कलिभीत्येव कदर्थितश्चिरम्॥५॥ **
**सलिलैरखिले तस्याः कलिते नित्यकर्मणि।
आदिष्टतपनो भासा प्रातिष्ठत स धार्मिकः॥६॥ **
**श्रीनन्दिशैरद्विपदानधारां हारावलीमर्णवमेखलायाः।
पुण्याम्बुपूरामथ भूसुरेन्द्रः पिनाकिनी प्रापदसौप्रपन्नाम्॥७॥ **
उरुभिस्तटकेतकैरुदन्वन्महिषी दीव्यति या मनोज्ञसूनैः।
कलधौतपिधानखङ्गहस्तैरभिगुप्तेव महाभटैरभीक्ष्णम्॥८॥
अतिसनिहितोच्छ्रयावभङ्गे निपुणामाहितनीचतुङ्गभावाम्।
अनुगच्छति या महीपतीनामनघांनीतिमदर्शितान्तरङ्गाम्॥ ९॥
तत्र च पवित्रतरपाथसि प्रणीतमज्जनविधिरेष सज्जनशिरोमणिः सरोगणविमुक्तसारणीपूर- निर्वर्त्यमानशालिनिचयसवर्धनक्रियं कुशसमिदाहृतिकुतूहलवशादग्रहारशतविनिर्गतै- रवनिनिलिम्पमाणवककदम्बकैः ससंभ्रमविडम्ब्यमानसप्लवनरंहसा शम्बरकुलेन मुहुरलक्रियमाणजाङ्गलमहीभागमागमजलधिपारगधीरजन-मेधाभिभूतचण्डीशकुण्डलमतिलङ्घ्यतुण्डीरमण्डलं पातालभुवनमिव फणिराजसमधिष्ठित विपिनान्तरालमिव व्याघ्रपदलाञ्छित कलशाब्धिहृदयमिव कैटभद्वेषिनिद्रागृहाञ्चितं विपुलगिरिदुर्गमिव विमतभवभीतिसज्वर-चण्डरीतिहरमहिण्डत पुण्डरीकपुरम्। प्राका रपद्मेपरिस्वासरस्यामुन्मे- षवत्युज्ज्वलशृङ्गपत्त्रे।
**यत्रामितानन्दमय महान्तः शिलीमुखाः सीधुरस पिबन्ति॥ १०॥ **
तत्र च धरणीसुराग्रणीरनर्गलश्रद्धासमाहिततीर्थावगाहन सकौतुकमाक्रान्तचि(वि)त्सभान्तरो यवनिकापनयनक्षणलक्ष्यमाणतेजःपुञ्जसछादितदशदिशावकाशतया वारिदघटाविनिः- सृतममृतकरसहस्रमपहसन्त निपुणतरविनिहितेक्षणनिरूप्यमाणनिखिलप्रतीकतया मणिभ- वनमध्यदेशप्रविष्टमिव दृश्यमानमरुणसुतशिक्षणविधावपवृत्तदाक्षिण्यमपि दक्षिणंचरणमधो निधाय तिष्ठन्तमाटोपगरिष्ठविक्षेपभाविनी त्रिभुवनविपत्तिमभिशङ्क्यसरयमुपसर्पता सव्यकरपल्लवेन कलितविनिवारणमिव किचिदाकुश्चितमितरपदसरोजमुद्यम्यनृत्यन्त- मेकहस्ततलविन्यस्तेन सरभसपरिभ्रान्तिसदीप्तहेतिनापवमानसचिवेना रि(नि) विष्टदे- हतया विलसदष्टापदसालवेष्टितं कैलाससशैलमिव भासमानमियदेव नर्तनलयानुगुण- मित्यन्यपाणिसतन्यमानमतिलटहडमरुडात्कारकन्दलं परिच्छेदयतेव परंपरशयसरसिजेन विरचिताभीतिमुद्राभिनीतिमादिनटमद्राक्षीत्।
अवस्थिते मय्यपि गर्भदासे भागीरथी किं भवतैव धार्या।
जगत्पते स्थापय तामिहेति मन्ये स नम्रीकृतमौलिरासीत्॥११॥
आकर्णनव्रजनतीर्थवरावगाह-
निर्माल्यगन्धनिवहग्रहणावलोकैः।
अन्येन्द्रियावलिमवेक्ष्य भृशं कृतार्था-
मस्तौदमुष्य मृडमक्षमयेव जिह्वा॥१२॥
संनिधौमम समस्तदेहिना नृत्तमेव निखिलार्थसाधकम्।
तत्कलैवमिति कि नु दर्शयन्पुण्डरीकपुरनाथ नृत्यसि॥१३॥
नालीकसभवमुखामरनायकानां
सत्यादिलोकपतिभावसमृद्धिलाभम्।
प्राञ्चस्त्वदेकपरतन्त्रमुदाहरन्ति
तेषा पुनः किमभिलष्य तनोषि नाट्यम्॥१४॥
अमितद्रुहिणाण्डलीनामधिनेतुः स्वगताणिमादिभूतेः।
धरते खलुकामुकस्यगौर्यास्तव ससन्नटताण्डवानुबन्धः॥१५॥
साक्षिणोऽपि जगता तव शम्भो दर्शनाय विचरन्प्रतितीर्थम्।
अङ्कगात्मजगवेषणशीलहन्त लोकमनुयामि विमूढः॥१६॥
तावकीनपदतामरसार्चामावसानमसकृद्विदधानः।
श्रीसदाशिव कदा नु मुदाहं वासरान्क्षणमिव व्यपनेष्ये॥१७॥
असौविद्यानिधेरस्यपार्श्चस्थितपतञ्चलेः।
ह्रिया किमियतीं कृत्वा स्तुति तूष्णीकतामियात्॥१८॥
अथ बुधपुङ्गवः सह्यगिरिङ्कुसदानिता बन्धरशनामिव सिन्धुराजपटमण्डपस्य विधिवनचरप्रसारिता व्यापादनवागुरामिव पातकभरश्वापदपरंपरायाः सैकतनितम्बसङ्गिनी मेखलामिव जगतीमृगीदृशो निरतिशयसलिलकेलिनिरङ्कुशचोलीविशङ्क-टवक्षोजजघनविक्षोभजातवेदनामिव प्रतिमुहुरूर्मि- पवनापदेशेन विनि श्वसन्ती बहुदूरगमनखेदालसामिव पदे पदे तरङ्गकरेण तटभूमिमवलम्बमाना कलिविजयकर्मविहितोद्यमस्यधर्मक्षमापतेः कटकसंनिवेशैरिव कलशाम्बुराशिकल्लोलपाण्डरैरमरनिकेतनप्रासादमण्डलैरविरहिततीरदेशा लासिकामिव रभसविभावितभ्रमीसहस्रशालिनी नारायणीमिव नवकुवलयश्यामला कैमुदीमिव कुमुदव- नामोदनी वनमालिमूर्तिमिव वारिजसमश्चितां पश्चशरवैजयन्तीमिव पाठीनपरिशोभिता विलासवतीमिव विधृतफेनधवलचारुचन्दनामगाहत कवेरनन्दनाम्3।
स्पर्धावती बाढमिवाभ्रनद्या सहस्रधा चोलभुवि स्रवन्ती।
समन्ततःसवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री॥१९॥
कदापि नैवात्र पद करोतु दुर्भिक्षतादोषकथापि चेति।
प्रवाहवाहापरिवेष्टनेन बध्नाति चोलक्षितिपालन या॥२०॥
**रोधोवनीपिकरूतश्रवणैर्निकाम
सक्तेव या क्वचन सहृतलौल्यमास्ते।
अन्यत्र तादृशविलम्बनजन्यमब्धे-
राशङ्कय रोषमिव हन्त रयात्प्रयाति॥२१॥ **
स्वयमनुतटि यस्याः स्वादुसगृह्य तोय
पृथुलफलघटीभिः प्राशवो नालिकेराः।
गगनमरुपदव्या गच्छतो लेखपान्थां-
श्चलदुरुदलदस्तैःसत्यमाकारयन्ति॥२२॥
अनन्तरमयमवनिवृन्दारकमणिः प्रचुरफणिवल्लरीवेल्लितक्रमुकवनजालेषुचोलेषु विश्रुतं मायाघनत-मिस्रमार्तण्डलभुवनमपि च्छायावनं साधारण्यपदवीविदूरमपि श्वेतारण्यं नारीव्यापारकमनीयसौधमपि गौरीमायूरं मुक्त्यार्जनरसिकमोदैकदेतुमपि मध्यार्जुन जृम्भमाणहरिहरावदानघोषमपि कुम्भघोणं सचरदनघशैवसंजवनमपि पञ्चनद स्त्रीलाञ्छितदराङ्गनटननृत्तरङ्गमपि श्रीवाञ्छं विमलाशयपुरुषपरिषदाशास्यमपि कमलालयमधिगत्य, परिशीलयन्कियन्तमपि पन्थानमतिलङ्घ्य, कतिपयदिनैरमलफेनपटलभासुरामपां श्रियमिव सरस्वतो वेलाचलस्तम्भयुगलावलम्बिन पाशमिव दाशरथिविख्यातिलासिकानाट्यस्य तिर्यगवष्टम्भयष्टिमिव तीव्रतरवातपरिभूतवार्धिमर्दनपटिमशालिनः कल्लोलकपटमल्लस्य वेत्रलतामिव जलधिवीचिनर्तकीनटनविद्योपदेशकारिणः समीरणदेशिकस्य मध्यवंशमिव फणिराजमन्दिरसमावृतिकृतोनीरधिद्वन्द्वनीप्र(ध्र)द्वयस्य बन्धनदारुभेदमिव सलिलिमर्त्यशावकभृतो वीचिमदूर्मिडोलाविशेषस्य विषमसमकरणविरचनाफलमिव सगरकुलकीर्तिशालि………पोषणो वारिधिकेदारवसुमतीभागस्य सुवेलगिरिकीलसुदृढप्रसजितां दामनीमिव धरणीगवी कमठचरमाङ्गकलितविनिवेशना वैतानवेदिमिव राक्षसाधिपविजयदीक्षानुबन्धिनो रामचन्द्रस्य तूलिकामिव त्रैलोक्यधामनि रामचरित्रचित्र-लेखनपटोःसरसिजासनशिल्पिसार्वभौमस्य विधुतुदमिव दशकन्धरयशश्चन्द्रमसो युगंधरमिव पुरनिषूदन-स्यन्दनस्यकालदण्डमिव घनकलुषमण्डलीनां नालमिव पौलस्त्यनगरारविन्दस्य वादनकोणमिव वाराशिदुन्दुभेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापटमण्डपस्य दारणक्रकचमिव सरिदधिपदारूणो गुरुतरग्रावद्रोणीमिव वाहिनीशखुरलीविहारस्य गाधभावाधिगमकाण्डमिव दशवदनशौण्डीर्यतटिनीविलासिनः शिक्षाकशामिव सिन्धुपतिभङ्गसैन्धवव्रातस्य नलसेतुमवलोक्य कौतुकाक्रान्तमना वचनमिदमाचष्ट।
जनकतनयाधिनेतुर्जयहेतुर्यातुधानपतिजेतुः।
सेतुस्त्रिभुवनकौतुकहेतुर्भवता तनोतु कल्याणम्॥२३॥
दशमुखरघुवरयशसी तुलयितुमरविन्दजन्मना कृतयोः।
सिंहलजम्बूद्वीपच्छलधटयोर्यष्टिरवतु वः सेतुः॥२४॥
रघुवरकीर्तिनदीमणिरङ्गगृहे जयति दीप्यमानस्य।
आधारयष्टिमेतत्प्रतापदीपस्य सेतुमालम्बे॥२५॥
मामवतु रामसेतुर्मध्ये वाराकरस्य यो भाति।
भूपैः पुरा खनद्भिःकियतीवस्थापिता क्षितिर्मितये॥२६॥
चरकङ्कणैःपयोनिधिशयने वेलावधूर्मिहस्तैर्यः।
आस्फालितोरुभागः खपितीव चकास्ति सेतुराजोऽयम्॥२७॥
सेतुर्जयति यदाक्रमसंभ्रमलोलाः समुद्रकल्लोलाः।
विश्वत्रयीविलङ्घनलाघवशिक्षारता इवाभान्ति॥२८॥
पुष्णातु सेतुःप्रचुरा मुद वो महीसुवेलान्तरमानदण्डः।
वृद्धस्य सिन्धोरतिवेपमानतरङ्गपाणेरवलम्बदण्डः॥२९॥
कृत्तांशुकां यद्धटनेन धात्री द्रष्टुं धृतापत्रप एव रामः।
ततान तत्संवरणानुकूलंयशोदुकूलं प्रथते स सेतुः॥३०॥
सेतुः श्रियं पुष्यतु यद्भुजेन सुवेलमालुम्बत भूतधात्री।
पौलस्त्यकीर्तिप्रकशग्बुराशौविहृत्य वेलामिव यातुकामा॥३१॥
यद्व्याजदण्डेन नरेन्द्रवर्यनिवेशितेनेव कृतान्निरोधात्।
अपारयन्धावितुमब्धिभोगी विवेष्ठते तं विनतोऽस्ति सेतुम्॥३२॥
डिण्डीरनिर्मोकधरः स मुष्यादघानिलान्सेतुफणाघरो नः।
निशाचराधीश्वरकीर्तिदुग्ध यः पायितोऽभूत्प्राभुणा रघूणाम्॥३३॥
न केवल येन पुरा रघूणां नाथो ललङ्घेलवणाम्बुराशिम्।
सीतापहारोपचितापवादसिन्धुं च हन्याद्वृजिनं स सेतुः॥३४॥
हिनस्तु सेतुर्दुरितानि यसिन्मनोज्ञफेनांशुकमण्डलानि।
आस्फाल्य वेलाद्रिशिलासु वीचिहस्तेन विस्तारयतीव वार्धिः॥३५॥
भास्वत्करानीतपयोदकुम्भसहस्रसंग्राह्मपयोभरस्य।
उदन्वदन्धोरुपरिप्रदेशशिलामधीमो नलसेतुरेखाम्॥३६॥
स्नपयन्पयसा यदम्बुराशिः परिलिम्पन्नवफेनचन्दनेन्।
मुहुरर्चयतीव रत्नसूनैस्तदुपासे हृदि रामसेतुलिङ्गम्॥३७॥
मकरालयचेलमध्यभाजः परितो लक्षितफेनसक्तुराशेः।
क्षितिचक्रधरट्टकस्य यष्टिं कलये कल्मषपेषणाय सेतुम्॥३८॥
विनिवेश्य यदर्गला पयोधौ नरकद्वारकवाटिकायमाने।
क्षितिजापतिरीशलिङ्गमुद्रा विदधे शर्म ददातु वः स सेतुः॥३९॥
रघुवीरपदावलीसमर्चारचनायेव पयोधिना वितीर्णैः।
स्खलदूर्मिरयोदितैःस्फुलिङ्गैरिव रत्नैर्विलसन्मुदेऽस्तु सेतुः॥४०॥
लघयत्वघराशिमेष सेतुः श्रयतां दीव्यति यः सुवेलमूले।
दृढदण्ड इवार्पितः समूलं परमसुन्मूलयितुं पुरुस्त्यसूनोः॥४१॥
नलसेतुमहं नतोऽस्मिसीतापतिकीर्तिप्रमदावलम्बनार्हम्।
वलदब्धिपटीवृताग्रदीव्यद्धरणीमण्डलालवृन्तनालम्॥४२॥
सुवेलशैलद्विरदेन माद्यता कृतःसलीलं क्षितिवाशितो(सिनो)परि।
करोतु वः सेतुकरो भवार्णवप्ररोहदंहोबिसिनीसमुद्धृतिम्॥४३॥
नमामि सेतु नटदूर्मिपाणिना तटे यदीये ततमौक्तिकावलिः।
चकास्तिबन्धुः सरिता रघूद्वहप्रशस्तिवर्णप्रकरानिवार्पयन्॥४४॥
श्रयामि सेतुं चलदूर्मिकाञ्चलैर्विनिक्षिपन्यस्य तटे वराटिकाः।
विराजते राक्षसराजविद्विषो गणं गुणानां गणयन्निवार्णवः॥४५॥
परिचरितपुण्यपण्यावलीलाभविपणिसरणिं पुरुहूतपुरकवाटसमुद्धाटनकुञ्चिकां राघवयशःक्षीरसागरमहाझषभर्णवनेमिव-रवर्णिनीवेणिकामतितुङ्गपदलिप्सुतनुभृदधिरोहिणीं दुरितसिन्धुसतरणहेतुं सुकृततरणितोलनारित्र लङ्केशबाहुतेजक- डङ्गरीयदूरीकरणयष्टिका जलधियुगसीमाविभागभित्ति डिण्डीरवसनषण्डविन्यसनलिङ्गिनी प्रचेतोनिकेतनप्रासादमालिकां दुर्ललितयातुधानसमाजधूमकेतुरामसेतुम्।
वारिधिः समरवंशजन्मना क्ष्माभुजाममितकीर्तिशेवधि।
यत्र दारूणि तिरश्चिलम्बते सपदे स नलसेतुरस्तु नः॥४६॥
सेतुरेष परिपातु पातकव्यालसहतिविहङ्गपुङ्गव।
यस्य पार्श्वविततौसरित्पतीपुष्यतश्चटुलपक्षविभ्रमस्॥४७॥
पच्यमानपयसि स्फुटमौर्वज्वालया सरिदधीशकटाहे।
आसिकाविधिकृतोऽवनिर्व्या नालमञ्चत दृशा नलसेतुम्॥४८॥
जलधिचक्रमिषाद्वलयीकृते धनुषि दैवरघूद्वहसहितः।
रचयतादधराक्षसमण्डलीजयमसौनलसेतुशिलीमुखः॥४९॥
इष्ट सेतुः सौति यद्रामबाणच्छिन्नाकारे वाहिनीसनिवेशे।
भ्राम्यद्वीचीबाहुबृन्दा कबन्धश्रेणी नृत्तं प्रोद्धत सविधत्ते॥५०॥
यातायातायामतुङ्गैस्तरङ्गैर्दृश्यादृश्यो दृश्यता रामसेतुः।
वाताधूत वार्धिचेलं यदूरौभूयो भूयः स्थापयन्तीव धात्री॥५१॥
मृत्स्नाकूटं मेदिनीनामधेयं विन्यस्यान्तर्विश्वसृट्कुम्भकारः।
प्रायश्चक्र प्रेङ्खयत्यब्धिरूपं यष्ट्या येन त्रायतामेष सेतुः॥५२॥
सेतु वन्देसिन्धुराजस्य गावः काषं काषं ग्राव्णि यत्राङ्गकानि।
चारं चारं जन्तुदुष्कर्मतृण्यां दोहं दोह पुण्यदुग्धान्य(ट)न्ति॥५३॥
मध्येपाथोराशि पातालमूलादुन्मग्नस्य क्रीडयोर्वीमिषेण।
भाति ग्रीवेवादिकूर्मस्ययो मां पापासक्तंपावयत्वेष सेतुः॥५४॥
शीर्णाब्जकीकसभरं शिथिलप्रवाल-
वल्ल्यान्त्रनालमवकीर्णवराटदन्तम्।
भग्नोर्मिबाहु च पतद्भिरगैर्बभूव
यन्नर्मितौजलधिवर्ष्म स सेतुरव्यात्॥५५॥
कुण्ठीकृताशरकुलाधिपगर्वराशिः
खण्डीकरोतु भवता कलुषाणि सेतुः।
भारासहिष्णुरिवयस्य पयोधिरङ्गं
वीचीकरैर्विततशङ्खनखैः क्षिणोति॥५६॥
अह्नाय सेतुरशिवानि विहन्तु यत्र
सक्तेतरेतरतरङ्गमुखौचकास्तः।
वेलातिलङ्घनविधापणबन्धनाय
श्लिष्यत्परस्परकराविव सिन्धुराजौ॥५७॥
सेतुर्मुदे भवतु वो जलमम्बुराशे-
र्वीरेण यत्करणकौतुकिना विभेजे।
सीतावियोगशिखिरावणबाहुधाम्नोः
कर्तु पृथक्प्रशमनामभिकाङ्क्षतेव॥५८॥
विष जगद्गुरोरदादयं पुरेति रुष्टयोः
सुवेलगन्धमादनस्मराभियातिभृत्ययोः।
निधाय मध्यसीमनि प्रमृद्गतोर्यदर्गलां
विरौति वाहिनीपतिः श्रियैस सेतुरस्तु नः॥५९॥
उदञ्चद्धोषाभ्यामुदधिलहरीभ्यासुभयतः
कृतासङ्गः सेतुः कवलयतु पापानि भवताम्।
भृतक्षोणीकन्यापतिविजयनिःसाणयुगली-
लसत्पार्श्वद्वन्द्वावलितकरिराजन्यविहृतिः॥६०॥
दक्षाः संगतलोकपातकविधौताटस्थ्यभाजो नृणां
चेतोभीतिविधायका मलिनता सबिभ्रतो भूयसीम्।
तुङ्गाः पातकराशयस्तनुभृता भृ(भ)ङ्गाइवाम्भोनिधेः
सङ्गाद्यस्य विनिर्दलन्ति शतधा तस्मैनमः सेतवे॥६१॥
श्रीमद्दामयशोदुकूलकलनावेम्ने नतिं मौलिना
कुर्मो गर्हितकर्मदग्धजनताजीवातवे सेतवे।
शश्वद्यत्र विृजम्भतो रघुपतेः ख्यातिप्रतापाङ्कुरा-
न्व्यक्तान्मौक्तिकपद्मरागमिषतः सिञ्चन्निवाम्भोनिधिः॥६२॥
मध्येवारिधि काञ्चनाचलमिलन्मध्या मही दृश्यते
पुंसा नौरिव कापि पुण्यपटली वाणिज्यलाभार्थिनाम्।
लङ्का तन्निकटस्थितेव तरणिर्लध्वीतयोरन्तरे
सेतुः पाशइव स्फुरन्वितरतु श्रेयांसि भूयासि वः॥६३॥
वलमानवीचिकरलीलयामिथः
पृथुकम्बुकन्दुकमिह प्रहिण्वतोः।
निहितेव यः स्फुरति यष्टिरन्तरे
सरिदीशयोः स नलसेतुरीक्ष्यताम्॥६४॥
लङ्काभिव्याप्तिधाटीचटुलरघुवरोद्दामदोर्धाममार्ग-
स्त्रैलोक्यग्रासजाग्रद्दशवदनयशोरोधविष्कम्भकाण्डः।
सेतुर्वः संतनोतु श्रियमुभयनदीबान्धवोपान्तलीला-
लोलत्कल्लोलमल्लद्विपयुगलसमीकार्भटीमध्यभित्तिः॥६५॥
श्रीमत्कूर्मोरगेन्द्रक्षितिवलयमयैरादिमध्यान्तभागै-
राबद्धे मूर्तिमम्भोनिधिवसनसमावेष्ट्यमाना दधाने।
पीठे यद्गोमुखाढ्ये कनकधरणिभृल्लिङ्गमाभाति तुङ्गं
पायादस्मानपायात्सुकृतनरपतेर्जैत्रकेतुः स सेतुः॥६६॥
धर्मकोटेस्तदा तस धर्मकोटिमभीप्सतः।
कथमात्माश्रयोऽप्यासीत्कार्ये न प्रतिबन्धकः॥६७॥
** अयं पुनरधिरूढगन्धमादन रतिबन्धुशासनमभिवन्द्यनुतिबन्धमौखरीमविन्दत।**
नलसेतुबन्धतटकेलिशालिने नतिरस्तुशैलतनयाविलासिने।
सृजतीव यन्मकुटसिन्धुरब्धिना सहनर्मसलपनमूर्मिनिःस्वनैः॥ ६८॥
यो वारिराशेरुदरात्तरङ्गमहोरगान्मौलिभृदोषधीशः।
आकृष्य भूयस्त्यजतीव सोऽयमास्ता मनस्यादिविषापहारी॥६९॥
यस्याट्टहासेन्दुरुचा पयोब्धिलीलां दधाने लवणाम्बुराशौ।
निद्राणनारायणनर्म धत्ते सेतुः स मा पुगवकेतुरव्यात्॥७०॥
रमता हृदि रामनाथदेवो वितता वारि……..गेहे।
श्रियमञ्चति सेतुबन्धरेखा शयितोर्वीधरचापनिर्विशेषा॥७१॥
चण्डैःप्रगृह्य चलवीचिकरैर्नराणां
पापावलिं पृथुषु सेतुशिलातलेषु।
यच्छासनेन परिपातयतीव सिन्धुः
सोऽयं ममास्तु हृदि सोमकलावतंसः॥७२॥
व्याकीर्णविद्रुमजटावलयं विमुक्त-
फेनाट्टहासमवघुर्णितवीचिहस्तम्।
सध्यासु यस नटनानुकृतिं समुद्रो
निर्माति शर्म वितनोतु स नीलकण्ठः॥७३॥
आयात पातककृतो भवतामघानि
संक्षालयानि सहसेति यदग्रभागे।
अम्भोधिरात्मभवसेतुविलङ्घनेन
सत्यापयन्निव चकास्तिमृडं तमीडे॥७४॥
रामेश्वरो विजयते ललदूर्मिहस्त-
पर्यस्तशुक्तिपटलीकपटेन यस्मै।
चूडामणीकृतसुधाशुकलान्तराणि
विश्राणयन्निव विभाति तरङ्गमाली॥७५॥
पादावनभ्रजनपङ्कपरंपराणां
सक्षालनामिव समुद्रजलैर्विधातुम्।
श्रीरामसेतृतटसीमनि वासलीला-
माम्रेडयन्घटयता मुदमद्रिधन्वा॥७६॥
मुक्ताविद्रुमपद्मरागपटलीमुख्योपदामन्तिके
न्यस्यन्नेत्यं सृजन्निव प्रणयिनीनिर्मोचनाभ्यर्थनाम्।
भूयो याति मुखे वहञ्जलनिधिर्भङ्गं किलापाकृतो
येन प्रत्यहमेधते स भगवानेणाङ्कचूडामणिः॥७७॥
जानकीकरसमूढवालुकामूर्तये मुषितराघवार्तये।
रामनाथ इति नामशालिने शूलिने नटनशीलिने नमः॥७८॥
तदनु पण्डिताखण्डलः पाण्ड्यधरणीमण्डनायमानमुरुतरश्रीलास्यमुखरमुपगम्य हालास्यनगरमगणेयगुणविशेषा-मशेषभुवनमातरमपि सवित्रीकृतमलयध्वजधरित्रीशवल्लभामपरयुवतिदुर्लभाभिरङ्गजनृपालपुंगवशक्तिभिरिव वक्षोजवृद्धिभिस्तिसृभिरुपशोभमानयौवनारम्भां विपुलसरम्भविहितनिखिलदिग्विजययात्रावसर-नेत्रातिथीभवत्त्रिपुर-विरोधिसनिधितिरोहिततृतीयपयोधरभरां सपदि मीनाक्षीमध्यक्षयन्प्रणिपातपूर्वमयमभिजातप- थविहारिणी वाणीमभाणीत्।
हरमिव समाख्यातु चित्ताय जाग्रतमग्रतो
रचयति कुचे तार्तीयीके भुजान्तरमज्जनम्।
सपदि विनतो लज्जासङ्गात्तदीयगवेषण-
प्रवण इव नः पायान्मीनाक्षि ते मुखचन्द्रमाः॥७९॥
स्तनशिखरिणोः स्पर्धामुत्पाद्य तावकयोः पुरा
कुलमहिधरो दृष्ट्वातस्थौतृतीयकुचात्मना।
अधिगतवतोः पश्चादैक्यं तयोः सविधादसौ
निजपरिभव प्रायो निर्धार्यदेवि तिरोदधे॥८०॥
तव गिरिसुते वक्षोजेषु त्रिषु सरशासिनो
नयनसरसीजातैर्नीतेषु सत्सु…..भक्तताम्।
दहनघटनत्रासाल्लिल्ये तृतीयपयोधरः
समकुचददश्चिन्ता न्धादलीकविलोचनम॥८१॥
पुरहरकरामर्शत्रासेन भूधरनायक-
स्तव कुचयुगोपान्ते प्राप्य स्तनान्तरभूमिकाम्।
भगवति तिरोभूतः क्वापि प्रतिक्षणभाविनी-
महह पुनराशङ्केशानस्य हस्तविमर्शनाम्॥८२॥
भवति विमुखे धैर्ये पाणौविमुञ्चति कार्मुकं
सुरभिलशरेऽप्याजौ स्वीकुर्वति प्रतिकूलताम्।
परमवसरं लब्ध्वा पृथ्वीधरेन्द्रशरासनो
जननि भवतीमाविर्लज्जाकरे जगृहे हरः॥८३॥
इति सुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिलजगदम्बिकाया विभावयन्पुनरिदमभाषत-
अम्बं कदम्बवनान्तरमन्दिरसंजातकेलिसचारे।
भूरि पुरवैरिलीलासाक्षिणि मीनाक्षि देहि वाग्देवीम्॥८४॥
आचिकुरचरणपल्लवमनवद्यानां शिवे तवाङ्गानाम्।
उपमां वदञ्जघन्यैरुपमनैः क इव नापराधी सात्॥८५॥
तदपि भवदीयचिन्तासुकृतानि लब्धुमिच्छन्त्या।
भक्त्या समाहितः परमयमारम्भः सवित्रि सहनीयः॥८६॥
विक्षिप्तदक्षिणेतरकरपल्लवमन्यपाणिधृतकीरम्।
किमपि करुणापयोधेरधिदैवतमाविरस्तु मम चित्ते॥८७॥
कुलगिरिकुमारिके तव कुन्तलपरिमुषितसंपदो मेधाः।
क्रन्दन्मिनूनमेते क्षितिभृत्पादेषु क्लृप्तनिष्यन्दाः॥८८॥
जडमपि दोषाकरमपिसमधिककौटिल्यमपि सुधासूतिम्।
शिरसा वहसि यदेषा जननि कलापक्षपातशैली ते॥८९॥
आपाटलाधरच्छविबालारुणकिरणपरिचयात्कि वा।
अनिशविकखरमास्ते पार्वति भवदीयवदनतामरसम्॥९०॥
कमरभवन्मुखभेदे कलयेदीशेऽपि देवि मीमांसाम्।
एकत्र षट्पदावलिरितरत्र भ्रूलता न चेद्दृष्टा॥९१॥
शशलक्ष्मणो विशिष्ट शफराक्षि मुख तवेति मे धिषणा।
यदिह विशेषकमिन्दोरसुलभममितैस्तपोभिरप्यास्ते॥९२॥
तव जननि लोचनद्वयमाभाति मदारुणीकृतोपान्तम्।
निजगतिनिरोधकारिणि कर्णयुगे किचिदात्तरोषमिव॥९३॥
शर्वाणि ते कटाक्षः शक्तिं जगृहे नु कालकूटस्य।
गलकलितोऽपि स विकृतिं न दिशति नाथं यदेष मोहयति॥९४॥
श्यामापि विमलशीलांसततलोलापि सभृतस्थैर्याम्।
गौरि कुटिलापि ऋज्वी तनुते श्रियमानतेषु तव दृष्टिः॥९५॥
तावकहसितविडम्बनसंभृतगाढगसां विधोर्भासाम।
सभाव्यते चकोरीञ्चूसंदंशकोटिभिश्छेदम्॥९६॥
दशनकिरणप्ररोहैस्तन्त्रीममृतैरिवाभिषिञ्चन्ती।
श्लाघाचलितशिरस्कं गायति शश्वद्यशासि कामारेः॥९७॥
भवदीयकण्ठनालीपरिवादिन्यामलीकदृक्कान्ते।
तन्त्रीगु……..र्दधत माङ्गल्यहेमसूत्राणि॥९८॥
हालाहलानलाकुलहरगलसंतापकन्दलीहरणात्।
ब्रूमो भुजद्वयी तव तनुरुचियमुनातरङ्गयुगलीति॥९९॥
कलयमि……………ननि श्यामो यदशुसदोहः।
मूर्च्छति कपोलमूले मङ्गलदूर्वावतसमतिदायी॥१००॥
परिणतदाडिमबीजभ्रमचुम्बितपद्मरागमणिमुद्रम्।
विभ्रमशुकमालोक्य स्मेरमुखी त्वाभजामि मीनाक्षि॥१०१॥
आनन्दपारवश्यादपि विस्मृतमन्तरान्तरा गेयम्।
हैमवति यद्गिरा पुनरनुसंधत्से स मां शुकः पायात्॥१०२॥
अङ्गुलिभिरम्ब तन्त्रीताडनसमये तव स्फुरन्तीमिः।
सगीतविभवसंभृतपल्लवनिवहेव भासते वीणा॥१०३॥
माभूदयं विलीनो गीतिरसेनेति कि नु मीनाक्षि।
कुचगिरिमलाबुरुद्ध कुरुषे वीणाविनोदवेलायाम्॥१०४॥
मध्येगानसुधम्बुधिमज्जनमभिशङ्क्यकि नु वा धन्ये।
वीणावादनकेलिषु कलयसि कुचयोरलाबुविन्यासम्॥१०५॥
त्ववल्लकी च देवि द्वेसख्यौकृतपरस्पराश्लेषे।
चारुखने भवत्यौसृजत इवान्योन्यकेलिसलापम्॥१०६॥
स्फीते महःप्रवाहे मज्जनलीलाकृतः स्मरेभस्य।
उत्पतिताविव कुम्भावुरसिजभारौतवावभासेते॥१०७॥
तवतरुणि मानमायीकोऽपिनरोमालिरस्य मणियष्टिः।
न कुचौ करण्डयुग्मं मौक्तिकमाला न कन्दुकश्रेणिः॥१०८॥
शिशुतां विजित्य मध्यमसीम्नि निखातो नवेन तरुणिम्ना।
रोमलतिकात्मना तव राजति जम्भारिमणिजयस्तम्भः॥१०९॥
कुचगिरिचरद्भवाशयकरिपातनजातकौतुको मदनः।
तावकगभीरनाभीदम्भादम्ब ध्रुव चकार बिलम्॥११०॥
कुचयुगलभारपीडा कुरूते तनुता तवावलग्नस्य।
अविवेकिनः समुन्नतिरन्तिकभाजां विषादनायैव॥१११॥
त्रिवलीमयेन यौवनदर्वीकरवेष्टनेन किमपर्णे।
भवदीयतनुपटीरव्रततीमध्यो विगाहते तनुताम्॥११२॥
कथमतितरां कठोरैः करहिशिरः कदलिकाण्डतूणीरैः।
जननि जघनोरुजङ्ख तुख्यन्ति धुतोपमानसङ्ग ते॥११३॥
भवमहिषि तव पदाभ्यामिदमधरीकृतमिति ध्रुवं वेधाः।
कलयति कमलमधस्तात्सर्वे कुर्वन्तिसत्सामाचरितम्॥११४॥
नखरनिकरच्छलोदितनूपुरहीरोपलप्रतिच्छाया।
अङ्गुलिदलापदेशाद्भान्ति भवच्चरणकिरणनिष्यन्दाः॥११५॥
कमलकलहोद्यमो वा हिमगिरिहेलाविधानवाञ्छावा।
यमिहृदयवारिजस्थितिकलना वा तव पदं करोत्यरुणम॥११६॥
हसास्त्वयामदालसविभ्रमगत्या विभीषितखान्ताः।
मातः पयोदमालां प्रेक्ष्य भवच्छङ्कया पलायन्ते॥११७॥
निर्माय निर्मले तव केवलशृङ्गारकन्दलैरङ्गम्।
उड्डराजखण्डमौलेरुपदीकुरुते स कि मनोजन्मा॥११८॥
श्रुतिश्रमविनोदिभिः शुकरवैरभिव्यक्तया
पुरारिगुणसंपदा पुलकितैकगण्डस्थलम्।
कदम्ब विपिनान्तरे कठितसनिधानं चिरा-
न्महः किमपि दृश्यते मरकतोपरूश्यामलूस॥११९॥
अनन्तरमुपसृत्य सुन्दरेशमारचितसंनतिरिदममन्यत्—
अभीष्टसिद्ध्यै हरिणाङ्कशेखरं विनौमि हालास्यपुरीविहारिणम्।
विभोश्चतुःषष्टिविलासकारिणः कियन्मदीयावनकेलिकौशलम्॥१२०॥
जरद्गवारोहणशीलिना त्वया कदर्थ्यते हन्त नरे(गे)न्द्रकन्यका।
हयावलीविक्रयिणस्तवेश किं तुरङ्गमः कोऽपि बभूव दुर्लभः॥१२१॥
गिरिश पाणिषु माधुरयोषितां वलयभूषणमर्पयता त्वया।
शफरदृक्करपल्लवसपदा कथय तेषु कलापि किमीक्षिता॥१२२॥
उत्कूलसिन्धूदकरोधहेतुमृत्क्षेपकर्मावसरे विनम्रात्।
स्रसेत गङ्गा यदि मस्तकात्ते का वा दशा स्यान्मधुरानगर्याः॥१२३॥
उरसिरुहत्रयरूपामुपहृत्य तव त्रिवर्गसपत्तिम्।
अजनि शफरेक्षणा स्वयमानन्दनापवर्गसंसिद्धिः॥१२४॥
अथ निर्गत्य मधुरापुरादधिगत्य च कवेरजां समरमृगयादलिदनुजसारङ्गयूथमपि श्रीरङ्गनाथ परिकल्पितपूजापुण्यततिमपि गजारण्यपतिं चिरमुपास्य निःसृतः सहचरलोकमवलोक्य वाक्यमिदमाख्यातवानवनीसुरशाक्करः।
कलशार्णवान्तरङ्गं कावेरीसङ्गि मन्महे रङ्गम्।
यदिह घनपीनतुङ्गेपुरुषो निद्राति भोगिपर्यङ्के॥१२५॥
चारुकवेरजाझरसमीरणपारणया
पोषघने शयान भुजगेशमहाशयने।
श्रीमहिलामनोज जलदामलधामनिधे
त्वं गुरु मङ्गलं मम तरङ्गय रङ्गपते॥१२६॥
ह्यद्यमरुद्वृधाहृदयवर्तनसक्तमते
प्रौढगजाटवीनटनपाटवरुढरुचे।
सभृतसंपदा विहितकम्बुविडम्बनया
साधय बोधय माशु मम चेतसि भूतपते॥१२७॥
अज्ञातापचयक्रमं द्विजवरैरास्वाद्यमाने रसे-
ऽप्यर्धवारिदनीलमर्धमुदयन्मार्तण्डबिम्बारुणम्।
मूले सह्यकुमारिकातटपरिष्कारस्य जम्बूतरो-
रद्राक्षं फलमेकमीक्षणकृतामश्रान्ततृप्त्यावहम्॥१२८॥
ससारी स्यन्दनी वा जलधिरशनया लोचनी शेखरी वा
नेत्रा नीलोत्पलानामुदधिपरिवृढेनालयी तृणवान्वा।
पर्यङ्कीकङ्कणीवा फणिधरपतिना सह्यभूभृत्कुमारी-
मध्यालकारलीलावसतिरवतु मां देवतासार्वभौमः॥१२९॥
वृद्धाचलाधिपमुपास्य ततो विपश्चि-
दाराध्य शोणगिरिसङ्गिनमङ्गजारिम्।
नत्वा विरिञ्चिपुरनायकमप्ययासी-
न्न्यग्रोधकाननपुरी निजवासभूमिम॥१३०॥
अनेकतीर्थाटनवैभवेन समापतन्ती सशरीरबन्धाम्।
कांचित्तपःसिद्धिमिवैष कन्यामन्या महीयानथ पर्यणैषीत्॥१३१॥
अनवगुणकलापैरन्यनारीदुरापै-
रनुसृतनिजचित्तं हैमवत्योरिवेशः।
द्वयमिदमनुरुन्धन्दक्षिणः सारसाक्ष्यो-
रधित मुहुमान्तीमन्तरानन्दवृद्धिम्॥१३२॥
इति समरपुगवगकृतौयात्राप्रबन्धचम्पूकाव्ये पञ्चम आश्वास॥
——————
ताभ्यामसौ धर्ममणूदरीभ्यां समाचरन्सशयगोचरेषु।
निर्धारणाय श्रुतिनिर्विशेषंप्रमाणमासीत्परमङ्गभाजाम्॥१॥
तस्य तीर्थभजनोचितयात्रामादिशन्निव सुदीधितिकस्य।
स्मेरपाटलपरीमलवीचीमोदितालिमुखरः समयोऽभूत्॥२॥
मल्लिकाकुसुममण्डलगौरो मारबाहुमदमान्द्यविधायी।
दीप्तचण्डकरदीधितिरागात्कालकाल इव कश्चिदनेहाः॥३॥
ग्रीष्मसंज्वरकृतामतिपीडामब्जिनीपतिरिवासहमानः।
मेदुरामविरतं मिहिकाभिर्विश्रवःसुतदिश विजगाहे॥४॥
उत्क्षिपद्भिरटवीतरुकाण्डानुद्भटैरपरदिक्पवमानैः।
भग्नरंहसि पतङ्गशताङ्गेद्राघिमानमलमन्त दिनानि॥५॥
मेदुरे करसहस्रनिपीतैर्मेदिनीतलजलैरहिमांशौ।
भारकुण्ठितजवैरथवाहैःप्रादुरास गरिमा दिवसानाम्॥६॥
व्योम्निदावशिखिधूमवितानैर्मासले खरमरीचिहयानाम्।
मार्गमार्गणकृतातिविलम्बाद्दीर्घतां समजय(गम)न्दिवसानि॥७॥
अस्फुरच्छिखरिगह्वरगर्भव्यापिहेतिरटवीहुतवाहः।
उद्गतैरिव विशन्निजधूमैरुद्भव जलमुचामभिशङ्क्य॥८॥
भाविवैद्युतलतापरिणत्यैबीजसततिरिव प्रविकीर्णा।
व्योमसीम्निविपिनज्वलनाना विस्फुलिङ्गपटली विजजृम्भे॥९॥
शोषितेष्विह जलेषु नितान्त शेषलोकसलिलान्यपि पातुम्।
दारुणैर्वसुमती करजालैर्दारितेव तपनेन पफाल॥१०॥
प्रस्थितेन मधुमासनृपेण प्रापिता वनमहीशिबिराणि।
पावकावलिरिव प्रचकाशे पाटलीकुसुमकोरकपङ्क्तिः॥११॥
अंशुमालिकपिशाम्बरमध्ये व्यक्तिभाजि मधुवैरिणि काले।
अद्भुताय किमिद यदमुष्मिन्नर्जुनस्य मुहुरास विकासः॥१२॥
माधवेन विहितोपचयानां मार्दव किसलयप्रकराणाम्।
आजहार शुचिराशु निधातु कि शिरीषकुसुमस्तबकेषु॥१३॥
दारुणातपभिया स्तनसीमामाश्रित शिशिरमम्बुरुहाक्ष्यः।
सान्द्रचन्दनरसैः किमरक्षञ्शस्यते हि शरणागतरक्षा॥१४॥
तालवृन्तमभितो हिमधारास्यन्दनिर्भरसिताभ्रवलक्षम्।
नृत्यति स्म निकटे युवतीनामास्यदास्यञ्चदिवैन्दवबिम्बम्॥१५॥
अम्बुजव्यजनमब्जमुखीनामाश्रयन्नपि मुहुर्मरुदासाम्।
घर्मवारिकणजालममुष्णात्का व्यवस्थितिकथा चपलेषु॥१६॥
पर्ययेण कृतपातमधोऽधो वापिकाजठरवारि विरेजे।
चण्डभानुकरसंज्वरभीत्या गन्तुकाममिव गर्भमवन्याः॥१७॥
उन्नदद्भ्रमरमुच्छ्रितपद्मं भासते स्म पटल नलिनीनाम्।
साध्वसात्करमुदस्य सवित्रे शंसदात्मसरसामिव शोषम्॥१८॥
क्रीडितुं सरसि तीरगतानां वक्रराजिररुचद्वनितानाम्।
सादरेव जलजेषु विधातु सर्वसन्नहनसाहसकेलिम्॥१९॥
अम्बुगाहनकृतामबलानामङ्घ्रिपङ्किरपनूपुरनादा।
लक्ष्यते स्म सरसीरुहलक्ष्मीमोषणाय भृतमूकदशेव॥२०॥
प्रक्रमे सलिलकेलिकलाया नाभिन्नमपि सारसमम्भः।
श्रोणिभिः पुनरुरोरुहदघ्नसुभ्रुवामजनि संभ्रमहेतुः॥२१॥
**प्रापिते सरसि पद्ममुखीनां क्षोभमुरुकुचकुम्भनितम्बैः।
अब्जसततिरधोमुखवीक्षा लज्जितेव लहरीषु मम (ज्ज) ज्जे॥२२॥ **
वीचिलोलमपहाय सरोजं वक्रसीमनि पतन्नपि वध्वाः।
षट्पदस्तदुपगूहनहृष्यच्चेतसा सहचरेण शशसे॥२३॥
अङ्गनाः कलिलमम्बु सरस्याः कुर्वते स्म कुचकुङ्कुमपङ्कैः।
रञ्जयन्ति विदुषामिव भावैराशयं किमु जलस्य मृगाक्ष्यः॥२४॥
पादयावकमुरोजपटीरं चक्षुरञ्जनमपि क्षपयन्तम्।
वीक्ष्य रोषविवशा इव हस्तैस्ताडयन्ति वनिताः स्म तटाकम्॥२५॥
कान्तयन्त्रकरवारिभरेण प्लाविते सति पयोधरकुम्मे।
हृद्गतो मृगदृशामदनेभः खेदमातपकृतं विससर्ज॥२६॥
अक्षमा अपि विहर्तुमगाधे कामिनां करगृहीतवलग्नाः।
बालिकाः प्रसृतपाणिपदाब्ज पाथसि प्लवननर्म वितेनुः॥२७॥
कैशिके सलिलसगिनि तासां कान्तचित्तमजनिष्ट रसार्द्रम्।
शुष्यति प्रचितशोषणमस्त्रैराङ्गजैर्नियमिते च निबद्धम्॥२८॥
नीलकुन्तलनियन्त्रितमल्लीसूनकन्दुकभरासुदृगाली।
वारिदोदरवलद्विधुबिम्बामावलिं क्षणरुचामनुचके॥२९॥
अथैष पित्रोरमितैस्तपोभरैरुपेयुषोः स्वर्गमुपार्जितैः स्वयम्।
गयाशिर सीमनि कृत्यमास्तिकः खधर्म इत्याचरितु समैहत॥३०॥
द्युसिन्धुकाशीतदधीश्वरेषु प्रारभ्य या बाल्यममुष्य भक्तिः।
कररावलम्बप्रतिपादन सा गयाप्रयाणाभिरतेरतानीत्॥३१॥
लग्नेशुभे स निरगाद्रचितः सुरेन्द्र-
संतर्पणः सहजनिर्मलशीलशाली।
दुष्कर्मवर्मितजनागमदूषितानि
तीर्थानि पावयितुकाम इवाखिलानि॥३२॥
बलिभोजिबकोटयोर्जवात्प्रतिपन्नाटनयोः प्रतिक्षणम्।
किरणच्छलतोऽसितार्जुने किमभातां पुरतोऽस्य निम्नगे॥३३॥
** अनुपदमपश्यदयमपसव्यपार्श्वतः सहसा विनिःसृतं धरणीतलादुपरि**
बाहुमध्यमादनतितुङ्गे नभसि विहितचङ्क्रमतया संनिकृष्टोदयामिष्ट…….मनक्षरमाचक्षाण मदक्षिणभागविटपिशाखाशिखरविरचितोपवेशतयाभजनीयदेशभाविनीमञ्चितामुन्नतिमभिव्यञ्जयन्तं कमपि खञ्जरीटकखगम्।
अम्बरे मण्डलभ्रान्तिमपदिश्य गरुत्मतः।
तमागतवतस्त्रातु हरेश्चक्रमदृश्यत॥३४॥
उल्लीढमाणिक्यमरी चिकोर्मिहल्लीसशीलच्छवि हल्लकाद्रौ।
वल्लीसख धाम वशीन्द्रलोकहृल्लीनमेकं मतिमाननसीत्॥३५॥
स्थितस्य मध्ये शिवयोर्विभाति वक्त्रावली यस्य समं तदास्यैः।
विम्बालिरिन्दोरिव भानुमालिस्पर्धाभृतद्वादशविग्रहस्य॥३६॥
अभिवन्द्य च त भगवन्तमिद नवनमतानीत्।
गन्धश्रेणीसान्द्रकह्लारचूड मन्दस्मेरोदारवक्त्रारविन्दम्।
अन्तर्वाणिध्येयमाम्नायगेय बन्दस्वैन वाणि वल्लीसहायम्॥३७॥
दीनपालनमहाव्रतक्रतौ दीक्षितेयमधिहल्लकाचलम्।
वैनतेयतनयाधिरोहिणी वासना विहरते षडानना॥३८॥
कालिकागिरिशयोगसाधितं गाढमग्निजठरे समाहितम्।
गालितं पयसि सौरसैन्धवे काञ्चनीकृतशराटविं रुचा॥३९॥
शीलितोपचयकृत्तिकापयःस्वीकृतिप्रकटितातिवैभवम्।
व्यालिहामि मनसा भवामये मज्जता किमपि पारद रसम्॥४०॥
इहेश्वरादेकमुखप्रवृत्तेरीषल्लभारीरितार्थः।
कह्लाररशैलाधिपति कथं वा भजन्ति संदंशितबाहुमुख्यम्॥४१॥
कनीनिकांशुग्रथिताक्षमाला षडाननी भाति षडाननस्य।
अम्भोरुहश्रेणिरिवासिताब्जदलस्रजा गाढतरं निबद्धा॥४२॥
त्रिसध्यमाविष्कृतरक्तसध्यके धराधरेऽस्मिन्निदमन्यदद्भुतम्।
यदेकनालोपरि शश्वदीक्ष्यते समग्रबोधाकलिता षडम्बुजी॥४३॥
कलापिनीनां नटनान्तरेषु कपोल [डो] दोलायितकुण्डलानि।
नालीकसदोहनटन्मिलिन्दपालीकन द्भ्रूपरिशोभितानि॥४४॥
कह्लारमाघ्रातुमिवेक्षणाभ्या गाढावलीढश्रवणान्तिकानि।
नेत्रद्वयीसीमनिबद्धसेतुनर्मस्पृशा नासिकयोज्ज्वलानि॥४५॥
न्यस्तस्य दृग्दोषनिवारणाय बिन्दोः सगन्धं तिलकं वहन्ति।
प्रियाधरोष्ठामृतपारणायामुच्चैरहंपूर्विकया युतानि॥४६॥
उपासकेभ्यो युगपत्प्रणीतषड्दर्शिनीव्याकृतिसभ्रमाणि।
कह्लारसौरभ्यघने कपोले स्वैरं शिवाभ्यां कृतचुम्बनानि॥४७॥
रसाभिलाषेण रह.प्रियाभ्यां पर्यायपीताधरपल्लवानि।
धन्यो जनः पश्यति तारकारेर्मुखानि मुग्धस्मितकन्दलानि॥४८॥
कुमारमीडे गुरुगर्वयोगादुपोढसरम्भमुपेत्य यस्य।
विलासहासेन भवान्विचेष्टः शक्रो जयस्तम्भ इवावतस्थे॥४९॥
अहरलङ्घ्यविधेयशतस्य वा निशि निषेविततल्पतलस्य वा।
उपनिषन्मुखवेद्यमुदेतु मे मनसि षण्मुखवारिरुह महः॥५०॥
नीलावनीभृन्निभसौरिधाटीलुलायकोलाहललुप्तधैर्ये।
काले स्मरामः करुणाभिरामविलोकनं तारकवैरिण तम्॥५१॥
वल्लीवक्त्रारविन्दे मदकलमधुपत्रातसंपातरीत्या
तुल्यानां जृम्भणानामहमहमिकया गुम्भने दुर्निवारैः।
हृद्यामुद्भावयद्भिर्दिशि दिशि ……. पङ्क्तिमिन्दीवराणा
कल्याणं वः कटाक्षैः कलयतु करुणाशालिभिः कार्तिकेयः॥५२॥
स्तनंधयोऽपि शर्वाण्या दैत्यं दारितवानसौ।
स्वतोधारयतः शक्तिं कि वयो गण्यते बुधैः॥५३॥
सर्वागमोपदेष्टापि शबरीमयमग्रहीत्।
अस्य भिल्लाग्रणीसूनोरथवा किमनौचिती॥५४॥
श्रयत भवानीतनयं शतमखरिपुजैत्रवैभवानीतनयम्।
निरवधि कारुण्येन व्याप्त हृदि वपुषि चाधिकारुण्येन॥५५॥
सेनानीरजनि करश्रेणिपराभूतशोणनीरजनिकरः।
परनलिनीरजनिकरः परमशिवानन्दवाष्पनीरजनिकरः॥५६॥
प्रशस्तलीलाविभवोपनीतकुशस्थलीकूलझरीविशेषम्।
कृपालतोपघ्नमुपात्तवेधःकपालमाराधयदेष देवम्॥५७॥
इम परीपाकमिहापराधादम्भोजयोनेरपि पश्यतेति।
अदःकपालेन सुरालयेषु भिक्षामटन्यप्रकटीचकार॥५८॥
तदनु निशङ्क भूधरोत्सङ्गसीम्निशीलितमासादितरागसंपदावेशतया शैलेशतनुभुवा सततमाकेशचरणमवलोकनीयरामणीयकं नागेशमभिवन्द्य नरपालमन्दिरद्वारमासाद्य दूरादेव नृपसदसि मागधकुलनिगद्यमानमभिजातपद्यजातमार्यमिश्रः सहर्षमश्रौषीत्।
वर्धस्वामितसार सारसविधेयालोकलोकत्रयी-
गेयप्रौढिविशेषशेषनिभवाङ्नैपुण्यपुण्याकृते।
सग्रामाङ्गणधीर धीरत सतां कोदण्डदण्डक्षत-
प्रत्यर्थिस्मयसङ्गसंगतमहीरामाक माकप्रभो॥५९॥
घनजयकृता दानेनानेकदिक्तटलङ्घन-
स्यदनिरतया कीर्त्या नीत्या निरस्तकलङ्कया।
सरसकलया चात्रेः संतानरत्नचिरन्तना-
ननघचरितात्राजञ्जेगीयसे क्षितिनायकान्॥६०॥
जनितनलिनीशङ्कावेशे हरिन्मणिकुट्टिमे
शशधरकलामुद्यद्विम्बा निशासु समंततः।
बिसधिषणया केलीहंसाः स्पृशन्ति मुखाञ्चलैः
प्रतिबुधगृहं यत्तन्माकप्रभो तव वैभवम्॥६१॥
श्रीमन्माकक्षितिधर भवत्कीर्तिशैलूषयोषा
मेरुस्तम्भे भ्रमणनटनप्रक्रियां सविधत्ते।
तस्यास्तादृग्विलसितजुषो रत्नताटङ्कभूषा-
युग्मं तिग्मच्छविरिति शशीत्यम्बरे बम्भ्रमीति॥६२॥
चक्राणा विदधाति सोऽतिकदनं तेषां शरण्यस्त्वय
राजा विष्णुपदांक्रम वितनुते सोऽय तु तस्यार्चकः।
आस्ते सोऽहिभयैकभाजनमय तस्यानभिज्ञस्त्विति
त्यक्त्वा तं परिकर्ममौक्तिकमिषात्त्वामेव ताराः श्रिताः॥६३॥
तब माकविभो धराधिपैरवलेपादकृताभिवन्दनैः।
इह दिव्यपि चानुभूयते बहुशस्त्रीपरिरम्भसंभ्रमः॥६४॥
पार्श्ववर्तिजनताप्रतिबिम्बव्याजतो विमतराजसमाजम्।
सङ्गरे कवलितं किल धत्ते साल्व माक तव पाणिकृपाणः॥६५॥
वमथुनिकरेण वसुधां सिञ्चति माकनृप तव गजश्रेणी। आत्मपदाहतिलीलानिर्मितमूर्छानिवारणायैव॥६६॥
श्रीमाकक्षितिपालशेखर भवद्वेतण्डकर्णानिलो
नेष्यत्याशु कुतोऽपि तूलपटलीरीत्या हरिद्वारणान्।
आलोच्यैवमचञ्चलस्थितिकृते तेषां किमम्भोजभूः।
क्षोणीमण्डलभारमेव सततं कुम्भस्थलीषु न्यधात्॥६७॥
घाटीहेलासु घोटीसुरपुटदलितक्षुण्णरेणूपगूढै-
र्दानैर्जम्बालितासु त्रिदशकरटिनां गण्डभित्तिस्थलीषु।
लग्ना नीलारविन्दच्छदरुचिरलिनां धोरणी कज्जलेन।
व्यालिप्ता जैत्रवर्णावलिरिव भवतो भासते माकभूप॥६८॥
अध्यासीना समन्तात्क्षितिभरणकृतामावलिः सिन्धुराणा। वातैरश्रान्तलोलश्रवणपुटमहातालवृन्तोपजातैः।
काष्ठानामन्तराले किमपि विसरतस्त्वत्प्रतापानलस्य
प्रायः सधुक्षणानि प्रणयति नितरा माकराज क्षितीन्द्र॥६९॥
विपक्षलक्ष्मीः क्रियते त्वया महीवराहवन्दी प्रमदासमञ्जसा।
रिपु च माकेन्द्र करोषि किकरं वराहव दीप्रमदासमञ्जसा॥७०॥
प्रकल्पते त्वत्करवालयष्टी रविप्रभावारिजयापनाय।
न हि प्रवर्तेत कदापि लोके रविप्रभा वारिजयापनाय॥७१॥
इह महिमा कनकपटः पटुघटितठा साल्वमाक नकपटः।
विहरति मानवलोके विलसत्कारुण्यवीचिमानवलोके॥७२॥
पापनृकण्ठीरवतः प्रथितादुदितं दिशासु कण्ठीरवतः।
एत्य धरा माकेशं हृष्यति हटकृष्टवैरिरामाकेशम्॥७३॥
वारिजनाभी राजति सोऽयं कृतस्तवारिजनाभी।
जहिहि स्कन्धावारे वसति तरसा दिगन्तिक धाबारे॥७४॥
हेमाकल्प क्षमाकण्ठकहरपटिमा कल्यरामाकटाक्ष-
स्तोमाकाषः सुमाकर्कशभणितिललामा कथं वर्ण्यतेऽसौ।
क्ष्माकर्पूरभ्रामाकल्पनलटहयशः प्रौढिमा कर्मरूढ-
स्थेमा कारुण्यसीमा कनदनघगुणो माकराजक्षितीन्द्रः॥७५॥
अनन्तरमयमवनिभृदन्तिकादभिमुखमापतद्भिरागच्छत सरयमाशिषो वदत भूपतेः श्रीमदवलोकनकुतूहली नृपतिरयमास्त इति निवेदयद्भिरावसरिकपुरुषैरावेद्यमानसरणिरवगाह्य धरणीशमन्दिरमतिलङ्घ्य कतिचिदपि कक्ष्या(क्षा)न्तराणि कविबुधबन्धुसचिवमिस्त्रसामन्तमण्डलीशोभिनि काञ्चनास्थानमण्डपे मणिमयचतुस्तम्भमध्यमवित- र्दिकायामतिमृदुलतूलमालिकामांसलममृतफेनपटलीविनिर्मलमादिपुरुषमिव शेषमास्तरणविशेषमध्यासीनं वारविलासिनीकरकमलडो(दो)लायमानचामरद्वितयभासुरपार्श्वभागतयाकलशजलधियुगलीकल्लोलयुगला रुल्लसन्तमरविन्दिनीबन्धुमपह(स)न्तं कौसुम्भपटखण्डपरिकलितमालतीप्रसवशालिना मौलिबन्धेन सध्यामयूखसवलिततारक- मम्बरतलैकदेशं विडम्बयन्तमस्तोककुङ्कुमस्थासकपिशङ्गमरीचितरङ्गिता मूर्तिमावृण्वता कण्ठाभरणमुक्ताफलदीप्तिवृन्देन मन्दाकिनीपूरपतनगौरवपुषं सुमेरुमवधीरयन्तं पीतवसनपरिपीतकटिप्रदेशतया पुष्करजालसवृतनितम्बभूमिमुदयक्ष्माभृतमधिक्षिपन्तं कल- कल्पशाखिनः किसलयान्तरालकन्दलितेन कुसुमकोरकेणेव कुरुविन्दमध्यवर्तिना कुलिशोपलेन परिशोभमानमहं वीरकङ्कणं मणिबन्धसीमनि महनीयमुद्वहन्तं मकरध्वजमिव मार्गणोपदर्शितसौमनस्यं पाकशासनमिव प्रतिरोधिबलविभेदनं पुरवैरिमित्रमिव समस्ता- भिलषितपूरणधुरीणसनिधानं द्वितीयहरमिवातृतीयलोचनमन्यमिव शतमन्युमितरमिव वदान्यपादपमपरमिव कुसुमाकरमत्रिकुलपवित्रीकरणकुशलचरित्रसपदं कोनाम्वागर्भकुञ्ज गृहसचारकेलिपञ्चाननं पापजगतीपतिप्राचीनसुकृतपरिपाकं माकनरलोकनायकम- वलोकयन्मनस्येवमकरोत्।
यो भोगिप्रवरोऽप्यजिह्मचरितः श्रीशोऽपि हृष्यद्वृषो
भास्वानप्यरिदुःसहः कुवलयाधीशोऽप्यदोषाकरः।
सर्वज्ञोऽप्यनलीकदृष्टिरचलोऽप्यक्षीणपक्षावलिः
सोऽयं माकनृपो विचित्रमहिमा स्वैरं विजेजीयते॥७६॥
तदनु संमदादुत्थाय पार्थिववरिष्ठेन समुचितासन्नविष्टरे समुपवेशितोऽयमतिविचक्षणो दक्षिणमुद्यम्य हस्तं नृपकुलमणेरस्य नमदखिलसामन्तभूपतेराशिष प्रायुङ्क्त।
कल्याणाकर माकरराज भवते कारुण्यसशीलना-
द्रार्दैरेष जनार्दनो वितरतादालोकनैः सपदम्।
पारावारसुतासनाथमभितो बाहान्तरान्तःपुरं
दोष्णायस्य चतुष्टयी चिरधृतैः पातीव दिव्यायुधैः॥७७॥
लक्ष्मीनित्यविहारकैटभरिपो चक्रावलीरञ्जन-
च्छायावल्लभ कीर्तिवृद्धिकलनाधाराधराभ्यागम।
दोषापोषणपूर्णचन्द्र सुमनोविस्फूर्तिपुष्पाकर
श्रीव(म)न्साल्वकुमार माक भवतःश्रेयासि सप्रार्थये॥७८॥
सकलभवद्गुणसङ्घश्लाघाचातुर्यविवृतिकलनायाम्।
जगति फणिराज एकः शिष्यत इत्येव शेषतां धत्ते ॥७९॥
पारं भवद्गुणौघानां वाणी व्रजतु मे कथम्।
अपर्याप्तस्थितिर्येषामपि ब्रह्माण्डमण्डलः॥८०॥
तदपास्य भवद्गुणावलीस्तवधाटीरुचिमेतदद्य नः।
पृथिवीश भृश निवेदने प्रकृतार्थस्य मनः प्रवर्तते॥८१॥
स्थितिगुप्तिमलब्धसगतिंक्षितिपालाधिगमे फलं विदुः।
मनुजेशधुरीण मादृशानुचित तेन तवोपसर्पणम्॥८२॥
भुवि ते तु बुधैरवस्थितैरनवाप्त न किमप्यवेक्षते।
अपहाय पुरा कृताधिक सुकृत दुष्कृतशोधनक्षमम्॥८३॥
तदिमां मनुजादिवन्धुतां तत्र पार्श्वे विनिवेश्य साप्रतम्।
अविमुक्तमुपासितु व(रै)रविमुक्त वयमाद्रियामहे॥८४॥
परिपाहि मदीयबान्धवान्विषये ते विहितस्थितीनिति।
कथन खलु सिद्धसाधन क्षितिसत्राणकृतस्तवान्तिके॥८५॥
इति तमभिलपन्तं हृष्टचेता नरेन्द्रो
भृतमुदमुपचारैः प्राहिणोदत्युदारैः।
पथि खलु विदधानो भावबन्धं विशुद्धे-
र्बलवदिह सपर्याभाजन कस्य न स्यात्॥८६॥
अथ विनिर्गत्य निःशङ्कदुर्गभुवो निखिलदुर्गतजनस्वर्गतरोरनर्गलशौर्यविस्मारितभार्गवस्य भर्गतनूभवस्येव दुर्गाप्रसादलब्धविविधाभिलषितवर्गस्य भोगिबरनिराकृतिपटुविवेकशालिनो माकराजमहीपाकशासनस्य सुजनतातिरेकमनुचिन्त्य मुहुर्मुहुर्मुदमनुसदधानस्तदवलम्बि- भिरेव वचनगुम्भनैरनुचरसमाजमपि सभाजयन्सरोजलोचन इव सहचरीद्वयेन कियद्दूरमिव गत्वा स लब्धवर्णः सुवर्णमुखरी निर्वर्णयन्निदमवर्णयत। इयं खलु
हुंकृत्य भृङ्गनिनदैरुपगृह्य वीची-
हस्तैः शिशूनिव जनानदसीयपङ्कम्।
प्रक्षाल्य हंसरसितैः परिसान्त्वयन्ती
मोदं प्रसूरिवमुहुर्मुहुरातनोति॥८७॥
उत्तरेण सरिदुत्तमामिमां तुङ्गश्रृङ्गदलितद्युसिन्धुना।
चक्षुषोरुपदया चिराय नो भूयते भुजगराजभूभृता॥८८॥
अत्र कुञ्जगृहासीनकेलिकाराङ्कलालिताः।
विष्णोः कर्माणि गायन्ति विद्याधरमृगीदृशः॥८९॥
अहो वृषघरमहीपतेरमुष्य महिमा।
पङ्गुपनीतैरिह सत्प्रसूनैः कुणिः स्रजो गुम्भनमातनोति।
अम्भोजनाभस्य कथामवाचा प्रस्तूयमाना बधिरः शृणोति॥९०॥
अथ तदानी
पद्मासद्मायमाने मणिमुरसि वहन्कौस्तुभं वास्तुभूमि- र्भासामासारदानोन्मुखघनसुषमागर्वनिर्वापिकानाम्।
स्तुत्य श्रुत्यावलीभिर्नियमधनजनस्वान्तकान्तारलीला-
कुम्भी कुम्भीनसाद्रेरधितटममुनालोकि लोकैकनेता॥९१॥
असौ पुनरुरसा विशङ्कटेन विधृतवनमालिक वेङ्कचे(टे) शमभिवन्द्य निर्मलमनाः सपरितोषमिदमभाषत।
साधूना हृदयान्तरालसरणौ पुष्णन्परिष्कारता
कुक्षेः सीमनि दर्शनीयविभवां कुर्वञ्जगन्मण्डलीम्।
आख्यामञ्जनभूभृतो निजतनुच्छाया रं त्वर्थय-
न्कोऽप्यास्ते मणिरिन्दिराकुचतटीशाणोपलोत्तेजितः॥९२॥
अब्जेन्दीवरयोरनङ्गशरयोरुत्तेजिते यद्दृशौ
मञ्चोयस्य समस्तशब्दकुहनामाणिक्यशाणोपलः।
यन्नाभीसरणिश्च सूक्तिजननीश्वश्रूपदस्थायिनी
पायान्मां हृदयंगमस्मरकलातत्व तदेतन्महः॥९३॥
अञ्जनाचल… सर्वैरपि जनैरयम्।
तटे गुहतटाकस्य मुकुन्दो मुहुरीक्ष्यते॥९४॥
अवतसेन विदुषां प्रशशसे ततोऽमुना।
स्वामिपुष्करिणीतीरभूमिभूषामणिः…..॥९५॥
अङ्घ्रिप्रभिन्नतटहाटकशैलशृङ्गरिङ्खद्रजोनिचयकुङ्कुमलिप्तगात्रः।
घोणाहताम्बुनिधिदुन्दुभिघोषहृष्टः पायान्महीपरिणयाभिमुखो (वराहः)॥९६॥
अम्भोनिधेरलघुनिश्वसिताभिषङ्गाद्विभ्राम्यतो भ्रमिविलोकनकैतवेन।
पृथ्वीपुरःप्रणयिनोचितभूपरीक्षां कुर्वन्निवादिमकिटिः कुरुतां मुद नः॥९७॥
(व्या) धूतदेहरभसव्यपसार्यमाणा-
माशासु वारिलहीमपदिश्य सिन्धोः।
जीयात्सृजन्निजसमागमभाविपृथ्वी-
व्रीडापनोदनतिरस्करिणी वराहः॥९८॥
आद्य नमामि … भजन्समुद्रो
यद्रोमकोटिषु कुशाग्रहिमाम्बुरीतिम्।
तत्कालसंगतधरापरिरम्भकर्म-
घर्मोदबिन्दुविहृति घटयांबभूव॥९९॥
अम्भोधि कूल…….. चोरदैत्य-
मुस्ताक्षतिप्रभवमोदपरंपराभिः।
भूदारतां प्रकटयन्पुरुषः पुराण-
स्तत्तादृशीमिह तरङ्गयतु श्रियं वः॥१००॥
कोलस्तनोतु कुशलानि चिरंतनो मे
येन क्षितौ प्रथममीषदुदञ्चितायाम्।
अस्या विषादविगमाच्छ्रुसितैरिवाव्धे-
रह्नाय बुद्बुदकदम्बकमाविरासीत्॥१०१॥
आधारधुर्य जगदण्डकपालवन्ति
पाथोमिषेण फणिमन्दिरमण्डपस्य।
उर्वीशिलामुपरि निक्षिपता व्यतानि
येनाम्बुमानमिव तेन वय सनाथाः॥१०२॥
प्रान्तक्षरज्जलधिवारिभरामुदस्य-
न्घोणाञ्चलेन धरणी कुहनावराहः।
तादृक्कृतिव्यतिकरश्रमवारणाय
धारागृहान्तरमिबाधिगतः पुनातु॥१०३॥
मह्यं शुभानि विदधातु महावराहो
दंष्ट्राहितेन विलसन्वलयेन धात्र्याः।
संरक्षणादिव चराचरमण्डलीना-
मासादितेन महतातपवारणेन॥१०४॥
अङ्क महीवरतनोरधिरोपिताया
व्यापारयन्निजदृशा बदनारविन्दे।
आद्यः पुमानभयमुद्रिकयादसीय-
मस्यन्हठोद्धरणभीतिमिवावतान्नः॥१०५॥
भवाब्धिरूरुद्वयसो जनानां पदाब्जमेतद्भजतां ममेति।
वक्तीव यः सक्थिनिवेशितेन वरप्रदेनापि कराम्बुजेन॥१०६॥
तदनु शेषाचलभूषामणेररविन्दलोचनस्य चरणारविन्दपरिचरणपुण्यपरिणतेरिव नयन- सरणिमवगाहमानमन्तिकनिष्यन्दमानसिन्धुपवनकन्दलग्रासतुन्दिलशिथिलबन्धस्य फणि- राजपरिकर्मणः प्रतिक्षणदृढीकृतौ कृतदक्षिणं दक्षिणकैलासकटकतटसीमनि शिलावटमूल- बद्धरतिंकालहस्तिपतिमासेवमानो भूदेवानन्दनः सानन्दमिदमवादीत्।
अग्रे लूताग्रथितपटलीकल्पितच्छायमास्ते
सिक्त दन्तावलकरजलैरर्चित भोगिरत्नैः।
भिल्लाधीशोपहृतपिशितामोदवक्त्राविन्द
भाग्यं पृथ्वीधरपतिसुता…योरादितत्वम्॥१०७॥
पायादपायरहितं परिणम्रमुक्ता-
दायादकायमतिवेलदयाविधेयम्।
दूरे चिरंतनगिरां दुरितापहारि
पारेसुवर्ण कटं महो नः॥१०८॥
ब्रह्मादयोऽपि भवदाप्तिकृते यतन्ते
यत्न विनापि ययुराटविकादयस्त्वाम्।
आतः कृतान्तविजयिन्नतिचित्रशीलं
त्वा मन्महे न सुलभं च न दुर्लभ च॥१०९॥
प्रत्यग्रपुष्करपयःकलिताभिषेके
नागे नटद्गुणततावपि लूतिकायाम्।
प्रीतिस्तवास्तु भगवन्नभवत्कथ वा
लुब्धद्विजिह्वविषयः प्रणयानुबन्धः॥११०॥
अन्योपचारविधिरस्तु महानणुर्वा
भावत्कहर्षपदमान्तर एव भावः।
गौरीश ते मणिगुणप्रतिपादनेन
प्राप्तौ गति किल समां फणितन्तुवायौ॥१११॥
त्वद्भावतोऽपि तुहिनांशुकिशोरमौले
धन्या भृश भवति तावकभक्ततैव।
श्रीकालहस्तिपुरसीमनि यत्त्वयापि
भक्ताग्रिमस्य जगृहे फणिनः स्वरूपम्॥११२॥
निर्मोकपट्टसितमङ्गमसह्यवेगः
क्ष्वेलानलो दुरवबोधतरं पद च।
सर्वं यतः सममहेर्भवतश्च शूलि-
न्नन्योन्यरूपपरिवृत्तिरतः किमासीत्॥११३॥
देव त्वया यदिह दक्षिणरौप्यशैले
व्यालद्विपेन्द्रतनुरष्टविधा वितेने।
तद्युक्तमेव कलये तव नीलकण्ठं
पञ्चानन च यदुशन्ति भवन्तमार्याः॥११४॥
घोरस्वभावजटिलः क्ववनेचरेन्द्रः
शान्तोपसेव्यसरणी सुगमा क्व मुक्तिः।
अन्योन्यमेलनविधावनयोः प्रवीणा
तत्तादृशी जयति देव तवानुकम्पा॥११५॥
प्रालेयभानुशकलादपि पादुकाया-
माकाशसिन्धुसलिलादपि वक्त्रतोये।
देवीमुखामृतरसादपि दष्टमांसे
को वा गुणस्तव कुतूहलहेतुरासीत्॥११६॥
हातुं पुलिन्दपतिरात्तकिरातभाव-
मासीद्भवन्तमधिगम्य महाकिरातः।
किं कालहस्तिनगरीश तदद्भुताय
प्राग्वासना बलवती खलु देहभाजाम्॥११७॥
अङ्गान्नरार्चनविधेरपि ते गरीयः
पादारविन्दपरिपूजननेव शम्भो।
दत्वा मुखे दृशमगाद्विषमेक्षणत्वं
भिल्ल पदे तु हरिराप्तसुदर्शनोऽभूत्॥११८ ॥
व्याधः समर्पयतु नाम विलीढशेष
मांस विवेकविरहेण मनोभवारे।
अङ्गीकृत कथमिदं भवताथवैत-
त्सभाव्यते त्वयि वनेचरसार्वभौमे॥११९ ॥
पाणिग्रहव्यतिकरादुपरि प्रजाना-
मुच्छिष्टसकरमुशन्ति जना जगत्याम्।
प्रागेव मुक्तिपरिणीतिविधेरय वा-
मासीत्किमेष शबरागमसंप्रदायः॥१२०॥
स्पृष्टं शिरः शवरपादुकयेति मन्ये
तस्मिन्नमर्त्यतटिनी विभृषे तथापि।
दष्टामिषग्रहणदर्शितचापलस्य
नेहास्ति कापि तव निष्कृतिरन्तकारे॥१२१॥
गङ्गागाण्डिवचापयोर्मदभरक्षेपाय चूडापदे
गण्डूषाम्बु च पादुका च शबरोत्तसस्य बभ्रेत्वया।
पद्माक्षस्मयभञ्जनाय दृगपि प्रत्याददे कस्य वा
दर्पापाकृतये महेश जगृहे दष्टावशिष्टामिषम्॥१२२॥
त्वन्मस्तकाहितपदन्यसनादिदोष-
सशोधकव्रतकृते शबरो बभार।
चर्माम्बरं कटितटे भसिताङ्गराग-
मङ्गेकपालमधिपाणि जटाश्च मौलौ॥१२३॥
सन्तु प्राणिवधैकतानमतयः शश्वन्मदान्धीकृता
जिह्मव्यापृतयोऽथवा जनिमृतः स्फारीभवद्भ्रान्तयः।
मुक्तिस्तान्वृणुते खयं यदि कृपा मुग्धेन्दुचूडाल ते
तत्र व्याधगजाहिकीटपतयो दृष्टान्तकाष्ठापराः॥१२४॥
यामि प्रीतिमहं परान्नभजनैरुच्छिष्टभोजी भवा-
न्मूर्धाहं चरणौ स्पृशामि धनिना त्वं पादुकाशेखरः।
सेवेह घनपापकर्दमनदी त्वं वक्त्रतोयाप्लुतो
युक्ता किनु मदीयदोषगणना श्रीकालहस्तीश ते॥१२५॥
सत्कर्माचरणात्मिका प्रथमतः सपाद्य नान्दी ततः
प्रादुर्भाव्य समस्तभक्तिगरिमप्रस्तावनाकौशलम्।
द्रागुत्सार्य तम पटीमथ वृते दीपेन विद्यात्मना
चित्ते मे नटन विधास्यसि कदा श्रीकालहस्तीश्वर॥१२६॥
गण्डूषाम्बुनिमज्जनाय यदभूद्गङ्गावतसस्य ते
चूडालङ्कृतिकल्पनाय विधृतज्योत्स्नावतः पादुका।
तृप्त्यै भक्षितशेषमामिषमपि त्रैलोक्यकुक्षिंभरे-
र्विद्याधीश मुदे तवास्तु तदिय वाणी लघिष्ठापि मे॥१२७॥
भिल्लाग्रणीचरणपल्लवपादुकायै
सेयं क्रियासमभिहारवती नमस्या।
वेधः करोटिविधुखण्डवियन्नदीनां
सेहे न या गिरिशशेखरताभिमानम्॥१२८॥
अस्त्येव यद्यवतरेन्मम दृष्टिमार्गे
नैवास्ति चेन्न तटिनीभरण घटेत।
इत्थ विधेर्विमतिमीश किरीटलक्ष्म्या
यस्याः स्मृतिर्हरति सावतु पादुका नः॥१२९॥
त्रातं यया हरजटावनचारकेल्या
वेधःशिर प्रतिहतेः शबराङ्घ्रिपद्मम्।
सा पादुका षडरिवर्गविनिर्जयाय
सनह्यता भवतु सप्रति नः शिरस्त्रम्॥१३०॥
अपि च —
जगन्मण्डलीयं त्वयि स्वप्रकाशे नटन्ती रवेरंशुजाले नदीव।
अविद्याविलासाकृतिर्विद्यया ते भव … भवत्यन्तकारे॥१३१॥
मनोहारिशब्दादिभिर्व्यज्यमानानहं किंचिदालिह्य यस्यैव लेशान्।
सुखत्वेन जानामि ससारपीडां तमानन्दवाराकरं त्वामुपासे॥१३२॥
…..कणस्फूर्तिहेतुः सुखादिप्रपञ्चोऽपि सर्वप्रियत्वेन भाति।
परप्रेमभारास्पदत्वेन तादृक्प्रमोदाकृतिप्रत्यगर्थोऽसि शम्भो॥१३३॥
न कर्तास्मि नानाविधानां क्रियाणा प्रसक्तोऽपि नैतत्फलास्वादनेषु।
सदानन्दविज्ञानसान्द्रस्वभावो भवानेव सोऽह भवामि स्मरारे॥१३४॥
यथा मातृवाक्येन राधेयभावं परित्यज्य कर्णः पृथासूनुरासीत्।
तथा तत्त्वमस्यादिवाक्येन जैवं समुत्सृज्य रूपं त्वमेवाहमस्मि॥१३५॥
भवन्तं वदन्त्येकमेवाद्वितीयं प्रणीतेतरालापसीमावचांसि।
अतः साधयेदावयोर्भेदसत्तामयं कल्पितः कि नु संसारवन्धः॥१३६॥
यथा शुक्तिकादेरिदंतानुविद्धं समारोपितं वस्तु सर्वं चकास्ति।
तवानङ्गजेतस्तथा सत्तयेदं समालिङ्गितं दृश्यजातं विभाति॥१३७॥
गुणे कल्पिताया यथा कुण्डलिन्या जनत्रासकम्पादिसंपादकत्वम्।
तथा ससृतेरीश नानाविधार्थक्रियासाधकत्वं त्वदारोपितायाः॥१३८॥
त्रयीमौलिना देशिकस्यापि वाचा समावेदिता सगनिर्मुक्तता मे।
न सा बाध्यते नाथ मिथ्याभिमत्या महारत्नदीपप्रभा वात्ययेव॥१३९॥
असङ्गत्वधीरात्मनीय मदीया हृदाधत्त कर्त्रादिभावप्रतीत्या।
सुधाशुपले शुद्धतासविदस्मि जपोपाधिकारुण्यबुद्ध्यैव नैति॥१४०॥
सदा शुद्धबुद्धो विमुक्तखरूपस्त्वमेतादृशोऽह च तर्कागमाभ्याम्।
अभेदेऽपि सत्यावयोरन्तरात्मन्नहो मे सुखस्फूर्तिरल्पेयमास्ते॥१४१॥
विरामेण सर्वेन्द्रियव्यावृ(पृ)तीना सुषुप्तावपि क्षीणशोकोदयायाम्।
सहाविद्यया समदस्यानुभूतिः सकाकोलमाध्वीकसेवासमाना॥१४२॥
विसर्पन्महामोहवेगान्धकारे निरस्येह निःसारससारकूपे।
भृश क्लेशयित्वालमापन्नबन्धोशिव त्राहि मामीश कारुण्यसिन्धो॥१४३॥
दुरन्तव्यथाहेतुभूतस्य दुष्टव्रणस्येव शस्त्रेण वैद्यो दयालुः।
हृदो दुःसह ग्रन्थिमीशान भिन्दन्प्रबोधेन मे देहि मोदातिरेकम्॥१४४॥
वधूयुग्मवाताशनव्याधलूतानराधीशनत्कीरनागार्तिहारिन्।
त्व (?) मानयैन जनिव्याधिपीडाविहस्तीकृत कालहस्तीश देव॥१४५॥
तुषारद्युते……………………………………………………।
……………………..पवाद मया ते वितीर्णा कलामालिकेयम्॥१४६॥
एकदापि रचितेक्षणापणौ तौ तदैव भवताभिरक्षितौ।
पार्वतीश पदयोस्तवानिश दत्तदृष्टिमपि मामुपेक्षसे॥१४७॥
इत्यादि कीर्तयन्नयमत्यादरादुपेत्य धीराग्रिमो माराभियातिशरीरार्धहारिणीमाराध्य मातरं शतपत्रमुकुलसच्छात्रताजुषौ मस्तकभुवि हस्तौ निधाय समस्तोपनिषदर्थौघसुरभिलाभि…….. श्रौषीत्।
विष्वद्रीचि नरीचिमडुचिभरे वीचीव बारा त्रयी
लोकाना यदवेदनादुदयते यद्वेदनान्मीलति।
सत्यानन्दसुधासमुद्रलहरी सा काचिदेका…
…सि त्वमेव परमा ज्ञानप्रसूनाम्बिके॥१४८॥
नित्यानित्यविवेचनादिमजुषो नित्यैर्वचोगुम्भनै-
राप्तैस्वस्य तवापि चैक्यमुभयोरापाततो जानतः।
कल्याणे तव दृक्पथे निपततः कस्यापि पुण्यात्मनो
जिज्ञासा त्वयि जायते भगवति ज्ञानप्रसूनाम्बिके॥१४९॥
विध्याद्यासु विधासु कापि भवतु श्रोतव्यवाक्ये विधा
कर्मविचारक…..घटनया प्रत्यग्विचारस्य च।
लिङ्गैः षड्भिरुपक्रमप्रभृतिभिर्वेदान्ततात्पर्यधी
राधेया त्वयि तद्विमर्शकल्या ज्ञानप्रसूनाम्बिके॥१५०॥
कार्योत्पत्त्यनुकूलवेदनतया कर्त्र्याभवत्याः पुनः
साक्षादेव निदानतां त्रिजगतीद्वारं तु मायापरम्।
मृद्वत्तन्मसृणत्ववच्च कलशे सत्ताभृतस्ते तत-
स्तस्या जाड्यजुषश्च सगतिरिह ज्ञानप्रसूनाम्बिके॥१५१॥
कुम्भीजन्मनि कुम्भकार इव भूभर्तेव भूमिस्थितौ
हेतुः कि जगतोऽन्य एव जननस्थेम्नोरुपादानतः।
इत्थं भ्रान्तिमुदित्वरीं शमयितु लक्ष्माहुरेकं जग-
ज्जन्मादित्रयहेतुतां तब बुधा ज्ञानप्रसूनाम्बिके॥१५२॥
पीलूना द्व्यणुकादिकार्यनिवहप्रारम्भकत्वं यथा
नानारूपजडात्मना परिणतिर्यद्वत्प्रधानस्य वा।
तद्वन्निर्द्धयनिर्विकार……स्ते तद्द्वयासभवा-
द्व्यालस्य स्रगिवास्य कारणमसि ज्ञानप्रसूनाम्बिके॥१५३॥
देहान्तःकरणस्पृहासुखमुखे रज्जूरगाद्द्राघिम-
प्रत्येकाध्यसने च जीववपुषा पुष्णास्युपादानताम्।
आकाशाग्निसमीरवारिधरणीमुख्ये तु साधारणे
रूपेणैव महेशितुस्त्रिजगती ज्ञानप्रसूनाम्बिके॥१५४॥
नित्यामस्तसमस्तभेदविसरा निःस्यन्दचित्कन्दली-
मानन्दैकरसामगम्यसरणीमाम्नायवाचामपि।
मूर्ति जीवमहेश्वरौ विदधती मायावशेनात्मन-
स्तद्वद्वानुगता विशुद्धचिदसि ज्ञानप्रसूनाम्बिके॥१५५॥
निष्प्रत्यूहमिषत्स्वरूपधिषणाससिद्धसर्वज्ञता
सर्वौत्पादयितृत्वसर्वभुवनाधिष्ठातृताग्रेसैरैः।
कल्याणैरुपशोभिता गुणगणैः कैवल्यलक्ष्मीमयी
दिव्यामीश दशामवाप्य जयसि ज्ञानप्रसूनाम्बिके॥१५६॥
मायाराहुविलीढबोधशशिना चक्षुर्मुखाक्षोदयं
नानावृत्तिमुखावलोकनमिलत्किचिज्ज्ञताशालिना।
उन्मीलद्बहुशोकवेगगरिमोद्विग्नेन जीवात्मना
वध्नासीवभवाब्धिमज्जनविधिं ज्ञानप्रसूनाम्बिके॥१५७॥
छायावल्लभशीतभानुहुतभुङ्नक्षत्रतारादयो
भान्ती त्वामनुभान्ति केवलचिदालोकातिरेकीकृते।
चेतोवृत्तिपदार्थभेदकभवन्मातृपमामेयता-
धुर्या भासयसि त्वमेव भुवनं ज्ञानप्रसूनाम्बिके॥१५८॥
ऐक्ये व्यक्तिमुपागते सति बहिश्चञ्चदृगाभावथ
प्रेङ्खद्वृत्तिवशेन साक्षिविषयावच्छिन्नचैतन्ययोः।
प्रत्यग्बोधमयेन दीपमहसा सबन्धमाध्यासिक
प्राप्तेन प्रकटीकरोषि विषयाञ्ज्ञानप्रसूनाम्बिके॥१५९॥
सन्त्येवावरणादिशक्तिसहिता मूलप्रकृत्यशका
मूलाज्ञानपदाभिषेकविधिना सभाविताः सूरिभिः।
बाह्यैवृत्तिभिरीक्षणादिकरणोद्भूताभिरेकैकश-
स्तैरुद्यन्निखिलव्यवस्थितिरसि ज्ञानप्रसूनाम्बिके॥१६०॥
सामान्यग्रहणात्तदंशविषयाविद्यानिवृत्तावपि
स्रड्युख्येतरभागसंवृतिविधाजाग्रत्तमोवस्थितेः।
स्रग्वातघयशुक्तिरौप्यमरुभूरिङ्खन्मरी चापगा-
पूर्वाध्यासशतानि सकल्यसि ज्ञानप्रसूनाम्बिके॥१६१॥
अस्पृष्टैर्भ्रमवञ्चनादिकलयावच्छेद निन्दापरैः
ससर्गाविषयप्रमैकजनकैश्छन्दोगिरा मौलिभिः।
दुष्टा प्राथमिकी हगादिजनिता बुद्धि भिदागोचरा-
मस्यद्भिर्घटते तदद्वयमिति ज्ञानप्रसूनाम्बिके॥१६२॥
तत्त्वावेदनतश्चिरंतनगिरा प्रच्याविताध्यक्षधी-
रज्ञानव्यतिरिक्तदोषमहिमाजन्यं प्रपद्यास्पदम्।
नानाकार्यपरंपरास्वनुगतां सत्चां तवातन्वती
व्यत्यस्तामिव बोभवीति सफला ज्ञानप्रसूनाम्बिके॥१६३॥
आदर्शाहतिसंनिवृत्तनयनव्यालिह्यमान यथा
कण्ठस्थं मुखमेव न प्रतिमुख मिथ्या पदार्थान्तरम्।
चैतन्यप्रतिबिम्ब एव मुकुरे जीवोऽपि मायामये
त्वद्रूपादतिरिच्यते न हि तथा ज्ञानप्रसूनाम्बिके॥१६४॥
प्रक्षीणादिकथा समस्तजनिमत्प्रत्यक्षताशालिनी
विक्षेपप्रतिरूपशक्तियुगलीविख्यापितप्रक्रिया।
मन्दीभूतनिरुत्ति4मार्गगमना मायाभिधा किकरी
कि ते दुर्घटमेव नो घटयति ज्ञानप्रसूनाम्बिके॥१६५॥
त्वच्छन्दारुणबन्धुजीवसुमनोगुच्छाङ्कपालीवशा-
दच्छाया तु यथा सुधाकरमणावध्यस्यते शोणता।
संसारप्रवणस्वभावभरिताहकारसान्निध्यतः
शुद्धायामपि ससृतिस्त्वयि तथा ज्ञानप्रसूनाम्बिके॥१६६॥
दृष्टि सृष्टिमुशन्ति केचिदपरे दृक्तुल्यकालां तु ता-
मभ्रादिक्रमतस्त्वया प्रथमतः सृष्टस्य दृष्टिं परे।
लोकाना मृगतृप्णिकाम्बुलहरीसाधारणं सर्वथा
रूप बोधनिवर्त्यमेव भवति ज्ञानप्रसूनाम्बिके॥१६७॥
जन्म श्रोत्रियसततौ शुभतरे काले व्रतस्वीकृतिः
साङ्गाम्नायसमागमो गुरुमुखाद्दारग्रहः सत्कुलात्।
निष्कामाचरणं च कर्मविततेर्निष्पद्यते कस्यचि-
त्त्वज्ज्ञानादरहेतुशुद्धि(द्ध)विधये ज्ञानप्रसूनाम्बिके॥१६८॥
वर्णी स्नातककाननस्थितिजुषां धर्मैश्व कर्मन्दिनां
सन्यासैरपि कर्मभिः समुचितैः पादोद्भवादेरपि।
निष्पन्ना निखिलाप्यपूर्वपटली वेगाद्विलम्बादपि
त्वद्विद्याजननोपयोगमयति ज्ञानप्रसूनाम्बिके॥१६९॥
आधानाहितसंस्क्रियोज्ज्वलतरे निष्पादिते पावके
यागोऽपूर्वमिव त्वदेकविषयध्यानक्रियाशीलनात्।
चित्तेनातिपचेलिमेन सहिता सा तत्त्वमस्यादिवा-
क्त्वत्साक्षात्कृतिमादधाति विमलां ज्ञानप्रसूनाम्बिके॥१७०॥
ग्रीवावस्थितमेव रत्नखचितं ग्रैवेयक विस्मृते-
रन्विच्छ(ष्य)न्पुरुषो यथाप्तवचनादाप्त्वैव तन्मोदते।
अज्ञानस्थगिता सतीमपि तथा त्वद्रूपतामात्मनः
प्राप्यैवागमतः प्रहृष्यति सुधीर्ज्ञानप्रसूनाम्बिके॥१७१॥
त्रय्यन्तश्रवणे तदर्थमनने तद्भावनाया च स-
न्संप्राप्तादपरोक्षसंविदुडुपात्ससारपारं गतः।
याव5श्वविमुक्ति खेलति भजन्बिम्बेशतां त्वन्मय-
ब्रह्मानन्दरसानुभूतिललितां ज्ञानप्रसूनाम्बिके॥१७२॥
वस्तुन्याहितचित्तमौपनिषदे वैषेषु वा जाग्रतं
नानाकर्मसु रक्षसीति यदयं नैसर्गिकस्ते गुणः।
देहात्मभ्रमधूसरं जनमिम त्यक्तात्मनीनक्रियं
यद्युत्तारयसे यशस्तव तदा ज्ञानप्रसूनाम्बिके॥१७३॥
वृत्तान्तास्तसुधं दयैकरससंवृत्तान्तरङ्गं त्रयी-
सिद्धान्तं स्फुटमात्मसविद्पृथक्सिद्धां तनूमाश्रितम्।
अध्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधाम्निस्थितं
शुद्धान्तःकरणाञ्चितं पशुपतेः शुद्धान्तमन्तर्भजे॥१७४॥
अपि च। श्रीमन्त्रराजमणिपञ्जरकेलिशारि
च्छन्दः शिखासदनमङ्गलदीपरेखे।
नानागमोपवननाट्यकलामयूरि
देवि त्रिलोकजननि त्रिपुरे नमस्ते॥१७५॥
…त्रयी6पुरहरार्धभिदादिरूपे
श्रीकामराजमनुशेखरवर्णभागैः।
क्लृप्ताननस्तनजगत्प्रकृतिप्रतीके
कल्याणि हैमवति कामकले नमस्ते॥१७६॥
आपाटलं कुटिलकुन्तलमायताक्षं
शोणाधरच्छवि सुधाकरबिम्बवक्रम्।
कुम्भस्तन सृणिगुणाशुगचापहस्तं
रूप विधाय कृतलोकहिते नमस्ते॥१७७॥
मध्येपयोम्बुधि मरुद्द्रुमनीपधाम्नो
रत्नान्तरीपतिलकस्य ललामभूतम्।
क्लृप्त वदान्यमणिभिर्गृहसार्वभौम -
मास्थाय शश्वदनुभूतरते नमस्ते॥१७८॥
दीप्ताणिमादितनुदि……ल-
व्याप्तान्तरालभुवि विभ्रमशालिकायाम्।
मञ्चाग्रणीभवदजादिसदाशिवान्त-
पञ्चामरीधृतशिवाङ्कगते नमस्ते॥१७९॥
प्राचीनसूक्तिरसदिग्दिवसाधिनाथ
लोचनदलेषु सरोरुहेषु।
तत्तत्फलाहिततरङ्गितमानसाभि-
राराधिते मतिमदावलिभिर्नमस्ते॥१८०॥
आनन्दबाष्पमकरन्दभूताक्षिपद्मै-
रंशेषु………….रपुनर्भवाय।
अन्तर्महाकमलकाननमम्ब धन्यैः
सभाव्यमानचरणाम्बुरुहे नमस्ते॥१८१॥
निद्राविधौ निरवधिक्षुधया धरादि
पर्वावलीविलसितामतिलङ्घ्य पद्याम्।
ली……. …….. रभिषिक्तलोके
शर्वाणि कुण्डलिनी चन्द्रकले नमस्ते॥१८२॥
गीर्देवताहरिवधूगिरिजादिशक्ति-
साम्राज्यपीठनियतस्थितिजागरूके।
शुद्धान्तसुन्दरि परस्य सुधांशुमौले
ज्ञान जनयित्रि शिवे नमस्ते॥१८३॥
** ततश्च विपश्चिदेष निर्गत्य दुर्गत्यरुणकरधोरणीसत्रासगरिमानुबन्धिभिरन्तर्मुख- जनैरनवरताक्रान्तगह्वरगृहान्तमहरवसान नटन्महानट……पादतलाभिघातपरि पीडितशरीर- तया भूरितरगैरिकपुञ्जपिञ्जरीभवदमितनिर्झरीकैतवेन परितो दरीमुखशतैः क्षतजलहरीरिव समु….न्त जलधरपरंपरापिहितशिखरनितम्बभागतया शाम्बरीसंच्छन्नमौलिचरण- स्यपार्वतीपरिणेतुरनुकुर्वाणं निखिलससिद्धिनिर्वाहनैपुणी(ण्य)चर्चितसकलकु- लशैलगर्वततिमभजत श्रीपर्वतम्।**
सरिद्वराः सप्त विधाय मध्ये विभेदन यस्य विनिःसरन्त्यः।
विपाटयामो वृजिनप्रपञ्चमेवं जनानामिति दर्शयन्ति॥१८४॥
पाटलाञ्चितपदं शरीरिणा घोरतापहरदानकोविदम्।
मल्लिकार्जुनमसोढमन्मथं तत्र तं शुचिमसावसेवत॥१८५॥
यस्य सायमुरुनृत्तरंहसा पूर्णन गुरुतरं समेयुषाम्।
वासना……तिकरादहर्निश ज्योतिषा सुरपथे परिभ्रमः॥१८६॥
तदनु धरणीसुराधिपो भवनाशिनि तटप्रकटितरसन्निधान (?) निधानमिव निखिलनियोगिना व्यक्तिभिदालेशवञ्चितेऽपि वपुषि व्यञ्जित…..रुषमृगजातियुगसमवायमनपायशौर्यवडवानलहेतिशोषितदनुजाधिराजभुजमहोजलनिधि-मलोकय-दहोबलपतिम्।
सर्वान्तर्यामिभावे मम निगमशिर संप्रदायैकलक्ष्ये
दृष्टान्तस्तम्भगर्भोन परमिदमपीत्येव सदर्शनाय।
हृन्मध्य दानवेन्दोः सपदि विदलयन्पाणिजैः कूणिताग्रैः
प्रह्लादाह्लादकारी समहृत जगति स्फीतमत्याहित य॥१८७॥
तदनु पाशायुधप्रसाधितमाशावकाशमवगाहमानः प्रकटितसेवमानजनदुरितभङ्गमुद्राम- धिगम्य तुङ्गभद्रा सुमतिरित्ययमवोचत।
मातर्भवत्येव महावराहवक्त्रावतीर्णा न वसुंधरापि।
त्वमेव कामं न हि तुङ्गभद्रा कितु त्वया सापि कृतानुषङ्गा॥१८८॥
मह्या नितम्बमिव गौरवमाननीय-
सह्याचलसमधिरुद्ध सुधीरयासीत्।
वेलागतं तदनु वीचिमतः प्रतीचो
लीलानिकेतसृषभध्वजवल्लभायाः॥१८९॥
लम्बालकान्तललितामलिके पटीर-
जम्बालिकान्तधवलच्छविमङ्गकेषु।
बिम्बारुणामधरभासि विनम्य धीमा-
नम्बामथैष वचनैरधिनोन्मनोज्ञैः॥१९०॥
हस्तैश्चतुर्भिरमय वरमब्जचक्रे
सबिभ्रती त्रिनयना नवचम्पकाङ्गी।
पीताम्बराञ्चितकटी नवचन्द्रखण्डा
काचित्सरोजनिलया करुणाविरास्ते॥१९१॥
चण्डि प्रसाधयसि यत्प्रियवामभाग
सौभाग्यचिह्नमिदमेव न कि भवत्याः।
अध्यास्यकि मुहुरमुष्य किरीटसीमा
सह्योऽथवा भवति नातिशयः सपत्न्याः॥१९२॥
दिक्कूलचुम्बिनि दृढं विमलस्वभावे
मातर्भवन्मणिकिरीटमरीचिपूरे।
अर्धेन्दुनावमधिरुह्य मदीयभाव
स्वच्छन्दसंचरणकेलिविधिं विधत्ताम्॥१९३॥
कल्याणि ते मुखविधुस्मितकौमुदी च
नेत्रारविन्दकरुणामधुनिर्झरी च।
वक्षोजकुम्भगलितामृतवाहिनी च
तन्वन्तु नस्त्रिविधतापकलापशान्तिम्॥१९४॥
चक्रं नितम्बफलकेन तवात्तगन्धं
शङ्ख च कण्ठविजित विभृषे कराभ्याम्।
आर्या गुरोरिह लघोरथवा निकाम-
मङ्गीकृतस्य परिपालनमाद्रियन्ते॥१९५॥
प्राप्यं जनेन परमं वरमेतदेव
पादाम्बुज परमितो न च किचनेति।
व्याकुर्वतोस्तव वराभयमुद्रिकाभ्या
सेय युगाय करयोः शिरसा नमस्या॥१९६॥
अस्तोपमर्दलवमादियुगावतारे
धृत्वोदरस्य तव सूतवतस्त्रिलोकीम्।
मातः कथ कथमिवेह महानुभावाः
सद्भाव एव सतत प्रथयन्ति चिन्ताम्॥१९७॥
सन्मार्गरोधरसिके शमवत्प्रणीत-
न्यक्कारभाजि नवमन्मथपत्त्रिभिन्ने।
अक्षानुषङ्गमलिने हृदि मामकीने
शर्वाणि विन्ध्य इव ते चरणौ निधेहि॥१९८॥
मूकाम्बिके मुहुरपास्तजपस्य कामं
रागस्पृशो रचितपल्लवसौहृदस्य।
भक्तस्य मे पदयुगस्य भवेत्तवैव
श्लाघ्यागतिः सकलहसकुलैर्दुरापा॥१९९॥
साकारा सुखकन्दली पशुपतेरेका मनोहारिणी
स्तोकालोकसुधाकृतस्मरवधूशोकाग्निनिर्वापणा।
त्रैकाल्यप्रतिपत्तिदोहनविधौ या कामधेनुः सतां
सा कारुण्यतरङ्गिणी मनसि मे मूकाम्बिका दृश्यते॥२००॥
इति सपदि हिमाचलेन्द्रकन्यां पशुपतिनेत्रचकोरपौर्णमासीम्।
समजनि भजतोऽस्य साधुमौलेरकृतकभक्तिसुधाम्बुधेसमृद्धिः॥२०१॥
इति समरपुगवस्य कृतौ चम्पूकाव्ये षष्ठ आश्वास।
——————
अथ सप्तम आश्वास।
** अथ मनीषिमणिरेष कुमुदिनीरमणकोरकापीडसेवादरादिव शैबलिनीपतिना प्रतिमुहुरधिष्ठिताभ्यर्ण गोकर्णमधिगम्य मन्मथपरिपन्थिमन्त्रैकसाधकानघवैदिकजनानात्मीय-नयनयोः पन्थानमुपनीय चिन्तामिमामतानीत्।**
इह केचन शास्त्रवेदिनो भवदुःस्वप्नपरम्परादृशः।
तदपायकृते जपक्रियामधिगोकर्णममी वितन्वते॥१॥
पारेपाराबारमाविर्भवन्तं देवं मारामित्रमाराध्य धीरः।
सोऽयं भूयो भक्तिपीयूषवर्षादात्तोत्कर्षा भारतीमित्यवादीत्॥२॥
अनुतटमनिश महाबलो न यदि भवानिह नाथ तिष्ठति।
जलधिरभिभवेदयं तदा जगदभिक्लृप्तदिगन्तराक्रमः॥३॥
अथवा लघुरेष सिन्धुरास्ता प्रतिविध्यण्डममी पितामहाद्या।
स्थितिमादधते घृतप्रकम्प्रास्तनुभूशासन शासने त्वदीये॥४॥
सुजसि स्मरजेतरासिकामिह गोकर्णमिते निकेतने।
दिशसि श्रयता तु देहिना कथमाभोगकरन्वितं पदम्॥५॥
अयं खलु तदनु संख्यावदग्रणीरतिलङ्घ्य साधरणीधरमतिस्निह्यदनुचरघटासमावृतो विविधनीवृदावलिमवगाहमानः प्रबलवाहिनीकुलानिपावनस्थलानि च पदे पदे निशामयन्कुशाञ्चलपरिहसनमतिरतिमात्रपेशलांसूक्तिमभिधातुमाद्रियत।
वरदापदाब्जमकरन्दकन्दली वरदापगामधिविगाह्य निर्मलाम्।
अधुना निजामवयवार्थदुर्विधामभिधां समञ्चति मलप्रहारिणी॥६ ॥
वीचीहस्ता विपुलपुलिनश्रोणिरिन्दीवराक्षी
फेनोदारस्मितविलसिता बन्धुरावर्तनाभिः।
चक्रोरोजा सरसिजमुखी चारुहंसप्रचारा
पारावारप्रथमगृहिणी भासते कृष्णवेणी॥७॥
महाबलेशमकुटीतटजाते तरङ्गिणि।
सकृष्णापि त्वया शश्वदकृष्णा हन्त मेदिनी॥८॥
दोलायित बालसमीरणेन वीचीदुकूलाशुकमुद्वहन्तीम्।
पृथ्व्या स्वय भीमरथीभवन्त्या पताकिकां भीमरथीमुपासे॥९॥
पुरुषत्रयमौलिभागभूषामणिनीराजितमञ्जुपादपीठाम्।
तुलजापुरवासिनी तुरीयामवलम्बे जगदम्बिकां भवानीम्॥१०॥
कञ्जराजिगलितैरनारत पिञ्जराम्भसि नवीनकेसरैः।
पञ्जरासरिति क्ऌप्तगाहनः कि जरायुवसति प्रपद्यते॥११॥
नीलग्रीवजटा… विगलितां निर्माल्यमालामिव
ब्रह्मक्षोणिभृदुत्तमाङ्गवितता पृथ्वीपरिष्कारिणीम्।
आत्मीयैरधिवासित विदधतीमम्भोनिधान रसै-
स्तामद्याहमगण्यपुण्यसुलभा द्रक्ष्यामि गोदावरीम्॥१२॥
पात्रगा पटुधियामिव संपत्कान्तसिन्धुरमिता करिणीव।
गौरिवाञ्चितपयोधरभारा गौतमी हरति लोचनजाड्यम्॥१३॥
तापसाघदलनाय निर्गता गौतमी हरति कल्मषं नृणाम्।
चातकार्तिशमनोद्यता जलैरभ्रपङ्क्तिरभिषिञ्चति क्षमाम्॥१४ ॥
त्रिनयनजटाराजद्राजक्षमारुहकोरक-
व्यतिकरघनामोदा गोदावरीलहरीभराः।
पशुवधमहाकालीनालीढगोतमपातक-
प्रशमकुशलारम्भाः संभावयन्ति वसुंधराम्॥१५॥
जगत्पतेरस्य जटाच्युतेति विधेहि गोदावरि मा विषादम्।
सरोषगौरीचरणाहतीनामलम्भनादाप्नुहि मोदमेव॥१६॥
स्ववेलान्तर्लीलासुभगतरबालानिलवल-
त्तरङ्गालीतुङ्गातरलतरभृङ्गा तत इतः।
तटिन्यास्ते धन्या तरुणकमलिन्याकरतया
प्रणीता वैनीतावलिभिरभिवीता शतधृतेः॥१७॥
पवित्रामद्राक्षं बहलकमलामोदमधुरैः
समीरैरध्वन्यश्रममपनयन्ती नवनवैः।
अतिप्रेम्णा भर्तुश्चरमजलधेरर्पितमुखी
पयोष्णीमुष्णीषप्रतिमलहरी विन्ध्यनृपतेः॥१८॥
कलितापीडा कमलैर्महिता पीयूषमधुरतपीना।
जनतापीतजलेय मम ताप हरतु मलिनतापीडाम्॥१९॥
सुधाशुकन्या स्वदतां जनानां ताप च दूरे तनुतां पयोष्णी।
कथ त्वमप्यम्ब कठोरधाम्नस्तनूभवे तापि तथाविधासि॥२०॥
अक्ष्णोर्वर्षत्यमृतलहरीमाश्रमैस्तापसानां
नित्योदञ्चन्निगमपठनैरुल्लसत्तीरभागा।
अश्मब्रातैरचलधनुषो लिङ्गभूतरभूता
मज्जन्नानामनुजपटलीशर्मदा नर्मदा मे॥२१॥
पूजनीयविभवासु भूतले जाग्रतीषु शतशो नदीष्वपि।
कि त्वयैव वितनोति केलिकामर्णवस्त्वमसि येन नर्मदा॥२२॥
कुचपरिणतिभाजः क्षोणिविम्बाधराया
विगलितमिव यस्मादुत्तरासङ्गचेलम्।
नटयति मुदमम्भो नार्मद शृङ्गसीमा-
मधिवसति महाद्रेरस्य माहिष्मतीयम्॥२३॥
पुरी जयत्यर्जुनभूपतेरिय बहन्निमा विन्ध्यवसुधराधरः।
त्रिविष्टपालम्बतया धृतस्मयं नगाधिराज न तृणाय मन्यते॥२४॥
माहिष्मतीमण्डनमार्तिहारि जनस्य दोस्तम्भसहस्ररम्यम्।
सप्तार्णवीमुद्रितराज्यलक्ष्मीविलासगेहंकिमपि स्मरामि॥२५॥
अवतारविशेषमब्जनाभेररुणोष्णीषमनल्पहेमभूषम्।
कृतवीर्यतनूजवेषमीडे जगतीपालनकर्मनिर्निमेषम्॥२६॥
यदीयभुजमण्डले धरणिरेत्य लीलारतिं
विशङ्कटतरे विसृजति स्म दौस्थ्यव्यथाम्।
परीक्षणकषोपलः स दशकण्ठबाहूष्मणा
जगन्महितशासनो जयति कार्तवीर्यार्जुनः॥२७॥
रेवा यस्य परं दुरासदभुजासेतौ न माति स्म सा
तेजोवार्धिरपि क्षपाचरपतेस्त्रैलोक्यकूलंकषः।
सप्तद्वीपनिखातयूपपुलकच्छन्नावनीविग्रहः
सोऽय हैहयनायको विजयते शुरक्षितीशाग्रणीः॥२८॥
का चिन्महाकालनिकेतनस्य पुरामरातेर्भुवि राजधानी।
श्रिया विशालां जनतामवन्ती चकास्त्यसावुज्जयिनी पुरीणाम्॥२९॥
भूतिं देहि ब्रूहि नामानि शभोराद्य विद्या लीलयेत्याचरन्ती।
देव्या साक ध्यायत ध्यायतेति ध्यायन्त्यस्यां दैवत केऽपि धन्या॥३०॥
अस्यां मरालीततिरद्रिकन्याकेलीगतिप्रार्थनसापराधा।
निवारितान्तर्गमनेव नित्यमास्ते बहिः खेयरतिच्छलेन॥३१॥
क्रीडाजुषामत्र कृशोदरीणामारज्यमाना घुसृणाङ्गरागैः।
सृप्रा जगत्पातकसहतीनामुत्पातसन्ध्येव पुरः समिन्धे॥३२॥
अस्यां निरस्ता दिवसान्तनृत्यत्पिनाकिपूजापटहप्रणादैः।
निर्याति नृृणामिव दुष्कृतालिःसौधेषु कालागरुधूमरेखा॥३३॥
आरूढकर्मन्दिपथा इवास्यामाविर्भवज्झङ्कृतितारनादाः।
आरामवीथीष्वनुवल्लिगेहमटन्ति भृङ्गा मकरन्दभिक्षाम्॥३४॥
स्वयंविशालाप्यवकाशहीना दुष्कर्मलेशस्य शरीरभाजाम्।
उच्चैर्महाकालमुपाश्रितापि कदापि नैषाञ्चति काललक्ष्याम्॥३५॥
स्थितं सनिधानेऽपि धीसूक्तिदूरं निराकारमप्यर्धनारीशरीरम्।
अधिष्ठानमप्यस्य विश्वस्य शश्वन्महाकालवास्तव्यमव्यान्महो नः॥३६॥
अस्याः सिन्धोरूर्मिहस्तावलम्बादेनः सिन्धोरेत्य पारं भवामि।
निर्विन्ध्याया निर्मलाम्भः प्रवाहे निर्मज्याहं निर्गतः क्लेशविन्ध्यात्॥३७॥
चर्मण्वत्याः साधु खण्डीकृतांहोमर्मण्यस्या मज्जतां वारिपूरे।
कुम्भीपाकाद्धोरपीडाविपाकात्किभीतिः स्यात्किचिदप्यङ्गभाजाम्॥३८॥
इदं तावदिह दृश्यते मन्दाकिनीविहितमहितसागत्यमलघुसलिलपूरसातत्यवितीर्णजलधि-सौहित्यमशिशिरकरापत्यम्।
क्षितिरोमलता कलिन्दभूभृत्करिकालायसशृङ्खला स्रवन्ती।
भवतापपरीतमानसानां नवतापिञ्छवनीयमाविरास्ते॥३९॥
वृषमौक्तिकसंहतेर्विधात्रा वणिजा भूविपणौ विसारितायाः।
परभागकरी पटीव नीला प्रतिभाति द्युमणेरिय कुमारी॥४०॥
मिहिरांशुविलीनमेघमार्गद्रवनिष्यन्दततौ परं किलास्याम्।
यमुनेति कलिन्दजेति सिन्धोरबलेति प्रथते नृणां विमोहः॥४१॥
नतिरस्तु गभस्तिमालिसूनोर्नरकद्वारमहायसार्गलायै।
जनसद्गतिनर्तकीमसारप्रतिसीराकृतये प्रकाममस्यै॥४२॥
असितोत्पलमालिकामवन्या जनतापुण्यशिखावलाभ्रपङ्क्तिम्।
शिशिरामवगाह्य सिन्धुमेनां जनिताप विजहाति जीवलोकः॥४३॥
अनुवारमवाप्तवारिकेलेरसिताया मुरशासनस्य मूर्तेः।
अयमाविशदंशुमालिकन्यामभिरामः किमु नीलिमातिरेकः॥४४॥
अतिवेलरसोदयानुभावात्कलयन्ती निजकामुकाभिसारम्।
असितावरणांशुकं किमेषा सहजश्यामलकच्छलेन धत्ते॥४५॥
अभिषिञ्च कलिन्दकन्यके मामतिनीलच्छविनैव बारिणा ते।
सहसा भवितास्मि तावताह शरदिन्दीवरबान्धवावदातः॥४६॥
दिशि वासमवाप्य दक्षिणस्यां सहजन्मा तव शास्ति पापशीलान्।
भवती तु परिष्कृतोत्तराशा कृपया कल्मषमेव देहभाजाम्॥४७॥
जननि त्वदवेक्षणं जनाना निरयश्रेण्यनवेक्षणे निदानम्।
भवदम्भसि मज्जनं तु भद्रे पुनरुन्मज्जनकारणं भवाब्धेः॥४८॥
जननामयभेषजैः श्रुतीनां पटवासैस्तटरेणुभिर्भवत्याः।
चरणाम्बुजबासितैर्मुरारेरनुलिप्तोऽपि भवामि नीरजस्कः॥४९॥
रविनन्दिनि नीलरत्नयोस्ते तटसीमाजनुषोस्तयोः किलैकम्।
अभवत्परिकर्म विन्ध्यभूमेरपरं गोपवधूपयोधराणाम्॥५० ॥
हसितौषधमोहिताशयानामनुतीरं तव बल्लवाङ्गनानाम्।
बहुशो हरति स्म नीविबन्धानतिसंघापटुरादिमः स चोरः॥५१ ॥
तटमम्ब तवैनदेव शार्ङ्गी निजवंशीविनदामृतैरसिञ्चत्।
अत एव पुरीयमत्र भान्ती मधुरेति व्यपदिश्यते जगत्याम्॥५२॥
महतीषु पुरीषु काममेषा मधुरेत्यत्र किमाविरास शार्ङ्गी।
अवतारमहोत्सवेन शौरेरथ चेयं मधुरा किमासु जज्ञे॥५३॥
जनिकापथचक्रमालसानामलघुश्रान्तिकलापमङ्गभाजाम्।
अमृतार्पणलीलया हरन्ती नगरीयं मधुरा भवेन्न केषाम्॥५४॥
धरणीतिलक तरी भवाब्धेः खनिरिन्द्रानुजगारुडोपलस्य।
दिशति प्रमद दृशोरियं मे रजनीशान्वयराजराजधानी॥५५॥
यदुवशयशोनिदानभूमिः शिशुताविभ्रमसाक्षिणी मुरारेः
नवमुक्तिवधूविवक्षुलोकप्रतिबोधाङ्कुरपालिकेयमास्ते॥५६॥
अवकर्णयितु यशो मुरारेरसकृत्पौरजनोपगीयमानम्।
गलितावरणैरिय गवाक्षैः परिफुल्लश्रुतिसपुटेव भाति॥५७ ॥
यमुनालहरीसमीरधूतैरियमाभाति शतैस्तटाकिकानाम्।
उपकण्ठमुपेयुषां जनानामघसंघातमिवापसारयन्ती॥५८॥
निजभक्तिनिरूढमानसाना घनससारविषादखण्डनाय।
अरविन्दविलोचनः किलास्यां परिजग्राह भवानुबन्धलीलाम्॥५९॥
चिरकालधृतं हृदा जगत्याः किमपि प्रौढविषादकारि शल्यम्।
भगवानिह कंसनामधेयं बलसदंशिकया समुज्जहार॥६०॥
इह धन्यतमैरलोकि रेखासरसीजातरथाङ्गशङ्खचिह्ना।
अनुवीथि पदावली मुरारेरकुतो जन्मसरखतीविचेया॥६१ ॥
मनुजो नहि मादृशो जगत्यामनुकम्पालवदुर्विधान्तरङ्गः।
चिरशीलितमप्यधर्मजात बहिरुत्सृज्य पुरीमिमां विशामि॥६२॥
इत्यादिवचनरीतिमुखरिताननो हरितालनिभवसनभरितात्मकटितटं हरिनीलमणिभङ्ग- संकाशरोचिषमवनतपरिषद-तिहर्षविरचनाय समुद्यन्तमिव कमपि तडित्वन्तमानकदुन्दुमेरात्मजमभिवन्द्य संक्रन्दनमुकुन्दशातोदरीद्वन्द्व-सवादरूपमरविन्दलोचनस्तुतिकलापमभिरूपशेखरोऽयमेवमकरोत्॥
विधाय केलिं वियदापगाया यान्त्योस्तटीमिन्द्रमुकुन्दपत्न्योः।
पटीविपर्यासवशेन जज्ञे प्रगल्भवादप्रतिवादभङ्गी॥६३॥
पटे सुरेन्द्रममदैकधार्ये कुतोऽन्यथा मुह्यसि गोपभीरो।
तवैव मोहो दयित मुरारेरशेषवन्द्याधिक बदन्त्याः॥६४॥
मृगाक्षि शौरेर्महिमातिरेकमाख्याति राज्यानधिकार एव।
बलेस्त्रिलोकीमपहृत्य बाले गोत्रारये दत्तवतः क्वराज्यम्॥६५॥
ज्यायोबलात्साधयतोऽनुजस्य कार्याणि मुग्धे वद कः प्रकर्षः।
त्राणं गवां तन्वति मत्सहाये दृष्टं बलं दुर्ललिते मघोनः॥६६॥
गोपालबाले कुलिशायुधेन कृपा व्यधायीति किमेष दोषः।
मग्नानुकम्पा क नु मातृगर्भं दम्भोलिना दारयतो बलारेः॥६७॥
दिवौकसां दानवजातिमात्रे स्पर्धा निसर्गप्रभवा हि सत्ये।
पौलोमि तर्हि त्वयि पाकशासी वैरानुबन्धान्न कुतो विधत्ते॥६८॥
नारीवधं नर्मसखस्तवैव शतक्रतुः सविदधीत कि वा।
अकार्यमप्याचरणीयमेव वितन्वता विश्वकुटुम्बरक्षाम्॥६९॥
स्वकुक्षिपूर्त्यैकृतचोरवृत्तेर्दूरे जगत्त्राणधुरंधरत्वम्।
पुंसः खकीयोदरपोषणं च तस्य त्रिलोकीपरिपोषहेतुः॥७०॥
मर्त्याङ्गनागर्भपुटीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोपम्।
विश्वत्रयव्यापितनोरनेन का हानिरुन्मीलति कैटभारेः॥७१॥
किं किं शुभेकेशवशाम्बरीभिर्विमोहिता त्वं न समर्थयेथाः।
भजन्तमुत्सृज्य जनं परेषु धाटी निबध्नाति तदीयमाया॥७२ ॥
आनन्दामृतसर्वस्वमाशास्यममरैरपि।
आभीरपतिगेहान्तमभिव्यक्तमुपास्महे॥७३॥
पयःपयोधौ बहुकाललीलया वितायमानादिव वासनाबलात्।
हरिर्विहायानकदुन्दुभेर्गृहान्व्रजे सुधाढ्येविहरन्स पातु नः॥७४॥
जङ्घोपरि न्यस्य कृते जवेन सक्षालने संविहितां जनन्या।
प्रदक्षिणाम्भःपरिषेकरक्षामन्तर्हसन्वीक्ष्य हरिः पुनातु॥७५ ॥
स्तनं जनन्या धयतेव समुख प्रसारितः पातु करो बलिद्विषः।
निशाचरीमम्ब निरीक्ष्य मारितां प्रयाहि मा भीतिमितीव शंसितुम्॥७६॥
वन्दे मुकुन्दं पदपल्लवाभ्यां वाचालमञ्जीरमनोहराभ्याम्।
प्रहारलीला मनसि प्रणेतुमभ्यस्तडो (दो) लाफलकाभिघातम्॥७७॥
जानुद्वयीचड्क्रमणेषु धात्र्यापाणि निधायैकमुदस्तबाहुः।
तमाहरिष्ये तरुमिन्द्रलोकादिहेति शंसन्निव शौरिरव्यात्॥७८ ॥
अपि त्रिलोकीममिमीत यस्त्रिधा समाहितैरङ्घ्रिसरोजविक्रमैः।
स माधवो नः परिपातु संचरन्करौ समालम्ब्य पितुर्गुहाङ्गणे॥७९॥
अमेयमप्यकृतकभारतीशतैरगोचरं यमिवरचेतसामपि।
गृहाङ्गणे किमपि यशोदयागुणैरुलूखले कलितमुपास्महे महः॥८०॥
आकुञ्चय पादाम्बुजमेकमन्यदुत्क्षिप्य नृत्यन्तमुदग्रचूडम्।
पाणिद्वयीपायसगव्यसारौ पश्यन्तमीडे पशुपालडिम्भम्॥८१ ॥
कराम्बुजस्तम्भितकिङ्किणीरवं पदे पदे कल्पितपार्श्ववीक्षणम्।
शनैः शनैराकलिताङ्घ्रिचड्क्रमंविनौमि शौरेर्ब्रजगव्यमोषणम्॥८२॥
विज्ञातुमामोदबशेन मोषं गव्यस्य गोपाङ्गनया कयापि।
निजाननेन्दोर्निकटोपनीतं जिघ्रन्मुकुन्दो वदन स जीयात्॥८३॥
गृहे मदीये कियदद्य गव्यमहारि शसेति कयापि पृष्टे।
पयोधरौ पाणियुगेन तस्याः स्पृष्ट्यदस्तीति भणन्विटोऽव्यात्॥८४॥
कलशीनिहितं पयःकथं वा परिपीतं भवतेति राधयोक्ते।
अधरामृतपारणाममुष्या विदधानं विभुमेवमित्युपासे॥८५ ॥
हैयङ्गवीनहरणाकुलघोषयोषि-
दाक्रोशनाटितरुषः पुरतो जनन्याः।
व्यत्यस्तपाणिविधृतश्रवणानि चित्ते
नाथस्य केलिनमनोन्नमनानि भान्ति॥८६॥
लताङ्गि मह्यं रचयाञ्जलिं पटीमहं दिशामीत्यवकर्ण्य भाषितम्।
कृतेऽञ्जलावेककरेण राधया शिरो विधून्वन्शिशुरस्तु संपदे॥८७॥
रक्षाकरं मङ्गलमारचय्य सप्रेषितः सानुनयं जनन्या।
कस्तूरिकाक्ऌप्ततमालपत्त्रो नासाञ्चलेनापि मणिं दधानः॥८८॥
काञ्चीगुणोदारकटिप्रदेशो मायूरबर्होज्वलमौलिबन्धः।
वहन्करे वेत्रविषाणवंशान्पाथेयशिक्याकलितांसभागः॥८९॥
पवित्रयन्नङ्घ्रिपयोरुहाभ्यामाभीरपल्लीभवनाङ्गणानि।
बहिर्नयन्पीतनिबद्धशावं कुलं गवां गोष्ठगृहान्तरेभ्यः॥९०॥
भ्रूलीलया कांचिदपाङ्गितेन परां दरस्मेरमुखश्रियान्याम्।
कर्तु रहः केलिकलां वनान्ते समाह्वयन्घोषसरोरुहाक्षीम्॥९१ ॥
पित्रा कियद्दूरमिवानुगम्य वात्सल्यनिघ्नेन विसृज्यमानः।
वनाय शृङ्गिण्यवनाय चाद्यो विद्योततां चेतसि पूरुषो मे॥९२॥
किरीटसदानितकेकिपिञ्छंवशीकृताभीरवधूप्रपञ्चम्।
कदम्बगुच्छाहितकर्णपूरं कुर्वे हृदन्तः कुहनाकिशोरम्॥९३॥
हेलावलद्ग्रीवमितत्रिभङ्गीवक्राम्बुजव्यापृतवशनालम्।
व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनङ्गशौरेः॥९४॥
वंशीमुपासे वसुदेवसूनोरारज्यमानामधरांशुपूरैः।
शृङ्गारगीतामृतसेचनेन रोहत्प्रवालामिव लोभनीयाम्॥९५॥
वंशीसुधां वर्णय वाणि शौरेरास्वादितामर्कसुतामरालैः।
गलन्मृणालीकवलच्छलेन तृप्तेस्तदुद्गारमिवादधानैः॥९६॥
आप्लावयेयुरपि नः श्रवसी कदाचि-
त्कंसाभियातिकलहंसवरामृतानि।
प्रादुर्भवत्किसलयच्छलतः प्रसार्य
जिह्वां महीरुहकुलैरपि सेवितानि॥९७॥
अनुभवेयमहं किमु जातुचिन्मुरभिदो मुरलीनिनदामृतम्।
किसलयाञ्जलिशालिमुखाञ्जलैःकिमपि सेवितमन्यभृतैर्द्विजैः॥९८॥
आपाटलान्यङ्गुलिपल्लवानि व्यापारयन्तं विवरेषु वेणोः।
नादामृतैर्नन्दगवीकुलानां मोदान्सृजन्तं कलये मुकुन्दम्॥९९॥
खुराहतिक्षुण्णभुवा पशूनां परागजालैः परिधूसराङ्गे।
मुह्यद्दिगन्ते मुरलीनिनादैः स्निह्यत्यनन्ते मम शेमुषीयम्॥१००॥
दृढानि गोपीधृतिबन्धनानि हठादपाकुर्वति हासलेशैः।
अनीदृशे मे मतिरागमान्तवनीचरे वैणविकावतसे॥१०१॥
बिम्बाधरं बन्धुरमन्दहासं लम्बालकासङ्गिललाटदेशम्।
विरामकालेऽपि न विस्मरामि मुखं रणद्वेणुसख मुरारेः॥१०२॥
हसितस्पृशि हारिकण्ठनाले परमानन्दसरःप्ररूढमूले।
अघरच्छविकेसराभिरामे श्रुतिसौरभ्यनिधौ शुचा विरामे॥१०३॥
व्रजयोषिदपाङ्गभङ्गवीते मकरन्दायितमञ्जुवेणुनादे।
परिलक्षितशृङ्गिणीपरागे रदमुक्तारमणीयगर्भभागे॥१०४॥
अमितप्रणयावगाहिनीभ्या रचिताघ्राणविधौ रमावनीभ्याम्।
कुरु मानसराजहसलीलां कुहनागोपमुखाम्बुजे विशालाम्॥१०५॥
वनाद्दिनान्ते ब्रजमाव्रजन्तमभङ्गशृङ्गारवपूरिताशम्।
श्रवः कदम्बस्तबकेन साकं मनागिवाम्लानमुखारविन्दम्॥१०६॥
वराङ्गनादन्तपटप्रतीति सरोषराधासमुदीक्षितेन।
विम्बोष्ठमध्ये भृशपाटलिम्नाविन्यस्तवशीजनुषा विभान्तम्॥१०७॥
वृन्दावने प्रीणितया कयापि सभावितं सप्रणयावलोकैः।
सकेतभूवञ्चितया तु गोप्या सताडितं दारुणदृष्टिपातैः॥१०८॥
भ्रूक्षेपमन्दस्मितदृक्तरङ्गैः पुष्णन्तमन्तः स्मरमङ्गनानाम्।
आभीरवृद्धाननुकम्पयार्द्रैरालापभेदैरनुमोदयन्तम्॥१०९॥
नन्देन क्लृप्ताभिगमेन गाढमालिङ्ग्यदोर्भ्यामभिगम्यमानम्।
आविः स्तनक्षीरमिलिन्दभाजा यशोदया सादरमीक्ष्यमाणम्॥११०॥
श्वोभाविगोसचरणप्रदेशान्सकेतयन्तं सवयोजनानाभ्।
अग्रेचलद्गोकुलमम्बुजाक्षमालम्बतां बालकमाशयो मे॥१११॥
गोवर्धनव्यञ्जितकौशलेन गोवर्धनच्छत्रमुदस्य दोष्णा।
गोपायिताभीरकुलाय वर्षाद्गोपायितायास्तु स ते प्रणामः॥११२ ॥
ऋजूकुर्वन्नपि हरिस्त्रिवक्रामसृजन्पुनः।
द्दगन्तकचभारेषु त्रिषु वक्रा धिनोति नः॥११३॥
भवभीतिपराकृतेरुपायं शृणु चेतः श्रुतिमौलिसंप्रदायम्।
परिशीलय भावनां मुरारेः कुरु दारादिकुतूहलानि दूरे॥११४॥
प्रसूरियमसौ पिता मम सुतो नताङ्गीति कि
विमोहमरुगाहनव्यतिकरेण वा ताम्यसि।
यदूद्वहवधूटिकाजठरशुक्तिमुक्तामणौ
मनो भज विनोदनं मधुविदारके दारके॥११५॥
अशौरिकुलपावनानकृतनन्दगोपालका-
नकालियविमर्दनानकरनीतगोवर्धनान्।
अकंसमदभञ्जनानकलितावनीरञ्जना-
नबाणभुजदारकानलमुपास्य वृन्दारकान्॥११६॥
अलूनवृषभासुरैरशिखिपिच्छकाभासुरै-
रगव्यरसलालसैरपटुरासलीलारसैः।
अगोभरणदीक्षितैरकमलानुवादीक्षितै-
रभृङ्गसचिवालकैरलमशाम्बरीबालकैः॥११७॥
कृष्णस्य वृन्दावनकन्दरान्तराभीरदाराभिरतेः कथाभिः।
अल विमुत्क्त्यै कृतमर्चनायामायासभारैरमरान्तराणाम्॥११८॥
वनमालिवशीकृताशयानां पदविन्यासपवित्रितो वधूनाम्।
यमुनातटरेणुरेव पुंसामलमंहो विनिहन्तुमङ्गसङ्गी॥११९॥
परःसहस्राणि परस्य धाम्नःसन्त्येव रूपाणि जगद्विभूत्यै।
मृग्यो मृषा गोपविलासवीर्यलावण्यसौरभ्यलवोऽपि तेषु॥१२०॥
पशुपैरपि बाह्यदृष्टिशीलैर्ददृशे दृश्यरथाङ्गङ्खशचिह्ना।
अधिनन्दनिवासमागमान्तैरपि मृग्या पदपङ्क्तिरब्जनाभेेः॥१२१॥
उरुभक्तिसुधारसोर्मिलानामपनेतुं जनिखेदमङ्गभाजाम्।
स्वयमादृतसंभवानुबन्धे महनीये रमतां मनो मुकुन्दे॥१२२॥
किंच—वन्दे महः किंचन वशनालीश्रृङ्गाङ्कुशाजिह्मगचापहस्तम्।
गुञ्जारुणं क्वापि ततोऽपि नीलं बर्हावलीबालमृगाङ्कचूडम्॥१२३॥
शृङ्गाटमध्ये कृतसंनिधाना मुखारविन्दे मुरली दधाना।
ममास्तु चित्ते महनीयशीला विद्या मुरद्वेषिविचित्रलीला॥१२४॥
इदं मदंशद्वयमेवमेव कृतव्यतीहारमजायतेति।
विभावयन्ती विनिमाय पादौ विद्या परा वेणुमती समिन्धे॥१२५॥
कुहचिज्जयकुञ्जरप्रचारं परतो भावितराजहंसयानम्।
कटिसीमनि वाससी वसानं कनकाद्भासिकुसुम्भरागशोणम्॥१२६॥
हृदि कौस्तुभमेकतो दधानं परतस्तुङ्गपयोधरोपरुद्धम्।
गिरिधारणकर्कशैकपाणिं कुसुमादप्यतिकोमलान्यहस्तम्॥१२७॥
हरिणाधिपकोकिलावलेपान्क्षपयन्तं निजकण्ठनादभङ्ग्या।
क्वचिदुज्ज्वलकुण्डलाभिरामं पटुताटङ्कपरिष्कृतं कुतोऽपि॥१२८॥
विनतार्तिहरं विलोचनाभ्यां कमलेन्दीवरगर्वमोचनाभ्याम्।
धृतचित्रकदृक्सरोरुहा(भ्यां) निटिले निर्जितबालचन्द्रभासि॥१२९॥
**प्रियकस्तबकासितोत्पलाभ्यां प्रतिपन्नश्रवणावतंसकृत्यम्।
शिरसा शिखिनः शिखण्डमालां शशिखण्डं च सहैव लालयन्तम्॥१३०॥ **
बलभिन्मणिबन्धजीवशोभं धृतपाशाङ्कुशपुष्पबाणचापम्।
मुरलीवरमूर्च्छनासु शश्वन्महनीयासु निबद्धमौलिकम्पम्॥१३१॥
गिरिशार्धगृहान्तरे विहारान्कलयन्तं नवकल्पशाखिमूले।
परितः परिवारदेवतानां प्रकरेणाहितसेवनानुबन्धम्॥१३२॥
इतरेतरयोगमेयुषाभ्यामतिहृद्यन्मकरन्दशर्कराभ्याम्।
कृतिनः खलु केऽपि भावयन्ते भवशान्त्यै परसविदोरभेदम्॥१३३॥
रुचिराद्भुतरूपसंविधानं परमानन्दसुधापयोनिधानम्।
उषितं पथि योगिनां विधेये तदहं धाम विचिन्त्य तत्र लीये॥१३४॥
पुण्यस्थानाग्रगण्यादथ यदुनगरादेष तस्मान्मनीषी
स्थाण्वीशाख्य धरण्यामभजत किमपि क्षेत्रमुच्चैः पवित्रम्।
सद्यः ससिद्धिहेतुं समधिकतपसांपुष्करं दुष्कराणां
सोमावास प्रभासं सुगतियुवतिसंचारिका द्वारकां च॥१३५॥
अथ द्रुताभीष्टकरी शतद्रु पाशापहन्त्री भजतो विपाशाम्।
धरावतीर्णा धरणीधरेन्द्रादिरावती चैष निषेवते स्म॥१३६॥
साभोगां चन्द्रभागा जगदखिलमिदं पावयन्ती च सिन्धुं
सेवित्वाथो निवृत्तः परिचितधनदारामगन्धाद्दिगन्तात्।
प्रौढं जालन्ध्रपीठाभिधमनघपदन्यासधन्यं भवान्या
हृद्य प्रापद्यतासौ हिमवति किमपि स्थानमानन्दशाली॥१३७॥
** असौ पुनरनेकतटिनीसरोवनीनगरप्रदेशेषु विरचितभ्रमणोऽपि परमपावनपयः पूरनिष्यन्दिनी शृङ्गिणीमिव पुंगवकिशोरकस्त्रिदशतरङ्गिर्णी निशामयन्किमपि चिन्तातिशय- संदानिताशयो व्याहर्तुमिति गिरं प्रावर्तत।**
इक्ष्वाकुसंतानयशः पताका मुक्तामणिं तां मुनिकण्ठशुक्तेः।
दुर्वर्ण्यकक्ष्यामवनीवशायां निर्वर्णयिष्यामि कदा स्रवन्तीम्॥१३८॥
विद्याम्बुजश्रेणिविभातवेलां मायातमश्चन्द्रमरीचिवीचीम्।
मुक्तालतां मुक्तिविलासवत्या भागीरथी चेतसि भावयामि॥१३९॥
गङ्गामुपासे गगनापदेशकासारकेलीकलहंसपङ्क्तिम्।
स्वयंवरासक्तिसमेतमुक्तिवधूकराम्भोजमधूकमालाम्॥१४०॥
किरीटिकोदण्डकृतप्रहारव्रणोल्बणीभावविशङ्कयेव।
यामोषधीशेन समं महेशो दधाति मौलौ तटिनी नुमस्ताम्॥१४१॥
भागीरथी सावतु या गिरीशजटाटवीपर्यटनोपजातात्।
आशाभ्रमान्मार्गमजानतीव भगीरथस्यन्दनमन्वयासीत्॥१४२॥
क्रीडापराधशमनाय नतस्य शभो-
श्चूडापदे विहरण समवेक्ष्य यस्याः।
कोपातिरेकमयते कुलशैलकन्या
सा पावनी दिशतु समदमभ्रगङ्गा॥१४३॥
अम्बरगालितमासीद्ब्रह्माण्डघटे बलिद्विषा यस्मात्।
तस्मादतीव पूतं जज्ञे किल सौरसैन्धवं सलिलम्॥१४४॥
द्युसिन्धुरुर्व्यांदुरितानि हन्तुमाढौकते वीवधगूढरूपा।
प्रकाशसंचारविधौ भयेन कुतोऽपि धावेयुरितीव बुद्ध्या॥१४५॥
समुद्धृता वीवधसपुटीषु भागीरथी भाग्यवतां जनानाम्।
आरोहणं मूर्धनि सविधातुं प्रायो विधत्ते पदमंसभागे॥१४६॥
गङ्गा निज वारि विगाहमानाञ्शरीरिणः कालहरीकरोति।
सुधांशुमौलेः खमदापहस्य गर्वापहाराय कृतोद्यमेव॥१४७॥
विष्टपत्रयतमः परिपाटीखण्डनाय कलितावतरापि।
अभ्रसिन्धुरखिलानपि लोकानन्धकारयति हन्त किमेतत्॥१४८॥
निमज्ज्य गङ्गाम्भसि निःसरञ्जनः पयोदनीलप्रतिमागतं गलम्।
विलोक्य जम्बालविलेपशङ्कया करोति भूयोऽपि च गाढमज्जनम् ॥१४९॥
मातेति पूर्वं महयन्विधत्ते सुरापगायां सुकृती विगाहम्।
कान्तेति पश्चात्कलयन्नसौ तां कोटीरकोटौ कुरुते विचित्रम्॥१५०॥
स्मेराम्भोरुहशीधुसारलहरीनिष्यन्दमुष्टिंधयो
रोधोदेशविकासिकैतकरजोविस्तारकुक्षिंभरिः।
वीचीनर्तितराजहंसवनितासगीतसर्वकषो
मर्त्यानां हरति श्रमं सुकृतिनां मन्दाकिनीमारुतः॥१५१॥
कदा तरङ्गे गगनापगाया निमज्ज्य गाढ निवसामि तावत्।
प्रविश्य यावत्प्रतिहृत्प्रतीकं समूलमुन्मूलयते स तापान्॥१५२॥
अयि नगराजनन्दिनि घनसुकृतसारकन्दलनिष्यन्दिनि परतत्त्वविज्ञानपाथोनिधानकौमुदि भगवति भागीरथि,
निम्नगासु न ते तुल्या नीचेषु न च मे समः।
मयि प्रपातनं मातर्विधातु किं विलम्बसे॥१५३॥
अनन्तरमन्तर्वाणिरयमतिदुरन्तभवखेदसंतानभीषितः पिपासित इवपीयूषकन्दली परिशुष्यदमेयसस्यसमूह इव प्रत्यग्रवर्षधारा प्रतिभटानुद्रुत इव प्रबलत [मा] मित्रवाहिनी जिह्मगविषाभिभूत इव जीवातुमूलिकां कल्लोलिनीरमणलहरीविषक्त इव कामपि महातरि तीव्रनदीपूरनीयमान इव तीरभूमि धर्माभितप्त इव कर्पूररसनिर्झरी निर्धनलोक इवनिक्षेप- संतति जगतीधराधीशशिखरान्तरादधिहरिद्वारमापतन्तीममृताशनसरितमुपलभ्यनिर्भरानन्द- सभ्रान्तमानसोमौनमहासीत्।
पयः प्रकृतिशृङ्गिण्या ब्रह्माण्डोधसि संभृतम्।
जगदर्भकजीवातु गङ्गेति परिगीयते॥१५४॥
विध्यादेशकरी सेयं विविधप्रत्ययावहा।
आगमैरञ्चिता भाति शब्दविद्येव जाह्नवी॥१५५॥
उद्दिधीर्षुः सगरजानसौ स्वर्गादवातरत्।
गणयन्ति न हि क्लेश परार्थैकपरायणाः॥१५६॥
गिरिशस्य पुरा केशान्परिगृह्योर्मिपाणिना।
पादावलम्बिनी पश्चादासीज्जाड्यादसौ नदी॥१५७॥
ईशमुक्ता गिरिदरीरियमाप पदे पदे।
भगीरथस्य तन्वाना भावं भूयस्तपोविधौ॥१५८॥
परं नापूरि जाह्नव्या भगीरथमनोरथः।
पारावारोऽपि निःसीमपरिणाहविभूषितः॥१५९॥
त्रिविक्रमपदोद्भूता त्रिलोकीमियमानशे।
कारणस्यानुकुरुते कार्यं हि गुणसपदा॥१६०॥
अनन्तपथगाप्येषा हन्त त्रिपथगामिनी।
भगवत्पादजातापि शुक्ला वर्णेन शोभते॥१६१॥
नदी नवसुधाधारा वसुधावासवत्यपि।
प्रतिकूलप्रवृत्तेयमनुकूलापि देहिनाम्॥१६२॥
गङ्गोरगी गिरीशस्य जटाकन्दरनिः सृता।
विषोदग्रा वितनुते पापमण्डूकपारणाम्॥१६३॥
आस्ते किमावृता गाङ्गे दाहशक्तिरिहाम्भसि।
निर्दह्यते यतो नॄणामस्य सङ्गादघाटवी॥१६४॥
आपगाया जगत्यस्याः कोऽपि शीतलतागुणः।
पातकानि प्रकम्पन्ते यस्या नामश्रवादपि॥१६५॥
ननु त्रिपथगावारि समस्ताम्भोविलक्षणम्।
सिक्तः कूलाङ्कुरो येन कल्पते मूलतृप्तये॥१६६॥
कोऽपि निर्जरवाहिन्या गुणासङ्गी शरोत्करः।
चलञ्जवेन तनुते षडरिच्छेदन नृणाम्॥१६७॥
अनादिमलसंघातहरणैकपटीयसीम्।
अभ्रगङ्गामपि नदीमन्यामपि गृणन्त्यहो॥१६८॥
विध्यण्डपुटनिष्पन्नो वियद्गङ्गामयो रसः।
अजरामरणां सिद्धिमाधत्ते सेवितो नृणाम्॥१६९॥
शिरांसि भजतामाशु सिन्धुरेषाधिरोहति।
विवरीतुं प्रवृत्तेव विश्वमूर्धन्यता निजाम्॥१७०॥
अस्यामिहावतीर्णायामाविरास्ते भवाद्भयम्।
कालमन्मथयोःशश्वत्कदाचिन्न शरीरिणाम्॥१७१॥
विमुक्ति विश्राणनधुर्यभावबोधाय बद्धा भुवनान्तराले।
काशीपतेः क्षौमपताकिकेव लेखस्रवन्त्या लहरी समिन्धे॥१७२॥
इयं प्रसन्ना हृदये जले च तीरे प्रवाहेऽपि च दीप्रहंसा।
अभीष्टदाने गमनेऽपि शश्वदपास्तमान्द्या तटिनी चकास्ति॥१७३॥
आपन्नसत्त्वेव वियन्नदीयमाविर्भवत्केतकबर्हशोभा।
वीचीकरालम्बितपार्श्वभित्तिविजृम्भमाणश्वसनं प्रयाति॥१७४॥
कूलद्विजा कुन्दसगन्धमूर्तिः स्वादुस्तुषारा सुरभिः सरोजैः।
इयं प्रसूतेः फलमिन्द्रियाणा मन्दाकिनी पुष्यति मामकानाम्॥१७५॥
** **तदनु भुवनोपतापदमनोपचितरंहसि सुमनोनदीजले कलितावगाहनो बुधजनोत्तं- समणिरतिमनोहरं वचनोपहारमतनोत्।
त्रिमार्गगे वाङ्मनसातिदूरः स कोऽपि जागर्ति तव प्रकर्षः।
यदन्यतीर्थातिशयप्रसङ्गे विश्राम्यति त्वय्युपमानभावः॥१७६॥
दानाय मुक्तेर्धृतकङ्कणाया मयि स्थितायामपि केऽपि मर्त्याः।
क्लिश्यन्ति चेतः श्रुतिचिन्तयेति क्लृप्ताट्टहासेव विपाण्डरासि॥१७७॥
ब्रह्माण्डरन्ध्रात्पतनं सुमेरौ नानानगेन्द्राभिहतीश्च गुर्वीः।
अचिन्तयित्वा भुवमागतासि पातु सुतानम्ब भवाब्धिमग्नान्॥१७८॥
हिमाचलं प्राप्य जटाकलापादीशस्य नेत्रानलतापितेव।
प्रपद्यसे मज्जदनेकलोकभवाग्निकीलाकुलितेव सिन्धुम्॥१७९॥
अम्ब त्वया भेषजमत्यपूर्वमशिक्षि कस्मादिदमभ्रसिन्धो।
भवज्वरं यद्विषमं प्रकृत्या शीताम्बुसेकेन नृणां क्षिणोषि॥१८०॥
ब्रह्मन्हरे हर भवादवतेति देही
जल्पन्निमज्जति जले तव जह्नुकन्ये।
निर्माहि पाहि निजहीति निदेशमेषां
तन्वन्नुदञ्चति क एष तवानुभावः॥१८१॥
गगनतटिनि तावकं गरिम्णा सलिलमशेषजलातिशायि मन्ये।
न विसृजति निमज्जतां नराणामिदमधिरुह्य सकृद्यतः शिरासि॥१८२॥
भरणे निजवर्ष्मणोऽपि खिन्ना भवती जाह्नवि देहिनो भजन्ते।
किमिद निदधाति मूर्ध्नि तेषामहहाशेषजगत्कुटुम्बभारम्॥१८३॥
त्रिदिवस्रवन्ति भवदम्बुमाधुरी सकलातिशायिविभवेति मन्महे।
अवलिह्य जातुचिदिदं यतो जना विमुखीभवन्ति जननीकुचामृते॥१८४॥
अयि तावकं चरितमद्भुतोदय सुरभीकरोति सुरलोकनिम्नगे।
पदमुन्नतं भजनसङ्गिनो जनान्नयसे यतः स्वयमघोनिपातिनी॥१८५॥
चेलं चर्म निकेतनं पितृवन पात्रं शिरो लेपनं
भस्मालंकृतिरस्थिजालमनुगा वेतालपारम्परी।
भिक्षापर्यटनं च वर्तनमहो नॄणां भवत्सेविनां
मातर्ब्रूहि कथं त्वदीयभजन कुर्वे सुपर्वापगे॥१८६॥
आकण्ठं सलिले निमज्ज्य पुलिनाभोगोपधाने शिरः
कृत्वा शैलसुतापते सुररिपो गङ्गाधरेत्यालपन्।
गृह्णन्कर्णपुटे शिवेन कृपया प्रव्याहृतं तारकं
तीरे जाह्ववितावके तनुपरित्यागं विधास्ये कदा॥१८७॥
त्वद्रोधोभुवि भूस्त्वदम्बुनि जल त्वत्फेनभासि प्रभा
त्वद्वीचीपवने मरुत्त्वदुदकावर्ताम्बरे चाम्बरम्।
इत्थं देवि मदीयदेहजननी भूतावली लीयतां
त्वत्सबन्धिनि जह्नुनन्दिनि महत्येषा मम प्रार्थना॥१८८॥
इति स्तुत्वा नभः सिन्धुमेष धीमानमोदत।
मनसा फलिताशेषमनोरथसमृद्धिना॥१८९॥
इति समरपुगवकृतौयात्राप्रबन्धचम्पूकाव्ये सप्तम आश्वास।
—————
अष्टम आश्वास।
पत्या प्रकाश्यमान क्षेत्राणामयमुपास्य केदारम्।
सकलमहितं फलानि स्वकुलत्राणक्षमाणि लभते स्म॥१॥
उच्चैर्महागिरिविहारमुपेत्य धीमा-
न्नीहारसवृतिनिवृत्तिदिनावतारे।
प्राहृष्यदादिपुरुषं बदरीवनान्तः
पश्यन्करोदरमिषद्बदराविशेषम्॥२॥
** तदनु कारुण्यलवनवविकृतकामरूपां कामरूपान्तराहितकामपीठस्थितिकामपि परदेवतामाराध्य नरदेवदुर्नयनाटिकाविभावनपाटवानुवर्तिभिरालापविस्तारैरस्तौषीत्।**
त्वद्भ्रूलीलानुसारित्रिपुरहरणदृक्किङ्कराधोक्षजाज्ञा-
निर्वोढृब्रह्मचिन्तासमुपनतजगद्धोरणीकोणभाजः।
उर्व्याः क्वापि प्रदेशे कतिपयविषयाधीशतामेत्य मत्ता
न त्वामञ्चन्ति भूपाःसमयविषमतां कि ब्रवीम्यद्रिकन्ये॥३॥
नत्वा पृच्छामि किचिद्भगवति भवती वाच्यमेतत्कुतश्चि- त्पुण्यात्पट्टाभिषेकव्यतिकरसमयप्राप्तिमात्रेण राज्ञाम्।
सौजन्यं क्व प्रयायात्क्व मतिरुपरमेत्क्व व्रजेत्साधुवादः
सौलभ्य क्वापसर्पेत्क्वपुनरपसरेदातुरेष्वार्द्रभावः॥४॥
भूजाने जय जीव कोऽत्र पुरतः शब्दायते वार्यता-
मायुष्मन्नहमेव कोऽसि कथय त्वं वा त्वदीयाश्रितः।
आस्ता तद्भवदीयनाम किमह डित्थस्तथा वा तदि-
त्यभ्यस्तानपि खेदयन्ति गिरिजे भूपा भवद्वञ्चितान्॥५॥
आयाहि प्रातरेहि ह्यलमनवसरो याहि मे देहि सद्यः
स्वर्णान्येतत्पिधेहि प्रतिभुवमथवा ब्रूहि नो चेदपेहि।
इत्येवं द्रष्टुकामा नरपतिहतकानेतदासन्नभृत्यै-
रायास्यन्ते नितान्त जननि तव पदद्रोहिणो देहभाजः॥६॥
ह्यः शर्वर्या समज्याविघटनसमये हे बुधा युष्मदर्थ
राज्ञेऽवोचाम किचिद्रहसि स च तदा प्रीतचेता इवास्त।
इत्थं वागीशसार्थानयि जननि भवद्वञ्चितान्वञ्चयन्तो
मन्दाः कुर्वन्ति केचित्पितृपतिनगरीमार्गपाथेयबन्धम्॥७॥
आकर्ण्यास्माकमभ्यागमनमवनिभृद्द्वित्रिकक्ष्यान्तराणि
प्रोल्लङ्घ्याभ्येत्य नीत्वा बहुमतिमतनोदर्घपीठीजुषां नः।
इत्थं मिथ्यावचोभिः पटव इव जना वञ्चयन्ति प्रपञ्चं
केचिज्जानन्ति नैते भवदुपजनितानम्बिके विप्रलम्भान्॥८॥
अद्य प्रातः सभायामखिलनृपतिषु प्रेक्षमाणेषु पीठा-
दुत्थायास्मत्कराग्राद्वनिभृदुपदामग्रहीत्पाणिनेति।
एतादृक्त्वेन जात्वप्यवनिपतिम[वि]ज्ञातवन्तोऽपि केचि-
द्राजाभिज्ञा इवाज्ञास्त्वयि सति विमुखेष्वैन्द्रजालं सृजन्ति॥९॥
नीहाराहार्यकन्ये तव पदकमलध्यानमुद्राविधानै-
रत्यर्थं वर्तयन्ते जनुषि सफलतां केऽपि धन्या धरण्याम्।
अद्राक्षीदीषदस्मान्नृपतिरधिगतप्रीतिरद्येति सार्थ
मन्वाना जन्म यान्ति प्रतिमुहुरितरे निर्वृति दुर्विवेकाः॥१०॥
मातर्दैतेयवैरिप्रमुखसुरवरैः शश्वदध्यासितायां
भावत्कागारबाह्याङ्गणभुवि वसतिप्राप्त्युपायं विहाय।
हा हा मोहाद्यतन्ते जगति तनुभृतो नैकनिष्ठ्यूतवीटी-
जम्बालैर्दूषितायां नरपतिभवनद्वारि कर्तुं विहारम्॥११॥
धिक्कारः सौविदल्लैश्चिरविततबहिर्वेदिकावासकार्श्यं
याच्ञादैन्यानुरोधः करितुरगकुलेष्वाकुला पर्यटाट्या।
निर्हेतुर्दण्डपातो भृशसुलभरुषा मेदिनीनायकेने-
त्येवरूपेण मातः परिणमति नृणां त्वत्पदाब्जापराधः॥१२॥
त्वत्पादाम्भोजपूजाविरचनविमुखीभावदोषावतीर्ण-
क्षोणीभृत्सेवनानां पुरुषपरिषदामद्रिराजन्यकन्ये।
नाहारो नैव निद्रा न सुखरसिकता नार्चना देवतानां
राजद्वारोपकण्ठेष्वपि तु तत इतः पर्यटाट्यैव कृत्यम्॥१३॥
त्रैलोक्यश्लाघनीये धरणिघरकुलोत्तंसवशे प्रसूतिः
शुद्धान्तैश्वर्यभाक्त्व त्रिभुवनभरणोल्लासिनश्चन्द्रमौलेः।
लोकानां मातृता चेत्यखिलमपि शिवे हृद्यमेतद्भवत्या
भूपद्वारासिकायै पुनरपि तु सतां सृष्टिरेकैव कष्टा॥१४॥
आवासं दुर्गुणानां कमपि नृहतकं भूपतित्वेन सृष्ट्वा
तद्गेहद्वारि याच्ञामहह रचयितुं यद्विनिर्मासि धीरान्।
सोऽय सर्गस्वभावः किमु तवजननि ब्रूहि कि विभ्रमो वा
नैर्घृण्य वा किमाहो किमुत दृढतरद्वेषिता वा बुधेषु॥१५॥
तस्याः को वा निषेधं सृजति गिलति चेदावृत्तिः सस्यजाल
मर्यादालङ्घिनी चेज्जलनिधिलहरी को नु वा ता निरुन्ध्यात्।
किं च त्व शैलकन्ये कुटिलनृपगृहद्वारवेदीविहार-
क्लेशोदन्यावदान्या भवसि यदि सतां कस्तव स्यान्नियन्ता॥१६॥
भूभृत्सेवाविधानं बुधजनविततेः शास्त्रदृष्टेःपिधानं
दुष्कृत्येषु प्रधान दुरितमिषविषोन्मेषपाथोनिधानम्।
ब्राह्मण्यस्यावसानं प्रसरदपयशोवल्ल्युपघ्नप्रदान
सत्यस्वापोपधानं सति किमु बहुना त्वय्युपेक्षानिदानम्॥१७॥
भुक्ते प्राचीनवित्ते गरिमजुषि ऋणे भिक्षुताया धृतायां
संमाने हीयमाने नृपसदसि बहिर्द्वाररोधेऽपि जाते।
कोऽयं मायानुभावस्तव सति विलसत्यर्थलाभातिलोभा-
द्धावं घाव बुधानां ततिरटति मुधा राजधान्यामधन्या॥१८॥
विन्यस्ताञ्जलिना प्रणम्य शिरसा याचे दया चेद्बुधा-
नास्थानीनरकान्तरे क्षितिभुजा कामाक्षि मा मा क्षिप।
यद्यस्मिन्क्षिपसि व्यपेतकरुणालेशा तदा शालिका-
द्वाराध्यासनदुर्दशां वितर नो गुर्वीं दुरुर्वीपतेः॥१९॥
नैतत्स्वर्गतिसाधन न च कुलाचारं (रो) न चाज्ञा गुरो-
राम्नायैर्विहित च कर्म यदिदं भूपाधमोपासनम्।
प्राग्जन्मन्यचलात्मजे कृतभवत्वादापराधा वयं
पात केवलमात्मनः स्वयमहो कर्तु प्रवर्तामहे॥२०॥
मूर्ध्नापर्यटने कृतेऽपि करुणामुद्रा न चेत्तावकी
न प्राप्येत नरैर्गुवाकफलमप्यन्तर्घुणास्वादितम्।
जानन्नप्यमुमर्थमर्थपटलीसपादनाकाङ्क्षया
हा धिक्कष्टमनुद्रवामि धरणीपालाधमानम्बिके॥२१॥
त्वच्चिन्ता कलयामि चेत्त [दधुना] प्रत्यूहजाग्रन्मनः-
क्षोभोत्पादनचञ्चुरौदरशिखिज्वाला समुज्जृम्भते।
तच्छान्त्यै नृपतीन्भजामि यदि तद्ध्यनात्त्वदीयस्मृति-
र्नैवोदेति किमाचरामि कथय प्रालेयशैलात्मजे॥२२॥
प्राचीनक्षेत्रमात्रान्न लगति किल मे स्फारससारभारः
कृत्वा भूभर्तृसेवां धरणिरभिनवोपार्जनीया मयेति।
चिन्तासंदानितान्तःकरणसरणिभिर्धस्मरेरस्मदाद्यै-
रन्वारब्धा भवत्यां पुरहरदयिते देवि साक्षादुपेक्षा॥२३॥
उत्थानं प्रातरुर्वीपरिवृढभवनद्वारदेशाभिधान
निध्यानं भूमिबन्धोः पुनरुपगमनं वासशाला प्रतीति।
एतैर्व्यापारजातैरचलपतिसुते नित्यमावर्त्यमानै-
रङ्घ्रिद्वन्द्वं भवत्या मुहुरहह वय घस्मरा विस्मरामः॥२४॥
ग्रामं वा ग्रामटी वा मितभुवमथवा हाटकं वा पटं वा
यः कोऽप्यस्माकमेतत्किमिह न वितरेदेकिका वा वराटीम्।
इत्यम्ब त्वय्युपेक्षाविरचनदुरितप्राप्तदारिद्र्यमुद्रा-
कातर्याः पर्यटाट्यां नगरभुवि वयं बहृधर्माय कुर्मः॥२५॥
अन्तःशुद्धान्तमास्ते नृपतिरविरतं नैव निध्याति दैवा-
न्निर्गच्छन्त कदाचित्तिरयति तरसा खेटकूटैर्भटौघः।
वक्ता वा नास्मदर्थे खयमपि गमनं दुष्करं द्वार्यथापि
त्वद्द्रोहादद्रिकन्ये वयमवनिपतिंद्रष्टुकामाश्चरामः॥२६॥
विद्यागोष्ठीषु राज्ञो नहि रुचिकणिकाप्यस्त्युदास्ते प्रधानो
विद्वेष्टि स्वाधिकारक्षतिचकितमनाः सोऽप्यमेधाः पुरोधाः।
अन्यस्त्वज्ञातविद्वज्जनसरणिरथाप्यम्बते शाम्बरीभिः
पश्चात्सचोद्यमानाः सुधिय इति वय राजधान्या भ्रमामः॥२७॥
संनह्यत्सौविदल्लाघमवदनसमालोकनाय प्रसर्प-
द्धूलीषु द्वारवेदीशिखरसरणिषु प्रत्यहाध्यासनाय।
**याच्ञावाणीनिबद्धक्रमरसरसनाधारणायापि चास्मा-
न्निष्कारुण्य सृजन्त्यास्तव गिरितनये कि फल लब्धमासीत्॥२८॥ **
कर्णो मध्याह्लदीनः समयमनुसरत्यम्बुदः स्वर्गमात्रे
सन्तानस्त्यागशाली वयमपि तु मुहुः सर्वतो दानशौण्डाः। इत्युर्वीपालगर्वप्रलपितगरलज्वालजालानि पातुं
कर्णाभ्या कि नु सृष्टा वयमवनिधराधीशकन्ये भवत्या॥२९॥
कुम्भीपाकादिनानाविधनिरयकुलेष्वातलं संनिमज्जा-
व्यापारे नास्ति भारः सरसिरुहभुवो यावदायुर्विरामम्।
क्ष्मापालद्वारि कितु क्षणमपि वसतिः शक्यते नैव कर्तु
तस्मादस्मद्विपक्ष जनमपि न कदाप्यम्ब तस्या निधेहि॥३०॥
आस्थानी गाहनीया नृपनिकटजुषो रञ्जनीया मनुष्या
भूपालः सेवनीयः स च बहुलधनैरापनीयो मयेति।
चिन्तां संत्यज्य सोऽहं तव पदनलिनोपासनामात्रकृत्यः
प्रेङ्खद्भावः कदा वा वद जननफलान्यम्ब सपादयिष्ये॥३१॥
यास्यामो राजधानीं कथमपि नृपतेरन्तिकं तत्र को वा
नेष्यत्यस्मानकस्मात्प्रचुरधनभरैः प्रीणनामन्तरेण।
दृष्टे वा राज्ञि कृष्टां चिरवसतिमृते नाञ्जसा वाञ्छिताप्ति-
स्तस्मादक्लेशलभ्यां द्रुतफलजननीमद्रिजां न त्यजामः॥३२॥
लक्ष्यीकुर्वे किमुर्वीसहचरहतकानम्बिके तावकाङ्घ्रौ
जाग्रत्यश्रान्तमन्तःकरणभुवि ममाभीष्टविश्राणनाय।
त्वद्भृत्यद्वास्थवीटीचिपिटकपटसवाहकक्रीतदासी-
दासेयप्रेष्यचेटीसुतजनसदृशाः कि नु ते राजकीटाः॥३३॥
कामाक्षि त्वत्कटाक्षव्यतिकरकलिकामोदसाम्राज्यलक्ष्मी-
पर्याप्तस्वान्तवृत्तेर्नहि मम गणनागोचरे ते नरेन्द्राः।
सेबाहेवाकभाजां तव जननि जगत्यब्जभूर्वा हरिर्वा
त्र्यक्षो वा लक्ष्यकोटौ विलसितुमनल केऽपि मूढा नृकीटाः ॥३४॥
त्वद्ध्यानैकावधानप्रणयनसुलभानन्दलीढान्तरात्मा
नाह भूपानुपासे पुरहरसुतनो संपदे किंपचानान्।
पुंसां चिन्तालताभिर्हृदि तव चरणोपघ्नतामद्रिकन्ये
नाबध्यन्ते कतीभाः कति कति तुरगा गेहबाह्याङ्गणेषु॥३५॥
कुर्वन्त स्वैरमुर्व्याकतिचन समयक्षेपण भूपगेह-
द्वारावस्थानधारापरिचयरचनोदीतरागा वराकाः।
त्वद्ध्यानारम्भलब्धोदयनिरतिशयानन्दनिष्यन्दसिन्धो-
रन्तः खच्छन्दचारैर्जननि वयममी कालजालं नयामः॥३६॥
स्निह्यद्भूपालदत्तद्विरदवरघटामांसलस्निग्धमुग्ध-
स्कन्धाभोगाधिरोहक्रमसृमरतमख्यातिसंप्राप्तितोऽपि।
देवि त्वद्धृत्यशालारजकवशजुषामन्वये रासभाना-
मुद्भूयामेयभारोद्वहनमतितरा युक्तमित्येव मन्ये॥३७॥
साकं भूनायकेन प्रचुरमणिभरोड्डामरं सामरस्या-
दध्यारुह्यासनार्धयुगपदभिमुखीभूय सलापतोऽपि।
न्यञ्चद्गात्रं निषेधप्रसृतकरतलं निर्भरोत्कम्पमम्ब
त्वद्नेहद्वा स्थवेत्रप्रहरणसमयत्रासदैन्यं परं नः॥३८॥
आन्दोली चतुरन्तयानतुरगश्वेतातपत्रद्विप-
प्रायां सपदमावहेति गिरिजे न त्वा कदाप्यर्थये।
याचे केवलमेतदेव बहुधा त्वत्पादपङ्केरुह-
द्वन्द्वाराधनचातुरीगुणनिकासाम्राज्यसिहासनम्॥३९॥
तदनु तुहिनजगतीधरादवतीर्य स पुनरार्यमिश्रो निजवचः स्रुतिधौततत्त्वावबोधकर्द- मनिकरस्य सगरसुताहुतिहुताशनीकृतप्रबलरुषः कपिलमुनेराश्रमपदमुपाश्रयत।
अभिषिच्य भसितराशीन्पुरहरनिर्माल्यसलिलपूरेण।
निरवापयत्पितॄणां भगीरथो यत्र निरयबाधाग्निम्॥४०॥
अह्नाय पत्युरह्नामपहाय सतामसूयितवतीव।
श्लिष्यति सुस्स्रवन्ती नर्मसखं यत्र नवनवोर्मिकरैः॥४१॥
तत्र च जलधिमध्यक्षयन्निदमवादीत्।
भागीरथीतिप्रथिताभिधाना काचित्कुमारीमुपनीय गौरीम्।
अस्मै वरायातिसृजन्पितॄणां चक्रे मुदं चण्डकरान्वयेन्दुः॥४२॥
अहस्करापत्यसरस्वतीभ्यामभ्यर्णमादाय विमुच्यमाना।
अमुं नवोढेव……..ख द्युसिन्धुराबद्धभङ्गा पतिमभ्युपैति॥४३॥
वारं वारं प्रौढवातानुषङ्गाद्वेगेनायं वेपते वीचिमाली।
कुम्भीयोनेः कुक्षिवास्तव्यमग्निं ध्यायं ध्याय त्रासमृच्छन्निवोच्चैः॥४४॥
मन्थानशैलमथितोऽपि घटीभवेन
ग्रस्तोऽपि दाशरथिना कृतबन्धनोऽपि।
उद्दामवाडवहुताशनपीडितोऽपि
गम्भीरता न हि कदाचिदयंजहाति॥४५॥
अथ नीलाद्रिमासाद्य कृती स कृतवन्दनः।
अस्तौदित्थ जगन्नाथमघनिर्माथकर्मणे॥४६॥
चरितं तव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम्।
नासामणिर्न भवितुमर्हति मानाधिक रत्नम्॥४७॥
अतिलघुनापि च वचसा मधुमथन तव प्रणौमि महिमानम्।
तुभ्य त्रिभुवनवपुषे तुल्यं कथमर्प्यते माल्यम्॥४८॥
मम यन्मनुष्यजन्मनि भवत्सपर्यापराङ्मुखीभवनम्।
सनवनीत7निर्गमसमये मन्थानगुणभङ्गः॥४९॥
अन्यार्थमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा।
आमोदमेणनाभेराजिघ्रति कि न पणितापि॥५०॥
भवतः प्रपद्यमानश्वरणौ पदवी समश्नुते परमाम्।
को गन्धगजाधिरूढः क्षुद्र प्रतिपद्यते द्वारम्॥५१॥
प्रकृतिजयिनस्त्वदङ्घ्रेपातकराशिरपि किमु भवेल्लक्ष्यम्।
अस्त्रमरविन्दयोनेश्चटकोपरि कि नु सधेयम्॥५२॥
ईषल्लभा मनीषिभिरीहितसंपत्प्रसादविषयैस्ते।
हैयङ्गवीनसङ्घं ह्यादधतो न खलु घृतचिन्ता॥५३॥
करुणागुणपरिणाहः कसारे तव निसर्गससिद्धः।
आधीयते न केनचिदमृतरसौधस्य माधुर्यम्॥५४॥
अनुपदमतिलङ्घ्य जनपदशतानि विबुधाग्रण्यः स पुण्यस्थलीषु शस्तं गयाक्षेत्रमयासीत्।
दृश्यते तटिनी यस्मिन्नद्भुताकारशालिनी।
अपि फल्गुः स्वय पुसामफल्गुफलदायिनी॥५५॥
अधिमौलि गयामरद्विषो बिबुधैर्यत्र कृते पदार्पणे।
भुवनत्रयमस्तके पुनः पितरो हन्त पद वितन्वते॥५६॥
कटितटिघटिततटिन्निभांशुकं रमाधवं छविजितमारमाधवम्।
जगत्त्रयी प्रणमति यत्र मौलिना गदाधरं किसलयभं गदाधरम्॥५७॥
तत्र च विहितकर्तव्यकलापोऽयमभिरूपो विनिर्गत्य ततः समग्रगुणसभृतेन कुटुम्बिनीयुगेन विविधतीर्थसमूहमवगाहमानो विमानितदिविषदाहारसपद व्याहारमुदजृम्भयत।
अहस्त्करेऽप्यलघुतमिस्रतस्करे कुमुद्वती समधिगता कुमुद्धतीम्।
पवित्रितक्षितिरियमत्र चक्षुषी पुनः पुनारमयति मे पुनः पुना॥५८॥
सध्याटवीचारविवृद्धमूर्तिः कुर्वन्मुहुः कूलविहङ्गलीलाम्।
स्वैरं प्रणर्दन्निह शोणभद्रो गवामसौ गच्छति सनिवेशम्॥५९॥
**शर्वाणीचरणसरोजवान्तलाक्षाजम्बालभ्रमजनिहेतुधातुशाली।
विन्ध्याद्रिर्वितरति मे नितम्बसीमाविस्तारस्थगितदिगन्तरः प्रहर्षम् ॥६०॥ **
अध्यास्ते रुचिरममुष्य शृङ्गमेका सा काचित्त्रिभुवनसज्वरापहन्त्री।
निर्व्याजप्रणिहितनीलकण्ठर्षा वर्षन्ती कमपि रस बलाहकाली॥६१॥
कल्याली हृतमधुकैटभावलेपा लोकान्धकरणलुलायदर्पहन्त्री।
चामुण्डा शकलितरक्तबीजदम्भा शुम्भन्नी जयति निशुम्भसूदनीयम् ६२
विश्वस्मादपि धरणीधरेन्द्रकन्ये
विन्ध्योऽय निरवधिभागधेयशाली।
आक्रान्ताखिलभुवनापि यस्य नाम्ना
विख्याता परमसि विन्ध्यवासिनीति॥६३॥
देवि त्वत्पदरुचिदर्शितातिरागा तुङ्गेषु द्रुमविटपेषु लम्बमानाः।
शैलेऽस्मिन्सततमवाङ्मुखत्वभाजो दृश्यन्ते धृतनियमा इव प्रवालाः॥६४॥
कुब्जत्वं दधदपि कुम्भयोनिभक्त्या विन्ध्याद्रिर्विबुधनिवासतोऽपि तुङ्गः।
संचारं सदयगिरीशपाणिपद्मस्पृष्टाभ्यामिह वितनोषि यत्पदाभ्याम्॥६५॥
मच्चित्ते…… महिषासुरोत्तमाङ्गे विन्ध्याद्रेरधिशिखरं च विश्वमातः।
निःशङ्क निहितपदाब्जया भवत्या काठिन्य क्व नु वद काममन्वभावि॥६६॥
वेलाया विषमकृतान्तवाहघण्टासरावश्रवणसमाहितव्यथायाम्।
मञ्जीरक्कणितमनोहरं पुरस्तादास्ता नश्चरणसरोजमम्बिकायाः॥६७॥
पारीन्द्राः परिभवमापिता निकामं
मध्येन स्मरहरवल्लभे भवत्याः।
तत्तादृक्तिमिरतरङ्गितासु मन्ये
बध्नन्ती (न्ति) स्थितिमिह ….भ्यतो गुहासु॥६८॥
उत्तुङ्गा बलवदुदारकान्तिभाजो वर्तन्ता शतमिह वारणेन्द्रकुम्भाः।
सोढारस्तव कुचभारवत्किमेते पञ्चास्यप्रसभविमर्दसभ्रमाणाम्॥६९॥
शर्वाणि स्तनभरसपदा परं ते विन्ध्याद्रिर्विगलिततुङ्गतावलेपः।
व्रीले(डे) न क्षितिमभजद्द्विजस्तु भेजे प्रख्यातिं शिव शिव भाग्यरीतिरेषा
सत्रातुं जनमिह सर्वहिसकेभ्यो वात्सल्याद्वहसि वरायुधानि हस्तैः।
हन्तैतद्भगवति साहस यतोऽमी रज्यन्ते नवसुमनोजिघृक्षयापि॥७१॥
चन्द्रस्ते वदनमिषेण शैलकन्ये विन्ध्याद्रौ बसति विधुंतुदैकभीत्या।
पर्यन्तभ्रमणमिष(षा)त्तरक्षुवीक्षावित्रासव्यतिकरविद्रवत्कुरङ्गः॥७२॥
त्वद्बिम्बाधरतुलना शिवे तदानी प्रादुष्यादिह सहकारपल्लवेषु।
धात्रा चेन्मकरन्दसारधारानिष्यन्दः कुसुमवदेषु निर्मितः स्यात्॥७३॥
**स्वच्छन्दं विलसतु चन्द्रिकाङ्कराणामुद्भेदः किमपि सुधारसोद्गमश्च।
वक्रेन्दौ तव वरवार्णनि स्मरारेराश्चर्या न किमिह सूतिरम्बुजानाम्॥७४॥ **
**अस्याद्रेरनुवनमध्यमम्बुजातैर्वेतण्डव्रजकरदण्डपातभीतैः।
सारङ्गैरपि चकितैर्वनेचरेभ्यः सर्वस्वनिहितमिव स्वक त्वदक्ष्णोः॥७५॥ **
**फुल्लासु क्षितिरुहपुष्पमञ्जरीषु भ्राम्यन्ती ततिरिह भाति षट्पदानाम्।
पृथ्वीभृत्प्रियतनये विलोकयन्त्याः कान्तारश्रियमिव ते कटाक्षमाला॥७६॥ **
पाठीनध्वजपरिपन्थिकायमायाकैलासक्षितिधरकालमेघपङ्क्ते।
मातस्ते हतजनिमार्गपर्यटाट्या निष्टप्ते मयि निपतत्वपाङ्गधारा॥७७॥
त्वामभ्रच्छविमिह वीक्ष्य नीलकण्ठास्तुष्यन्तः सपदि वितन्वते कलापान्। त्वत्केशद्युतिविसरापहारशङ्कां निर्माष्टु निपुणमिव प्रदर्शयन्तः॥७८॥
उद्भिन्नस्मितलवमुल्लसत्कपोल लोलाक्षिभ्रुवमतिलोभनीयनासम्।
विम्बोष्ठ भृतमणिकुण्डलाभिराम वक्त्रते जननि वयं न विस्मरामः॥७९॥
विनिर्गतानविहितपुण्यदुर्लभत्रिमार्गगासलिलविगाहनाय नः।
पदे पदे बहलविपत्तिशङ्कया विषीदतः सुखयतु विन्ध्यवासिनी॥८०॥
अपि च।
रक्षति दुर्गा यन्तं विपदः स्वगुणान्कृपामृदुर्गायन्तम्।
समहृत कासरदनुजं तमपि च या सुम्भमन्तिकासरदनुजम्॥८१॥
देवी सा मे दुरित क्षपयतु कृपया हरिस्वसा मेदुरितम्।
शक्तिषु परमा नन्द जनक किल या निनाय परमानन्दम्॥८२॥
शुचमिह नोपलभन्ते वपुः स्मरन्तो वलार्दनोपलभ ते।
स्थितनिदानवलक्षे हर्यक्षे चण्डि लूनदानवलक्षे॥८३॥
अपि च।
स्कन्धादवप्लुत्य हरेः सलीलमाक्रम्य पद्भ्यामवनीलुलायौ।
संधित्सया चापगुणैर्निषङ्गादुदर्चिष मार्गणमुत्क्षिपन्तीम्॥८४॥
प्रहारकेलिस्पृहया रथाङ्गनेमिग्रहव्यग्रनिजाग्रहस्ताम्।
तिर्यङ्मुखी पाणिधृताञ्चलस्य कम्बोः समुद्धोषणकर्महेतोः॥८५॥
उदस्तहस्तोपहितत्रिशूलनिर्भिद्यमानं निजपश्चिमाङ्गात्।
निर्गच्छतो निर्जरशात्रवस्य चर्मासिपाणेः शिरसश्छिदायै॥८६॥
प्रालम्ब्य केशानवधूय खेट पाणावधिक्षिप्तकृपाणवल्लीम्।
दरोच्छ्वसन्मध्यमदृष्टिरिङ्खदग्निस्फुलिङ्गावलिभीषणास्याम्॥८७॥
विश्वत्रयापद्विनिवारणाय सनाहमेवं समरे दधानाम्।
किरीटचन्द्राशुकृताभिषेकामम्बामहं भावनयावलम्बे॥८८॥
तमसामर्दिनि विधृतमसाधिष तमसा जाह्नवीपूरं तमसा विगाहते।
निर्जेतु दुरितावलीं सति कलौ निःसीमवीर्योदयां
देवो मेलयति स्म यत्र सुदृढं तिस्रो महावाहिनीः।
श्रेयानेष निरीक्ष्यते स शिबिराभोगः प्रयागाभिधो
धीराः स्वैरमिह प्रयान्ति पदवी देहत्यज शाश्वतीम्॥८९॥
देहिनामिह तटस्थितिस्पृशा पुण्यमात्मजमिमाः पुनः पुनः।
स्फारविस्मयकृते परस्परं सगताः प्रसुवते सरिद्वराः॥९०॥
अन्योन्यमायामिभिरूर्मिहस्तैरास्कन्दकर्मण्यनयोः सपत्न्योः।
साक्ष्यं न साधीय इतीह सा किसरस्वती सवृतमूर्तिरास्ते॥९१॥
जाह्ववीरविसुतारजतायः शृङ्खलायुगलसदृतमेनम्।
क्रीडितु स हि विमुक्तियुवत्या केलिमञ्चमयमञ्चति लोकः॥९२॥
यियासतामत्र निमज्ज्य नाकं हित्वा तनु मुक्तिमभीप्सतां च।
वैवस्वतीविष्णुपदीमिषेण वेदोपदिष्टाध्वयुग चकास्ति॥९३॥
निर्वापितानामिह विष्णुपद्यानृवर्गकान्तारभवानलानाम्।
विसृत्वरी धूमपरम्परेव विराजते चण्डमरीचिकन्या॥९४॥
सहजमलिन विद्यावर्त्म खभावमलीमसा
विधिपदविका चित्रः पन्था विमिश्रितयोस्तयोः।
इति पृथगवस्थित्या समेलनेन च देहिना-
मिह विवृणुतो नानामार्गान्द्युसिन्धुकलिन्दजे॥९५॥
निर्माति धर्माशुसुताभुजङ्गया निर्मोकशङ्कामिह गाङ्गमम्भः।
या वीक्ष्य लोकाः समवर्तिलोकयात्राकथामप्यवधीरयन्ति॥९६॥
अनेकदेशोन्मिषदभ्रसिन्धुप्रवाहखण्डामिव भानुकन्याम्।
पश्याम्यविद्यामिव तत्र तत्र प्रभिद्यमाना विषयप्रकाशैः॥९७॥
उन्नेतुमुद्वेलभवाव्धिमग्नान्कृतोद्यमाभ्या कृपया शिवाभ्याम्।
प्रसार्यमाणाविव बाहुकाण्डौ पश्यामि नद्योरनयोः प्रवाहौ॥९८॥
वेगाविद्धसरोजकुङ्मलकुच विक्षिप्तवीचीभुज
फुल्लेन्दीवरदृष्टि बुद्बुदनिभाविर्भूतरोमोद्गमम्।
त्रुट्यत्फेनविपाण्डुकञ्चुकमुभे दूरात्समभ्यागते
गाढालिङ्गनमत्र हन्त तनुतो गङ्गाकलिन्दात्मजे॥९९॥
क्वापि प्रस्तुतदोर्मुधे इव मिथो वीचीभरेराहतै-
रेतैरात्तजयश्रियाविव कुतोऽप्यन्योन्यक्ऌप्ताक्रमैः।
विद्राणे इव साध्वसेन कुहचिद्व्यक्तापसारत्वरै-
स्तन्वाते सरितौ विडम्बनमुभे तत्तादृशाना नृणाम्॥१००॥
कालिन्दीसुरनिम्नगे विलसतः कालावदाते ययो-
रंशूनामिव सतती तनुभृतामन्तस्तमिस्रापहे।
पुण्यैरद्य पुराकृतैर्वयममी तत्तादृशौ तावुभौ
वेणीमाधवशूलटङ्क गिरिशौ वीक्षामहे चक्षुषा॥१०१॥
वामे भागे वरतनुमयं शूलटङ्केशमीडे
संध्यानृत्तभ्रमणरचनासङ्गिनो यस्य कण्ठात्।
स्रस्तां मुक्तास्रजमिव महाकृष्णसर्पाञ्चितार्धा-
मग्नेपश्याम्यमरतटिनीमर्ककन्योपगूढाम्॥१०२॥
**भुवनत्रयपारवर्ति पुंसामधिगन्तु पदमाहितस्पृहाणाम्।
अनुभूतचरादिविप्रयागादयनं नेह परं भुवि प्रयागात्॥१०३॥ **
इत्यालपन्नयमुत्तीर्यसुरधुनीमनीदृशसपत्तिपेशलान्कोसलानवलोकयन्ननघगुणपरिभूत-धनदपुरुहूतपुरमजिहीत साकेतम्।
विमलां प्रकृतिं विवृण्वती सततं भावितसर्वमङ्गला।
यदलंकरणाय कल्पते हिमवन्मानससंभवा नदी॥१०४॥
परिसरयूपकण्ठमलघूत्तरवेदितटी
परिसरयूपकण्ठपरिबद्धचषालशता।
प्रदिशति यत्र कौतुकमशीतकराभिजन-
प्रभवजनाधिनाथह्यमेधवितानमही॥१०५॥
तत्ररामभद्रं प्रणिपत्य नुतिमित्यतानीत्।
कल्पयत्यवनिकर्णजन्मनो वङ्महिश्रवणहर्षवैभवम्।
सभवे जनकमोदसंपदामात्मजोक्तिरयते निदानताम्॥१०६॥
सुनुनैव सुवच प्रचेतसो वस्तु वर्णयितुमाद्रियामहे।
राघवैकसुगमे रणाङ्गणे व्यापृतंकिल वलीमुखैरपि॥१०७॥
हन्त सत्यपि रघूद्वहे गिरा प्रस्तुवन्ति कवयः परानपि।
यस्य वक्तमपदानमेव या प्रादुरास भुवि पद्यरूपिणी॥१०८॥
तद्विना दशरथावनीसुहृन्मानिनीजठरशुक्तिमौक्तिकम्।
वावदूकजनवाङ्गुखस्य कि विद्यते भुवि विभूषणान्तरम्॥१०९॥
संयमिप्रवरसाधितस्य कि पायसस्य परिपाकवैभवात्।
माधुरीमधिगतो महीयसी राघवो रमयते ममाशयम्॥११०॥
दत्तयादिविकृतत्रिशङ्कुना निर्ममो निखिलशस्त्रविद्यया।
आधिशङ्कुभरमापयन्द्विषामाशयेषु रघुनायकोऽवतात्॥१११॥
पादरेणुपरमाणुयोगतः सिद्ध्यता युवतिसृष्टिकर्मणा।
साधयन्नपि मत मुनेः कथं जानकीपतिरतर्कमार्गगः॥११२॥
कुर्वतो दृढगुणप्रकृष्टतामात्मनो दशरथाङ्गजन्मनः।
गौरव न सहते स्म कार्मुकं कामशासनकरोपलालितम्॥११३॥
धर्मनिर्मथनकर्मठं हठात्कल्पयन्नपि करातिपीडनम्।
मेदिनीहृदयहारिभिर्गुणैर्मेदुरो जयति मैथिलीपतिः॥११४॥
प्रक्रमं रचयतः प्रनर्तितुं विक्रमस्य किल विघ्नशान्तये।
ऐशचापतृणभङ्गमाचरन्नेष दाशरथिरेव सेव्यताम्॥११५॥
दोःप्रतापशिखिनः समिन्धने दोहलीव निजबाहुलीलया।
काकपक्षधर एव कार्मुकं पाटयन्पशुपतेः स वर्ण्यताम्॥११६॥
आप भङ्गमवनीसुताभ्रुवः पूर्वमेव पुरवैरिकार्मुकम्।
अर्कवंशसुकृतैरयं पुनः कीर्तिमानवतु केलिमानुषः॥११७॥
हन्तुमुद्यमवतो निशाचरानट्टहास इव रामतेजसः।
पूरयन्दश दिशः पुनातु वो भैरवः शिवधनुर्भिदारवः॥११८॥
मैथिलीहृदयमञ्चशायिनः सौखशायनिकशेखरः प्रभोः।
पातु वो रघुवतंसदोर्लताभज्यमानभवचापनिस्वनः॥११९॥
आत्मवैरिधनुरार्तिनानटद्वीरचोदितविदेहजार्पिताम्।
दृक्तरङ्गवरणोत्पलस्रजं धारयन्नवतु वो रघूद्वहः॥१२०॥
जातरूपफलके शनैः शनैरङ्गसंगतिभियापसुत्वरीम्।
मन्दमन्दमपदेशपूर्वकं मैथिलीमनुसरन्स पातु वः॥१२१॥
वार्धिनेमिजनुषो वधूमणेराशये शयकुशेशयेऽपि च।
कौतुकस्य कलयन्निबन्धन नन्दनो दशरथस्य पातु नः॥१२२॥
मैथिलीपरिणयोत्सवे मुखं मन्दहासमधुराधरं विभोः।
धर्मवारिकणहृद्यमस्तु मे [मङ्गलाय] शुभिकाविभूषितम्॥१२३॥
आश्रमप्रसृमरे शनैर्जवादाहितापसरणे कथंचन।
सगते सदसि मङ्गलाय मेजानकीरघुवतंसयोर्भ्रुवौ॥१२४॥
मैथिलीमनुकुलावतसयोः पुष्णती पुलकजालमङ्गके।
शोभनस्तुतिमया शुभाय मे कल्पतां सुदृगलूलुकाकपि (?)॥१२५॥
भाविनि त्रिदशवैरिभञ्जने साध्वि मे कुरु सहायतामिति।
याचमान इव जानकीकरं पाणिना परिमृशन्मुदेऽस्तु सः॥१२६॥
चम्पवल्लिकरपीडने रुषः शान्तये किमुपलाधिरोहणे (?)।
जानकीपदसरोजमामृशन्पाणिना रघुपतिः प्रसीदतात्॥१२७॥
हन्त दृश्यमपरं मदागमः शंसति ध्रुवमितीर्ष्ययेवसः।
तत्पदर्शनविधौ धराभुवि मन्दवर्षवचनो धिनोतु माम्॥१२८॥
मैथिलेन्द्रमहिलाभिरेकतः स्थापितौ सदृशतादिदृक्षया।
……….माहितस्थितौ चिन्तयामि जगदादिदम्पती॥१२९॥
मैथिलीसहचरं मनः सखे सर्वदैव तदवेहि दैवतम्।
घोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम्॥१३०॥
सन्तनामह वीशसम्मतपरं (?) देवता विगणयामि नैव ताः। राममेकमभिरामवैभवाराममाशरविराममाश्रये॥१३१॥
तमालच्छायालः सततमनुकूलस्तनुभृतां
वचः केलीशे… (?) विशगतमधूलीमधुरिमा।
जगन्नेता सीतापतिरहितजेता गुणगणैः
स नाथो हृत्साधो जनुषि रघुनाथो विजयताम्॥१३२॥
मणिगणपरिणद्धे मण्डले पुष्पकान्तः-
सुरतरुतलभञ्जि स्वर्णपीठे निषण्णौ।
विसरमुपहसन्तौ विद्युदम्भोदभासा
मनसि मम रमेता मैथिलीरामचन्द्रौ॥१३३॥
सकृदेव शरीरिणः प्रपन्नान्भवदीयाः स्म इति प्रजल्पतोऽपि।
परिपातुमभीतिलम्भनेन प्रतिपन्नव्रतमस्ति दैवतं नः॥१३४॥
** अपि च। **
तमुपास्महे तपोधनमहिमार्जितपायसार्थपरिपाकम्।
पङ्किरथपार्थिवेन्दोरन्तिमऋणभागमोचनं द्रविणम्॥१३५॥
भक्तिपरितोषिताशयक कालिके कलितोपदेशविभवेन (?)।
त्रिजगदरिष्टविदारणदीक्षादृढबद्धर(ल)क्ष्यता यातम्॥१३६॥
सुस्तं तस्य सुकेतं प्रभदनतनुमेदिनीप्रतप्तस्य (?)।
आशरकुलाशनोद्यमभाजः(ज) प्रा (बा) णाहुतीकृतसुबाहुम्॥१३७॥
अपि भ8[ग]वदङ्घ्रिरजसा सहितचिरलुप्तनियमि9संसारम्।
परिणीतधरणितनय पशुपतिचापाधिरोपणपणेन॥१३८॥
दैत्यभिदो धनुषा सममात्तभृगुप्रवरशक्तिसर्वस्वम्।
त्रातारं वसुधाया अन्ते सह सीतयाऽनुभूतसुखम्॥१३९॥
जगति परिग्रहयोग्यान खलु श्वश्रूरिति10 प्रतीत्येव।
धरणिमनपेक्ष्य साकं तत्सुतयाध्युषितचित्रकूटतटम्॥१४०॥
स्ववशमुपेयुषि विभवे विमुखस्य भ्रातुरर्पितेन करे।
चरणत्राणेन चिरं कारितवन्त क्षमापरित्राणम्॥१४१॥
आत्मीयादपि चास्नादतिरभसभृतो जवातिरेकेण।
विस्मेरितामिदैत्य11 (?) व्यञ्जितकरुण कृतागसि खगेऽपि॥१४२॥
ना(सा)कमवगाहमानं जनकापत्येन दण्डकारण्यम्।
चेतस्तपोधनानां शीतलमम्बश्च…..दायाः (?)॥१४३॥
सेतुमिवारिमिवाब्धे(?)श्छेदितवन्तं निशाचरीनासाम्।
प्राग्(ह)तविराधपदविं चारितरक्षश्चतुर्दशसहस्त्रम्॥१४४॥
उन्मीलितखरदूषणमुर्व्यांरिपुयशस्तिरोधानाय।
चिरकालविरहसीदन्मातृसदेशोपनीतमारीचम्॥१४५॥
सदयोदय सपक्षे पत्रिणि दशकण्ठयानपक्षेऽपि।
हनुमन्मुखेन सहितसुग्रीव खप…..भाजकबन्धे (?)॥१४६॥
सालान्सप्तमहीद्रा(ध्रा)न्फणिपतिभवने च पत्रिणैकेन।
दारितवन्तं तरसा सव्यरविस्रम्भसम्पदं12 साकम्॥१४७॥
विमतश्वापद मृगयाविधिशीलतया विधाय निजमूर्तिम्।
दत्तहतिमर्मनन्दनदीपकमृगवञ्चितात्मने हरये (?)॥१४८॥
हरिणपदाना हरिणप्रतिघादिव दूरतः प्रयातायै।
मणिमणि(गण)मुद्रां प्रेषितवन्त प्रेयसीमिव वयस्याम्॥१४९॥(?)
प्रस्प(स्)मरमहः पुरेहे (?) सुदृशश्चूडामणौ समीरभुवा।
संप्रापितेऽपि सनिधिमाचितमोहान्धकारसंदोहम्॥१५०॥
भुज(भव)जलधिकर्णधारं भजतादे(मे)नं कियान्भवाब्धिरिति।
सरुषा विभीषणेन प्रतिपत्तिकृताङ्घ्रिपाथोधिम्॥१५१॥
दयया हृदयमरातेरनुज राज्याभिषेकसलिलेन।
प्लावितवन्तम (न्तं ह्य)धिकं प्लवगभटाना च हर्षबाष्पेण॥१५२॥
सेतुपथेन जितवति सुग्रीवभटे तट सुवेलस्य।
अवधि जगति वृन्द तान् प्रापितवन्त प्रतापयशसी स्वे(?)॥१५३॥
**अखिलजगदन्तरङ्ग………………………….।
आत्मन इवाश्रमस्थितमहिरवन्त धनुर्गुणस्यापि॥१५४॥(?) **
छादितसकलदिगन्तैः कपिभिः पुर एव कलितरोद(घ)स्य।
निजतेजस इव तापान्निर्याताय द्विषे प्रपदिष्टवधम्॥१५५॥(?)
हुतबहक(के)(नि)प (ष्प)तितां
स्वकीयचारित्रशुद्धि(द्ध)विस्रता(म्भा)म्।
अधिरोप्य पुष्पक पुनरायान्तं स न (सहैव) साकेतम्॥१५६॥
प्रकृतिविरचिताभिषेकपाथः प्रमुदित…. …. ….।
सकलभुवनमाद्य(?)शासनाङ्कामधिगतमखण्डिता समृद्धिम्॥१५७॥
इति श्रीवाधूलकुलतिलकस्यातिरात्रयाजिन समरपुङ्गव-
दीक्षितस्य कृतौ यात्राप्रबन्धेऽष्टमाश्वास।
—————
अथ नवमाश्वास॥
…………………………………
……….. निजभाववचः क्रियाभिः।
संभिद्य यत्र सुमनः सरिता रमन्ते
सागे (के) [तके] च (?) सरयूरपि गोमती च॥१॥
नेदीयसीमतिचिराय निजैस्तपोभि-
र्वाराणसी प्रति ततो वल ….।
क्षेत्सान्तराज्यततिरेकमिव सह (?)
स्वेन व्यदायि जगतीतलपर्यवाट्याः(?)॥२॥
प्रदक्षिणप्रक्रमजन्मनोर्व्याःक्लेशेन काशीमुपतिष्ठतीति ।
कृपावती प्रक्लममस्य गङ्गा वातेन वीचीजनुषा व्यनैषीत्॥३॥
** **अनन्तरमवनीसुरधुरंधरेण गच्छता पथि स्वच्छन्दमानन्दनिजभरेण(?)…….. ….भ्यधायि। आः कथमग्रत एव हयखुरक्षुण्णमेदिनीक्षोदमेदस्विभावमासेदुषि समुदये दिशामनुकूलपवनदोलायिताञ्चलैः…………………. ………………..शतशः शताङ्गपीता………… कावेरीव समावेद्यमानसरणिः परिषदियमालक्ष्यते। अद्य खलु माघचतुर्दशीवासरे वाराणसीनगरवास्तव्यस्य शर्वरीरमणचूडामणेः समाराधनाय भक्तिपरवतीयं प्रस्थितवती। अहो पुनरमुष्य वासरविशेषस्य वैभवातिशयः।
**जनयति शिवरात्रिव्रतसकल्पो विश्वसृष्टिसंकल्पम्।
जागरणं चार्याणां सकलजगद्भारभरणजागरणम्॥४॥ **
आश्रितगिरिशपार्श्वौरपनीतनिमेषवर्तनायातैः।
पदरि (?) समाक्रमचकितैश्चतुरैरतिवाह्यते शिवरात्रिः॥५॥
**अवाप्तुमिच्छा यदि वामहर्निशं प्रजाग्रतोः पङ्कजयोःसगन्धताम्।
विधीयतामस्तनिमेषमुद्रणं दृशौ युवाभ्यां शिवरात्रिजागरः (रे)॥६॥ **
**अनिमेषता जनानामनिमेषत्वाय भवतु शिवरात्रौ।
इह पुनरभक्तभावो हेतुः कथमीश भक्तभावस्य॥७॥ **
**शिवरात्र्युपविधेः शील यामि … यतक्कृतीनाम् ।
शिवजगत्कदम्बककरोषि तृप्तये………नालम्॥८॥ (?) **
……..औषवस्त्यमविशातरात्रिः………हसा हसन् जनः।
अत्र सिद्ध्यति यतोतिरामणौ कालकूटगरलेन हारिणा॥९॥ (?)
ये स्थाणुता गिरिशयोग्यदला(लो)पहारै-
र्बिल्वद्रुमस्य शिवरात्रिदिने दिशन्ति।
संसारिणामुदयते [भविक हि]तेषा-
मात्मीयकर्मफलमत्र न को नु भुङ्क्ते॥१०॥
** अहो मम पचेलिमानां प्राचीनतपसामनुभावो यदस्मिन्नहनि विस्मयातिरेकमुपहरिष्यति मदीय चक्षुषोरसदृशप्रभावसाधीयसी वाराणसी। **
अभ्यर्थ्य जम्भरिपुणापि वितीर्यमाणं
सर्गानिकाममपि गणाय मत्पतीक्ष्णान्।
अस्मत्पितृृन्नियतमद्य निजाग्रहस्त
न्यस्तार्ष्यपात्रमुपयास्यति नाभिजन्मा॥११॥(?)
कथमिवैतस्य कथयामि महिमानमानन्दकाननस्य। कैलासशैलादपिकामशत्रोश्चेतोविनोदोपचयप्रदात्री।
काशी भवाशीविषवैनतेय(सत्)पाटिका पाटयते तमांसि॥१२॥(?)
बिभर्ति चन्द्रः शशमित्यकीर्ति कुले निरूढामपनेतुकामः।
वाराणसीजाङ्गलवर्त्मचारी प्रायेण चन्द्र बिभृते शशोऽपि॥१३॥
अधिकाशि तरक्षुरामिषस्पृहया संहरति …वलिमृगम्।
अजिनग्रहणाय राहोर्हरिणश्चायममुं मृगादनम् (!)।
काश्यामुमाकामुकराजधान्यामैश्वर्यलोमेन कृतासिकानाम्।
कैश्चिद्दिनैरेव वयस्यकोटौ संख्येयतामेति घन शिवोऽपि॥१४॥
अखण्डमैश्वर्यमपेक्षमाणाः कथं नु काशी पुरुषा भजन्ति।
भवन्ति यस्या बहुसपदोऽपि भिक्षाकमध्ये प्रथमं गणेयाः॥१५॥
यातुं कुत्र सखे व्यवस्यसि (ति) महाम्या (भवाना) नन्दवन्यन्तरे
मा गाः केन ततो गतस्य न मया दृष्टं परावर्तनम्।
कस्मात्तत्र समेयुषां वसुभृतां वर्ण्यादिपूर्वस्थितिं
कोऽप्युत्सार्य बलात्प्रयच्छति निजं रूपं किराताग्रणीः॥१६॥
अविद्यायां द्वेषं चिरपरिचितायां घटयते
निरुन्धे तत्सूनोरपि च मनसो लालनविधिम्।
न कामक्रोधादीनपि तु सहते तस्य तनया-
नहो पुसः काश्यामभिनवजनिः प्रेमगरिमा॥१७॥
अहो भाग्यं काशीवसतिरसिकानां तनुभृतां
यतो भोगानेते चिरमिह समास्वाद्य विविधान्।
अलभ्यां ब्रह्मादेरपि समधिकानन्दभरितां
भजन्ते देहान्ते परमशिवसायुज्यपदवीम्॥१८॥
पुरा भोगत्यागः श्रवणमथ वेदान्तवचसा-
मथोद्बोधः पश्चादमृतमिति शैलीसुलभता।
यदर्चामाहात्म्यात्सकृदुपगता निग्रहवता-
मलं मुक्त्यै काशीपुरभुवि निवासः क्षणमपि॥१९॥
आहितनरकावज्ञान् विमुक्तरमाविलासपरितुष्टीन्।
उच्चैः स्थापितगोत्रानुपास्यते (स्महे) चेतसा महापुरुषान्॥२०॥
वरणो(र्णो)ज्ज्वलम(प्र)सिद्धा करिमुखजलपाति(लि)ता पुरीं पुरुषाः। भैरवदुर्गाधिष्ठितमध्यामध्यासते स्वरक्षायै॥२१॥
वसतिरविहता परस्य पुंसो भवति तपोभरवैभवेन काश्याम्।
जगदवनपरायणस्य शभोः स्फुरति कृपालहरीव यत्र गङ्गा॥२२॥
[वाराणसी] वासविदामविघ्ना दिशन्तु देवा मम भैरवाद्याः।
दिने दिने सादरमानतीनां शतं शतं प्राभृतयानि तेषाम्॥२३॥
निरुपप्लवनिर्मलस्वभावं परमानन्दघनं प्रबोधसान्द्रम्।
गिरिजागिरिजापयोः स्वरूपं परिपश्यन्त्यधिकाशि भाग्यभाजः॥२४॥
आरूढशार्करमपावन्नहनि(?)माश्लिष्टपार्श्वमुमया हरिणाङ्कचूडम्।
भग्नार्थमूर्तिरुदके मणिकर्णिकायाः पुण्यैः कदा पुरत एव विलोकयिष्ये॥२५॥
अस्तीति निर्धार्यमकृत्रिमोक्त्या निरञ्जनैरेव निरीक्षणीयम्।
आश्चर्यमानन्दनिधिं कदा वा द्रक्ष्यामि तीरे मणिकर्णिकायाः॥२६॥
भो भो मन्मथलोभमत्सरमदव्यामोहरोषाः सुखं
युष्माभिः क्षपितानि भूरिदिवसान्यस्मासु क्लृप्तासिकैः।
देशानद्य यथामनीषितमितो याता न जानीमहे
यास्यामो भवतामगम्यविषयामेतर्हि वाराणसीम्॥२७॥
तदनुधरित्रीसुधाशनपवित्रीक्रियमाणसमाश्रितजीववर्गमपवर्गफलप्रदानकल्पलतोद्यानमविमुक्तमवलोकयन्नतिनाकसुखभरतरङ्गितो गिरं कृतनवीनमाध्वीकदूषणा साध्वीमिमामभाषत।
वाराणसि त्रिपुरवैरिकरारविन्दा-
देक त्वया विधिशिरो हृतमामनन्ति।
आसेदुषे सविधमङ्गभृते कदा वा
वेधःकरोटिवितता प्रवदानि मालाम्॥२८॥(?)
इदं खलु त्रैलोक्यमहनीयमभ्यर्णवितृणा(?)मधिकर्णपुटं वर्णयतः प्रणवमपर्णासहायस्य वक्त्रेन्दुविगलितैर्विद्यासुधार………..विव विहितपरिपूरणं निर्वेल भवतापनिर्वापणक्षममा- लक्ष्यते परमपावनतीर्थसमुदयाग्रेसरं च कृतं सरः.. …।
अतिकलिलनायिन्यामा नाकमा च रसातला-
दिह भरपरीवाहैर्दैवादियं पुरतो मया।
उरुविमलताहेतुः पाथःप्रसन्नमुपेयुषी
निखिलजगतीमान्या सवर्ण्यते मणिकर्णिका॥२९॥(?)
स्वयमासु सुदर्शन खनित्रं स्वननेऽस्यामुरशाखिलैव कर्ता (?)।
अभिपूर्तिविधायितभ्रयाभस्त्रिदयं (?) तावदगोचरे नुतीनाम्॥३०॥
परस्य पुंसः प्रसृताधिराजादारान्मदीयं मुहुरापतन्ति।
आश्लिष्यती मामवमूर्मिहस्तैः सर्वस्य रम्यः सहजः स योगः॥३१॥
कैवल्यमानक्षमतैकराज्यवैराज्यमूलानवधार्य दोषान्।
गङ्गानया क्लृप्तविभेदलेश मेधावती हेलनमादधाति॥३२॥
नियतं बिभर्ति निटिलेक्षणायिता-
मपसार्य मूर्तिमगजेव जाह्नवी।
अत एव भागमदसीयमेकक
मणिकर्णिका किमपि मण्डयत्यसौ॥३३॥
कल्लोलमन्दपवनैर्गगनोपगीय-
मासेवते जनमिमा(वा)ति(न्ति)मयाव(न)काले।
भूरिश्रवापनयपूर्यममुष्य मूर्ध्नि
निक्षिप्यमुद्यमवतीव निजाम्बुभारम्॥३४॥(?)
उदयिता (?) किलेन्द्रियोपघाते विषमे जीवितविप्रयोगकाले।
इह दैवतमेकमाविरास्ते जलदश्यामलकंधरं(रो)जनानाम्॥३५॥
अत्रासून्विजहाति सः शिव शिवेत्याकर्ण्य कण्ठध्वनौ
देवीं भूषयितुं गृहीतमनघं धृत्वैव सारं करे।
आदावप्यतिसंभ्रमेण भगवानर्धेन्दुचूडामणिः
सर्पादेय (व) विमुक्तिवामदृगलंकारं विधास्यन्निव॥३६॥
**ओंकारमन्त्र(त्र)विपरीतमुपैतु पाणि-
मालम्ब्यशैलजनुषो मुहुरद्रिधन्वा।
पाशावमोचनकरी परमोत्त(क्त)विद्या
सैषी(षे)ति किं प्रकटनाय शरीरभाजाम्॥३७॥(?) **
तीरेऽस्याः स्थिरशयनस्पृशां जनानां
तत्तादृगू विषभजने ततो द्रुमाणाम्।
आनन्दद्रविणभरापणो विबद्धः
पार्वत्याः पतिरधमर्णलोकशैलीम्॥३८॥(?)
श्रमातुराणां चिरकालबन्धादत्रामृतास्वादकृते पशूनाम्।
तेषामधीशो दयमानचेतापाशापनीतं (तिं) प्रसभं विधत्ते॥३९॥
प्रेङ्खद्रथाभीशुभरापदेशादत्रोपदेशावसरे महेशः।
कुतर्कघोषाविलमङ्गभाजा कर्णान्तरं लक्षयतीव तोयैः॥४०॥
त्रयीरहस्यं विचितं तपोधनैरनेकवर्णास्पदमेकमक्षरम्।
शरीरिणामत्र शशाङ्कशेखरो व्यनक्त(क्ति)प(पु)र्यामपि वेद्यमप्युभे (?)॥४१॥
अस्तं कलानामिह षोडशानामादाय दोषाकरमण्डलस्य।
सतारकस्फूर्तिरहो समग्रमस्यामृतं पुष्यति कालकालः॥४२॥
जन्तुः शृणोतीह वृषाङ्कवक्त्रादोकारमुत्तम्बितपश्चिमाम्भः।
वामाकृते राशिवधूभवन्त्याः प्रकाशनेमि हृदि वाति लज्जाम् (?)॥४३॥
भगवदरञ्जतोरन्तः अन्तः प्रणवाम्यतं (?)
स्वमुखशशिनः सारं शूली विसारयतीह सः।
….. …… ….. ……
………. ……..लिह्यमानमिव स्थितम्॥४४॥
विद्याविक्षतिसंभ्रमेण मुकुटाद्विश्वेश्वरोऽपि स्थिता-
मादत्ते मुहुरैन्दवीमिह कलामाधातुकामः पथि।
कांचिन्मौक्तिककुञ्चिकामिव नवा सद्यः प्रसन्नेप्सित-
स्फीतामोदनिदानकोशभवन[द्वा]रार्गलोद्घाटिकाम्॥४५॥
चूडाशशिक्षुतविषक्तसुधैकलेश-
व्याजादिह प्रण[य]दानविधौ पिनाकी।
मध्येललाटफलकं मनुजस्य दृष्टि
कर्तुं पुरा किमपि कल्पयतीव चिह्नम्॥४६॥
इह पतिरखिलानामेकहस्तेऽवरुन्धन्
समयसुरभिपाय (?) शङ्कया ब्रह्मरन्ध्रम्।
परिकलयतु मत्तः पाणिनान्येन जन्तोः
श्रवणमपि च गृह्वन्स्यन्दयत्युक्तिसारम्॥४७॥
तारकार्धविवृत तनुभाजां कुर्वतः कुमुदिनीविटमौलेः।
श्लाघते चतुरतामिव चञ्चन् दक्षिणेतरवपुः स्तनकुम्भः॥४८॥
वपुरर्पयतीव विश्वभर्त्रेजनता जीवितमोचनच्छलेन।
प्रणवाक्षर(वर्णना)पदेशादुररीकारमिवातनोति सोऽपि॥४९॥
प्रणवमयमेव तिलक प्रियामुखे लिखति वासनातिशयात्।
अनुसधातुमिवेशामनुनेष्यन्नहह करुणविवशतां नीतः॥५०॥
त्वरितमभितो धाव धावं कृपातिशयात्प्रभो-
रतिसुकृतिना कर्णेष्वोंकारमत्र विवृण्वतः।
अनभिबलपतः…………………………
स जयतितरा शश्वन्निःश्रेयसार्पणविभ्रमः॥५१॥
** **असौ पुनरत्र निर्वर्तितावगाहविधिरतिवादितार्घनिदाघसंज्वरो निरञ्जनहृदयसङ्घनिः शङ्कविहृतिमन्दिरं चिरंतनसुन्दरीसीमन्तसरणिमौक्तिकं समस्तजगन्नमस्क्रियासकेतशलिकान्तारमङ्गजानुरागसागरहरिणाङ्कपरिणताननं द्युमणिमरीचिकोच्चयदुर्जयतमोनिषूदनमनतिकषायचेतसामदृश्यगतिं पश्यतिस्मविश्वपतिम्।
पुरत्रयी येन पुरा व्यधायि मन्दारमाला भवता रणेन।
मन्दाकिनी यापि च मौलिभागे मन्दारमाला भवतारणेन॥५२॥
निध्याय च निटिललोचनबद्धानतिरिदमवोचत।
स्वर्धनी प्रकृतितो जलाकृतिः कालिकाश्रितकुटुम्बघातिका।
धूर्जटे त्वमपि धूर्तशेखरो हा तथापि कथमाश्रयन्ति वः॥५३॥
विश्वेश्वरत्वं निखिलेश्वराणामाब्रह्मकीटं फलमेकरूपम्।
सर्वेश्वरः प्राणिषु तुल्यवृत्तेः कथ नु सेवां तव कल्पयामः॥५४॥
लोके महान् लुब्ध इति प्रवादो मुदा न ते मुग्ध शशाङ्कमौले।
यतः समीपे तव याचकानां प्राणप्रहाणावधिरिष्टलाभः॥५५॥
कि तस्य ते वच्मि गिरीन्द्रकन्याकान्तस्य कर्णे जनुतोऽनुभावम्।
यस्यैकदेशे निहितेऽपि या(म)र्त्या भवन्ति दारप्रमुखे पराञ्चः॥५६॥
मात्त्रिकेषु महितो भवान् यतो देहिनस्त्वदुपदेशवैभवात्।
हालहालमपि पातुमीशते नेतुमा[भ]रणता महीनपि॥५७॥
अन्या माध्यमपीतदेहपतनत्रास….घापालिता
देहेष्वेकपरिक्षयेऽपि भवता त्राताऽस्मि देहाष्टकम्।
त्रय्यन्ता इह सक्षिता दधत इत्यर्ध जगत्प्राणिना
व्यक्तं वक्तुमिव प्रकाशिततनुं काश्यां भवं तं नमः॥५८॥
सान्द्रानन्दपयोधिवर्धकविधुं ससारविन्ध्याटवी-
दावाग्निं सनकादितापसमनोघामप्रदीपाङ्कुरम्।
वेदान्तोपवनान्तरालसततव्यापारकेलीशुकं
काशीकल्पलताफलं भज मनः कात्यायनीकामुकम्॥५९॥
कान्तया सह शुभालकान्तया मूर्तयेव कृपयैकमूर्तये।
सर्वदाय नतिरस्तु सर्वदा नाकिनेत्रमणये पिनाकिने॥६०॥
सेवित्वा चिरमचलात्मजासनाथं
विश्वेशं विसृमरसपदान्तरङ्गम्।
धन्योऽयं तदनु शनैः शनैरयासी-
दावास त्रिभुवनमातुरन्नदात्र्याः॥६१॥
कृतावनतिरम्बायै सतामयतु(म)पश्चिमः।
अपारकरुणामेनामुपातिष्ठत सूक्तिभिः॥६२॥
इष्टातिथिं कृतकलामनसौरभेयी
मृष्टान्नहारमृगनाभिमुखैरुदाराम्।
सेवाकृतं मयि गृहं श्रियमावहन्ति
सौवानना पशुपतेरिह सनिधत्ताम्॥६३॥
दर्वीशरावौ कृतकङ्कणाभ्यां सबिभ्रती पाणिसरोरुहाभ्याम्।
पट्टांशुकं पाटलमुद्वहन्ती काचित्पुरस्तात् [करुणा] ममास्ताम्॥६४॥
त्वमन्नपूर्णापि कृशासि मध्ये श्यामासि संफुल्लजपाभिरामा।
छन्दोवनस्थाप्यवनप्रसक्ता वन्दारुमन्दारलताप्यपर्णा॥६५॥
निरस्तवेलानियमं विमुक्तचिरन्तनागन्तुजनव्यवस्थम्।
व्यसेपवेधः कृमिभेदचिन्त(?)मगात्मजे नौमि तवान्नदानम्॥६६॥
अपोभिरष्टादशभेदशालिरसैरिह त्वामतिरञ्जयित्रीम्।
न स्तोतुमीष्टे नलिनासहो(नो)ऽपि वाचं रसैर्वासयिता तदर्थैः॥६७॥
आर्ये मुहुः केवलमर्थमन्नैः पुष्णासि वाच न पुनः कदापि।
भवत्स्वरूपप्रतिपादने किमतः प्रयातीयमशक्तिमत्ताम्॥६८॥
प्राचीनवाचापि परं दुरापां त्वामीडितुं यत्त्वरते रसज्ञा। निदानमस्मिन्भवदीयदर्वीनिवेशदिव्यान्नरसाभिलाषः॥६९॥
न स्तौति क्लृप्तान्नमयादिपोषा………………………।
सबिभ्रतः स्वीयशरीरमात्र जनस्य का वा जगति प्रशंसा॥७०॥
त्वामोषधिप्रस्थपतेस्तनूजा प्राचीनभिक्षाकपरिप्लवाक्षीम्।
अकिचनाग्रेसरमध्यगेयां वयं कथं विश्वसिमोऽन्नदात्रीम्॥७१॥
न विद्यते पाकसमुद्यमस्ते नैकत्र (वा) भोक्तृजना मिलन्ति।
जगत्त्रयीतृप्तिकरं तथापि चित्रीयते देवि तवान्नदानम्॥७२॥
केलीकृते श्रीरिव सारस वावाणीव पाणौ मणिवल्लकीं वा।
दधासि चेदम्ब विधूय दर्वीकथं त्रिलोकी कुशलं लभेत॥७३॥
वैषम्यशाली बलते जनेषु पदाब्जयोः शारदयोः प्रसादः।
हिताशनैरेधयितु त्रिलोकी दधेतु (?) जागर्तु तबाम्बिकायाः॥७४॥
अवस्थिता भर्तुरमुक्तपार्श्वमार्तातिथीनामवन च भोज्यैः।
भवानि कर्तुं यदतिप्रवीणा गुणः किलाय कुलपालिकानाम्॥७५॥
आर्तिस्पृशामम्ब सुखासु(नु)भूते(ति)रापादि नानाखिलदेहभाजाम्।
आहारदाने नियमस्तवायमर्थे परेषामनघाय तत्ते॥७६॥
अशेषलोकावनमम्ब भोज्यैः कर्तव्यमित्येव करोषि बुद्ध्या।
तामालिदो (?) दासजनाभिपोषमावश्यक प्राहुरधीश्वराणाम्॥७७॥
स्वार्धप्रियं सर्वमितीरयन्ती मृषेतरा वागपि सा मृषैव।
आदिश्य किं पुष्यसि विश्वमन्ते स्वमम्बसप्राप्तसमस्तकामा॥७८॥
कार्या न कि कान्तपदाब्जसेवा नास्ति श्रमः कापि न किकरीति।
अङ्गानि धन्ये स्मयमङ्गभाजा दर्वीमसत्यज्य धृता दधासि॥७९॥
त्वमेव दर्वीर्दधतः क्षुधार्तान्पुष्णासि भूयस्यपि दासलोके।
स्वपुत्ररक्षाविषये सवित्री परत्र न प्रत्ययमादधाति॥८०॥
सतर्पयस्यम्ब सदान्नदानैरागन्तुलोकानपि पार(ल)यन्ती।
आद्यस्य भिक्षोरनपायि नित्य जानानि धिनार्तिजनप्रयासान् (?)॥८१॥
भैक्षायमातः प्रतिवीथि काश्यामितस्ततो यान्तमतिक्षुधा माम्।
आहूय वत्सेत्यनुवेलमन्नैर्विधेहि सौहित्यविशेषभाजम्॥८२॥
दर्व्याप्रपञ्चेतव रक्ष्यमाणे विहाय चिन्ता रमते वृषाङ्क।
सधर्मिणी चेच्चरितानुरोधात्कुटुम्बिनः शर्म कुतस्ततोऽपि॥८३॥
प्रपञ्चमन्नैःपरिपोषयन्त्यामार्ये भवत्याममृताशुमौलेः।
भिक्षाटनं प्राभवजृम्भितेषु क्रीडाविभेदेषु गणेयमासीत्॥८४॥
भ्रातु(मात)र्भवप्रार्थनदैवमिन्दोरग्लान्तक्लृप्ताश्रयणस्य कार्श्यम्।
क्षेप्तुं भिवोर्भिक्षुकृतां च मातः क्षमेतरां त्वं कथमन्नपूर्णा॥८५॥
अज्ञातमन्यैरमितान्नदानादैश्वर्यमैशं भवती न्यनः (व्यनक्ति)।
प्रकाशभाव प्रमदामुखेन प्रयाति गुप्तोऽसि(पि)भृशं किलार्थः॥८६॥
आस्ता नि…..श्मशानं बस्तां त्वचं वा विभु(वपु)रस्य भूतिम्।
कथं विधत्तामखिल किलेद सत्यन्नपूर्णे तव सविधाने॥८७॥
ईर्ष्या किमाशाय गिरं वितीर्य गणे सुराणा…….तौघे। (?)
दिवानिशं देवि सुधान्नवृष्ट्या घिनोषि यत्त्रीण्यपि विष्टपानि॥८८॥
जगन्मुखारोपणकृत्कपाल पतिर्दधावित्ययशः प्रमार्ष्टुम्।
किमम्ब गृह्णासि करेण दवीं प्रतिक्षण विश्वजनप्रतीक्ष्याम्॥८९॥
त्रैलोक्यकुक्षिभरिणा हरेण ताभ्या च लम्बोदरषण्मुखाभ्याम्।
अधिष्ठिते धाम्नितवान्नभूमा जयत्ययं देवि जनार्तिहारी॥९०॥
तबास्पद दातुमरुद्गवीना(?)माक्रान्तमुद्यानममर्त्यसालैः।
वेश्माभिचिन्तामणिभिः प्रणीत विश्राणनेनास्य किमम्ब भारः॥९१॥
सर्वातिथि(थी)स्त्वं खलु सर्वकालं निश्चिन्तमन्नानि दिशस्यपर्णे।
न तत्र हेत्वन्तरमन्तरेण न्यग्रोधमालोग्रजप प्रियं ते॥९२॥
मातर्विशालाक्षि महार्हचेलस्रगङ्गरागप्रभृतौ स्वभूतिम्।
सदोपयुङ्के यदि शैलधन्वा कथ तदा ते घटतेऽन्नदानम्॥९३॥
त्रैलोक्यसतर्पणदानजन्मा दूरे गिरा त्वत्सुकृतातिरेकः।
आस्ते कपर्दी यदनुग्रहेण वेधोमुखामर्त्यविरामसाक्षी॥९४॥
स्रष्टुंप्रतिष्ठापयितु जगन्ति हर्तुं तिरस्कर्तुमनुग्रहीतुम्।
पितामहाद्याः प्रभवन्ति यत्ते सवित्रि दर्वीविभवः स एषः॥९५॥
समाप्य नाथे सवन द्वितीयमारब्धदीनागमनप्रतीक्षे।
नवीनमन्नं नगजे भवत्या प्रदीयतां प्राघुणिकाय मह्यम्॥९६॥
अपास्य षाण्मातुरमर्धपीतवक्षोजमम्यागतवत्सले त्वम्।
आगत्य वेगादमृतौदनं मे पिनाकपाणिप्रमदे प्रदेहि॥९७॥
आनर्घमाणीकृशरापमध्यादार्तेन (?) कार्तस्वरदर्विकायाम्।
भैक्षेणदाक्षायणि पावनेन मनोरथ पूरय मामकीनम्॥९८॥
संतन्वतेव स्वमणीकलम्पटे….षूपदेशात्कृशतानुयोगात्।
हस्तेन कात्यायनि हन्त काम विश्राणय श्रान्तिविनोदनं मे॥९९॥
हैयङ्गवीनस्नुतिशालिहस्तनखपच नव्यसितानमार्घम्।
करस्फुरत्काञ्चनभाजनात्तेभवानि दिव्य दिश पायसान्नम्॥१००॥
दृशोऽनुकम्पारसदीर्धिकाया नीलारविन्दैरिव निर्जहानैः (?)।
अपाङ्गपातैरनुगृह्य मातरामोदयान्नैरिममन्नपूर्णे॥१०१॥
श्रान्तः क्षुधा सायमहर्मुखे वात्यन्न दिश द्वारमुपैमि यावत्।
शिञ्जानमञ्जीरपद समेत्य प्रयच्छ मे पार्वति तावदन्नम्॥१०२॥
आविष्कृतप्रार्थनमप्यकाले वीतक्षुधं मां गिरिजे विधेहि।
प्रतीक्षते कि पृथुको जनन्याः स्तन्यामृतासारसमृद्धिवेलाम्॥१०३॥
अवश्यकर्तव्यतयानुवेलं महान्ति कर्माणि सदा दिशन्ति।
पर्याप्तमम्ब प्रतिपादयान्न कर्तु न किंचित्क्षमते बुभुक्षुः॥१०४॥
नित्यान्नदे मे निजमूर्तिभारमचिन्तयित्वाशनमर्पयेथाः।
आदाय दर्वीक्वचिदासिकायै जगज्जनन्याः समयः कुतस्ते॥१०५॥
दूरे क्षिपन्ती गुणदोषचिन्तामिष्टाशनैरेधय मामनव्यम्।
निजे तनूजे किल निर्गुणेऽपि व्यनक्ति वात्सल्यभरं सवित्री॥१०६॥
अन्नार्थिन मां यदि चेद्धुनोषि कृपापराची गणये किमन्यत्।
…….. ………… ……………………. ……………..॥१०७॥
दर्वीपायसभाजने कलयता युग्मेन हस्ताब्जयो-
रप्रत्यूहविभावितत्रिजगतीभिक्षाकनेत्रोत्सवा।
वाचालाभरणं महानसगृहादन्नोपहारेच्छया
निर्यान्ती परदेवता मम मुहुश्चिन्तापथ गाहताम्॥१०८॥
स्तन्यास्वादकृते निरुध्य पुरतः संतन्वते प्रार्थनां
सेनान्ये सति पूर्वकायमसकृत् स्थित्या दिशन्ती स्तनौ।
अस्तखेदपयः कणां (णा) प्रणयिनो हस्तेन वक्त्रादुमां (मा)
सृष्टान्नार्पणमर्थिनां विदधती(ती)मेधा महा(या)लम्ब(म्ब्य)ते॥१०९॥
स्मेरस्मेरमलीकचित्रकपरामर्शी श्रमाम्बोर्लव
दिव्यास्ते व्यजनानिलाद्धरचलोत्तस दधाना मुखम् (?)।
चेतो मे न जहातु सा भगवती कृत्वातिथेथी कृपा-
माशी[राशि]परा गिरीशवसतिं प्रत्याव्रजन्ती जनैः॥११०॥
दृढभक्तितरङ्गितक्रमामथ मश्यन्नधिकालि देवताः।
अविगाढपरं मनोगिरामधितानन्दममन्दमास्तिकः॥१११॥
आर्यश्चक्रसरोवगाहनियमैरश्रान्तयात्राक्रमै-
रस्माकं द्विजनौहितीविरचनैरावश्यकैरध्वरैः।
विद्याव्याकरणैश्च शिष्यसदसे विश्वेशमाराधयन्
वाधूलान्वयमौलिरावसदसौ वाराणसीमृद्धिमान्॥११२॥
प्रालेयाद्रिसुतासहायभजनप्रेमानुबन्धस्पृशे
विद्याशीलविनीत….. ……पो विश्राणनासङ्गिने।
स्त्रैणपराच्युखाय करुणामूर्ति सबिभ्रते
मूर्ध्नासनतिमग्रजाय महते मोदान्मुहुः कुर्महे॥११३॥
इति श्रीबाधूलकुलजलविकौस्तुभस्यातिरात्रयाजिन साहित्यगुरो कनकाठपाठबिरुदाङ्कस्य वेङ्कटेशसुमतिसह-धर्मिणीमण्यनन्तम्मागर्भशुक्तिमुक्तामणे समरपुङ्गवदीक्षितस्यकृतौ चम्पूकाव्येयात्राप्रबन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वास॥
वीतस्पृहाय विरजस्तमसे समस्तशास्त्र[श्रुति]स्मृतिविदे समदर्शनाय।
सिद्धाशिषे भगवदङ्गिसमस्तभक्तिसान्द्रप्रसन्नमनसे सदसे नमोऽस्तु॥
समाप्तोऽयं ग्रन्थः।
———————
]
-
“‘माशा’ इति पाठ” ↩︎
-
“पीतच्छवितृणविशेष।” ↩︎
-
“कावेरी नदीम्।” ↩︎
-
“निवृत्तीति भवेत्” ↩︎
-
“यावद्विश्वेति भवेत्” ↩︎
-
“वेदन्नयीति प्रतिभाति.” ↩︎
-
“‘हेयङ्गवीननिर्गमस्रमये’ इत्युचितमिति प्रतिभाति.” ↩︎
-
“भगवतः स्वस्येति व्याख्येयम् " ↩︎
-
“नियमोऽस्यास्तीति नियमीमुनिः अत्रगौतमस्तस्य ससारोऽहल्येति बोध्यम् " ↩︎
-
“श्वश्रूः पृथिवी” ↩︎
-
“विस्तापितादितेयमिति सभववि. " ↩︎
-
“सत्वरेति प्रतिभाति.” ↩︎