[[कुम्भाभिषेकचम्पूः Source: EB]]
[
[TABLE]
[TABLE]
॥ श्रीः ॥
॥ कुम्भाभिषेकचम्पूः ॥
<MISSING_FIG href="../../../books_images/U-IMG-1720262261Screenshot2024-07-06160659.png"/>
एकत्रोत्पलकङ्कणाङ्गदमणीमञ्जीरताटङ्ककै-
रर्धोद्भासिकिरीटहाररशनाक्षौमाङ्गरागादिभिः।
अन्यत्रोरगशूलकृत्तिभसितास्थिक्षामवक्षोरुहै-
रत्याश्चर्यतनुस्तनोतु सततं वः शंकरःसंपदः॥१॥
शिरसि निहितगङ्गालोकनाज्जातमाना-
मरुणनलिनकान्तिच्छेददक्षायताक्षीम्।
अनुनयनवचोभिर्नन्दयन्नद्रिजाता-
भवतु करुणया नश्चारुचन्द्रार्धमौलिः॥२॥
स्वर्लोकादवतीर्य मानवगणश्रेयस्करात्कारणा-
त्प्रायान्मण्डनमिश्रगेहमनघं या भारतीसंज्ञया।
पत्यौ वादविनिर्जिते सति गुरोर्मार्गं प्रपद्यादरा-
च्छृङ्गेर्यांपुरि नित्यवासरसिका सा शारदा पातु नः॥३॥
अद्वैतमीश्वरोक्तं
श्रुत्वाथ मुहुर्विमर्शयितुम्।
शृङ्गेरीमठमाश्रित-
मीडे श्रीरत्नगर्भगणनाथम्॥४॥
अद्वैतभाष्यमनुगृह्य दयामयेन
येनास्मदान्तरतमः परिभूय भूयः।
मार्गे प्रयातुमनघं नयनं वितीर्णं
तस्मै नमोऽस्तु गुरवे गुरवे गुरूणाम्॥५॥
श्रीकृष्णक्षितिपालसंनिधिमहाविद्वान्विधेयः सतां
चित्तस्थापितचन्द्रचूडचरणःश्रीरामनामा कविः।
साक्षाद्दर्शनहर्षविस्मितमतिर्व्यक्तीकरोत्यादरा-
च्छृङ्गेरीनगरे जगद्गुरुकृतं कुम्भाभिषेकोत्सवम्॥६॥
क्व तादृशमहोत्सवः क्व नु ममातिमन्दा मति-
स्तथापि जगतीगुरोश्चरणभक्तिरास्ते मयि।
तदाश्रयबलादहं तदभिवर्णने शक्नुयां
समुद्रमपि तारयेदधिगता यदि स्यात्तरिः॥७॥
श्रीमच्छंकरदेशिकेन्द्रविहितां पीठीमलंकुर्वतः
श्रीमद्भूगुरुचन्द्रशेखरगुरोः पादस्तवायोद्यतम्।
वर्ण्योत्कर्षविभावनान्मम परानन्दावलीढं मनः
साहित्योपनिषद्रहस्यसमुपन्यासाय संनह्यति॥८॥
अस्ति कर्णाटदेशोऽयं स्वस्तिदः सर्वदेहिनाम्।
यस्ततारोग्यभाक्सह्यमस्तके संनिवेशितः॥९॥
** ** यत्र खलु,
एलालतालिङ्गितगन्धवृक्षैः
पूगद्रुमैर्नागलतोपगूढैः।
मरीचिकालम्बितमातुलुङ्गै-
राराममाला नयनाभिरामाः॥१०॥
कावेरीकपिलातुङ्गभद्राद्याश्च सरिद्वराः।
भुक्तिमुक्तिप्रदाः पुण्या यत्र लोकान्पुनन्त्यहो॥११॥
संपत्कुमारश्रीकण्ठप्रमुखा यत्र देवताः।
स्वस्वक्षेत्रेषु पुण्येषु सांनिध्यं कुर्वते सदा॥१२॥
वर्णाश्रमाचाररता वसन्ति
यत्रार्धकोटेरधिकाश्चलोकाः।
वेदेषु शास्त्रेषु च यत्र दक्षा
विभान्त्यनेके विबुधाः प्रसिद्धाः॥१३॥
ग्रामैः श्रोत्रियसात्कृतैर्नृपवरैरात्रेयगोत्रोद्भवैः
सत्रैस्तत्परिकल्पितैः प्रतिपथं यो मूर्तधर्मायते।
नादेयाम्बुपवित्रितैर्नवनवैर्हृद्यैस्तटाकैर्वृते
यस्मिन्भान्ति फलोन्मुखानि सततं शस्यानि सस्यान्यपि॥१४॥
ग्रामे ग्रामे सुरचितपथैस्तत्र तत्र प्रदीपै-
र्द्वेधा जाड्यप्रशमनपरैर्वैद्यशालैर्विशालैः।
न्यायस्थानैर्नवनवकृतैर्वारियन्त्रैर्विचित्रै-
र्नित्यं स्तुत्यं निरवधिसुखं यत्प्रजाः प्राप्नुवन्ति॥१५॥
यःश्रीकृष्णनृपालपालनवशात्प्रायो नदीमातृको
विद्युच्छक्त्युदयैः सुधूमशकटैर्वृत्तान्ततन्त्रीगृहैः।
पत्रप्रापणमन्दिरैश्च विविधैः प्राज्यैः सुवर्णाकरै-
र्वाणिज्यैः कृषिभिर्धनाधिपतिभिः सद्धार्मिकैःशोभते॥१६॥
कण्वाश्रमे महत्या कावेरीसेतुबन्धनक्रियया।
यत्प्रभुसचिवौ कुरुतः सर्वान्विन्ध्यान्विजित्य सौराज्यम्॥१७॥
तस्मिन्देशे स्वगुणविभवैः सर्वदेशावतंसे
शृङ्गेरीति प्रथितमनघं पत्तनं प्रत्नमिन्द्धे।
यस्मिन्पूर्वं भुवनविदितः शंकराचार्यवर्यः
पुण्यं क्षेत्रं तपस इति संचिन्त्य यत्नादवात्सीत्॥१८॥
अपि च,
वैभाण्डकिःप्राक्स्वयमृश्यशृङ्गः
स्वस्मिञ्शिवैक्यं शिवमर्थयित्वा।
सत्त्वप्रधाने यदुपान्तभागे
निवासमेवाश्रयते न मुक्तिम्॥१९॥
समन्ततो यस्य विभाण्डकर्षेः
प्रसादतो द्वादश योजनानि।
सदातनैःपुष्पफलैः समेता-
न्यरण्यबृन्दानि समृद्धिभाञ्जि॥२०॥
दृष्टिप्रचारे सति दृश्यमान-
मरण्यमासेचनकं समन्तात्।
यत्रस्थितानां यतनं विनापि
प्रसन्नमन्तःकरणं करोति॥२१॥
तुङ्गासरित्तुङ्गतरङ्गमाला-
तरङ्गिते यत्र चिरं वसन्तः।
अद्वैततत्त्वं परिबोध्यलोका-
नाचार्यपादा बहवोऽन्वगृह्णन्॥२२॥
दिव्याम्भोभिर्दिवसमखिलं दीर्घधारं पतद्भिः
कुल्यातुल्यां दधति च दशां यत्र निम्नाः प्रदेशाः।
बीजावापः कणिशलवनं कर्षणं चेति यस्मि-
न्कृष्यारम्भः सुलभसुलभः कर्षकाणां त्रिधाभूत्॥२३॥
** ** इयं खलु सकलनराधिपसमभ्यर्चितधरागुरुसमाश्रयनिराकृतपराश्रया, स्वस्वधर्मनिरतसमृद्धिमत्पुरजनपरिपूरितगृहमालिकया चराचरविधायकपरापरवस्तुपरिशोभितं शृङ्गगिरिशिखरं परीत्य वर्तमाना, दक्षिणपूर्वोत्तरवाहिनीरूपेण परिसरपरिसरदुत्तुङ्गतरङ्ग- संगततुङ्गानदीपरिवृतप्रान्तप्ररूढनानानोकहनिवहकोमलकुसुमराजिरजःपातसुरभीकृतसकलप्रदेशा, विशाले विशुद्धे च दाक्षिणे महति चत्वरे विविधशिल्पविचित्रितविद्याशंकरदेवतायतनमुत्तरेण पुरस्कृत्य शारदायतनमुत्तरतः प्रकाशमानेन वेदघोषमुखरीकृतेन वेदान्तविद्याविहारभवनेन भुवनेश्वरीकक्ष्यासंनिहितकक्ष्यान्तरसमभ्यर्च्यमाना, चन्द्रमौलिरत्नगर्भगणपतिप्रमुखदेवतादर्शनोत्सुक-निरीक्षकजनसमीक्ष्यमाणकक्ष्यान्तरपरिशोभितेन परमहंसपरिव्राजकाचार्यपरम्परानिरन्तराधिष्ठितेन च महता मठेन परिशोभिता, मठोत्तरद्वारमारभ्य दक्षिणादुत्तरतः प्रसृतया दीर्घदीर्घया चागण्यपुण्यपरिपूरितापणगणपरिष्क्रियमाणया विपणिवीथिकया विराजमाना, श्रुतिरवमुखरितपटुतरवटुजनसमवबोधनोचितश्रौतस्मार्तविधिविचारणतत्परपवित्राग्निहोत्रजनपरिष्क्रिय-माणगृहवेदिकासनाथा, सायंप्रातः शारदादर्शनकुतूहलात्ससंभ्रमभ्रमत्पुरपुरंध्रीपदपङ्कजलग्नमञ्जुमञ्जीरशिञ्जितारावपरिपूरितनभोविभागा, माध्यन्दिनपूजासमयसमाहन्यमानभेरीशङ्खपणवानकढक्कातूर्यवीणावेणुमृदङ्गादिविविधवाद्यघोषनिर-न्तरीकृतनिखिलदिगन्तरा, कलिराजशासनवशंवदतया निर्निरोधप्रवृत्तपशुहिंसापरद्रोहादिक्रूरकृत्यभाजनानि पराणि पुराणि निरीक्ष्य त्रस्यन्ती, कलेर्दृष्टिपथादात्मानं गोपयितुं क्वचिदरण्यभागे निलीय निर्भयं निवसन्तीव विभाव्यमाना, वाराणसीप्रयागकाञ्चीप्रमुखमहापुरीभिरजय्यतां प्रदर्शयितुमिव वनदुर्गनदीदुर्गगिरिदुर्गमध्यमध्यासीना, राकेव सकलकलापरिपूर्णद्विजराजमण्डलविराजिता, नदीपुलिनमिव परमहंसपरिशोभिता, सशालापि विशाला, सचित्रापि विचित्रा, शृङ्गेरीपदाभिधाना च विजयते श्रीगुरुराजधानी॥२४॥
अस्यां खलु,
तर्कोदर्कमुदञ्चयन्स्ववचसा मीमांसकान्मोदय-
न्प्राप्तं व्याकृतिशास्त्रवादकलहं माध्यस्थ्यतो मन्दयन्।
वेदान्ते विहरन्नलंकृतिविदः सद्यः समुल्लासय-
ञ्शास्ता राजति चन्द्रशेखरगुरुः सर्वज्ञतां दर्शयन्॥२५॥
उभयतो भयतो रहिताश्च ते
भुवि नता विनतासुतकेतनम्।
सकलया कलया परिमण्डितं
भजनतो जनतोषकरं च तम्॥२६॥
यद्वाग्झरीनवनवोदितयुक्तिवीची-
कोलाहलैर्वहति चेद्बुधपान्थवर्गः।
आलम्ब्य मौनतरुमाः स्मरति स्वकार्थां-
स्तं चन्द्रशेखरगुरुं प्रणतोऽस्मि नित्यम्॥२७॥
मुखमाहुरहो शिवंकरं
कर एवास्य तु कर्णतां गतः।
स्वगतामिव वारयन्भिदां
स्वयमास्ते गुरुपादतां गतः॥२८॥
अरुणो द्विजराट् सुमङ्गलः
स बुधश्चापि गुरुः कविस्तथा।
गजमन्दगतिः सदुत्तमो
ध्वजतामेति यतिर्द्विजान्वये॥२९॥
मूर्तिः कीर्त्तिरिति प्रथामुपगते ये द्वे विशुद्धे तनू-
श्लाघ्ये ते भुवि चन्द्रशेखरगुरोः सर्वैर्बुधैः सर्वदा।
आद्यां शोषयते तपोभिरितरां तैरेव पुष्णात्यसौ
तद्देहप्रियतास्ति वास्य तु न वा तत्त्वं न जानीमहे॥३०॥
स एव चन्द्रशेखरभारतीगुरुः परमे तपसि वर्तमानोऽपि सर्वामपि रात्रिमन्तरेवातिविशुद्धमद्वैतमात्मतत्त्वमनुसंदधानः, लोकमर्यादानुपालनार्थं सर्वानपि शिष्यसमूहान्समोहाननुगृह्णानः, त्रिषवणस्नानपरिपूतमात्मीयमात्मानं भस्मरुद्राक्षधारणेन परिपावयमानः, दैनन्दिनप्रणवजपेन प्रतिदिनमखण्डवेदावर्तनेन शारदाचन्द्रमौलिरत्नगर्भगणपतिश्रीचक्रप्रमुखदेवताचक्रसमभ्यर्चनेन प्रदक्षिणप्रक्रमादिना च तत्तत्समयं सफलीकुर्वाणः, अननध्यायेषु दिवसेषु गीतोपनिषत्सूत्रभाष्याणि तर्कव्याकृतिमीमांसाश्च स्वयमेव पटुतरवटुजनान्पाठ्यमानः, कदाचिदाचार्यगौरवादास्थानदिदृक्षया समागतान्पण्डितप्रवरान् तत्तच्छास्त्रविचारणेन समानन्द्य संभावयमानः, कदाचिदभ्यागतान्महाजनान्परिशील्य मृष्टान्नपङ्क्तिनियमनेन प्रमोदयमानः, कदाचित्पाकशालाधिकृतनिवेद्यमानमाध्यन्दिनमहासमाराधनसामरस्यमनुमोदमानः, कदाचिद्देहधारणमात्रोचितां प्रसृतिमात्रां भिक्षामाददानः, कदाचिदायव्ययलेखकजननिवेद्यमानानि निवेदितव्यानि सावधानमाकर्णयमानः, कदाचिन्नानादिगन्तरागतानि धर्मशास्त्रानुसारेण व्यवस्थापनीयानि विषयान्तराणि विद्वद्भिः सह विवेचयमानः, कदाचिदास्थानाधिपतिभिरालिखितानि विज्ञापनाक्षराणि प्रतिलेखनानि च मठाधिकृतेन मुख्याधिकारिणा सह संमन्त्रयमाणः, कदाचिच्छृङ्गगिरिशिखरमारुह्य तदधिवसन्तं भगवन्तमुमाकान्तमभिवन्दमानः, कदाचिन्निजमठदक्षिणद्वारादवतरणपथेन तुङ्गामवतीर्य चिरात् प्रतिदिनप्रदीयमानमठान्नपरिपोषितानां कच्छतलोच्चरन्मत्स्यकच्छपादिजलजन्तूनां पतनोत्पतनसमारम्भमालोकयमानः, कदाचित्तुङ्गासरिद्दक्षिणरोधःपरिकल्पितनरसिंहवनीपुष्पवाटीमवगाह्य तत्र निजगुरुश्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती-स्वामिभिरध्युषितपूर्वाणि सौधपदानि शिलातलानि तरुमूलानि च दर्शं दर्शमश्रुपूर्णाभ्यां नयनाभ्यां निःश्वस्य परितः परिजनमुखानि प्रेक्षमाणः, कदाचित्सायंतनसमयमन्दमन्दस्पन्दमानगन्धवहान्दोलिततरुशिखरासु मनोहरासु समीपवनराजिषु शिष्यैः सह पादाभ्यामेव संचरमाणः, काव्यालंकारनाटकनाटिकाप्रहेलिकाक्षरच्युतकमात्राच्युतकबिन्दुच्युतकच्युतदत्ताक्षरप्रमुखकाव्यकलापेषु भारतभागवतादिपुराणेतिहासादिषु च सरसपावनैः संलापैः समयमतिवाहयमानः, वन्दारुजनमन्दारः सकलजनानन्दमापादयन्विजयतेतराम्॥३१॥
संकल्पितुं प्राग्गुरुणैव देव्याः
कुम्भाभिषेकं हृदि चिन्तयन्सः।
समाधिदृष्टां गुरुवर्यमूर्तिं
साक्षात्प्रतिष्ठापयितुं समैच्छत्॥३२॥
ततः स संमन्त्र्य समाहितात्मा
मठाधिकारिप्रवरेण सार्धम्।
आहूय मुख्यान्पुरलोकवृद्धा-
न्गम्भीरमेवं गुरुराबभाषे॥३३॥
** “**भो भो महान्तः शृणुत, विदितमेवेदं भवतामस्मदास्थाने लोकानुग्रहार्थं कृताधिवासायां श्रीमच्छंकरभगवत्पादप्रभृत्यस्मद्गुरुपर्यन्तायामद्वैताचार्यगुरुपरम्परायामस्मद्गुरुपादाः श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती-स्वामिनः ग्रहमालिकायां प्रभाकर इव, अष्टाविंशतिव्यासपरम्परायां पाराशरिरिव, अष्टवसुपरम्परायां भीष्म इव, रघुकुलपरम्परायां श्रीराम इव च सुप्रसिद्धा भूत्वा स्वानुग्रहेण लोकान्, दयया दीनान्, नयेन परिजनान्, विनयेन वैदुष्यम्, पाण्डित्येन पण्डितान्, तपसा देवान्, दानेन दरिद्रान्, यशसा दिगन्तराणि, तत्त्वोपदेशेन जगन्ति, वात्सल्येनास्मदादींश्च समुल्लास्य यथोदके शुद्धे शुद्धमासिक्तं तथैव ब्रह्मभूता इति। तदद्य वयममृतशिलामयीं नयनानन्ददायिनीं तदीयां मूर्तिं सकललोकस्मृतिपथारोपणाय प्रतिष्ठापयितुं तेनैव गुरुवरेणानेकलक्षद्रव्यव्ययपूर्वकं निर्मापिते महति देवागारे देव्याः शारदाम्बायाः कुम्भाभिषेकमहोत्सवं तत्संकल्पानुसारेणैव सकलशिष्यजनश्रेयःसाधनार्थं साधु प्रवर्तयितुं च भवतामभिमतमभिलषामः” इति॥३४॥
ततस्तदिदं निशम्य ते गुरुसमीरितं स्वामिन् आलोचित
मिदं युक्तं युक्ततरं युक्ततमं चेति हर्षगद्गदेन कण्ठस्वरेण सममभिदधानाः प्रमोदतरलानञ्जलिबन्धानाबध्नन्तःप्रहर्षतस्तिर्यगान्दोलितैः शिरोभिः श्लाघमानाः संमोदाश्रुबिन्दुसंदानितैरक्षिभिर्मन्दं मन्दमीक्षमाणाश्च महोत्सवमनुमेनिरे॥३५॥
ततो गुरुस्ताननुमोदमानः
संभाव्य सभ्यान्सकलान्विसृज्य।
मठाधिकारिप्रवरं तमेनं
रहस्तदा विप्रवरं बभाषे॥३६॥
‘अयि भोः श्रीकण्ठशास्त्रिन्, श्रूयतामिदमवहितेन मनसा। नैपुण्येन पुण्येन च निर्वर्तनीयः प्रसक्तोऽयं महान् कार्यारम्भस्त्वयैव निर्वाह्यः।भक्तोऽसि भगवत्पादेषु, शक्तोऽसि सकलतन्त्रेषु, सक्तोऽसि सत्कार्येषु, मुक्तोऽसि, मदमत्सराभिमानैः, रक्तोऽसि राजनीतिषु, विरक्तोऽसि विषयोपभोगेषु, उक्तोऽसि मया, तदिदानीं यथा प्रसीदेयुर्देवाः, यथा च प्रसन्ना भवेयुर्गुरवः, यथा हि यथाविधि निर्वर्त्येरन् शास्त्रविधानानि, यथा तु प्रतुष्येयुर्ब्राह्मणाः, यथा तु प्रतृप्येयुः सर्वभूतानि, यथा वै संमान्येरन् समागताः सर्वे महाजनाः, यथा खलु संश्लाघेरन् सर्वाः प्रजाः, तथा प्रयतितव्यं भवता सर्वानुभववता’ इति॥३७॥
सोऽयं निशम्य तदिदं गुरुणा नियुक्तं
संतोषितेन मनसा द्विगुणीकृतात्मा।
प्रोत्साहितश्च शतधा गुरुपादभक्त्या
सर्वां मतिं हृदि विकासयितुं प्रयेते॥३८॥
ततश्च,
मठाधिनेतुर्मुखनिर्गताना-
माज्ञाक्षराणामनुपालनाय।
एकाक्षरस्यैकशतक्रमेण
ते ते जना जागरितार आसन्॥३९॥
तदनु दिवानिशमनिशं प्रकल्प्यमानेषु पुरालंकारेषु, विनिर्मलीकृतासु पुरवीथीषु, समीकृतेषु निम्नोन्नतेषु, विस्तारीकृतेषु चत्वरेषु, विनिर्मितेषु सेतुबन्धेषु, समलंकृतेषु सकलगृहेषु, प्रकल्पितेषु पुरीकामिनीकरोद्धृतावकुण्ठनांशुकायमानेषु कायमानेषु, प्रोद्धृतासु ध्वजपताकावलीषु, प्रबद्धासु तोरणमालिकासु, विनिर्मितासु विशालासु पाकशालासु, निबद्धासु नवनवासु परःशतासु निवासवाटीषु, विहितेष्वमितव्ययेषु विद्युद्दीपयन्त्रेषु, तत्र तत्र व्यवस्थापितेषु सकलपदार्थसंग्रहगृहेषु, संभृतेष्वगणितेषु संभारेषु, तावन्महाराजश्रीकृष्णराजसार्वभौमसमाज्ञया संनद्धेष्वारक्षकराजपुरुषेषु, व्यवस्थापितासु वैद्यशालासु, विहितेष्वारोग्यविधानेषु, विरचितेषु वृत्तान्तपत्रप्रापणगृहेषु, महाराजभक्तिभरमखिलदिगन्तरेषु प्रकाशयितुमिव समाहन्यमानासु भेरीषु, संताड्यमानेषु मर्दलेषु, समाध्मायमानेषु शङ्खेषु, सरभसं प्रधाठ्यमानेषु चारेषु, सोत्साहेषु च सकलपुरजनेषु, सरसकविगिरामुत्साहकरःपुरि कोऽपि महोत्सवःसमजृम्भत॥
तावदेव स मुख्याधिकारी स्वाग्रजं श्रौतशास्त्रानिष्णातं यज्ञेश्वरशास्त्रिणं समागतातिथिसभाजनभोजनभाजन-वसतिनियोजनादिसत्कारविचारणे विनियुज्य, स्वानुजं चतुर्षु शास्त्रेषु चतुरस्रपाण्डित्यपरिशोभितं कुणिगल् रामशास्त्रिणं विद्वज्जनविचारणे यागशालाविचारणे च विनियोज्य, स्वयमागमिष्यतामास्थानांधिपतीनां संमाननसभाजनादिकमङ्गीकृत्य, मौहूर्तिकावेदितं श्रीमन्नलवत्सरवैशाखकृष्णप्रथमायां महोत्सवनिर्वर्तनं गुरुवराज्ञया श्रीमन्महीशूरमहाराजकृष्णराजसार्वभौमाय निवेद्य, तत्समाह्वनार्थं प्रस्थितेष्वास्थानमुख्यशिष्येषु, स्वयमपितदाज्ञया तत्र तत्र मङ्गललग्नपत्रिकाःप्रेषयामास॥४१॥
महीगुरोः श्रीमुखनामधेयै-
राज्ञापनपत्रशतैरनेके।
देशान्तरेभ्यश्चपुरान्तरेभ्यः
समाययुः सानुचरा जनौघाः॥४२॥
पाश्चात्त्यदेशात्प्रथिताश्च केचि-
त्पौरस्त्यदेशात्प्रमिताश्च केचित्।
उदीच्यदेशादुदितोदिताश्च
दक्षाश्च ते ते खलु दाक्षिणात्याः॥४३॥
आयान्महीशूरपुरान्महीभृ-
दास्थानविद्वत्प्रकरस्तदानीम्।
अन्ये च ते ते गुरुभक्तिपूर्णाः
समागताः सोत्सुकसाधुसंघाः॥४४॥
तरीकेरे नाम पुरीवरे तु
सर्वेऽपि ते धूमरथावतीर्णाः।
मठीयक्लृप्तैर्महितोपचारै-
र्विश्रम्य विश्रम्य सुखात्समायुः॥४५॥
मोटारभिख्यैर्मठराण्नियुक्तै-
र्महारथैः केऽपि महाजनौघाः।
केचिच्छताङ्गैर्दृढधूर्भिराश्वै-
र्माहर्षभैः केऽपि मुदा समायुः॥४६॥
पश्चाज्जनौघः पुरतो जनौघः
पार्श्वे जनौघः परितो जनौघः।
नद्यां जनौघो नगरे जनौघः
सर्वोऽपि सोऽभून्नृमयः प्रपञ्चः॥४७॥
गङ्गाप्रवाहः परितः प्रकीर्णः
शंभोर्जटाजूटतटे निलीनः।
यथा तथैवात्र महाजनौघो
निवेशवाटीषु निलीयते स्म॥४८॥
निवेशभोज्यासनभाजनाद्यै-
र्मठोपचाराननुभूय सर्वे।
अभूतपूर्वाद्भुतहर्षनद्योः
समाचरन्संगममज्जनानि॥४९॥
तावद्देवः सार्वभौमो दिनानां
सद्भिस्तैस्तैः शोभितायाश्च पुर्याः।
रन्तैरिद्धस्याम्बुधेश्चापि मातुं
गम्भीरत्वं पश्चिमाब्धेस्तटेऽभूत्॥५०॥
तदानीं खलु महीशूरमहाराजश्रीकृष्णराजसार्वभौमः शृङ्गेरीं पुरीमागमिष्यतीति वार्तायां कर्णात्कर्णं प्रविशन्त्याम्, तदालोकनकुतूहलात्परितः प्रचलति पुरजने, झणञ्झणायमानेषु पुरपुरन्ध्रीपदनूपुरारावेषु, मोटार्नामकमहारथारूढमहाराजसंदर्शनेन कदाप्यननुभूतचरमानन्दमनुबुभूषवःस्वदेश्याःपरदेश्याश्च महाजनाः सत्वरमागत्य सौधाग्रेषु पुरगोपुरेषु वीथीषु वेदीषु तरुशिखरेषु च संभूय महाराजागमनमार्गमालोकमानाः, प्रमोदपरवशतया किमपि किमपि संलपन्तः, कमपि कोलाहलमातन्वानाश्च निरीक्षांचक्रिरे॥५१॥
तावदेव खलु,
झगज्झगज्झगज्झगन्निनादमेदुरोदरः
क्वथत्क्वथत्क्वथत्क्वथज्जलोज्ज्वलद्रवोज्ज्वलः।
धगद्धगद्धगद्धगत्प्रदीपदीप्तिदीपितः
पुरः पुरः पुरः पथि प्रवीक्षितो रथः प्रभोः॥५२॥
तदा मुदा जनव्रजस्तदास्य दर्शनेच्छया
पदान्तमुन्नतिं नयन्प्रदाय चक्षुरग्रतः।
लसन्तमीश्वरश्रिया हसन्तमन्तरोष्ठयो-
र्वसन्तमित्रवद्रथे वसन्तमैक्षत प्रभुम्॥५३॥
मन्दमन्दमनुयाति जनौघे
स्पन्दनेऽपि न शशाक शताङ्गः।
अङ्गनाजनविलोचनभृङ्गा
मङ्गलाङ्गमभितः परिवप्रुः॥५४॥
प्रार्थितोऽथ मठकार्यधुरीणै-
र्भूपतिः स शिबिकामधिरुह्य।
मञ्जुलस्मितमनोज्ञमुखश्री-
र्मन्दमन्दमगमत्पुरवीथीम्॥५५॥
दण्डवत्प्रणिपतज्जनगात्रै-
र्मार्गधूलिरखिला परिमृष्टा।
अग्रतः प्रविचलद्गजदानैः
सिच्यते स्म परितः पुरवीथी॥५६॥
हासकान्तिरचितैः सितपुष्पै-
र्नेत्रकान्तिमिषनीलसरोजैः।
ओष्ठपल्लवरुचा च वधूनां
तोरणावलिरभूद्दिवि चित्रा॥५७॥
मञ्जुले ध्वनति मङ्गलवाद्ये
मागधे स्तुवति भूपचरित्रम्।
इन्द्रमन्दिरमिवाप स पार्थः
शारदानवगृहं नृपचन्द्रः॥५८॥
भक्तिभारविनते क्षितिपाले
पादपङ्कजयुगं यतिनेतुः।
तन्मनोज्ञनिटिलस्थलभाग्गो-
रोचनातिलकमुद्रितमासीत्॥५९॥
आगतस्य नृपतेर्महितान्ते-
वासितां विशदयन्स यतीन्द्रः।
मन्दहासरुचिरास्यशशी वा-
ङ्माधुरीभिरतनोन्मधुपर्कम्॥६०॥
भूमिपं तमभिनन्द्य यतीन्द्रे
पृच्छति स्वयमनामयमादौ।
हर्षगद्गदगलः प्रतिवाचं
भक्तिनम्रशिरसैव ददौ सः॥६१॥
यद्भवेत्सदृशमात्मविभूते-
र्यच्च मङ्गलकरं कुलजानाम्।
श्रेयसां यदनुकूलमसौ राट्
तादृशीं समकरोद्गुरुभक्तिम्॥६२॥
आशिषा तमभिनन्द्य यतीन्द्रः
साक्षतानि च फलानि वितीर्य।
मालिकामपि नृपाय जयश्री-
प्रेषितं वरणमाल्यमिवादात्॥६३॥
सत्कृतोऽथ गुरुणा स्वयमेवं
चन्द्रमौलिसदनं नृपचन्द्रः।
संप्रपद्य सकलानुपचारा-
न्रात्रिशेषमनयत्स सुखेन॥६४॥
ततः प्रभातायां शर्वर्याम्, गृहेषु वीथीषु गृहवेदिकासु नदीपुलिनेषु च महाजनक्रियमाणैर्गङ्गादिमहानदीस्तवनैर्गोविन्दनामसंकीर्तनैः हरहरेति तारध्वनिभिश्च कबलितेषु तत्क्षणप्रबुद्धपतगकुलकोलाहलेषु, आघमर्षणीःपावमानीश्च श्रुतीः समुच्चरद्भिः अहमहमिकया स्नास्यद्भिः स्नातैः स्नातोत्तीर्णैः क्वचित्संध्यामुपतिष्ठमानैः क्वचिज्जपद्भिः क्वचिदुपस्थानपरैः क्वचिद्देवतार्चनोत्सुकैः क्वचिद्वेदानावर्तयद्भिः क्वचिद्रामायणादिपारायणपरायणैश्च महाजनैर्निबिडितासु तुङ्गातरङ्गिणीतटभूमिषु, क्वचित्स्नातोत्तीर्णाभिस्तुङ्गामभ्यर्च्य स्वसौभाग्यदेवतामर्चयन्तीभिः सुवासिनीभिरलंकृतेषु सोपानपथेषु, केषुचिदहो! व्यामान्तरमारूढः संधिता संनिधास्यति प्रतिष्ठामुहूर्तःसमागमिष्यति महाराजश्रीकृष्णराजःसंमिलिष्यन्ति महाजनास्तदद्यैव व्रजामो वयमिति त्वरमाणेषु, सर्वेऽपि सत्वरं नरसिंहवनीमुपेत्य प्रतिष्ठालये तत्पुरतःपरितश्च निरन्तरमवस्थाय महोत्सवदिदृक्षया क्षणे क्षणे प्रवर्धितोत्साहाः समवतस्थिरे॥६५॥
तावदेव खलु,
दत्तावलम्बः परिवारमुख्यैः
प्रणम्यमानः परितोऽपि भक्तैः।
मन्दस्मिताञ्चन्मधुराधरश्री-
र्भूमीगुरुर्भूसुरसंघभागात्॥६६॥
तदानीमेव खलु,
दोधूयमानोधुरि चामरौघै-
र्देदीप्यमानो धवलातपत्रैः।
तोष्टूय्यमानः स्तुतिपाठकैः स्वैः
सम्राट् समायाच्छिबिकाधिरूढः॥६७॥
संवाद्यमाने शुभवाद्यजाले
संमोदमाने सकले जनौघे।
भूमीपतिर्भूमिगुरुश्च हर्षा-
द्गुरोः प्रतिष्ठालयमभ्ययाताम्॥६८॥
ततश्च,
ऋत्विग्भिरावर्तितमन्त्रजालै-
र्गुरुर्गुरोरात्मनि भावितस्य।
मूर्तीभवत्कीर्त्तिमिवोपमूर्तिं
सद्यः प्रतिष्ठापयति स्म सोऽयम्॥६९॥
तावद्दुन्दुभिमर्दलानकरवप्रोद्धूततूर्यस्वनाः
स्वर्गङ्गातटपाटनोद्भटपटात्कारैः प्रभूतैर्वृताः।
त्रस्यद्दिक्करिधीङ्कृतैर्घनतराः पातालमप्याविश-
ञ्शेषाहेर्नयनानि साधु बधिरीकर्तुं प्रवृत्ता इव॥७०॥
मधुरस्मितसूचकाधरोष्ठं
प्रशमक्षान्तिकृपाभिसूचिनेत्रम्।
प्रसमीक्ष्य गुरोर्नवावतारं
तमिमं प्रत्यभिजानते स्मलोकाः॥७१॥
प्रसन्नगम्भीरमुखीं तदाकृतिं
विस्मित्य विस्मित्य विलोक्य हर्षिताः।
समाधिमुत्सृज्य समुत्थितोऽभव-
द्गुरुः स एवेति जगुर्जनास्तदा॥७२॥
अथागमोक्तैरमृताभिषेकैः
काषायवस्त्रैः कमनीयपुष्पैः।
धूपैश्च दीपैश्च फलोपहारै-
रभ्यर्च्य सर्वेऽप्यभवन्कृतार्थाः॥७३॥
तदनन्तरमखिलाश्च महाजनाः संनिहितमभिजितं मुहूर्तमालोच्य पुरतः प्रस्थितं जगद्गुरुश्रीचन्द्रशेखरभारतीस्वामिनमतिभक्तिभरेणानुव्रजन्तः, तमनुयायिनं महाराजश्रीकृष्णराजप्रभुं सप्रश्रयं सानुरागं च पुनः पुनरालोकमानाः, कुम्भाभिषेकमहोत्सवावलोकनोत्सुकतया शारदायतनमहंपूर्विकया प्रविश्य तत्र संभृतान्संभारान्निगमविहितविधानानि विचित्राणि नवनवानि भवनशिल्पानि च विलोकयन्तः, प्रणमन्तश्च भाविमहोत्सवमनुपालयाञ्चक्रिरे॥७४॥
ततश्च शारदायतनपुरश्चत्वरप्रकल्पितायां यागशालायां संभूय वैशाखशुक्लसप्तमीप्रभृति पुण्यतीर्थपरिपूरितान्कलशान्प्रतिष्ठाप्य तेष्वावाह्य तत्तद्देवताः प्रतिदिनं परिपूजयन्तो मन्त्रैरभिमन्त्रयन्तः कुण्डचतुष्टयेऽपि जुह्वतः पञ्चदशीमनुमनुजपन्तो वेदोपनिषद्भाष्यभारतभागवतादिपारायणपरायणा हरितवसनधारिणो दीक्षिताः पुरोहिताः सोमयाजिनो भट्टाःश्रौतिनः शास्त्रिणोऽवधानिनो जटावल्लभा घनपाठिनश्चेति ऋत्विजः तान्कलशान्महोत्सवेनशारदाम्बासंनिधिमुपनीय तत्तत्सूक्तपारायणपूर्वकं तैः कलशोदकैर्देवीमभिषिञ्चन्तः कुम्भाभिषेकमहोत्सवं निर्वर्तयामासुः॥७५॥
शिवंकरैर्मञ्जुलवेदघोषैः
प्राध्मातशङ्खैः पटहप्रणादैः।
धणद्धणद्दुन्दुभिधीरनादै-
र्द्यावापृथिव्यौ दलिते इवास्ताम्॥७६॥
कनत्कनत्काञ्चनवस्त्रकान्ता
महार्हरत्नाभरणोज्ज्वलाङ्गी।
देवी बभौ षोडशभिः कलाभिः
संपूर्णगात्रा विधुमण्डलीव॥७७॥
गन्धैश्च पुष्पैरपि धूपदीपैः
संपूज्यमानां सकलोपचारैः।
देवीं प्रणम्य प्रणतार्तिहन्त्रीं
कृतार्थतामाप तदा जनौघः॥७८॥
वाणी चित्ते विलसतु मे नतजनरक्षाकृतिदीक्षा
शृङ्गेर्यांस्वप्रियभवने विहरणलोला विमलाभा।
विद्याकारा विबुधनुता सकलजनार्तिंशमयन्ती
विश्वाराध्या विधिगृहिणी धृतमणिवीणां ध्वनयन्ती॥७९॥
एवं संस्तुत्य देवीं सकलजनततिः साधुवादान्वितेने
श्रीमत्कृष्णेन्द्रभूपः प्रमुदितमनसा धन्यधन्यो बभूव।
अद्वैताचार्यवर्यः स्वमनसि मुमुदे स्वेष्टकार्यप्रसिद्ध्या
सद्यः श्रीशारदाम्बा स्वयमनुजगृहे सर्वलोकान्पुनाना॥८०॥
इति विज्ञापनारूपं रामनामकवेर्वचः।
संमोदयतु चेतांसि साधु वासाधु वा सताम्॥८१॥
इति श्रीमन्महीशूरमहाराजनाल्वडिकृष्णराजास्थानकविरत्नबिरुदाङ्कितेन
मण्डिकल् रामशास्त्रिणा विरचिते कुम्भाभिषेकचम्पूप्रबन्धे
प्रथमस्तरङ्गः॥
<MISSING_FIG href="../../../books_images/U-IMG-1720588443Capture.JPG"/>
द्वितीयस्तरङ्गः॥
<MISSING_FIG href="../../../books_images/U-IMG-1720588616Capture2.JPG"/>
ततः सभायामुपसंहृतायां
सर्वेऽपि भोक्तुं सहसोदतिष्ठन्।
भुक्तौ स्वपाके नियमप्रियेभ्यो
मठात्पदार्था ददिरे यथेष्टम्॥१॥
केचिद्वहन्तः स्वयमेव केचि-
च्छिष्यैश्च भृत्यैः शकटैर्नयन्तः।
स्वस्वेप्सितं संग्रहगेहमध्या-
त्समुद्रतस्तोयमिवालभन्त॥२॥
विशङ्कटैर्वंशकटैः प्रक्लृप्ते
विशालमानेऽङ्गणकायमाने।
पच्यानि पक्तुं परिचारकौघैः
पाकप्रवीणाः परितो ववल्गुः॥३॥
राशीकृताः क्वापि तदा चिरोट्यः
श्रेणीकृताः फेणकमण्डिकाद्याः।
जिलेबिधीवर्धनलड्डुकादि-
भक्ष्याणि लक्षाण्यपि लक्षितानि॥४॥
घृतोदका पर्पटफेनपुञ्जा
शाल्यन्नराशिच्छलसैकता च।
पाकानलौर्वामृतपायसाढ्या
महार्णवोऽभूदिव पाकशाला॥५॥
महार्णवप्राङ्गणभूमिभागे
यथामृतास्वादकृते सुरौघाः।
मृष्टान्नमादातुमितस्ततोऽपि
पङ्क्तीभवन्ति स्म तथा द्विजौघाः॥६॥
मठोपक्लृप्ताःपरिचारकौघाः
परःशतास्ते परिवेषणाय।
प्रादुर्बभूवुः पुरतो द्विजाना-
मुपर्युपर्युत्सुकितास्तदानीम्॥७॥
हाहाकृतैरप्यमितं ददाना
हूहूकृतैरप्यभितो ददानाः।
छन्दानुसारेण मठाधिनेतुः
पुनः पुनश्चाभिमतान्यपृच्छन्॥८॥
ते ते महान्तोऽपि जनाः स्वमध्यं
बद्ध्वाप्रवृत्ताः परिवेषणादौ।
तेषां द्रवीभूय तु पातकानि
स्वेदच्छलात्किं नु बहिर्गतानि॥९॥
चिरोटिकालड्डुकफेणकादि-
भक्ष्याणि भुक्तोज्झितपात्रभाञ्जि।
महासमाराधनसंभ्रमेऽस्मि-
न्संमार्जकौघाः शकटेषु निन्युः॥१०॥
ततो द्वितीयतृतीयपङ्क्त्युपविष्टानामपि परिवेषणमालोक्य तावतापि कालेन स्वस्य परिवेषाभावात्प्रज्वलितात्मनि किंचिदप्यन्तरमप्रदाय स्वकरावरोधिनि पाकशालायवनिकायमाने कायमाने तदन्तरालाप्रविष्टप्रतापतया कोपेनेव सुदूरं चरमगिरिशिखरोपकण्ठमुपेयुषि रविबिम्बे निस्तेजस्कतया प्रतप्ततैलातिपाचितपर्पट इव पाटलायमाने, तृतीयपङ्क्त्युपविष्टब्राह्मणमुक्तावशिष्टलड्डुकैर्भुक्तिभूतल इव तारागणैस्तत्र तत्र सबध्यमाने गगनतले, भुक्तोत्थितब्राह्मणसमाजप्रदीयमानकेसरगन्धप्रवाह इव समुदञ्चिते संध्यारागे, महाजनवितीर्यमाणकुसुममालिकासौरभ-लोभपरिभ्रमद्भ्रमरकदम्बेष्विवाङ्कुरितेषु तिमिरेषु, रात्रौ निद्रास्यतामतिथीनां शीतबाधानि वारणार्थमानीयमानेषु प्रच्छदनीलकम्बलेष्विव समन्ततो मन्दमन्दप्रचारेषु चान्धकारेषु, वीथीषु वीथीष्वारक्षकराजपुरुषेष्विव पङ्क्तीभूय संनद्धेषु विद्युद्दीपस्तम्भेषु निरालम्बनभोमार्गप्रयाणप्रच्युतेषु तदन्तरमवलोक्य तिमिरैः परिवृत्य स्प्रष्टुमशक्यतया एकैकमपि कुक्कुटाण्डप्रमाणेषु वज्रपञ्जरेषु निपात्य समुद्बध्य दूरतः परिवार्यमाणतया पितरौ नः कदा समागच्छेताम् कदा वा तदङ्कमारोहेमेति ऊर्ध्वमुखमालोकमानेषु प्रभाकरप्रभागर्भशिशुष्विव उन्नीतकाचसंपुटान्तरुज्ज्वलितेषु विद्युद्दीपेषु विराजमानेषु, संभूय सकलजनेषु पश्यत पश्यत शारदाम्बाया रथोत्सवः संभविष्यति महाराजश्रीकृष्णराजसार्वभौमेण सह महीगुरुवर्यः समायास्यति तद्दर्शनेन सफलीकरिष्यामश्चक्षूंषि समागच्छत व्रजतोत्तिष्ठतेति त्वरमाणेषु, वाद्यमानेषु वाद्येषु, समुज्जृम्भमाणे महति कोलाहले॥११॥
कुर्वाणा जननेत्रयोः प्रतिमुहुः कर्पूरसंसेचनं
तन्वाना हृदयान्तरे नवसुधापानोत्सवं प्राणिनाम्।
नानाभावविभावनामयमहो विस्मारयन्ती भवं
दिव्यं स्यन्दनमेत्य पङ्कजभवप्राणप्रिया प्रस्थिता॥१२॥
सा वाग्देवी सुजनविततेरैहिकामुष्मिकाख्यं
श्रेयो दातुं प्रियसुतयुगं प्रेषयन्तीव पूर्वम्।
श्रीमत्कृष्णक्षितिपयतिपौ तौ पुरस्कृत्य वीथ्यां
मन्दं मन्दं प्रचलति रथे मङ्गलाङ्गी व्यचालीत्॥१३॥
तदा मुदा मुम्मडिकृष्णराज-
पौत्रः स चामक्षितिपालपुत्रः।
सुवर्णक्लृप्तेचतुरन्तयाने
व्यशोभतः स्वर्णसवर्णमूर्तिः॥१४॥
अनेकदृष्टिप्रकरैकलक्ष्यः
समेत्य भूपश्चतुरन्तयानम्।
महोन्नतं श्रेय इवाप्तुकामः
समुन्नतं स्थानमिवाप पूर्वम्॥१५॥
राजोष्णीषे नयनविषये स्वर्णपट्टाभिरामे
मूर्ध्ना सोऽयं न वहतु भुवं केवलेनेति रागात्।
वीते भारे वलयिततनुं शेषमानीय भूमे-
र्भर्तुः शीर्षे वसनवलयं तं चकारेव देवी॥१६॥
प्रत्नरत्नरचितं क्षितिभर्तुः
कर्णकुण्डलयुगं प्रचकाशे।
कर्णयोः पिशुनवाक्यनिरोधे
द्वारपालयुगलीव नियुक्ता॥१७॥
हारमौक्तिकगणा हृदि राज्ञः
शारदामभि नमस्कृतिकाले।
प्रस्नुतस्तनमुखात्प्रविकीर्णाः
स्तन्यविन्दव इवाबभुरस्याः॥१८॥
पाणिर्विभोः काञ्चनकङ्कणाढ्यः
सत्पात्रदानं सततं विधातुम्।
सत्येन पातुं सकलांश्च लोका-
न्बद्धावलग्नःकिल संबभासे॥१९॥
अहीश्वरान्महीभरं महीश्वर त्वमग्रहीः
पुनर्न पातय प्रभो कदापि तस्य मूर्धनि।
इतीव पन्नगेश्वरी पदं गतेव याचितुं
सुवर्णवेष्टनी तदा महीभृतः पदे बभौ॥२०॥
ततश्च,
श्रीचन्द्रशेखरगुरुः श्रिततोषणार्थ-
मारुह्य रूप्यशिबिकां रमणीयरूपाम्।
मूर्तीभवन्तमनुरागमिवेन्दुमौलेः
काषायवस्त्रमनघं परिवृत्य रेजे॥२१॥
भूगुरोः शिरसिरत्नकिरीटं
भक्तलोकहृदये तनुते स्म।
अन्तरुज्ज्वलति तस्य तपोग्नौ
तत्स्फुलिङ्गनिकरोद्गमशङ्काम्॥२२॥
पौरमुख्यकलितानुपचारा-
न्प्रेक्षयन्यतिपतिः पुरवीथ्याम्।
भक्तिनम्रजनतामनुगृह्ण-
न्मुक्तिदाननिपुणः प्रययौ सः॥२३॥
दूरे विलोक्यापि यतीश्वरं तं
भक्त्या शिरःशेखरिताञ्जलिः सन्।
ननाम लोकः किमु तत्क्षणे स्वं
त्यक्त्वोद्गतैः स्वैर्दुरितैर्विभुग्नः॥२४॥
भक्तिभावभरिते नृपनेत्रे
निश्चलं क्षितिगुरौ व्यतिषक्ते।
तस्य सर्वनृपपूज्यपदत्वे
मूलकारणमिवेक्षितुकामे॥२५॥
मन्दमन्दमथ सर्वजनौघः
स्पन्दते स्म पुरतः पुरवीथ्याम्।
मन्दिरेषु मिलिताः पुरकन्याः
संददुः कुसुमलाजसुवृष्टीः॥२६॥
मध्ये देवी धुरि नरपतिस्तत्पुरस्ताद्यतीन्द्र-
स्तस्याप्यग्रेसकलजनतेत्युत्सवोऽयं प्रवृत्तः।
जन्मन्येकं फलमुपनतं पश्यतेति प्रमोदा-
द्भूयो लोके निगदति पुरे कोऽपि कोलाहलोऽभूत्॥२७॥
दिव्यैर्दीपैर्दिवसति सदा रात्रिभागेऽपि रम्ये
पार्श्वोन्नीतेबिरुदनिचये वादिते वाद्यजाले।
दर्शं दर्शं नृपमुखविधुं वर्धितोत्साहवार्धि-
र्वाचातीतं प्रमदमभजत्सर्वलोकोऽपि पुण्यात्॥२८॥
निशीथे संप्राप्ते तदनु विरमत्युत्सवभरे
निजावासान्प्राप्ता निखिलजनतापि प्रमुदिता।
स्मरन्तः स्वप्नेऽपि स्वगुरुनृपदेव्युत्सवविधां
व्यतीयुस्ते ते तां रजनिमवशिष्टां क्षणमिव॥२९॥
अथ प्रभाते यदुवंशकेतु-
र्निर्वर्त्य राजा नियमाभिषेकम्।
संध्यादिकर्माणि निषेव्य भक्त्या
गत्वाथ चक्रे गुरुपादपूजाम्॥३०॥
प्राज्यैश्च भोज्यैः परिपूरिताज्यैः
संतर्प्य विप्रान्सह दक्षिणाभिः।
गुरोश्चरित्राण्यवकर्णयन्स-
न्दिनं स तत्सार्थकयांचकार॥३१॥
अथ सायमुत्सुकितमानसैर्जनै-
रधितुङ्गमत्र निशि शारदाम्बया।
क्रियते विहारविधिरात्तनौकये-
त्यनुकूलदेशमिलितैरभूयत॥३२॥
श्रीमान्कृष्णक्षितिपतिमौलि-
र्भक्त्या देवीभवनमुपेत्य।
भव्यं स्वर्णाम्बरमपि हारं
दत्त्वा देव्यै कृतनतिरासीत्॥३३॥
ततः खलु,
भूभृद्भिः शिरसि निवेश्य सेविताभ्यां
पादाभ्यां मणिमयपादुके दधानः।
श्रीकृष्णक्षितिपतिदत्तपाणिपद्मः
तुङ्गायास्तटभुवमाप संयमीन्द्रः॥३४॥
तदनु महिते तुङ्गातीरे समुन्नतमासनं
क्षितिपतिकृते दत्त्वा सोऽयं स्वयं समुपाविशत्।
सकलजनतास्तावत्सद्यस्तदीक्षणकौतुका-
दहमहमिकाभाजः कामप्यकार्षुरतित्वराम्॥३५॥
ततस्तत्र तत्र प्रदीप्तेषु दीपे-
ष्वनेकेषु वाद्येष्वलं वादितेषु।
सुधर्मासधर्मा जले कापि नौका
व्यचालीद्व्यहार्षीद्यया शारदाम्बा॥३६॥
उत्तराद्दक्षिणं दक्षिणादुत्तरं
संचरन्ती मुहुः सर्वतोऽप्यम्भसि।
या सुधासागरे रत्ननावाचर-
त्सा पुरावासनावासितेवाबभौ॥३७॥
नद्याप्तलीलमनवद्याभशृङ्गगिरिवेद्यात्मदिव्यविभवं
पद्या समस्तविधविद्यागमाय भरणोद्यानुभावभरितम्।
गद्यावलीकलितपद्यानि यस्य तनुराद्या भवेत्त्रिभुवने
तद्याचितानि मम हृद्यात्मकं दिशतु विद्याधिदैवमपरम्॥३८॥
इति मुहुरभिवादयन्जनौघः
सरसिजसंभवसद्मपद्महंसीम्।
तटभुवि परितः प्रदीपितासु
व्यतनुत दृष्टिमथाग्निवर्तिकासु॥३९॥
विगलदनलसाराःकेचिदाकाशबाणाः
सरभसममराणां पद्धतिं लङ्घयन्तः।
सुर सुर सुर कृष्णक्ष्मापतेः कीर्त्तिलक्ष्मीं
पठ पठ पठ साध्वित्यानमन्ति ब्रुवन्तः॥४०॥
तारामण्डलनामका वयमतस्तेजस्विनां मण्डला-
त्तेजोऽस्मासु दृढं दृढं दृढमिति प्रीताः प्लवन्ते नभः।
तारामण्डलमेत्य तत्र बहुधा रूपं प्रकाश्योज्ज्वलं
को वासीह पटो पटो पटविति प्रोच्चार्य नेमुः शनैः॥४१॥
ततश्च क्वचिच्चक्रबाणविशेषस्तु,
रौक्ष्यक्षीबतयायं
विनदन्क्रोधाद्विषं प्रति भ्रमति।
गर गर गर गर दूरे
चर चर चर चर चरेति वक्तीव॥४२॥
यस्मादुत्सवकाले-
ष्वतिशयितापैर्विभाति संदृश्यः।
तस्मादेष पुरस्ता-
न्महतापो नाम तेजसो भेदः॥४३॥
ततस्तत्र तत्र तेषु तेषु केषुचिदाम्रमात्रेषु नानावर्णेषु तेजोवर्तिभेदेषूद्गतेषु,
तादृशोत्सवमुदीक्ष्य तु तुङ्गा
सप्रपद्य हृदये परितोषम्।
नीलपीतहरितैरथ रक्तैः
कन्दुकैर्विहरतीव मनोज्ञैः॥४४॥
ततश्चकेचिद्घौणवाद्यविशेषाः।
सुधां सुधां सुधांशुजां यदीयवाग्यशः श्रियः
सभां सभां सभां सतामधीनयन्ति चानिशम्।
शुभं शुभं शुभाकराय भूभुजे भवेद्भवे-
त्प्रभुं प्रभुं प्रभुप्रिया इति ब्रुवन्त्यहो इमे॥४५॥
इति तत्र महोत्सवक्रमा-
न्सकलांस्ताननुभूय संमदात्।
स्वगृहाभिमुखास्ततो जना
निरगच्छन्सह शारदाम्बया॥४६॥
अन्येद्युरखिलजनानन्ददायिनि भगवति राजीवबान्धवे, सत्वरमात्मानं प्रत्युद्गच्छद्भिश्चक्रवाकमिथुनैरर्धोदितं निशामहोत्सववृत्तान्तमाकर्ण्य समुत्सुकितमानसः सन्नहमेक एव वञ्चितोऽस्मि दैवेन तमदर्शयता मम। भवत्वनुक्रमेण ज्ञास्यामि। अद्य प्रबोधितानपि रात्रिनिद्रापरवशान्पद्मबन्धून्पृष्ट्वा अलं प्रतिपक्षानपि रात्रिवृत्तसाक्षिणोऽन्धकारान्मदनभिमुखान्प्रष्टुमनुचितम्, अतः कुत्रदिशि कियद्दूरं गतो वा स महोत्सव इति स्वयमेवालोकितुमिवोदयगिरिशिखरमारूढे सति, महाराजश्रीकृष्णराजसार्वभौमोऽपि कल्योचितसंध्यादिकर्म निर्वर्त्यगुरुवरमद्वैताचार्यं प्रणम्य तेन सहकिमपि संलपंस्तदाशिषः समासाद्य समन्दस्मितेन गुरुणा कथंचिदनुज्ञातप्रस्थानःस्वाप्तसचिवेन विद्याविनयविवेकविक्रमालंकृतेन मिरजन्यमहाशयेन स्वाप्तबन्धुना शरधिगम्भीरेण गोपालकृष्णराजेन च सह मोटार्नामकमहारथमधिरुह्य महीशूरमहाराजधानीं प्रति प्रातिष्ठत॥४७॥
ततश्च मोटार्नामकमहारथोऽयं यावन्महीशूरपुरीमुपेयात्तावदेवाहमपि अनेककोटिगुणितायाममध्वानमत्येमीति संकल्प्येव झटित्यपरगिरिशिखरोपकण्ठमधिगच्छति भगवति भास्करे, अद्वैतविद्यानिधिर्गुरुवरोऽयं समागतान्सभासदः सभाजयितुकामः श्रीशारदासंनिधौ विद्वत्सभां विधाय समर्यादमाहूतैस्तैस्तैर्विद्वद्भिर्वैदिकैर्लौकिकैश्च समलंकृतायां सभायामग्रासनासीनः स्वयमवतस्थे॥४८॥
ते ते महान्तो गुरुराट्समीप-
मागत्य मोदादभितः परीयुः।
तेषां समाजे सनकादिमध्ये
ब्रह्मेव स ब्रह्मावदालुलोके॥४९॥
आदौ प्रवृत्तो निगमे विचार-
स्ततस्तु मीमांसकतन्त्रसारः।
ततस्ततःकर्कशतर्कवादः
सर्वत्र वेदान्तपथेऽनुवादः॥५०॥
ततोऽपि वैयाकरणीयवादः-
स्ततस्त्वलंकारविदां विवादः।
मध्ये च मध्ये कविताविचारः
सर्वत्र वेदान्तपथे प्रचारः॥५१॥
तदनु गुरुवरेण्यस्तानिमान्सभ्यलोका-
न्स्मितलवपरिपूतापाङ्गभङ्गीतरङ्गैः।
सपदि समनुगृह्णन्संगतार्थैः समेताः
मधुरमधुरमेवं मञ्जुवाणीरभाणीत्॥५२॥
पूर्वं तावद्भुवनमहिताः शंकराचार्यवर्याः
कष्ठैर्यत्नैरपि परकृते शास्त्ररक्षां वितेनुः।
आस्थानेऽस्मिन्वयमपि तथा युक्तमालोचयामः
सर्वे यत्नं यदि विदधते शास्त्रवृद्धिस्तदा स्यात्॥५३॥
इत्यादीनि मधुरमधुराणि परमपावनानि श्लाघ्योदर्काण्यत्यावश्यकानि युक्तियुक्तानि कालोचितानि च वचनान्युपदिश्य, सकलाञ्जनानानन्दयति भगवति भुवनगुरौ, मठीयसर्वाधिकारिणि प्रथितयशसि श्रीकण्ठशास्त्रिवर्ये, सभावृत्तान्तमालम्ब्य श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिनामपदानप्रपञ्च-नपावनीकृतैर्वचोभिःशारदायतननिर्माणनियमनं तन्निर्मातृकजन-प्रदर्शितभक्तिभारांस्तत्तादृशपरमगुरूणां निरन्तराराधनार्थं द्रमिडमलयालादिदेशादागतरामचन्द्रार्य-प्रभृतिमहाजनसभाविनिर्णीतसहायद्रव्यपट्टिकां च विज्ञाप्यानितरसाधारणवाग्धोरणींप्रकाशयमाने, तावन्महोत्सवपूर्वकमानीयमानानि श्रीमद्बरोडागायकवाडिश्रीसयाजिमहाराजेन सभक्तिप्रकर्षं प्रेषितानि महार्होपायनानि श्रीमज्जगद्गुरुपादयोः समर्पयति तदास्थानपण्डिते अमृतरामशास्त्रिवर्ये, प्रपन्नप्रसादोन्मुखः श्रीमानवनिगुरुः, श्रीमद्बरोडामहाराजदंपत्योर्मङ्गलाशासनपूर्वकममूल्यवसना-भरणादिसंमाननान्यनुप्रेष्यमहापण्डितानां च तुष्टये महामहोपाध्यायौ हरिहरशास्त्रिसुब्रह्मण्यशास्त्रिवर्यौ श्रुतिशिरोभूषणबिरुदाभ्याम्, वैद्यनाथशास्त्रिवर्यं मीमांसाकण्ठीरवनामबिरुदेन, विरूपाक्षशास्त्रिवर्यंन्यायपञ्चाननबिरुदेन च, महार्हराङ्कवयुगलसौवर्णकटकयुगलप्रदानपूर्वकं संमान्य श्रीशारदायतननिर्माणविधानप्रदर्शितातिभक्तिं रामस्वामिश्रेष्ठिनामकमहाशयं भक्तरत्नबिरुदेन राङ्कवप्रदानेन च समनुगृह्य सभागतानां महापण्डितानामन्येषामपि तत्तन्महाशयानां समितिं पुनः पुनरादीयमानामितमहार्हराङ्कववसनाभरणादिप्रदानेन प्रहर्षयन्, स्वीयां महावदान्यतां प्रकाशयितुमारेभे॥५४॥
पापठ्यमाने सति पण्डितानां
पर्यायलब्धे प्रतिनामधेये।
एकैकमाहूय स दानवीरः
प्रादाद्धनान्युत्तमराङ्कवाणि॥५५॥
शतं शतं राङ्कवरूप्यराशिं
शतं शतं भूषणरत्नराशिम्।
क्षणाद्ददाने यतिवर्यहस्ते
ततोऽधिकं द्रागनयन्मठीयाः॥५६॥
दाता सहस्रस्य तथायुतस्य
लक्षस्य संपादयिताधिकस्य।
दातृग्रहीतृप्रकरैकवीरो
जीयादसौ वैदिकसार्वभौमः॥५७॥
ज्ञाता चदाता च यतीश्वरोऽयं
माता च विद्वज्जनतारतम्यम्।
कलौ युगेऽसौ खलु दानकर्ण
इति प्रजास्ताः प्रशशंसुरेनम्॥५८॥
इति स्तुवन्तः प्रमोदाश्रुपरिप्लुताःसर्वेऽपि महाजनाःप्रणम्य प्रत्यक्षपरमेश्वरमिवाद्वैताचार्यं स्वानि स्वानि स्थानानि प्रपेदिरे॥५९॥
ततो व्यतीते सति पञ्चषाहे
काले कलेःकल्मषदर्पहारी।
कर्मन्दिराजः स पुनः प्रदातुं
भूयोऽपि विद्वत्समितिंवितेने॥६०॥
तत्रागताः केऽपि बुधाः प्रसिद्धाः
केचिन्महान्तो धनिनश्चलोकाः।
निर्व्याजसेवानिरताश्च ते ते
यतीन्द्रमेनं परिवार्य तस्थुः॥६१॥
कश्चित्समुत्थाय महाशयस्तं
गुरुं प्रशंसन्महितैर्वचोभिः।
आचन्द्रतारं गुरुराजमौलेः
संप्रार्थयामास शरीरसौख्यम्॥६२॥
श्रीकृष्णभूमीश्वरसंनिधान-
धर्माधिकारे प्रथते बुधो यः।
स्वास्थानविद्वत्प्रवरं तमेनं
क्षोणीगुरुर्मान्यतमं शशंस॥६३॥
मुम्मडिकृष्णक्षितिप-
त्यास्थान्यां धिषणवत्सुधर्मायाम्।
कुणिगल्रामाशास्त्री-
त्यभिरूपोऽभूत्कणाद इव नूत्नः॥६४॥
तस्य सुतस्तत्सदृशो
लक्ष्मीनरसिंहशास्त्रिवर्योऽभूत्।
कुणिगल्रामाशास्त्री
तत्पुत्रो जयति सर्वशास्त्रज्ञः॥६५॥
सुवर्णराजत्कटके प्रदाय
सद्राङ्कवे द्वे च समर्प्यहर्षात्।
विद्वच्छिरोभूषणनामधेय-
मन्वर्थमस्मै प्रददौ यतीन्द्रः॥६६॥
श्रीकृष्णराट् संस्कृतपाठशाला-
विद्वांसमेकं घनपाठिनं च।
संमानयन्राङ्कवकङ्कणाभ्यां
विद्याभिमानं प्रकटीचकार॥६७॥
कुम्भाभिषेकोत्सवकार्यभारं
ये ये यथाशक्त्यवहन्महान्तः।
महार्हवस्त्राभरणप्रदानै-
स्तांस्तान्यतीन्द्रः समतोषयद्द्राक्॥६८॥
इति सकलजनानामीप्सितार्थान्ददानो
विधिवदभिमतं निर्वर्त्य कुम्भाभिषेकम्।
भुवनगुरुरथासौ बाह्यतन्त्राणि धून्व-
न्निजतपसि विशुद्धे न्यक्षिपच्चित्तवृत्तिम्॥६९॥
शिष्याणां परितोषणाय सुचिरं जीयाज्जगद्देशिकः
श्रीमत्कृष्णमहीपतिर्विजयतां साम्राज्यसिंहासने।
आस्थानीकविरत्नरामकविना भक्त्या कृतेयं कृतिः
श्रीमद्भूगुरुचन्द्रशेखरगुरोर्बोभूयतां प्रीतये॥७०॥
रथीतरसगोत्रस्य
रामनामकवेर्वचः।
संमोदयतुचेतांसि
साधु वासाधु वा सताम्॥७१॥
ओं तत्सत्॥
<MISSING_FIG href="../../../books_images/U-IMG-1720340670Screenshot2024-07-07135405.png"/>
]