[[तन्त्राख्यायिका Source: EB]]
[
तन्त्राख्यायिक
अस्ति कश्चिद्वणिजकः ।
नगरसमीपे तेन देवतायतनं क्रियते ।
तत्र ये कर्मकारास्स्थपत्यादयः ! मध्याह्नवेलायाम्
आहारनिमित्तं भोजनमण्डपं अनुप्रविष्टाः ।
अकस्माच्चानुषङ्गिकं देवगृहे वानरयूथं आगतं ।
अथ तत्रैकस्य शिल्पिनोऽर्धस्फोटितकाष्ठस्तम्भो
अर्जुनमयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावस्तब्धो
अवतिष्ठते ।
तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य स्वेच्छया
तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुं आरब्धः ।
एकस्तु तत्रासन्नविनाशश्चापलादुपविश्य स्तम्भे यन्त्रचारम्
उद्दिश्येदं आह ।
केनायं अस्थाने कीलको निखातः ।
इति पाणिभ्यां एव सङ्गृह्योत्पाटितुं आरब्धः ।
स्थानाच्चलिते कीले यद्वृत्तं ! तदनाख्येयं ! एवं एव भवता
ज्ञातं इति ।
[१,२ Sछकलुन्द्ठ्र्ॐमेल्]
अस्ति कश्चिद्ग्ॐआयुराहारविच्छेदात्क्षुत्क्षामकण्ठ इतश्च
इतः परिभ्रमन्नुभयसैनस्यायोधनभूमिं अपश्यत् ।
तत्र च महान्तं शब्दं अशृणोत् ।
तद्भयसंक्षुभितहृदयः किं इदं ! विनष्टोऽस्मि ! कस्यायं
शब्दः ! क्व वा कीदृशो वैष शब्द इति ! चिन्तयता दृष्टा
गिरिशिखराकारा भेरी ।
तां च दृष्ट्वाचिन्तयत् ।
किं अयं शब्दोऽस्यास्स्वाभाविकः ! उत परप्रेरित इति ।
अथ सा यदा वायुप्रेरितैर्वृक्षाग्रैस्स्पृश्यते ! तदा शब्दं करोति !
अन्यदा न ! इति तूष्णीं आस्ते ।
स तु तस्यास्सारासारतां ज्ञातुं संनिकर्षं उपश्लिष्टः ।
स्वयं च कौतुकादुभयोर्मुखयोरताडयत्! अचिन्तयच्च ।
गम्यं चैतद्भक्स्यं च मम ।
इत्यवधार्यैकदंष्ट्रया क्षुधाविष्टः पाटितवान् ।
परुषत्वाच्च चर्मणः कथमपि न दंष्ट्राभङ्गं अवाप्तवान् ।
प्रतिबद्धाश्च पुनरप्यचिन्तयत् ।
नूनं अस्या अन्तर्भक्ष्यं भविष्यतीति ।
इत्यध्यवस्य भेर्या मुखं विदार्यान्तः प्रविष्टः ।
तस्मिन्नपि न किञ्चिदासादितवान् ।
प्रतिनिवर्तितुं अशक्तोऽन्तर्लीनार्धकायो विहस्याब्रवीत् ।
पूर्वं एव मया ज्ञातं इति ।
[१,३ ]
अस्ति कस्मिंश्चित्प्रदेशे परिव्राड्देवशर्मा नाम ।
तस्यानेकसाधूपपादितसूक्ष्मवासोविशेषोपचयान्महत्य्-
अर्थमात्रा संवृत्ता ।
स च न कस्यचिदपि विश्वासं याति ।
अथ कदाचिदाषाढभूतिर्नाम परवित्तापहृत्कथं इयम्
अर्थमात्रास्य मया परिहर्तव्येति वितर्क्यावलगनरूपेण
उपगम्य तत्कालेन च विश्वासं अनयत् ।
अथ कदाचिदसौ परिव्राजकस्तीर्थयात्राप्रसङ्गे तेन
आषाढभूतिना सह गन्तुं आरब्धः ।
तत्र च कस्मिंश्चिद्वनोद्देशे नदीतीरे मात्रान्तिक
आषाढभूतिं अवस्थाप्यैकान्तं उदकग्रहणार्थं गतः ।
अपश्यच्च महन्मेषयुद्धं ।
अनवरतयुद्धशक्तिसम्पन्नयोश्च तयोश्
शृङ्गपञ्जरान्तरोद्भूतसृग्बहु भूमौ निपतितं दृष्ट्वा
आशाप्रतिबद्धचित्तः पिशितलोभतया ग्ॐआयुस्तज्जिघृक्षुस्
सम्पीडितोद्घातात्सद्यः पञ्चत्वं अगमत् ।
अथ परिव्राड्विस्मयाविष्टोऽब्रवीत् ।
जम्बुको हुडुयुद्धेनेति ।
कृतशौचश्चागतस्तं उद्देशं आषाढभूमिं अपि
गृहीतार्थमात्रासारं अपक्रान्तं नापश्यद्देवशर्मा ।
केवलं त्व्
अपविद्धत्रिदण्डकाष्ठकुण्डिकापरिस्रावणकूर्चकाद्य्
अपश्यत्! अचिन्तयच्च ।
क्वासावाषाढभूतिः ।
नूनं अहं तेन मुषितः ।
इत्युक्तवान् ।
वयं चाषाढभूतिनेति ।
अथासौ कपालशकलग्रन्थिकावशेषः कञ्चिद्ग्रामं अस्तं
गच्छति रवौ प्रविष्टः ।
प्रविशन्नेकान्तवासिनं तन्त्रवायं अपश्यत्! आवासकं च
प्रार्थितवान् ।
तेनापि तस्यात्मीयगृहैकदेशे स्थानं निर्दिश्य भार्या
अभिहिता ।
यावदहं नगरं गत्वा सुहृत्समेतो मधुपानं क्र्त्वा
आगच्छामि ! तावदप्रमत्तया गृहे त्वया भाव्यं ।
इत्यादिश्य गतः ।
अथ तस्य भार्या पुंश्चली दूतिकासञ्चोदिता शरीरसंस्कारं कृत्वा
परिचितसकाशं गन्तुं आरब्धा ।
अभिमुखश्चास्या भर्ता मदविलोपासमाप्ताक्षरवचनः
परिस्खलितगतिरवस्रस्तवासास्समायातः ।
तं च दृष्ट्वा प्रत्युत्पन्नमतिः कौशलादाकल्पं अपनीय
पूर्वप्रकृतं एव वेषं आस्थाय पादशौचशयनाद्यारम्भम्
अकरोत् ।
कौलिकस्तु गृहं प्रविश्य निद्रावशं अगमत् ।
सुप्तप्रतिबुद्धश्चासौ तां आक्रोष्टुं आरब्धः ।
पुंश्चलि ! त्वद्गतं अपचारं सुहृदो मे वर्णयन्ति ।
भवतु ।
पुष्टं निग्रहं करिष्यामीति ।
असावपि निर्मर्यादा प्रतिवचनं दातुं आरब्धा ।
पुनरपि चासौ प्रतिबुद्धस्तां मध्यस्तूणायां रज्ज्वा
सुप्रतिबद्धां कृत्वा प्रसुप्तः ।
दूतिकैतां पुनर्गमनाय प्रचोदितवती ।
सा तूत्पन्नप्रतिभा दूतिकां आत्मीयदर्शनसंविधानेन
बद्ध्वा कामुकसकाशं ययौ ।
असावपि प्रतिबुद्धस्तथैव तां आक्रोष्टुं आरब्धः ।
दूतिका तु शङ्कितहृदयानुचितवाक्योदाहरणभीता न किञ्चिद्
उक्तवती ।
तन्त्रवायस्तु शाठ्यादियं न किञ्चिन्ममोत्तरं प्रयच्छति
इत्युत्थाय तस्यास्तीक्ष्णशस्त्रेण नासिकां छित्त्वाब्रवीत् ।
तिष्ठैवंलक्षणा ।
कस्त्वां अधुना वार्त्तां पृच्छति ।
इत्युक्त्वा निद्रावशं उपागमत् ।
आगता च सा तन्त्रवायी दूतिकां अपृच्छत् ।
का ते वार्त्ता ।
किं अयं प्रतिबुद्धोऽभिहितवान् ।
कथय कथयेति ।
दूतिका तु कृतनिग्रहा नासिकां दर्शयन्ती सामर्षं आह ।
शिवास्ते सर्वा वार्त्ताः ।
मुञ्च ।
गच्छामीति ।
तथा त्वनुष्ठिते नासिकां आदायापक्रान्ता ।
तन्त्रवाय्य्- अप्य्कृतकबद्धं आत्मानं तथैवाकरोत् ।
कौलिकस्तु यथापूर्वं एव प्रतिबुद्धस्तां आक्रोशत् ।
असावपि दुष्टा बहु धृष्टरं आह ।
धिग्घतोऽसि ।
को मां निरागसं विरूपयितुं समर्थः ।
शृण्वन्तु मे लोकपालाः ।
यथाहं क्ॐआरं भर्तारं मुक्त्वा नान्यं परपुरुषं
मनसापि वेद्मि ! तथा ममानेन सत्येनाव्यङ्ग्यं मुखं अस्त्व्
इति ।
अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्काम्
अव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य
हृष्टमना बन्धवादवमुच्य पीडितं च परिष्वज्य शय्याम्
आरोपितवान् ।
परिव्राजकस्त्वादित एवारभ्य यथावृत्तं अर्थं अभिज्ञातवान् ।
दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् ।
किं अधुना कर्तव्यं इति ।
अथ तस्या भर्ता नापितो राजकुलात्प्रत्यूषस्यागत्य तां भार्यां आह
।
समर्पय ! भद्रे ! क्षुरभाण्डं ।
राजकुले कर्म कर्तव्यं इति ।
सा च दुष्टाभ्यन्तरस्थैव क्षुरं एव प्राहिणोत् ।
स च समस्तक्षुरभाण्डासमर्पणात्क्रोधाविष्टचित्तो
नापितस्तं एव तस्याः क्षुरं प्रतीपं प्राहिणोत् ।
अथासावार्तरवं उच्छैः कृत्वा पाणिना नासापुटं प्रमृज्य
असृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् ।
परित्रायध्वं ! परित्रायध्वं ।
अनेनाहं अदृष्टदोषा विरूपितेति ।
तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा
विरूपां कीलपार्ष्णिलगुडैरतीव हतं पश्चाद्बाहुबन्धश्
च तया सह धर्मस्थानं उपनीतो नापितः ।
पृच्छ्यमानश्चाधिकृतैः किं इदं महद्विशसनं स्वदारेषु
त्वया कृतं इति यदा बहुश उच्यमानो नोत्तरं प्रयच्छति ! तदा
धर्माधिकृताश्शूलेऽवतंस्यतां इत्याज्ञापितवन्तः ।
निष्पापं च परिव्राट्च्छूलस्थानं नीयमानं नापितं दृष्ट्वा
सत्त्वानुकम्पया चोपलब्धतत्त्वार्थोऽधिकरणं उपगम्य
धर्मस्थानाधिकृतानब्रवीत् ।
नार्हथैनं अदोषकर्तारं नापितं शूले समारोपयितुं ।
यत्कारणं ! इदं आश्चर्यत्रयं श्रूयतां ।
[ जम्बुको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका तन्त्रवायेन त्रयोऽनर्थास्स्वयं कृतः । ।५५ । । ]
समुपलब्धतत्त्वार्थैश्चाधिकृतैः परित्रायितो नापित इति ।
[१,४]
अस्ति कस्मिंश्चित्प्रदेशे वृक्षः ! तस्मिंश्च वायसौ दम्पती
प्रतिवसतस्स्म ।
तयोस्तु प्रसवकाले तद्वृक्षविवरानुसार्य्- असञ्जातक्रियाण्य्
एवापत्यानि कृष्णसर्पो भक्षयति स्म ।
अथ तेनापकारनिर्वेदनादन्यवृक्षमूलवासिनं
प्रियसुहृदं ग्ॐआयुं अपृच्छ्यत ! यथा ।
भद्र ! किं एवं गते प्राप्तकालं भवान्मन्यते ।
बालघातित्वाच्च वृद्धयोरभाव एवावयोः ।
ग्ॐआयुः ।
[ भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्बकः पश्चान्मृतः कर्कटविग्रहात् । ।६० । । ]
वायसः ।
कथं चैतत् ।
ग्ॐआयुः ।
[१,५]
अस्ति ! कश्चिद्बको वृद्धभावात्सुखोपायां वृत्तिम्
आकाङ्क्षमाणः कस्मिंश्चित्सरःप्रदेशेऽधृतिपरीतं इव
आत्मनो रूपं प्रदर्शयन्नवस्थितः ।
तत्रानेकमत्स्यपरिवृत एकः कुलीरकोऽब्रवीत् ।
माम ! किं अद्याहारकृत्यं नानुष्ठीयते यथा पुरेति ।
बकः ।
अहं मत्स्यादः ।
तेनोपाधिना विना युष्मान्ब्रवीमि ।
मया युष्मानासाद्य पूर्वं प्राणरक्षा कृता ।
सम्प्राप्तो ममाद्य वृत्तिविच्छेदः ।
अतोऽहं विमनाः ।
कुलीरकः ।
माम ! केन कारणेन ।
बकः ।
अद्य मत्स्यबन्धैरेतत्सरस्समीपेनातिक्रामद्भिरभिहितं ।
बहुमत्स्योऽयं ह्रदः ।
अस्मिञ्जालं प्रक्षिपामः ।
नगरसमिपेऽन्ये ह्रदा अनासादिताः ।
तानासाद्य पुनरागमिष्याम इति कथयां आसुः ।
तत्! भद्र ! विनष्टा नाम यूयं ।
अहं अपि वृत्तिच्छेदादुत्सन्न एव ।
ततस्तैर्विज्ञप्तः ! यथा ।
यतैवापायश्श्रूयते ! तत एवोपायोऽपि लभ्यते ।
तदर्हस्यस्मान्परित्रातुं ।
बकः ।
अण्डजोऽहं असमर्थो मानुषविरोधे ।
किन्त्वस्माद्ध्रदादन्यं जलाशयं युष्मान्सङ्क्रामयिष्यामि
।
ततस्तैर्विश्वासं उपगतैस्तात ! भ्रातर्! मातुल ! मातुल ! मां नय
! मां नय ! प्रथमतरं नयस्वेत्यभिहितं ।
असावपि दुष्टमतिः क्रमेण नीत्वा कौशलादजस्रं तान्भक्षयन्
परं परितोषं उपागतः ।
कुलीरकस्तु मृत्युभयोद्विग्नो मुहुर्मुहुस्तं प्रार्थितवान् ।
माम ! मां अपि तावदर्हसि मृत्युमुखात्परित्रातुं इति ।
स तु दुष्टात्माचिन्तयत् ।
निर्विण्णोऽस्म्यनेनैकरसेन मत्स्यपिशितेन ।
एनं अपि तावद्रसविशेषं आस्वादयिष्यामि ।
ततस्समुत्क्षिप्य वियत्सर्वाम्भस्स्थानानि परिहृत्यैकदेशे
तप्तशिलायां अवतीर्णः ।
कुलीरकोऽपि पूर्वभक्षितमत्स्यशरीरावयवराशिं दृष्ट्वा
एवाचिन्तयत् ।
निहता अनेन दुरात्मना प्रज्ञापूर्वकं ते मीनाः ।
तत्किं अधुना प्राप्तकालं ।
अथवा ।
[ अभियुक्तो यदा पश्येन्न काञ्चिद्गतिं आत्मनः ।
युध्यमानस्तदा प्राज्ञो म्रियेत रिपुणा सह । ।६१ । । ]
अनभिज्ञोऽपि बकः कुलीरकसन्दंशग्रहस्य मौर्ख्यात्
कुलीरकसकाशाच्छिरश्छेदं अवाप्नवान् ।
कुलीरकोऽपि गृहीत्वा बकग्रीवां उत्पलनालवद्
आकाशगमनप्रसाधितचिह्नमार्गो मत्स्यान्तिकं एव प्रायात् ।
तैश्चाभिहितः ।
भ्रातः ! क्वासौ माम इति ।
अथासावब्रवीत् ।
पञ्चत्वं उपगतः ।
तस्यैतद्दुरात्मनश्शिरः ।
भक्षितास्तेनोपधिना बहवस्स्वयूथ्या वः ।
सोऽपि मत्सकाशाद्विनष्ट इति ।
अतोऽहं ब्रवीमि ।
भक्षयित्वा बहून्मत्स्यानिति ।
अथ वायसो जम्बुकं आह ।
आवयोः किं प्राप्तकालं मन्यसे ।
गोमायुः ।
सुवर्णसूत्रं आदायात्रावासके स्थाप्यतां ।
असंशयं तत्स्वामी तं कृष्णसर्पं घातयिष्यति ।
इत्युक्त्वा स सृगालोऽपक्रान्तः ।
अथ वायसस्सुवर्णसूत्रान्वेषी राजगृहं प्रायात् ।
दृष्टं च तेनान्तःपुरैकदेशे धौतवस्त्रयुगलोपरि
सुवर्णसूत्रं उत्तममणिविरचितं महार्हं प्रक्षाल्य चेटिकया
स्थापितं ।
तच्चावस्थाप्यान्यया सह कथां कर्तुं आरब्धा ।
वायसस्तु तद्गृहीत्वा वियता शनैरात्मानं दर्शयन्स्वं आलयं
प्रति प्रायात् ।
अथारक्षिपुरुषैः प्रासमुद्गरत्ॐअरपाणिभिर्महता जवेन
गत्वा वृक्षोऽवलोकितः ! यावत्तेन तत्स्वनीडे स्थापितं ।
तत्रैकेनारोहता दृष्टं ! कृष्णभुजङ्गो वायसपोतान्
भक्षयित्वा निद्रावशं अगमत् ।
तेन चासौ सुप्त एव घातितः ।
तत्कृत्वा सुवर्णसूत्रं आदाय गत इति ।
[१,६ ल्”wए उन्दःअसे]
अस्ति ! कस्मिंश्चिद्वनान्तरे महान्सिंहः प्रतिवसति स्म ।
सोऽजस्रं मृगोत्सादं कुरुते ।
अथ ते मृगास्सर्वए एवाभिमुखाः प्रणतचित्ता
हरिततृणाङ्कुरवक्त्रधारिणोऽवनितलासक्तजानवस्तं
मृगराजं विज्ञापयां आसुः ।
भो मृगराज किं अनेन परलोकविरुद्धेन स्वामिनो नृशंसेन
निष्कारणं सर्वमृगोत्सादनकर्मणा कृतेन ।
वयं तावद्विनष्टा एव ! तवाप्याहारस्याभावः ।
तदुभयोपद्रवः ।
तत्प्रसिद ।
वयं तु स्वामिन एकैकं वनचरं वारेण स्वजातिसमुत्थं
प्रेषयामः ।
तथा कृते कालपर्ययाच्छशकस्य वारोऽभ्यागतः ।
स तु सर्वमृगाज्ञापितो रुषितमनाश्चिन्तयां आस ।
अन्तकरोऽयं मृत्युमुखप्रवेशः ।
किं अधुना प्राप्तकालं ममेति ।
अथवा बुद्धिमतां किं अशक्यं ।
अहं एवोपायेन व्यापादयामि सिंहं ।
इति तस्याहारवेलां क्षपयित्वा गतः ।
असावपि क्षुत्क्षामकण्ठः क्रोधसंरक्तनयनस्
स्फुरद्वदनदशनसङ्घर्षदंष्ट्राकरालो
लाङ्गूलास्फालनाकारभयकृत्तं आह ।
सुक्रुद्धैरपि किं क्रियतेऽन्यत्र प्राणवियोगात् ।
स त्वं अद्य गतासुरेव ।
कोऽयं तव वेलात्ययः ।
शशकः ।
न ममात्मवशस्यातिक्रान्ता ! स्वामिन्! आहारवेला ।
सिंहः ।
केन विधृतोऽसि ।
शशः ।
सिंहेनेति ।
तच्छ्रुत्वा परमोद्विग्नहृदयस्सिंहोऽब्रवीत् ।
कथं अन्योऽत्र मद्भुजपरिरक्षिते वने सिंह इति ।
शशो बाढं इत्याह ।
अथ सिंहो व्यचिन्तयत् ।
किं अनेन हतेन कारणं मम ।
तं सपत्नं सन्दर्शयिष्यतीति ।
तं च व्यापाद्यैनं भक्षयिष्यामि ।
इति तं आह ।
मम तं दुरात्मानं दर्शयस्वेति ।
असावपि शशोऽन्तर्लीनं अवहस्य बृहस्पत्युशनसोर्नीतिशास्त्रं
प्रमाणीकृत्य स्वार्थसिद्धये विमलजलसंपन्नं
द्विपुरुषप्राप्योदकं इष्टकाचितं महान्तं कूपं अदर्शयत् ।
असावप्यात्मकायप्रतिबिम्बानभिज्ञतया
कुमार्गापन्नचित्तोऽयं असौ सपत्न इति मत्वा सहसैव तस्य
उपरि सन्निपतितो मौर्ख्यात्पञ्चत्वं अगमत् ।
[१,७ लौसुन्द्Fलोह्]
अस्ति कस्यचिद्राज्ञस्सर्वगुणोपेतं अनन्यसदृशं शयनं ।
तस्मिन्प्रच्छदपटैकदेशे मन्दविसर्पिणी नाम यूका प्रतिवसति स्म ।
अथ तस्मिंष्टिण्टिभो नाम मत्कुणो वायुना प्रेरितस्सन्निपतितः ।
स तु तच्छयनं अतिसूक्ष्मोत्तरच्छदं उभयोपधानं
जाह्नवीपुलिनविपुलं परममृदु सुरभि च दृष्ट्वा परं
परितोषं उपगतः ।
तत्स्पर्शाकृष्टमना इतश्चेतः परिभ्रमन्कथं अपि तया
मन्दविसर्पिण्या समेतः ।
तयाभिहितः ।
कुतस्त्वं अस्मिन्नयोग्याधिवास आगतः ।
अपगम्यतां अस्मादिति ।
मत्कुणः ।
आर्ये ! मया तावदिहानेकप्रकाराणि मांसान्यास्वादितानि
ब्राह्मणक्षत्रियविट्छूद्रान्तस्स्थानि रुधिराणि च ।
तानि तु रूक्षाणि पिच्छिलान्यतुष्टिकराण्यमनोज्ञानि ।
यः पुनरस्य शयनस्याधिष्ठाता ! तस्य मनोरमं अमृतोपमम्
असृग्भविष्यति ।
अजस्रं भिषग्भिः प्रयत्नादौषधाद्युपक्रमाद्
वातपित्तश्लेष्मनिरोधादनामयतया स्निग्धपेशलद्रवैस्
सखण्डगुडदाडिमत्रिकटुकपटुभिस्
स्थलजजलजखेचरबलवत्प्रधानपिशितोपब्रंहितैराहारैर्
उपचितं रुधिरं रसायनं इव मन्ये ।
तच्च सुरभि पुष्टिकरं चेच्छाम्यहं त्वत्प्रसादाद्
आस्वादयितुं इति ।
अतोऽसौ मन्दविसर्पिण्य्- आह ।
असम्भाव्यं एतत्त्वद्विधानां अग्निमुखानां दंशवृत्तीनां ।
अपगम्यतां अस्माच्छयनात् ।
ततोऽसौ तस्याः पादयोर्निपतितः ।
सा तु दाक्षिण्यात्तथा नामेति प्रतिपन्ना ।
किन्तु नैवाकाले न चातिमृदुभागे त्वयास्य प्रहर्तव्यं इति ।
सोऽब्रवीत् ।
कोऽस्य कालः ।
अनभिज्ञोऽहं अपरिचितत्वात् ।
सा त्वकथयत् ।
मधुपानश्रमागतनिद्रस्य रतिविलासनिर्भरसुप्तस्य च
शनैर्मृदुतया भवता विचारणीयं ।
मदश्रमनिद्रापरीतकायो नाशु प्रबुध्यतएइति ।
एवं अवस्थापिते प्रथमप्रदोषए एवाकालज्ञेन दष्टः ।
असावपि पर्थिव उल्मुकदग्ध इव संलीनकुक्षिप्रदेशस्
ससम्भ्रमं उत्थायाह ।
अहो ! दष्टोऽस्मि केनापि ।
अथ मत्कुणश्चकितत्वाद्राजवचनं श्रुत्वा शयनादवतीर्य
अन्यद्विवरं आश्रितः ।
शय्यापालैरपि स्वाम्यादेशात्सुनिपुणं अन्विषद्भिर्वस्त्रं
परिवर्तयद्भिरन्तर्लीना मन्दविसर्पिणी समासादिता व्यापादिता च ।
[१,८ ढेर्ब्लौए Sछकल्]
अस्ति कस्मिंश्चिन्नगरसमीपे सन्निकृष्टविवराभ्यन्तरशायी
जम्बुकश्चण्डरवो नाम ।
स कदाचिदाहारं अन्वेषमाणः क्षपां आसाद्य क्षुत्क्षामगलस्
सम्मीलितलोचनः परिभ्रमन्नगरं प्रविष्टः ।
तन्नगरवासिभिश्च सारमेयैस्
तीक्ष्णदशनकोटिविलुप्यमानावयवो
भयभैरवफेत्काररवपूरितदिग्विवर इतस्ततः प्रस्खलन्
पलायमानः कस्मिंश्चिदज्ञानान्नीलीकलशे सन्निपतितः ।
श्वगणश्च यथागतं प्रायात् ।
असावपि कृच्छ्रेणायुश्शेषतयास्मान्नीलीकलशात्समुत्तस्थौ
।
अथास्य तच्छरीरं नीलीरसरञ्जितं दृष्ट्वा समीपवर्तिनः
क्रोष्टुकगणाः कोऽयं इति भयतरलदृशस्सर्वा दिशः
प्रदुद्रुवुः ।
असावप्यचिन्तयत् ।
नूनं इमां स्वरूपविकृतिं दृष्ट्वैते पलायन्तए इति ।
अथ धीरचित्तस्तांश्छनैरवादीत् ।
अलं सम्भ्रमेण ।
अहं आखण्डलाज्ञया सकलश्वापदकुलपालनक्षमः
क्षितितलं आगत इति ।
अथ तद्वचनं आकर्ण्य
सिंहव्याघ्रचित्रकवानरशशहरिणवृषदंशजम्बुका
दयश्श्वापदगणास्तं प्रणेमुः ।
प्रतिदिनं च केसरिकरजकुलिशदारितमत्तेभपिशितैर्
आपूर्यमाणकुक्षिः कक्षं इव तं जम्बुकपूगं बहिः कृत्वा
सिंहव्याघ्रादीनासन्नवर्तिनश्चकार ।
एकदा त्वसौ विविधपिशितनाशितक्षुद्दिक्षु स्थितानां
क्रोष्टुकानां क्रोशतां निनादं श्रुत्वा त्वरिततरं उच्चैर्निननाद
।
अतस्ते सिंहादयस्त्रपया भूभागदृष्टिभाजः कष्टं अहो !
वञ्चितास्स्मः ! क्रोष्टायं इत्यवधार्य रुषा तं परुषगिरं
नाशितवन्त इति ।
[१,९ Kअमेल्, ल्”wए, Pअन्थेर्, Kर्„हे उन्द्ऽछकल्]
अस्ति ! कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म ।
तस्यानुचरास्त्रयः पिशिताशिनो द्वीपिवायसग्ॐआयवः ।
अथ तैर्भ्रमद्भिर्दृष्टस्सार्थवाहपरिभ्रष्ट उष्ट्रः ।
तं चाज्ञातपूर्वरूपं हास्यजननं दृष्ट्वा सिंहः
पृष्टवान् ।
इदं अपूर्वं सत्त्वं इह वने पृच्छ्यतां ।
कस्त्वं इति ।
ततोऽवगततत्त्वार्थो वायसोऽब्रवीत् ।
आख्यातनामोष्ट्रोऽयं इति ।
ततस्तेन सिंहसकाशं विश्वास्यानीतः ।
तेनापि यथावृत्तं आत्मनो वियोगस्सार्थवाहात्समाख्यातः ।
सिंहेन चास्याभ्यवपत्तिरभयप्रदानं च दत्तं ।
एवं च वर्तमाने कदाचित्सिंहो
वन्यगजयुद्धरदनक्षतशरीरो गुहावासी संवृत्तः ।
पञ्चषड्दिवसातिक्रान्ते च काले सर्वए एव तए आहारवैकल्याद्
आत्ययिकं आपतिताः ।
यतोऽवसन्नाः ! ततस्सिंहेनाभिहिताः ।
अहं अनया रुजा न क्षमः पूर्ववदाहारं भवतां उत्पादयितुं ।
ते यूयं आत्मार्थेऽपि तावदभ्युद्गमं कुरुत ।
ते तं आहुः ।
एवं गते किं अस्माकं आत्मपुष्ट्यर्थेनेति ।
सिंहः ।
साध्वनुजीविवृत्तं मदुपरि भक्तिश्च भवतां ।
अतिशोभनं अभिहितं ।
शक्ता भवन्तः ! सरुजश्चाहं ।
तन्ममैतदवस्थस्योपनयताहारं इति ।
यदा च न किञ्चिदूचुः ! तदा तेनाभिहिताः ।
किं अनया व्रीडया ।
अन्विष्यतां किञ्चित्सत्त्वं ।
अहं एतदवस्थोऽपि युष्माकं आत्मनश्चोत्पादयिष्ये
प्राणयात्रार्थं इति ।
एवं उक्त्वा तेऽप्युत्थाय सह क्रथनकेन वनान्तरं प्रविष्टाः ।
व्युदस्य क्रथनकं दुष्टमन्त्रं आरब्धाः ।
तत्र वायस आह ।
विनाशिता वयं अनेन स्वामिना स्वाधीनेऽप्यर्थे ।
तावाहतुः ।
कथं ।
सोऽब्रवीत् ।
नन्वयं क्रथनक इति ।
तए आहुः ।
अयं अस्माकं विश्वासोपगतशरणागतो वयस्यत्वेऽनुज्ञातः ।
स आह ।
शष्पभुजः पिशिताशिनश्च विषमसम्बन्धाः ।
ततस्तावूचतुः ।
स्वामिनायं अभयप्रदानेन रक्ष्यते ।
तेन चायुक्तं अशक्यं चैतदिति ।
पुनरपि वायसोऽब्रवीत् ।
तिष्ठत यूयं यावदहं एवैतदर्थं सम्प्रतिपादयिष्यामि ।
इत्युक्त्वा सिंहसकाशं अगमत् ।
सिंहेन चाभिहितं ।
अन्विष्टं युष्माभिः किञ्चित्सत्त्वं इति ।
काकः ।
यस्य चक्षुर्बलं वा स्यात्! सोऽन्विष्यतु ।
वयं तु सर्वए एवाहारवैकल्यादन्धाः परिक्षीणशक्तयश्
च ।
किन्तु प्राप्तकालं अवश्यं विज्ञप्यसे ।
स्वामिना विनाशितस्स्वात्मनात्मा स्वाधीनेऽप्यर्थे ।
सिंहः ।
कथं ।
काकः ।
नन्वयं क्रथनक इति ।
सिंहः ।
कष्टं ।
नृशंसं एतत् ।
मयास्याभ्यवपत्तिरभयं च प्रसादीकृतं ।
अपि च ।
[ न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानं ।
यथा वदन्तीह महाप्रधानं
सर्वप्रधानेष्वभयप्रदानं । ।११७ । । ]
काकः ।
अहो स्वामिनो धर्मशास्त्रं प्रति प्रतिभा ।
एतदन्यदपि प्रधानं महर्षिवचनं ! यथा श्रेयसां अर्थे
पापीयानारम्भः ।
अपि चोक्तं ।
[ त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् । ।११८ । । ]
पुनश्चाह ।
मा स्वामी स्वयं व्यापादयतु ।
मयास्योपधिना वध आरब्धः ।
सिंहः ।
कथं इव ।
काकः ।
अयं तावदेतदवस्थं स्वामिनं अस्मांश्च दृष्ट्वा स्वयम्
आत्मानं अन्यपुष्ट्यर्थं स्वर्गगमनाय सत्त्वहिताय निवेदयति ।
एवं अभिहितवति वायसे सिंहो मतिभ्रमं इवार्पितो न किञ्चिदप्य्
उदाहृतवान् ।
असावपि पुनस्तत्सकाशं गत्वा कृतकवचनैः प्रत्येकं
विज्ञापितवान् ।
सिंहान्तिकं गतैर्युष्माभिरेवं वक्तव्यं इति ।
ततः कृतसंविदस्सह क्रथनकेन सिंहसकाशं गताः ।
अथ वायसः प्रणम्य सिंहं विज्ञापितवान् ।
देव ! स्वामिशरीरं सर्वथा रक्ष्यं अस्मच्छरीरेणेति ।
अथासावाह ।
अकल्पकायो भवान् ।
न युष्मच्छरीरोपभोगे कृतेऽप्यस्माकं किञ्चित्
तृप्तिकारणं भवति ।
तस्मिंश्चापयाते ग्ॐआयुरभिहितवान् ।
अस्मान्मम विशिष्टतरं शरीरं ।
तन्मत्प्राणैः क्रियतां प्राणयात्रेति ।
तं अपि तथैवाभिहितवान् ।
अपयाते च तस्मिन्द्वीप्य्- आह ।
आभ्यां मम विशिष्टतरं शरीरं इदं उपयुज्यतां इति ।
तं अप्यसावाह ।
अकल्पकायो भवानपीति ।
तच्छ्रुत्वा क्रथनकोऽचिन्तयत् ।
नैवात्र कश्चिद्विनाश्यते ।
तदहं अप्येवं एव ब्रवीमि ।
तत उत्थाय सिंहान्तिकं उपगम्याब्रवीत् ।
देव ! एभ्यो मम विशिष्टतरं शरीरं ।
तस्मान्मच्छरीरेणात्मनः प्राणयात्रा क्रियतां इति ।
एवं अभिवदन्नेव द्वीपिग्ॐआयुभ्यां विदारितोभयकुक्षिस्सद्यः
पञ्चत्वं उपगतो भक्षितश्चेति ।
[१,१० Sत्रन्द्ल्„उफ़ेरुन्दंईर्]
अस्ति ! समुद्रतीरैकदेशे टीटिभदम्पती प्रतिवसतस्स्म ।
अथ कदाचित्प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः ।
किञ्चित्स्थानं अन्विष्यतां ! यत्राहं प्रसुवे ।
असावकथयत् ।
नन्वेतदेव स्थानं वृद्धिकरं ।
अत्रैव प्रसूष्वेति ।
साब्रवीत् ।
अलं अनेन सापायेन ।
अवश्यं एव समुद्रजलवेलाप्लवनान्ममापत्यविनाशो भवति
।
असावाह ।
भद्रे ! न शक्तो महोदधिर्मया सार्धं ईदृशं
वैरानुबन्धं कर्तुं इति ।
साब्रवीत् ।
बह्वसदृशं तव समुद्रेण बलं ।
कथं आत्मनो ज्ञायते सारासारता ।
उक्तं च ।
[ दुःखं आत्मा परिच्छेत्तुं एवं योग्यो न वेति वा ।
एवंविद्यस्य विज्ञानं सफलास्तस्य बुद्धयः । ।१२६ । । ]
अपि च ।
[ मित्राणां हितकामानां यो वाक्यं नाभिनन्दति ।
स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति । ।१२७ । । ]
टीटिभः ।
कथं चैतत् ।
टीटिभी ।
[१,११ ःअंससुन्द्ऽछिल्द्क्र्”ते]
अस्ति ! कस्मिंश्चित्सरसि कम्बुग्रीवो नाम कच्छपः प्रतिवसति स्म ।
तस्य द्वौ सुहृदौ विकटसंकटनामानौ हंसौ ।
अथ कालविपर्यये द्वादशवार्षिक्य्- अनावृष्टिरापतिता ।
ततस्तयोर्मतिरुत्पन्ना ।
क्षीणतोयं इदं सरः ।
अन्यं जलाशयं गच्छावेति ।
किं पुनश्चिरोषितं प्रियमित्रं कम्बुग्रीवं आमन्त्रयावहे ।
तथा चानुष्ठिते कच्छपेनाभिहितौ ।
कस्मान्ममामन्त्रणं क्रियते ।
यदि तु स्नेहोऽस्ति ! ततो मां अप्यस्मान्मृत्युमुखात्त्रातुं अर्हथः
।
यत्कारणं ! युवयोस्तावदाहारवैकल्यं केवलं अस्मिन्
स्वल्पोदके सरसि ! ममात्र तु मरणं एव ।
तद्विचिन्त्यतां ! आहारसुहृद्वियोगयोः को गरीयान् ।
ताभ्यां अभिहितं ।
युक्तं आत्थ ।
एवं एतत् ।
किं पुनः प्राप्तकालं भवाञ्जानाति ।
अवश्यं नयावावां भवन्तं ।
त्वया पुनश्चापलान्न किञ्चिद्वक्तव्यं ।
इमां तु यष्टिं मध्ये दशनैरापीडय ।
एवं अनयैवोद्धृत्य षष्टिमात्राणि योजनानि महत्सरो
भवन्तं नयावः ।
तत्र सुखं यापयिष्याम इति ।
एवं च निष्पन्ने तज्जलाशयसन्निकृष्टनगरस्योपरिष्टान्
नीयमानं दृष्ट्वा ! किं इदं शकटचक्रप्रमाणं वियता
नीयतए इति जनस्सकलकलस्सम्वृत्तः ।
तच्च श्रुत्वासन्नविनाशः कच्छपो यष्टिं त्यक्त्वाभिहितवान्
।
अहं कच्छपः ।
चापलादेष लोकः प्रलपति ! इति ब्रुवन्वचनसमकालं एवाश्रयात्
परिभ्रष्टो भूमौ निपतितः ! मांसार्थिना च लोकेन
पातसमकालं एव तीक्ष्णशस्त्रैः खण्डशो विभक्त इति ।
[१,१२ ढिए द्रेइ Fइस्छे]
अस्ति ! कस्मिंश्चिन्महाह्रदे महाकायास्त्रयो मत्स्याः प्रतिवसन्ति
स्म ! तद्यथा ।
अनागतविधाता प्रत्युत्पन्नमतिर्यद्भविष्यश्चेति ।
तत्रानागतविधात्रा तदुदकान्तर्गतेन कदाचित्तत्समीपे
मत्स्यबन्धानां अतिक्रामतां वचनं श्रुतं ।
बहुमत्स्योऽयं ह्रदः ।
अत्र मत्स्यबन्धं कुर्मः ।
तच्च श्रुत्वानागतविधात्रा चिन्तितं ।
अवश्यं एतए आगन्तारः ।
तदहं प्रत्युत्पन्नमतिं यद्भविष्यं च गृहीत्वान्यम्
अच्छिन्नस्रोतस्कं ह्रदं संश्रयामीति ।
ततस्तावाहूय पृष्टवान्गमनाय ।
तत्र प्रत्युत्पन्नमतिर्मतिनिवारितोऽभयचित्तः कथं अपि
प्रमादान्नानुयातः ।
यद्भविष्यस्त्वासन्नविनाशस्तद्वचनं अनादृत्य निरारम्भ एव
आसीत् ।
अन्येद्युश्चापयातेऽनागतविधातरि मत्स्यबन्धैरन्तस्स्रोतो
निरुध्य प्रक्षिप्तं सम्वर्तजालं ।
अपकृष्टे च जाले तस्मिन्ह्रदे नाप्येकतरोऽवशिष्टः ।
एवं गते प्रत्युत्पन्नमतिर्मृतरूपं कृत्वात्मानं जलस्य
उपरि दर्शितवान् ।
तैरपि स्वयं एव मृतो महामत्स्य इति कृत्वा परिस्रोतसि स्थापितः ।
तस्मादुत्प्लुत्यान्यं जलाशयं गतः ।
यद्भविष्यस्त्वनेकलगुडप्रहारजर्जरितशरीरः पञ्चत्वम्
उपनीत इति ।
अतोऽहं ब्रवीमि ।
अनागतविधाता चेति ।
अथ कदाचित्प्रसूतायां टीटिभ्यां तद्भर्तृजिज्ञासया समुद्रेण
अपहृतास्तेऽण्डकाः ! पश्यामि तावत्! अयं किं आरम्भतए इति ।
अथ टीटिभी शून्यं अपत्यस्थानं दृष्ट्वा परमाविग्नहृदया
भर्तारं आह ।
इदं तदापतितं मन्दभाग्यायाः ।
असावन्तर्लीनं अवहस्य तां आह ।
ममापि तावत्! भद्रे ! दृश्यतां सामर्थ्यं इति ।
ततस्तेन पक्षिसमाजं कृत्वा निवेदितं तदपत्यहरणजं
दुःखं ।
तत्रैकेनाभिहितं ।
असमर्था वयं महोदधिविग्रहाय ।
किं पुनरत्र प्राप्तकालं ।
सर्वए एव वयं आक्रन्देन गरुत्मन्तं उद्वेजयामः ।
सैव नो दुःखं अपनेष्यति ।
इत्यवधार्य तत्सकाशं गताः ।
असावपि देवासुररणनिमित्तं आहूतो विष्णुना गरुडस्तत्
स्वयूथ्यव्यसनं दृष्ट्वा मन्युं आजगाम ।
देवोऽपि विष्णुस्त्रैकाल्यदर्शनसामक्ष्यात्तस्यान्तर्गतं मत्वा
स्वयं एव तत्सकाशं अगमत् ।
अथ देवं दृष्ट्वा सुतरां आविग्नहृदयोऽब्रवीत् ।
युक्तं त्वया नाथेन सता समुद्रापसदान्ममायं परिभव इति
।
ज्ञात्वा च देवः परिहस्य समुद्रस्येदं उवाच ।
समर्पयाधुनापत्यानि टीटिभस्येति ।
अन्यथा त्वां आग्नेयास्त्रप्रतापितम्
अनेकवडवामुखसहस्रपरिक्षीणतोयं सद्यः करिष्यामीति ।
एवं उक्तो महोदधिश्चिन्तयां आस ।
ममाण्डजेन सर्वनाश एव प्रारब्धः ।
इति मत्वा प्रणम्य देवं समर्पितवानिति ।
[१,१३ ढेर्लिस्तिगे Sछकल्]
अस्ति ! कस्मिंश्चिद्वनोद्देशे वृकजम्बुककरभसहितो
वज्रदन्तो नाम सिंहः प्रतिवसति स्म ।
कदाचिदसौ वन्यद्विपरदनकोटिपाटितवक्षा एकदेशस्थः
क्षुत्क्षामतनुः क्षुधा परिगतान्तान्सचिवानाह ।
किञ्चिदन्विष्यतां वने सत्त्वजातं ! येनाहं एतदवस्थोऽपि
भवतां वृत्तिं आपादयिष्यामि ।
अथ तदाज्ञासमकालं एव तेऽरण्ये पर्यटन्तो यदा न किञ्चिद्
आसेदुः ! तदासौ जम्बुकस्तं शङ्कुकर्णनामानं करभं
विविक्तेऽभिहितवान् ।
किं अत्र प्राप्तकालं मन्यते भवान् ।
स्वामी वज्रदन्तोऽस्मदीयपर्यटनं अनर्थकं श्रुत्वा कदाचिद्
विनाशाय प्रवर्तते ।
तदहं किञ्चिद्भवतः प्रार्थये ! यदि प्रतीच्छसीति ।
स आह ।
किं ममास्ति ! वयस्य ! यत्प्रार्थ्यते ।
शरीरं अपि मे त्वदायत्तं ।
यथाभिमतं उपयुज्यतां इति ।
अथ जम्बुकोऽब्रवीत् ।
एतदेवात्र कारणं ।
अहं ते द्विगुणं शरीरं सिंहसकाशाद्दापयिष्ये ।
त्वयाप्येवं वयं आत्मा च संवर्धितास्स्युरिति ।
प्रतिपन्नश्चासौ ।
एवं अभिधाय सिंहसकाशं गत्वा तं आह ।
स्वामिन्! न किञ्चित्सत्त्वं आसादितं ।
एष पुनश्शङ्कुकर्णोऽभिधत्ते ।
बृहत्प्रस्थेन द्विगुणया तुलयोज्जास्यं शरीरं सम्प्रयच्छामि
इति ।
तच्छ्रुत्वा सिंहः प्रहृष्ट आह ।
एवं क्रियतां ।
अथ प्रतिपन्ने शङ्कुकर्णः पपात भूमौ ! खण्डशश्च कृतः ।
ततश्चतुरकस्तं सिंहं रुधिररक्तसर्वगात्रं दृष्ट्वा
अब्रवीत् ।
गच्छतु स्वामी स्नानं आचरितुं ! यावदहं क्रव्यमुखसहितस्
तिष्ठामि ।
गते च तस्मिंश्चतुरकस्तं क्रव्यमुखं आह ।
भक्षय तावदतः पिशितं ! यावदसौ स्नातुं गतः ।
सोऽब्रवीत् ।
भक्षयित्वा किं उत्तरं दास्यामि ।
जम्बुकोऽब्रवीत् ।
किं तवानेन विचारेण ।
अहं एतस्य प्रतिवचनं दास्यामि ।
त्वया पुनर्मम मुखं एवावलोकितव्यं इति ।
एवं उक्ते ताभ्यां क्रव्यं अतिबहु भक्षितं ।
अत्रान्तरे सिंहस्सम्प्राप्तो यावत्पश्यति सकलं जठरपिशितम्
उपभुक्तं ! ततश्चतुरकं आह ।
माम ! क्व तज्जथरपिशितं ।
एवं वदति सिंहे क्रव्यमुखो मुखं चतुरकस्यावलोकितवान् ।
चतुरकोऽब्रवीत् ।
किं अधुना मन्मुखं अवलोकयसि ।
स्वामिन् ।
भक्षितं अनेनेति ।
अथ सिंहः कुलिशखरनकरो भ्रूकुटिलमुखः प्रकटितरोषस्
तं हन्तुं ऐच्छत् ।
अथासावपि वृको मुखवैवर्ण्यवेपथुव्याप्ततनुर्
अतनुपदविक्षेपः क्षिप्रपलायनपटुरटवीं उद्दिश्य जगाम ।
सिंहोऽपि किञ्चिदनुसृत्य प्रतिनिवृत्तः ।
एतस्मिंश्चान्तरे कथमपि च तत्समीपं अथ कश्चित्सार्थवाहो
अनेन पथायातः ।
तस्य च सार्थाग्रेसरं कटाहेन गलबद्धेन करभम्
आगच्छन्तं दृष्ट्वा कृतकविषादो जम्बुकस्तं सिंहं आह ।
देव ! विनष्टावावां ।
मा खलु कश्चिद्वनं धारयतु ।
यावदद्यापि पिशितं नोपभुज्यते ! तावद्बृहत्प्रस्थं आदाय
धनिकाचारेणायं करभकस्सम्प्राप्तः ।
तत्किं अत्र प्राप्तकालं ।
गच्छतु स्वामी दिगन्तरं अन्यत्! यावदहं एनं
लब्धचित्ताभिप्रायं कर्ॐईति ।
एवं अभिहिते सिंहस्तस्मादपयातः ।
चतुरकोऽपि बहुदिनानि तत्पिशितं उपभुक्तवान् ।
[१,१४ šबेलन्गेब्रछ्तेर्ऱत्]
अस्ति कस्मिंश्चिद्वनोद्देशे महान्वानरयूथः ।
स कदाचिद्धेमन्तकालेऽसुखासीनोऽतिविह्वलतया
खद्योतं दृष्ट्वाग्निरयं इत्याहार्यैश्शुष्कतृणपर्णैर्
आच्छाद्य प्रसारितभुजः कक्षकुक्षिवक्षःप्रदेशान्
कण्डूयमानः प्रतापमनोरथसुखानि किलानुभवति ।
तत्रैकश्शाखामृगस्तद्गतमना मुहुर्मुहुस्तं एव
मुखेनोपाधमत् ।
अथ सूचीमुखो नाम ।
तेन वृक्षादवतीर्याभिहितः ।
मा क्लिशः ।
नायं वह्निः ! खद्योतोऽयं इति ।
अथासावधमत्तस्य तद्वचनं अवमन्यैव ।
पुनश्च तेनासकृद्वार्यमाणो नैव शाम्यति ।
किं बहुना ! तावत्तेन कर्णाभाशं आगत्यागत्य प्रबलम्
उद्वेजितः ! यावत्तेन सहसा गृहीत्वा शिलायां आविध्य विगतप्राणः कृतो
असाविति ।
[१,१५ ढुष्टबुद्धि उन्दाबुद्धि]
अस्ति ! कस्मिंश्चिदधिष्ठाने वणिक्सुतौ सुहृदौ स्तः ।
एको दुष्टबुद्धिरपरो धर्मबुद्धिः ।
तावर्थोपार्जननिमित्तं विशिष्टं देशान्तरं गतौ ।
अथ तत्र धर्मबुद्धिर्नामैकस्सार्थवाहसुतो यस्तेन कस्यचित्
साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं
रौप्यदीनारसहस्रं प्राप्तं ।
स दुष्टबुद्धिना सह सम्प्रधार्य कृतार्थावावां स्वदेशं
गच्छाव इति प्रत्यागतौ ।
अधिष्ठानसमीपे धर्मबुद्धिनाभिहितं ।
दीनारा अर्धविभागेन विभज्यन्तां ।
स्वगृहान्प्रविशावः ।
अधुना सुःर्त्स्वजनादिसमक्षं उज्ज्वलं वत्स्यावः ।
अथ दुष्टबुद्धिरन्तःकठिनहृदयस्स्वार्थसिद्धये तं आह ।
भद्र ! वित्तशेषो यावदावयोस्सामान्यः ! तावदविच्छिन्नस्
स्नेहसद्भावः ।
किन्त्वेकं एकं शतं गृहीत्वा प्रविशावः ।
यत्कारणं ! पुण्यपरीक्षा ह्रासवृद्धिभ्यां भविष्यत्य्
एकार्थता च जनस्पृहणीया ।
तथा चानुष्ठिते शेषं कुत्रचित्सुगुप्तं कृत्वा प्रविष्टौ ।
अथ तद्वर्षाभ्यन्तरे दुष्टबुद्धिरसद्व्ययव्यसनित्वाद्
भाग्यच्छिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो
धर्मबुद्धिना सहापरशतं विभक्तवान् ।
तदपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणं ।
एवं गते दुष्टबुद्धिश्चिन्तयां आस ।
यदि पुनश्शतविभागेन विभजावः ! तत्किं मया कृतं भवति ।
शेषैष्षड्भिरपहृतैस्समस्तान्येवासादयामि ।
एवं मत्वैकाकी भूत्वा तां अर्थमात्रां अपनीय प्रदेशं
समीकृत्य मासातिक्रान्ते काले धर्मबुद्धिं अभिहितवान् ।
भद्र ! समविभागं शेषवित्तस्य कुर्व इति ।
प्रतिपन्ने च धर्मबुद्धिना सह गत्वा तं एवोद्देशं खातकर्म
कर्तुं आरब्धः ।
खन्यमाने च यदा न दृश्यते ! तदा प्रथमतरं धृष्टतया
दुष्टबुद्धिः पाषाणेनात्मनश्शिरोऽताडयदब्रवीच्च
ससम्भ्रमं ।
क्व तद्ब्रह्महृदयं ! धर्मबुद्धे ।
नूनं त्वयापहृतं इति ।
एवं परस्परशङ्कया विवदमानौ धर्मस्थानं उपागतौ ।
आवेदिते च तस्मिन्नर्थेऽवगतेऽव्यक्तव्यवहारदुश्छेदतया
सन्निरुद्धौ ।
पञ्चरात्राभ्यन्तराच्च दुष्टबुद्धिनाधिकृतानां प्रतिज्ञातम्
।
साक्षिणो मम सन्त्यत्रव्यवहारदीनाराणां इति ।
तैस्तु व्यवहारनिवर्तनार्थं पृष्टः ।
कस्ते साक्षी ।
दर्शयस्वेति ।
सोऽब्रवीत् ।
यस्यैव वृक्षस्याधस्तात्स्थापितं द्रव्यं ! तेनैव विभावयामि
इति ।
अथ ते विस्मयं उपगताः ! कथं वनस्पतिर्मन्त्रयिष्यतीति ।
कृतप्रतिभुवौ स्वगृहं विसर्जितौ ।
अथ दुष्टबुद्धिना स्वगृहं गतेन पिताभिहितः ।
तात ! मद्धस्तगतास्ते पणाः ।
किन्तु वाङ्मात्रावबद्धास्तिष्ठन्ति ।
अहं तु त्वां अद्य रात्रौ वृक्षविवरेऽस्मिन्स्थापयामि ।
प्रभाते धर्माधिकृतसमक्षं पृष्टस्तं विभावयेति ।
ततस्तेनाभिहितं ।
पुत्र ! विनष्टावावां ।
किं कारणं ! अनुपाय एषः ।
तथा च ।
[ उपायं चिन्तयेत्प्राज्ञो ह्यपायं अपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैर्भक्षितास्सुताः । ।१६८ । । ]
सोऽब्रवीत् ।
कथं एतत् ।
असावाह ।
[१,१६ ऱेइहेरुन्दीछ्नेउमोन्]
अस्ति ! कस्मिंश्चिदर्जुनवृक्षे बकदम्पती प्रतिवसतस्स्म ।
तत्र च वृक्षविवरानुसारी महाकायोऽहिरसञ्जातक्रियाण्येव
अपत्यानि भक्षयति स्म ।
तेन च निर्वेदेन नष्टसञ्ज्ञावाहारक्रियां उत्सृज्य
जलाशयैकदेशे विमनस्कावासाते ।
अथ तत्रैकः कुलीरकस्तं आह ।
माम ! किं अद्याप्याहारो अनुष्ठीयतए इति ।
बकः ।
अधृतिपरीतस्य मे कुत आहाराभिलाष इति ।
यतोऽसावाह ।
किंलक्षणसमुत्थाधृतिः ।
स तु तस्मै यथावृत्तं अपत्यभक्षणं आख्यातवान् ।
कुलीरकस्तु तं समर्थितवान् ।
अहं उपायं तद्वधाय कथयामि ।
येयं नकुलवसतिरेतत्प्रभृत्यविच्छिन्नपरम्परया
मत्स्यपिशितं प्रकीर्यतां ! यावत्सर्पवसतिः ।
ततस्तए एवैनं घातयिष्यन्ति ।
तथा चानुष्ठिते नकुलैः पिशितमार्गानुसारिभिः
पूर्ववैरक्रियां अनुस्मरद्भिः खण्डशोऽहिं कुर्वद्भिः
पूर्वदृष्टमार्गं आधावद्भिर्बकावासं गत्वा बकस्य
शेषापत्यभक्षणं कृतं इति ।
[१,१५]
अतोऽहं ब्रवीमि ।
उपायं चिन्तयेत्प्राज्ञो ह्यपायं अपि चिन्तयेत् ।
इति ब्रुवन्नपि तेनासौ नीत्वा स्थापितो वृक्षविवरे ।
अथ प्रभातसमयेऽधिकरणप्रकृतिप्रत्यक्षं
धर्मशास्त्रवचनाभिश्रावितेन वनस्पतिना यथाप्रस्तुतम्
अभिहितं ।
धर्मबुद्धिनार्थोऽपहृत इति ।
तच्च श्रुत्वा धर्मबुद्दिश्चिन्तयां आस ।
कथं अवाक्पादपो वाचं व्याहरिष्यति ।
तत्कारणेनात्र भवितव्यं ।
सर्वथा बुद्धिसाध्यं एतत् ।
अथ धर्मस्थानीयानाह ।
अहो विस्मयः ।
अद्याप्यविप्लुतए एव लोके धर्मबुद्दिरहं विजनेऽस्मिन्वनए
एकाक्य्- आगम्य तद्द्रव्यं गृहीतवान् ।
अथापश्यं अहिं अतिकायं आयान्तं ।
चिन्तितं च मया ।
कष्टं इदं आपतितं ।
अभिहितं च ।
पुनरपि विषया लभ्यन्ते ! न तु प्राणाः ।
पुनरागमिष्यामि ।
इत्यत्रैव वृक्षमूलेऽवस्थापितं ।
अधुनावश्यं राजवशात्समर्पितव्यं ।
किन्त्वस्मात्स्थानादेकान्तेऽवस्थानं कुरुध्वं ! यावदहम्
एनं निधिपालं कृष्णसर्पं पराजयामि ।
इत्युक्त्वाहार्यैश्शुष्कदारुपर्णनिचयैर्वृक्षविवरम्
आपूर्याग्निं आदीपयितुं आरब्धः ।
दुष्टबुद्धिस्त्वध्ॐउखेनाक्ष्णा विलोक्य वृक्षविवरान्तर्गतं
वणिक्पुत्रं दृष्ट्वा व्यथितमना अभवत् ।
प्रदीप्ते च वह्नौ समन्तत उज्ज्वलीभूताद्वृक्षविवरात्स्फटिततनुः
प्लुष्टकेशस्स्रस्तत्वग्यदा जातो वणिक्! तदा भूमौ निपतितः ।
तत्तु महद्वैकारिकं दृष्ट्वा किं इदं इति परं विस्मयं उपगताः ।
किञ्चिज्जीवितं च प्रत्यक्षं अभिज्ञाय वणिक्पुत्रं पप्रच्छुः ।
किं इदं ईदृशं अग्निपतनं अध्यवसितं भवतेति ।
ततोऽसावब्रवीत् ।
अनेन दुष्पुत्रेणाहं अवस्थां इमां प्रापित इति ।
एवं अभिवदन्पञ्चत्वं उपगतः ।
अनन्तरं धर्माधिकृतास्तं अर्थं ज्ञात्वाभिहितवन्तः ।
दुष्टबुद्धिरयं पापश्शूलेऽवतंस्यतां इति ।
[१,१७]
अस्ति कस्मिंश्चिदधिष्ठाने क्षीणबान्धवो वणिक्सुतः ।
स देशान्तरं अर्थोपार्जननिमित्तं प्रस्थितः ।
तस्य तुला लोहसहस्रकृता विद्यते ।
सोऽन्यस्मिन्वणिक्पुत्रके तां निक्षिप्य देशान्तरं अर्थोपार्जनाय
प्रायात् ।
क्षीणभाग्यत्वाच्च तेन बहुनापि कालेन न किञ्चिदासादितं ।
प्रत्यागतश्च तां तुलां तस्मात्प्रार्थितवान् ।
तेनोक्तं च ।
सा मूषकैर्भक्षितेति ।
अथासावचिन्तयत् ।
विस्मयनीयं एतत् ।
कथं लोहसहस्रमयीं तुलां मूषका भक्षयिष्यन्तीति ।
अन्तर्लीनं अवहस्याब्रवीत्! अवश्यं एतदेवं ! यत्कारणं ।
वृष्यं स्वादु मृदु च लोहं कथं आखवो न भक्षयिष्यन्ति ! इति
प्रतिपन्नवाक् ।
असावपि सुपरिहृष्टहृदयः पाद्यादिपुरस्सरां तस्य पूजां
कर्तुं आरब्धवान्भोजने च प्रार्थितवान् ।
तस्य च नातिदुरे नदी ।
तत्र स्नानाभ्युद्यतस्य च तस्य स्वीयं पुत्रं एकम्
आमलकस्नानशाटिकासमेतं पृष्टतः प्रेषितवान् ।
असावपि प्रत्यागच्छन्दारकं अन्यस्मिन्मित्रगृहे सुगुप्तं कृत्वा
प्रविष्टः ।
अथ भोजनसमये सार्थवाहो दारकं अदृष्ट्वा समाकुलमनाश्
शङ्कितहृदयश्च तं अपृच्छत् ।
क्वासौ दारकस्तवानुपदप्रेषितः ।
इह न प्रविष्ट इति ।
अथ सोऽब्रवीत् ।
श्येनेनापहृतः ।
तच्छ्रुत्वा परमाविग्नो निर्दयीभूतश्च तं बाहौ गृहीत्वा
धर्मस्थानं नीतवान्! आह च ।
परित्रायध्वं ।
अनेन मे दारकः क्वापि गोपित इति ।
पृष्टश्चासौ प्राड्विवाकैः ।
किं एतत् ।
कथ्यतां इति ।
स विहस्याब्रवीत् ।
श्येनेनापहृत इति ।
ततस्तैर्विस्मितमनोभिरभिहितः ।
कथं श्येनो दारकं अपहरिष्यतीति ।
धर्माधिकृतैस्तथ्यं पृच्छ्यमानोऽब्रवीत् ।
किं अत्र चित्रं ।
यत्र तुला लोहसहस्रस्यास्य गेहे मदीया मूषकैर्भक्षिता ! तत्र
कथं दारकश्श्येनेन नापह्रियतए इति ।
तच्च श्रुत्वा प्रतिपादितवन्तस्ते प्राड्विवाकाः परस्परस्य
तत्तुलातद्दारकदानं इति ।
]