अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः ।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥पन्च्_५.९६॥
कस्मिंश्चिद् अधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद् ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्-वत्स ! कथम् एकाकी व्रजसि ? तद् अन्विष्यतां कश्चिद् द्वितीयः सहायः ।
स आह-अम्ब ! मा भैषीः । निरुपद्रवो ऽयं मार्गः । कार्य-वशाद् एकाकी गमिष्यामि ।
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटम् आदाय मात्राभिहितं-वत्स, अवश्यं यदि गन्तव्यम् । तद् एष कर्कटो ऽपि सहायो भवतु । तद् एनं गृहीत्वा गच्छ ।
सो ऽपि मातुर् वचनाद् उभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः ।
अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन् मार्गस्थं वृक्षम् आसाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान् निर्गत्य सर्पस् तत्-समीपम् आगतः । स चाभ्यन्तर-गतां कर्पूर-पुटिकाम् अतिलौल्याद् अभक्षयत् । सो ऽपि कर्कटस् तत्रैव स्थितः सन् सर्प-प्राणान् अपाहरत । ब्राह्मणेऽपि यावत् प्रबुद्धः पश्यति, तावत् समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस् तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच् च-भोः ! सत्यम् अभिहितं मम मात्रा यत् पुरुषेण को ऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्-वचनम् अनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद् रक्षितः । अथवा साध्व् इदम् उच्यते-
क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम् ।
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये ॥पन्च्_५.९७॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥पन्च्_५.९८॥