एकोदराः पृथग् ग्रीवा अन्यान्य-फल-भक्षिणः ।
असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥पन्च्_५.९४॥
कस्मिंश्चित् सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सो ऽपि भक्षयन्न् इदम् आह-अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि । परम् अपूर्वो ऽस्यास्वादः । तत् किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनापातितम् ।
एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्-भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाहम् अपि जिह्वा-सौख्यम् अनुभवामि ।
ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस् तावद् एकम् उदरम् । एका तृप्तिश् च भवति । ततः किं पृथग् भक्षितेन ? वरम् अनेन शेषेण प्रिया तोष्यते ।
एवम् अभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तद् आस्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्य्-अनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति ।
अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम् । तद् दृष्ट्वापरम् आह-भो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विष-फलम् आसादितम् । तत् तवापमानाद् भक्षयामि ।
अपरेणाभिहितम्-मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोर् अपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत् फलं भक्षितम् । किं बहुना, द्वाव् अपि विनष्टौ ।