०५-१२ चण्डकर्मानामराक्षस-कथा

पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्र-गृहीतो ऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥पन्च्_५.८८॥

देव ! कस्मिंश्चिद् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद् ब्राह्मणः समासादितः । ततस् तस्य स्कन्धम् आरुह्य प्रोवाच-भो अग्रेसरो गम्यताम् ।

ब्राह्मणो ऽपि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्-भोः ! किम् एवं-विधौ ते पादाव् अतिकोमलौ ?

राक्षस आह-भोः ! व्रतम् अस्ति, नाहम् आर्द्र-पादो भूमिं स्पृशामि ।

ततस् तच् छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस् तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावद् अहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानाद् अन्यत्र न गन्तव्यम् ।

तथानुष्ठिते दिव्जश् चिन्तयामास-नूनं देवतार्चन-विधेर् ऊर्ध्वं माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठम् एष्यति ।

तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः ।