०५-११ अन्धककुब्जकत्रिस्तनी-कथा

अन्धकः कुब्जकश् चैव त्रिस्तनी राज-कन्यका ।
त्रयो ऽप्य् अन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥पन्च्_५.८६॥

अस्त्य् अत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्-भोस् त्यज्यताम् इयं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति ।

तच् छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यद् अनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणम् आहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः-
यः सततं परिपृच्छति शृणोति सन्धारयत्य् अनिशम् ।
तस्य दिवाकर-किरणैर् नलिनीव विवर्धते बुद्धिः ॥पन्च्_५.८७॥

  • तथा च-

पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्र-गृहीतो ऽपि प्रश्नान् मुक्तो द्विजः पुरा ॥पन्च्_५.८८॥

राजा आह–कथम् एतत् ?

ते प्रोचुः-

अतो ऽहं ब्रवीमि-पृच्छकेन सदा भाव्यम् इति ।

अथ तेभ्यस् तच् छ्रुत्वा-राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानम् अस्ति, न वा ?

हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् ।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च ॥पन्च्_५.८९॥
या पुनस् त्रिस्तनी कन्या याति लोचन-गोचरम् ।
पितरं नाशत्य् एव सा द्रुतं नात्र संशयः ॥पन्च्_५.९०॥

तस्माद् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिद् उद्वाहयति, तद् एनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति ।

अथ तेषां तद्-वचनम् आकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणाम् आज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षम् आप्नोति देश-त्यागं च ।

एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति ।

अत्र तत्रैव नगरे कश्चिद् अन्धस् तिष्ठति । तस्य च मन्थरक-नामा कुब्जो ऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दम् आकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथम् अपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश् च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर् भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च-

लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः
कान्तासङ्गः स्वजन-ममता दुःख-हानिर् विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता
पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥पन्च्_५.९१॥

एवम् उक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः ! अहं तां कन्याम् उद्वाहयामि, यदि राजा मे प्रयच्छति ।

ततस् तै राज-पुरुषैर् गत्वा राज्ञे निवेदितम्-देव ! अन्धेन केनचित् पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् ।

राजा प्राह-

अन्धो वा वधिरो वाथ कुष्टी वाप्य् अन्त्यजो ऽपि वा ।
परिगृह्णातु तां कन्यां स-लक्षां स्याद् विदेशगः ॥पन्च्_५.९२॥

अथ राजादेशात् तै राज-पुरुषैस् तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिद् अधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः ।

तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चिद् अधिष्ठाने कैवर्त-दर्शिते त्रयो ऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सुप्तस् तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्व् इदम् उच्यते-

यदि स्याच् छ्री-तलो वह्निश् चन्द्रमा दहनात्मकः ।
सुस्वादः सागरः स्त्रीणां तत्-सतीस् त्वं प्रजायते ॥पन्च्_५.९३॥

अथान्येद्युस् त्रिस्तन्या मन्थरको ऽभिहितः-भोः सुभग ! यद्य् एषो ऽन्धः कथञ्चित् व्यापाद्यते, तद् आवयोः सुखेन कालो याति । तद् अन्विष्यतां कुत्रचिद् विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि ।

अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहम् अभ्येत्य ताम् आह-सुभगे ! लब्धो ऽयं कृष्ण-सर्पः । तद् एनं खण्डशः कृत्वा प्रभूत-शुण्ठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग् विनश्यति । यतो ऽस्य मत्स्यामिषं सदा प्रियम् । एवम् उक्त्वा मन्थरको बहिर् गतः ।

सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्याम् आधाय गृह-व्यापाराकुला तं विकलाक्षं स-प्रश्रयम् उवाच-आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् । यतस् त्वं सदैव तत् पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद् यावद् अहं गृह-कृत्यं करोमि, तावत् त्वं दर्वीम् आदाय क्षणम् एकं तान् प्रचालय ।

सो ऽपि तद् आकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दर्वीम् आदाय प्रमथितुम् आरब्धः । अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्याम् अगलत् । असाव् अप्य् अन्धस् तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां बाष्प-ग्रहणम् अकरोत् ।

ततो लब्ध-दृष्टिर् जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलान्य् एवावलोकयति । ततो व्यचिन्तयत्-अहो, किम् एतत् ? मम मत्स्यामिषं कथितम् आसीद् अनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत् तावद् विजानामि सम्यक् त्रिस्तन्याश् चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित् ? एवं विचिन्त्य स्वाकारं गूहयन्न् अन्धवत् कर्म करोति यथा पुरा ।

अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस् त्रिस्तनीं सेवितुम् उपचक्रमे । सो ऽप्य् अन्धस् तम् अवलोकयन्न् अपि यावन् न किञ्चिच् छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच् छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् ।

अथ कुब्ज-प्रहारेण तस्यास् तृतीयः स्तन उरसि प्रविष्टः । तथा बलान् मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः ।