यादृशी वदन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतो ऽसि यः परैति स जीवति ॥पन्च्_५.८३॥
कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद् राक्षसो जिहीर्षति । रात्राव् आगत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजाम् अवस्थाम् अनुभवति कम्पादिभिः ।
एकम् अतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीम् उवाच-सखि ! पश्यैष विकालः समये नित्यम् एव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच् छ्रुत्वा राक्षसो ऽपि व्यचिन्तयत्-नूनं यथाहं तथान्यो ऽपि कश्चिद् विकाल-नामास्या हरणाय नित्यम् एवागच्छति । परं सो ऽप्य् एनां हर्तुं न शक्नोति । तत् तावद् अश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश् चेति ? एवं राक्षसो ऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिद् अश्व-चौरः प्रविष्टः । स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश् चिन्तयामास-नूनम् एष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुम् आगतः । तत् किं करोमि ? एवं चिन्तयन् सो ऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः ।
चौरो ऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु वेगाद् वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश् चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्त्य् अगणित-खलीनाः । तन् नूनम् अनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशम् अवलोकयामि तद् आत्मानं तत्र पातयामि । नान्यथा मे जीवितव्यम् अस्ति ।
एवं चिन्तयत इष्ट-देवतां स्मरतस् तस्य सो ऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरो ऽपि बट-प्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वाव् अपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद् राक्षस-सुहृद् वानरः स्थित आसीत् । तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-भो मित्र ! किम् एव अलाय्यतेऽलीक-भयेन ? तद् भक्ष्यो ऽयं मानुषः भक्ष्यताम् ।
सो ऽपि वानर-वचो निशम्य, स्वरूपम् आधाय शङ्कित-मनाः स्खलित-गतिर् निवृत्तः । चौरो ऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरो ऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिद् उक्तवान् । केवलं व्यथार्तो निमीलित-नयनस् तिष्ठति । राक्षसो ऽपि तं तथा-भूतम् अवलोक्य श्लोकम् एनम् अपठत्-
यादृशी वचन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतो ऽसि यः परैति स जीवति ॥पन्च्_५.८४॥
इत्य् उक्त्वा प्रणष्टश् च ।