०५-०९ चन्द्रभूपति-कथा

यो लौल्यात् कुरुते नैवोदर्कम् अवेक्षते ।
विडम्बनाम् अवाप्नोति स यथा चन्द्र-भूपतिः ॥पन्च्_५.६९॥

कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यम् एवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म ।

अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथम् अस्ति । तन्-मध्याद् एको जिह्वा-लौल्याद् अहर्-निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर् यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति ।

सो ऽपि वानर-यूथपस् तद् दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहो ऽयं वानराणां क्षयाय भविष्यति । यतो ऽन्न-रसास्वाद-लम्पटो ऽयं मेषो, महा-कोपाश् च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद् यदि वस्तुनो ऽभावात् कदाचिद् उल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरो ऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद् दह्यमानः पुनर् अश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततो ऽश्वा वह्नि-दाहम् अवाप्स्यन्ति ।

शालिहोत्रेण पुनर् एतद् उक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनम् एतेन भाव्यम् अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्-

मेषेण सूपकाराणां कलहो यत्र जायते ।
स भविष्यत्य् असन्दिग्धं वानराणां क्षयावहः ॥पन्च्_५.७०॥
तस्मात् स्यात् कलहो यत्र गृहे नित्यम् अकारणः ।
तद्-गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत् ॥पन्च्_५.७१॥
कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम् ॥पन्च्_५.७२॥

तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावद् एवैतद् राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद् बुद्धि-वैकल्यं सञ्जातं, येनैतद् ब्रवीषि । उक्तं च-

वदनं दशनैर् हीनं लाला स्रवति नित्यशः ।
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः ॥पन्च्_५.७३॥

न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तान् अमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः ।

तच् छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयम् एतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च-

मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् ।
धन्यास् ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥पन्च्_५.७४॥

एवम् अभिधाय सर्वांस् तान् परित्यज्य स यूथाधिपो ऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावद् अर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानो ऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः ।

तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुत्थिता यथा केचिद् अश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद् बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश् चेतश् च ह्रेषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः ।

अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चिद् दाहोपशमनोपायः ।

तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तम् अत्र विषये भगवता शालिहोत्रेण, यत्-

कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा ।
अश्वानां नाशम् अभ्येति तमः सूर्योदये यथा ॥पन्च्_५.७५॥

तत् क्रियताम् एतच् चिकित्सितां द्राक्, यावद् एते न दाह-दोषेण विनश्यन्ति ।

सो ऽपि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर् व्यापादिताः इति ।

अथ सो ऽपि वानर-यूथपस् तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादम् उपगतः । सन्त्यक्ताहार-क्रियो वनाद् वनं पर्यटति । अचिन्तयच् च-कथम् अहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च-

मर्षयेद् धर्षणां यो ऽत्र वंशजां पर-निर्मिताम् ।
भयाद् वा यदि वा कामात् स ज्ञेयः पुरुषाधमः ॥पन्च्_५.७६॥

अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद् यावत् सूक्ष्मेक्षिकयावलोकयति तावद् वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशो ऽस्ति न निष्क्रमणम् । ततश् चिन्तितम्-नूनम् अत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालम् आदाय दूरस्थो ऽपि जलं पिबामि ।

तथानुष्ठिते तन्-मध्याद् राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस् तम् उवाच-भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस् त्वत्-समो ऽन्यो यः पानीयम् अनेन विधिना पिबति । ततस् तुष्टो ऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।

कपिर् आह-भोः ! कियती मे भक्षण-शक्तिः ?

स आह-शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालो ऽपि मां धर्षयति ।

वानर आह-अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम् । यद्य् एनां रत्न-मालां मे प्रयच्छसि, तत् परिवारम् अपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि ।

सो ऽपि श्रद्धेयं वचस् तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत् समुचितं भवति तत् कर्तव्यम् इति ।

वानरो ऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर् दृष्टः । पृष्टश् च-भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग् रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यम् अपि तिरस्करोति ।

वानरः प्राह-अस्ति कुत्रचिद् अरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।

अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः । पृष्टश् च-भो यूथाधिप ! किं सत्यम् एतत् ? रत्न-माला-सनाथं सरो ऽस्ति क्वापि ?

कपिर् आह-स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस् ते । तद् यदि रत्न-मालया प्रयोजनं तन् मया सह कम् अपि प्रेषय, येन दर्शयामि ।

तच् छ्रुत्वा नृपतिर् आह-यद्य् एवं तद् अहं स-परिजनः स्वयम् एष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।

वानर आह-एवं क्रियताम् ।

तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरो ऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वम् आनीयते । अथवा साध्व् इदम् उच्यते- तृष्णे देवि नमस् तुभ्यं यया वित्तान्विता अपि । अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्व् अपि ॥पन्च्_५.७७॥

तथा च-
इच्छति शती सहस्रं सहस्री लक्षम् ईहते ।
लक्षाधिपस् तथा राज्यं राज्यस्थः स्वर्गम् ईहते ॥पन्च्_५.७८॥
जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।
जीर्यतश् चक्षुषी श्रोत्रे तृष्णैका तरुणायते ॥पन्च्_५.७९॥

अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानम् उवाच-देव ! अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर् भवति तत् सर्वो ऽपि जन एकदैव प्रविशतु । त्वया पुनर् मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानम् आसाद्य, प्रभूतास् ते रत्न-माला दर्शयामि ।

अथ प्रविष्टास् ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरम् आह-भो यूथाधिप किम् इति चिरायते मे परिजनः ?

तच् छ्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास् ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद् गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च-

कृते प्रतिकृतं कुर्याद् धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि यो दुष्टे दुष्टम् आचरेत् ॥पन्च्_५.८०॥

तत् त्वया मम कुल-क्षयः कृतः मया पुनस् तव इति ।

अथैतद् आकर्ण्य राजा कोपाविष्टः पदातिर् एकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दम् इदम् आह-

हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता ।
नालेन पिबता तोयं भवता साधु वानर ॥पन्च्_५.८१॥