०५-०८ ब्राह्मण-स्वप्नः

सोमशर्मपितृ-कथा॥

अनागतवतीं चिन्ताम्
असम्भाव्यां करोति यः ।
स एव पाण्डुरः शेते
सोम-शर्म-पिता यथा ॥पन्च्_५.६८॥

कस्मिंश्चिन् नगरे
कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः
प्रतिवसति स्म ।
तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शेषैः कलशः सम्पूरितः
तं च घटं नागदन्ते ऽवलम्ब्य
तस्याधस्तात् खट्वां निधाय
सततम् एक-दृष्ट्या तम् अवलोकयति

अथ कदाचिद् रात्रौ सुप्तश् चिन्तयामास यत् -
परिपूर्णो ऽयं घटस् तावत् सक्तुभिर् वर्तते ।
तद् यदि दुर्भिक्षं भवति,
तद् अनेन रूप्यकाणां शतम् उत्पत्स्यते
ततस् तेन मया ऽजा-द्वयं ग्रहीतव्यम्
ततः षाण्-मासिकम् आप्रसव-वशात्
ताभ्यां यूथं भविष्यति
ततो ऽजाभिः
प्रभूता गा ग्रहीष्यामि
गोभिर् महिषीः ।
महिषीर् बडवाः ।
बडवा-प्रसवतः
प्रभूता अश्वा भविष्यन्ति
तेषां विक्रयात्
प्रभूतं सुवर्णं भविष्यति
सुवर्णेन चतुःशालं गृहं सम्पत्स्यते ।

ततः कश्चिद् ब्राह्मणो
मम गृहम् आगत्य
प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति
तत्-सकाशात् पुत्रो मे भविष्यति
तस्याहं सोम-शर्मा इति नाम करिष्यामि
ततस् तस्मिन् जानु-चलन-योग्ये सञ्जाते
ऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस्
तद् अवधारयिष्यामि
अत्रान्तरे सोमशर्मा
मां दृष्ट्वा
जनन्य्-उत्सङ्गाज् जानु-चलन-परो ऽश्व-खुरासन्न-वर्ती
मत्-समीपम् आगमिष्यति
ततो ऽहं ब्राह्मणीं कोपाविष्टो ऽभिधास्यामि- “गृहाण तावद् बालकम्” ।
सापि गृह-कर्म-व्यग्रतया ऽस्मद्-वचनं न श्रोष्यति
ततो ऽहं समुत्थाय
तां पाद-प्रहारेण ताडयिष्यामि

एवं तेन ध्यान-स्थितेन
तथैव पाद-प्रहारो दत्तो
यथा स घटो भग्नः,
स्वयं च सक्तुभिः पाण्डुरतां गतः