०५-०७ द्विशिराः कौलिकः

मन्थरकौलिक-कथा॥

यस्य नास्ति स्वयं प्रज्ञा
मित्रोक्तं न करोति यः ।
स एव निधनं याति
यथा मन्थर-कौलिकः+++(=तन्तुवायः)+++ ॥पन्च्_५.५८॥

कस्मिंश्चिद् अधिष्ठाने
मन्थरको नाम कौलिकः प्रतिवसति स्म ।
तस्य कदाचित् पट-कर्माणि कुर्वतः
सर्व-पट-कर्म-काष्ठानि भग्नानि
ततः स कुठारम् आदाय
वने काष्ठार्थं गतः
स च समुद्र-तटे यावद् भ्रमन् प्रयातः।
तावत् तत्र शिंशपा-पादपस् तेन दृष्टः
ततश् चिन्तितवान् -

महान् अयं वृक्षो दृश्यते ।
तद् अनेनैव कर्तितेन
प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति ।

इत्य् अवधार्य
तस्योपरि कुठारम् उत्क्षिप्तवान्

अथ तत्र वृक्षे
कश्चित् व्यन्तरः+++(→देवकः)+++ समाश्रित्य आसीत्
अथ तेनाभिहितम्-

भोः ! मद्-आश्रयो ऽयं पादपः
सर्वथा रक्षणीयः -
यतो ऽहम्
अत्र महा-सौख्येन तिष्ठामि,
समुद्र-कल्लोल-स्पर्शनाच् छीत-वायुनाप्यायितः

कौलिक आह-

भोः ! किम् अहं करोमि ?
दारु-सामग्रीं विना
मे कुटुम्बं बुभुक्षया पीड्यते
तस्माद् अन्यत्र शीघ्रं गम्यताम्
अहम् एनं कर्तयिष्यामि

व्यन्तर आह-

भोः ! तुष्टस् तवाहम् ।
तत् प्रार्थ्यताम् अभीष्टं किञ्चित् ।
रक्षैमं पादपम् इति ।

कौलिक आह-

यद्य् एव तद् -
अहं स्व-गृहं गत्वा
स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि
ततस् त्वया देयम् ।

अथ तथेति व्यन्तरेण प्रतिज्ञाते
स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो
यावद् अग्रे गच्छति,
तावद् ग्राम-प्रवेशे निज-सुहृदं नापितम् अपश्यत्
ततः तस्य व्यन्तर-वाक्यं निवेदयाम् आस, यत्-

अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः
तत् कथय, किं प्रार्थये ?
अहं त्वां प्रष्टुम् आगतः

नापित आह-

भद्र ! यद्य् एवं
तद् राज्यं प्रार्थयस्व,
येन त्वं राजा भवसि,
अहं त्वन्-मन्त्री ।
द्वाव् अपीह सुखम् अनुभूय
पर-लोक-सुखम् अनुभवावः
उक्तं च-

राजा दान-परो नित्यम्
इह कीर्तिम् अवाप्य च ।
तत् प्रभावात् पुनः स्वर्गे
स्पर्धते त्रिदशैः सह ॥पन्च्_५.५९॥

कौलिक आह-

अस्त्य् एतत्, तथापि गृहिणीं पृच्छामि

स आह-

भद्र ! शास्त्र-विरुद्धम् एतत्,
यत् स्त्रिया सह मन्त्रः ।
यतस् ताः स्वल्प-मतयो भवन्ति ।
उक्तं च-

भोजनाच्छादने दद्याद्
ऋतु-काले च सङ्गमम् ।
भूषणाद्यं च नारीणां
न ताभिर् मन्त्रयेत् सुधीः ॥पन्च्_५.६०॥

यत्र स्त्री, यत्र कितवो
बालो यत्र प्रशासिता
तद् गृहं क्षयम् आयाति
भार्गवो हीदम् अब्रवीत् ॥पन्च्_५.६१॥

तावत् स्यात् सुप्रसन्नास्यस्,
तावद् गुरु-जने रतः ।
पुरुषो योषितां यावन्
न शृणोति वचो रहः ॥पन्च्_५.६२॥

एताः स्वार्थ-परा नार्यः
केवलं स्व-सुखे रताः
न तासां वल्लभः को ऽपि
सुतो ऽपि स्व-सुखं विना ॥पन्च्_५.६३॥

कौलिक आह-

तथापि प्रष्टव्या सा मया - यतः पतिव्रता सा ।
अपरं ताम् अपृष्ट्वा ऽहं
न किञ्चित् करोमि ।

एवं तम् अभिधाय
सत्वरं गत्वा ताम् उवाच-

प्रिये ! अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः
स वाञ्छितं प्रयच्छति
तद् अहं त्वां प्रष्टुम् आगतः
तत् कथय किं प्रार्थये ?
एष तावन् मम मित्रं नापितो वतद्य्
एवं यत्-राज्यं प्रार्थयस्व ।

साह-

आर्यपुत्र ! का मतिर् नापितानाम् ?
तन् न कार्यं तद् वचः । उक्तं च-

चारणैर् वन्दिभिर् नीचैर्
नापितैर् बालकैर् अपि ।
न मन्त्रं मतिमान् कुर्यात्
सार्धं भिक्षुभिर् एव च ॥पन्च्_५.६४॥

अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः,
सन्धि-विग्रह-यानासन-संश्रय–द्वैधी-भावादिभिः
कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः-

यदैव राज्ये क्रियते ऽभिषेकस्
तदैव याति व्यसनेषु बुद्धिः ।
घटा नृपाणाम् अभिषेक-काले
सहाम्भसैवापदम् उद्गिरन्ति ॥पन्च्_५.६५॥+++(4)+++

तथा च-

रामस्य व्रजनं वने, निवसनं पाण्डोः सुतानां वने,
वृष्णीनां निधनं, नलस्य नृपते राज्यात् परिभ्रंशनम् ।
+++(शापात् कल्माषपादस्य क्रव्यादत्वप्राप्तेः)+++ सौदासं तद्-अवस्थम्, अर्जुन-वधं, सञ्चिन्त्य लङ्केश्वरं
दृष्ट्वा राज्य-कृते विडम्बन-गतं, तस्मान् न तद् वाञ्छयेत् ॥पन्च्_५.६६॥

यद्-अर्थं भ्रातरः पुत्रा
अपि वाञ्छन्ति ये निजाः ।
वधं राज्य-कृतां राज्ञां
तद् राज्यं दूरतस् त्यजेत् ॥पन्च्_५.६७॥

कौलिक आह-

सत्यम् उक्तं भवत्या । तत् कथय किं प्रार्थये ?

साह-

त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि
तेन सर्वा व्यय-शुद्धिः सम्पद्यते
इदानीं त्वम् आत्मनो ऽन्यद् बाहु-युगलं, द्वितीयं शिरश् च याचस्व,
येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश् च ।
एकस्य मूल्येन गृहे यथा-पूर्वं व्ययं सम्पादयिष्यसि,
द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि
एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य
कालो यास्यति,
लोक-द्वयस्योपार्जना च भविष्यति ।

सो ऽपि तद् आकर्ण्य प्रहृष्टः प्राह-

साधु पतिव्रते ! साधु !
युक्तम् उक्तं भवत्या ।
तद् एवं करिष्यामि ।
एष मे निश्चयः ।

ततो ऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे-

भो, यदि ममेप्सितं प्रयच्छसि तद् देहि मे द्वितीयं बाहु-युगलं शिरश् च ।

एवम् अभिहिते
तत्-क्षणाद् एव
द्विशिराश् चतुर्बाहुश् च सञ्जातः
ततो हृष्ट-मना यावद् गृहम् आगच्छति
तावल्-लोकैः “राक्षसो ऽयम्” इति मान्यमानैर्
लगुड-पाषाण-प्रहारैस् ताडितो मृतश् च ।