साधु मातुल गीतेन
मया प्रोक्तो ऽपि न स्थितः ।
अपूर्वो ऽयं मणिर् बद्धः
सम्प्राप्तं गीत-लक्षणम् ॥पन्च्_५.४९॥
कस्मिंश्चिद् अधिष्ठाने
उद्धतो नाम गर्दभः प्रतिवसति स्म ।
स सदैव रजक-गृहे भारोद्वहनं कृत्वा
रात्रौ स्वेच्छया पर्यटति ।
ततः प्रत्यूषे बन्धन-भयात्
स्वयम् एव रजक-गृहम् आयाति ।
रजको ऽपि ततस् तं बन्धनेन नियुनक्ति ।
अथ तस्य रात्रौ क्षेत्राणि पर्यटतः
कदाचिच् छृगालेन सह मैत्री सञ्जाता।
स च पीवरत्वाद् वृत्ति-भङ्गं कृत्वा
कर्कटिका(=cucumber)-क्षेत्रे शृगाल-सहितः प्रविशति ।
एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा,
प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः ।
अथ कदाचित् तेन मदोद्धतेन रासभेन
क्षेत्र-मध्य-स्थितेन शृगालो ऽभिहितः-
भोः भगिनी-सूत ! पश्य पश्य ।
अतीव निर्मला रजनी ।
तद् अहं गीतं करिष्यामि ।
तत् कथय कतमेन रागेण करोमि ।
स आह-
माम ! किम् अनेन वृथानर्थ-प्रचालनेन ?
यतश् चौर-कर्म-प्रवृत्ताव् आवाम् ।
निभृतैश् च चौर-जारैर् अत्र स्थातव्यम् ।(5)
उक्तं च-कासी विवर्जयेच् चौर्यं
निद्रालुश् चेत् स पुंश्चलीम् ।
जिह्वा-लौल्यं च रुजाक्रान्तो
जीवितं यो ऽत्र वाञ्छति ॥पन्च्_५.५०॥कास-युक्तस् त्यजेच् चौर्य्यं
निद्रालुश्चेत् स चौरिकाम् ।
जिह्वालौल्यं च रुजाक्रान्तो
जीवितं योऽत्र वाञ्छति ॥५.५०॥(सम्पादकटिप्पनी - पुस्तके अत्रायं पाठः ।)
अपरं त्वदीयं गीतं न मधुर-स्वरं,
शङ्ख-शब्दानुकारं दूराद् अपि श्रूयते ।
तद् अत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति ।
ते उत्थाय वधं बन्धनं वा करिष्यन्ति ।
तद् भक्षय तावद् अमृतमयीश् चर्भटीः ।
मा त्वम् अत्र गीत-व्यापार-परो भव ।
तच् छ्रुत्वा राभस आह-
भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि,
तेनैतद् ब्रवीषि । उक्तं च-शरज्-ज्योत्स्ना-हते दूरं
तमसि प्रिय-सन्निधौ ।
धन्यानां विशति श्रोत्रे
गीत-झङ्कार-जा सुधा ॥पन्च्_५.५१॥
शृगाल आह-
माम, अस्त्य् एतत् ।
परं न वेत्सि त्वं गीतम् ।
केवलम् उन्नदसि ।
तत् किं तेन स्वार्थ-भ्रंशकेन ?
रासभ आह-
धिग् धिङ् मूर्ख !
किम् अहं न जानामि गीतम् ?
तद् यथा तस्य भेदान् शृणु-सप्त स्वरास् त्रयो ग्रामा
मूर्च्छताश् चैकत्रिंशतिः ।
तानास् त्व् एकोन-पञ्चाशत्
तिस्रो मात्रा लयास् त्रयः ॥पन्च्_५.५२॥स्थान-त्रयं यतीनां च
षड्-अस्यानि रसा नव । रागा षट्-त्रिंशतिर् भावाश्
चत्वारिंशत् ततः स्मृताः ॥पन्च्_५.५३॥पञ्चाशीत्य्-अधिकं ह्य् एतद्
गीताङ्गानां शतं स्मृतम् ।
स्वयम् एव पुरा प्रोक्तं
भरतेन श्रुतेः परम् ॥पन्च्_५.५४॥नान्यद् गीतात् प्रियं लोके
देवानाम् अपि दृश्यते ।
शुष्क-स्नायु-स्वराह्लादात्
त्र्य्-अक्षं जग्राह रावणः ॥पन्च्_५.५५॥तत् कथं भगिनी-सुत माम् अनभिज्ञं वदन् निवारयति ?
शृगाल आह-
माम ! यद्य् एवं यावद् वृत्तेर् द्वार-स्थितः
क्षेत्र-पालम् अवलोकयामि,
त्वं पुनः स्वेच्छया गीतं कुरु ।
तथानुष्ठिते रासभ-रटनम् आकर्ण्य
क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः ।
यावद् रासभो दृष्टस्
तावल् लगुड-प्रहारैस् तथा हतो,
यथा प्रताडितो भू-पृष्ठे पतितः ।
ततश् च सच्-छिद्रम् उलूखलं तस्य गले बद्ध्वा
क्षेत्रपालः प्रसुप्तः ।
रासभो ऽपि स्वजाति-स्वभावाद् गत-वेदनः
क्षणेनाभ्युत्थितः ।
उक्तं च-
सारमेयस्य चाश्वस्य
रासभस्य विशेषतः । मुहूर्तात् परतो न स्यात्
प्रहार-जनिता व्यथा ॥पन्च्_५.५६॥
तत तम् एवोलूखलम् आदाय
वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः ।
अत्रान्तरे शृगालो ऽपि दूराद् एव दृष्ट्वा
स-स्मितम् आह-
साधु मातुल गीतेन
मया प्रोक्तो ऽपि न स्थितः ।
अपूर्वो ऽपि मणिर् बद्धः
साम्प्रतं गीत-लक्षणम् ॥पन्च्_५.५७॥