०५-०५ मत्स्यमण्डूक-कथा

शतबुद्धिः शिरस्थो ऽयं लम्बते च सहस्र-धीः ।
एक-बुद्धिर् अहं भद्रे क्रीडामि विमले जले ॥पन्च्_५.४३॥

कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश् च द्वौ मत्स्यौ निवसतः स्म । अथ तयोर् एकबुद्धिर् नाम मण्डूको मित्रतां गतः । एवं ते त्रयो ऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखम् अनुभूय, भूयो ऽपि सलिलं प्रविशन्ति ।

अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्यो ऽयं ह्रदो दृश्यते, स्वल्प-सलिलश् च। तत् प्रभातेऽत्रागमिष्यामः । एवम् उक्त्वा स्व-गृहं गताः ।

मत्स्याश् च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किम् अत्र युज्यते कर्तुम् ? पलायनम् अवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तद् आदिश्यताम् अद्य ।

तच् छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्राद् एव भयं न कार्यम् । न भेतव्यम् । उक्तं च-

सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥पन्च्_५.४४॥

तावत् तेषाम् आगमनम् अपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतो ऽनेकांसलिल-चर्याम् अहं जानामि ।

तद् आकर्ण्य शतबुद्धिर् आह-भोः युक्तम् उक्तं भवता । सहस्रबुद्धिर् एव भवान् । अथवा साध्व् इदम् उच्यते ।

बुद्धेर् बुद्धिमतां लोके नास्त्य् अगम्यं हि किञ्चन ।
बुद्ध्या यतो हता नन्दाश् चाणक्येनासि-पाणयः ॥पन्च्_५.४५॥

तथा-
न यत्रास्ति गतिर् वायो रश्मीनां च विवस्वतः ।
तत्रापि प्रविशत्य् आशु बुद्धिर् बुद्धिमतां सदा ॥पन्च्_५.४६॥

ततो वचन-श्रवण-मात्राद् अपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च-

न यत् स्वर्गेऽपि सौख्यं स्याद् दिव्य-स्पर्शेन शोभने ।
कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः ॥पन्च्_५.४७॥

तन् न कदाचिद् अपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावद् एकैव बुद्धिः पलायन-परा । तद् अहम् अन्य-जलाशयम् अद्यैव सभार्यो यास्यामि ।

एवम् उक्त्वा स मण्डूको रात्राव् एवान्य-जलाशयं गतः । धीवरैर् अपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । ताव् अपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च ।

अथापराह्न-समये प्रहृष्टास् ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच् चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश् च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य-

शतबुद्धिः शिरःस्थो ऽयं लम्बते च सहस्रधीः ।
एकबुद्धिर् अहं भद्रे क्रीडामि विमले जले ॥पन्च्_५.४८॥