अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥पन्च्_५.३८॥
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वम् आपन्ना वसन्ति स्म । बाल-भावे तेषां मतिर् अजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते ।
अथ्-अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावद् एकचित्ततया पठित्वा, विद्या-कुशलास् ते सर्वे सञ्जाताः ।
ततस् तैश् चतुर्भिर् मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायम् उत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद् द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ?
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतो ऽभूत् । ततश् चतूर्णां मध्याद् एकेन पुस्तकम् अवलोकितम्-महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन् महाजनम् एलापकेन सह यान्ति, तावद् रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम् उद्घाट्यावलोकितम् ।
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥पन्च्_५.३९॥
तद् अहो ! अयम् अस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताह् दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चिद् दुष्टो दृष्टः । तैश् चोक्तम्-एतत् किम् ?
तावत् तृतीयेन पुस्तकम् उद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन् नूनम् एष धर्मस् तावत् ।
चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत् ।
अथ तैश् च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद् रजकस् तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस् तावत् ते प्रणष्टाः ।
ततो तावद् अग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रम् आयातं दृष्ट्वा पण्डितेनैकेनोक्तम्-आगमिष्यति यत् पत्रं तस् अस्मांस् तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानम् अलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः ॥पन्च्_५.४०॥
अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर् निमन्त्रितः पृथग् गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवम् उक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद् भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः ।
अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्व् अनर्था बहुलीभवन्ति । एवं ते त्रयो ऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास् ततः स्थानात् स्व-देशं गताः ।