०५-०३ सिंहकारकमूर्खब्राह्मण-कथा

वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा ।
बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥पन्च्_५.३५॥

कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राह् परं मित्र-भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस् तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर् मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः ।

तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकम् एकश् चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद् गच्छतु गृहम् ।

ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस् ते विद्या नास्ति ।

ततस् तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्य् एकत्र क्रीडिताः । तद् आगच्छतु महानुभावो ऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च-

किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते ॥पन्च्_५.३६॥

तथा च-
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥पन्च्_५.३७॥

तद् आगच्छत्व् एषो ऽपीति ।

तथानुष्ठिते तैर् मार्गाश्रितैर् अटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश् चैकेनाभिहितं-अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिद् एतत् सत्त्वं मृतं तिष्ठति । तद् विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहम् अस्थि-सञ्चयं करोमि ।

ततश् च तेनौत्सुक्याद् अस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयो ऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्य् एनं सजीवं करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति ।

इति तेनाभिहितः स आह-धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि ।

ततस् तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावद् अहं वृक्षम् आरोहामि ।

तथानुष्ठिते, यावत् सजीवः कृतस् तावत् ते त्रयो ऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर् वृक्षाद् अवतीर्य गृहं गतः ।