अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥पन्च्_५.२१॥
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिग् इयं दरिद्रता ! उक्तं च-
वरं वनं व्याघ्र-गजादि-सेवितं जनेन हीनं बहु-कण्टकावृतम् । तृणानि शय्या परिधान-वल्कलः न बन्धु-मध्ये धन-हीन-जीवितम् ॥पन्च्_५.२२॥
तथा च- स्वामी द्वेष्टि सुसेवितो ऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः राजन्ते न गुणास् त्यजन्ति तनुजाः स्फारीभवन्त्य् आपदः । भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च न्यायारोपित-विक्रमाण्य् अपि नृणां येषां न हि स्याद् धनम् ॥पन्च्_५.२३॥
शूरः सुरूपः सुभगश् च वाग्मी शस्त्राणि शास्त्राणि विदांकरोतु । अर्थं विना नैव यशश् च मानं प्राप्नोति मर्त्यो ऽत्र मनुष्य-लोके ॥पन्च्_५.२४॥
तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव बाह्यः क्षणेन भवतीति विचित्रम् एतत् ॥पन्च्_५.२५॥
तद् गच्छामः कुत्रचिद् अर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्व् इदम् उच्यते-
सत्यं परित्यजति मुञ्चति बन्धु-वर्गं शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् । सन्त्यज्य गच्छति विदेशम् अभीष्ट-लोकं चिन्ताकुलीकृत-मतिः पुरुषो ऽत्र लोके ॥पन्च्_५.२६॥
एवं क्रमेण गच्छन्तो ऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी संमुखो बभूव । ततस् तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?
ततस् तैर् अभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर् मृत्युर् वा भविष्यतीत्य् एष निश्चयः । उक्तं च-
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि । अवसर-तुलिताभिर् अलं तनुभिः साहसिक-पुरुषाणाम् ॥पन्च्_५.२७॥ तथा च- पतति कदाचिन् नभसः खाते पातालतो ऽपि जलम् एति । दैवम् अचिन्त्यं बलवद् बलवान् ननु पुरुषकारो ऽपि ॥पन्च्_५.२८॥ अभिमत-सिद्धिर् अशेषा भवति हि पुरुषस्य पुरुषकारेण । दैवम् इति यदपि कथयसि पुरुष-गुणः सो ऽप्य् अदृष्टाख्यः ॥पन्च्_५.२९॥ भयम् अतुलं गुरु-लोकात् तृणम् इव तुलयन्ति साधु साहसिकाः । प्राणान् अद्भुतम् एतच् चार्तिं चरितं ह्य् उदाराणाम् ॥पन्च्_५.३०॥ क्लेशस्याङ्गम् अदत्त्वा सुखम् एव सुखानि नेह लभ्यन्ते । मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम् ॥पन्च्_५.३१॥ तस्य कथं न चला स्यात् पत्नी विष्णोर् नृसिंहकस्यापि मासांश् चतुरो निद्रां यः सेवति जल-गतः सततम् ॥पन्च्_५.३२॥ दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् । जयति तुलाम् अधिरूढो भास्वान् इह जलद-पटलानि ॥पन्च्_५.३३॥
तत् कथ्यताम् अस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनाम् एकतम इति । अद्भुत-शक्तिर् भवान् श्रूयते । वयम् अप्य् अतिसाहसिकाः । उक्तं च-
महान्त एव महताम् अर्थं साधयितुं क्षमाः । ऋते समुद्राद् अन्यः को बिभर्ति बडवानलम् ॥पन्च्_५.३४॥
भैरवानन्दो ऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् ।
तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद् वरित्र् निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस् तेनाभिहितम्-अहो, गृह्यतां स्वेच्छया ताम्रम् ।
अन्ये प्रोचुः-भो मूढ ! किम् अनेन क्रियते यत् प्रभूतम् अपि दारिद्र्यं न नाशयति । तद् उत्तिष्ठ अग्रतो गच्छामः ।
सो ऽब्रवीत्-यान्तु भवन्तः । नाहम् अग्र यास्यामि । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
ते त्रयो ऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर् निपपात । सो ऽपि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।
ताव् ऊचतुः-भोः पृष्ठतस् ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनम् अग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तद् आवाम् अग्रे यास्यावः ।
एवम् उक्त्वा द्वाव् अप्य् अग्रे प्रस्थितौ । सो ऽपि स्व-शक्त्या रूप्यम् आदाय निवृत्तः । अथ तयोर् अपि गच्छतोर् एकस्याग्रे वर्तिः पपात । सो ऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णाद् अन्यन् न किञ्चिद् उत्तमं भविष्यति । स प्राह-मूढ ! न किञ्चिद् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनम् अतः परं रत्नानि भविष्यन्ति । येषाम् एकतमेनापि दारिद्र्य-नाशो भवति । तद् उत्तिष्ठ, अग्रे गच्छावः । किम् अनेन भार-भूतेनापि प्रभूतेन ?
स आह-गच्छतु भवान् । अहम् अत्र स्थितस् त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सो ऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश् चेतश् च बभ्राम ।
अथ भ्राम्यन्, स्थलोपरि पुरुषम् एकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकम् अपश्यत् । ततो द्रुततरं गत्वा तम् अवोचत्-भोः ! को भवान् ? किम् एवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलम् अस्ति ।
एवं तस्य प्रवदतस् तच् चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् ।
स आह-भद्र, किम् एतत् ?
स आह-ममाप्य् एवम् एतच् छिरसि चटितम् ?
स आह-तत् कथय, कदैतद् उत्तरिष्यति ? महती मे वेदना वर्तते ।
स आह-यदा त्वम् इव कश्चिद् अधृत-सिद्ध-वर्तिर् एवम् आगत्य, त्वाम् आलापयिष्यति तदा तस्य मस्तकं चटिष्यति ।
स आह-कियान् कालस् तवैवं स्थितस्य ?
स आह-साम्प्रतं को राजा धरणी-तले ?
स आह-वीणा-वादन-पटुः वत्स-राजः ।
स आह-अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिम् आदायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश् च । ततश् चैतज् जातम् ।
स आह-भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिर् आसीत् ?
स आह-भद्र ! धनदेन निधान-हरण-भयात् सिद्धानाम् एतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिद् अपि नागच्छति । यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलम् एवं वेदनाम् अनुभवति इति । तद् आज्ञापय मां स्व-गृहाय । इत्य् उक्त्वा गतः ।
तस्मिंश् चिरयति स सुवर्ण-सिद्धिस् तस्यान्वेषण-परस् तत्-पद-पङ्क्त्या यावत् किञ्चिद् वनान्तरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्न् उपविष्ठस् तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किम् एतत् ?
स आह-विधि-नियोगः ।
स आह-कथं तत् ? कथय कारणम् एतस्य ।
सो ऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तम् अकथयत् ।
तच् छ्रुत्वासौ तं विगर्हयन्न् इदम् आह-भोः ! निषिद्धस् त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावान् अपि कुलीनो ऽपि वस्तुतो बुद्धि-रहितो ऽसि । अथवा साध्व् इदम् उच्यते-
- वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा ।
बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥पन्च्_५.३५॥
चक्रधर आह-कथम् एतत् ?
सुवर्णसिद्धिर् आह- +++(सम्पादकटिप्पनी - पुस्तकेऽधिकः पाठः ।)+++
अतो ऽहं ब्रवीमि-वरं बुद्धिर् न सा विद्या इति ।
अतः परम् उक्तं स सुवर्णसिद्धिना-
- अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥पन्च्_५.३८॥
चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
अथ सुवर्ण-सिद्धिर् आह-यत् त्वं लोक-व्यवहारम् अजानन् मया वार्यमाणो ऽपि न स्थितः तत ईदृशीम् अवस्थातुम् उपगतः । अतो ऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति ।
तच् छ्रुत्वा चक्रधर आह-अहो अकारणम् एतत् । यतो हि-
सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः । स्वल्प-धीर् अपि तस्मिंस् तु कुले नन्दति सन्ततम् ॥पन्च्_५.४१॥
उक्तं च- अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति ॥पन्च्_५.४२॥
तथा च-
- शतबुद्धिः शिरस्थो ऽयं लम्बते च सहस्र-धीः ।
एक-बुद्धिर् अहं भद्रे क्रीडामि विमले जले ॥पन्च्_५.४३॥
सुवर्णसिद्धिर् आह-कथम् एतत् ?
स आह-
- अतोऽहं ब्रवीमि - न एकान्ते बुद्धिरपि प्रमाणम् । +++(सम्पादकटिप्पनी- इदं पुस्तकेऽधिकः पाठः)+++
अतश् च वरं बुद्धिर् न सा विद्या यद् भवतोक्तं तत्रेयं मे मतिर् यत् न एकान्तेन बुद्धिर् अपि प्रमाणम् । +++(सम्पादकटिप्पनी - इदं पुस्तके न वर्तते। )+++
सुवर्णसिद्धिः प्राह-यद्यप्य् एतद् अस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितो ऽपि मया न स्थितो ऽसि, अतिलौल्यात् विद्याहङ्काराच् च । अथवा साध्व् इदम् उच्यते-
- साधु मातुल गीतेन मया प्रोक्तो ऽपि न स्थितः ।
अपूर्वो ऽयं मणिर् बद्धः सम्प्राप्तं गीत-लक्षणम् ॥पन्च्_५.४९॥
चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
तद् भवान् अपि मया वार्यमाणो ऽपि न स्थितः ।
तच् छ्रुत्वा चक्रधर आह-भो मित्र ! सत्यम् एतत् । अथवा साध्व् इदम् उच्यते-
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थर-कोलिकः ॥पन्च्_५.५८॥
सुवर्णसिद्धिर् आह-कथम् एतत् ?
सो ऽब्रवीत्-
अतो ऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति ।
चक्रधर आह-भोः ! सत्यम् एतत् । सर्वो ऽपि जनो ऽश्रद्देयाम् आशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्व् इदम् उच्यते केनापि-
- अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः । स एव पाण्डुरः शेते सोम-शर्म-पिता यथा ॥पन्च्_५.६८॥
सुवर्णसिद्धिर् आह-कथम् एतत् ?
सो ऽब्रवीत्-
अतो ऽहं ब्रवीमि-अनागतवतीं चिन्ताम् इति ।
सुवर्णसिद्धिर् आह-एवम् एतत् । कस् ते दोषः, यतः सर्वो ऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च-
- यो लौल्यात् कुरुते नैवोदर्कम् अवेक्षते ।
विडम्बनाम् अवाप्नोति स यथा चन्द्र-भूपतिः ॥पन्च्_५.६९॥
चक्रधर आह-कथम् एतत् ?
स आह-
अतो ऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति ।
एवम् उक्त्वा भूयो ऽपि स चक्रधरम् आह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि ।
चक्रधर आह-भद्र ! आपद्-अर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् माम् एवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च-
यस् त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् ।
कृतघ्नस् तेन पापेन नरके यात्य् असंशयम् ॥पन्च्_५.८२॥
सुवर्णसिद्धिर् आह-भोः, सत्यम् एतद् यदि गम्य-स्थाने शक्तिर् भवति । एतत् पुनर् मनुष्याणाम् अगम्य-स्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहम् एतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थो भवेद् इति । यतः-
- यादृशी वदन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतो ऽसि यः परैति स जीवति ॥पन्च्_५.८३॥
चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
- उक्त्वा प्रनष्टश्च ।
तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनर् अनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह-भोः अकारणम् एतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च-
दुर्गस् त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच् च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैव-वशाद् विपन्नः ॥पन्च्_५.८५॥
तथा च-
- अन्धकः कुब्जकश् चैव त्रिस्तनी राज-कन्यका ।
त्रयो ऽप्य् अन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥पन्च्_५.८६॥
सुवर्ण-सिद्धिः प्राह-कथम् एतत् ?
सो ऽब्रवीत्-
अतो ऽहं ब्रवीमि-अन्धकः कुब्जकश् चैव (८४) इति ।
सुवर्णसिद्धिर् आह-भोः सत्यम् एतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनर् एवम् एव वर्तितव्यम् । अथ एवम् एव यो वर्तते, स त्वम् इव विनश्यति । तथा च-
- एकोदराः पृथग् ग्रीवा अन्यान्य-फल-भक्षिणः ।
असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥पन्च्_५.९४॥
चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
अतो ऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (९२) इति ।
चक्रधर आह-सत्यम् एतत् । तद् गच्छ गृहम् । परम् एकाकिना न गन्तव्यम् । उक्तं च-
एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् ।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात् ॥पन्च्_५.९५॥
अपि च-
अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः ।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥पन्च्_५.९६॥
सुवर्ण-सिद्धिः प्राह-कथम् एतत् ?
सो ऽब्रवीत्-
- एवमुक्त्वा असौ ब्राह्मणो यथाभिप्रेतं गतः । अतोऽहं ब्रवीमि-
अपि कापुरुषो मार्गे द्वितीयः क्षेमकारकः ।
कर्कटेन द्वितीयेन सर्पात्पान्थः प्ररक्षितः ॥
एवम् श्रुत्वा सुवर्णसिद्धिस् तम् अनुज्ञाप्य स्वगृहं प्रति निवृत्तः ।