०५-०१ ब्राह्मणीनकुल-कथा

अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद् भवति सन्तापो ब्राह्मणी नकुलं यथा ॥पन्च्_५.१७॥

कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतम् अजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततम् एवम् आशङ्कते यत् कदाचिद् एष स्व-जाति-दोष-वशाद् अस्य दारकस्य विरुद्धम् आचरिष्यति इति । उक्तं च-

कुपुत्रो ऽपि भवेत् पुंसां हृदयानन्द-कारकः ।
दुर्विनीतः कुरूपो ऽपि मूर्खो ऽपि व्यसनी खलः ॥पन्च्_५.१८॥
एवं च भाषते लोकश् चन्दनं किल शीतलम् ।
पुत्र-गात्रस्य संस्पर्शश् चन्दनाद् अतिरिच्यते ॥पन्च्_५.१९॥
सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च ।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम् ॥पन्च्_५.२०॥

अथ सा कदाचिच् छय्यायां पुत्रं शाययित्वा जल-कुम्भम् आदाय पतिम् उवाच-ब्राह्मण, जलार्थम् अहं तडागे यास्यामि । त्वया पुत्रो ऽयं नकुलाद् रक्षणीयः ।

अथ तस्यां गतायां, पृष्ठे ब्राह्मणो ऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखम् आलोक्य शङ्कित-चित्ता नूनम् अनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप ।

एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतम् अवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुम् आरब्धा ।

अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोको ऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तद् अनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्व् इदम् उच्यते-

  • अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः । अतिलोभज-दोषेण जम्बुको निधनं गतः ॥पन्च्_५.२१॥

ब्राह्मण आह-किम् एतत् ?

सा प्राह- +++(सम्पादकटिप्पनी- पुस्तकेऽत्रायमधिकः पाठः ।)+++