०४-१४ चित्रङ्गनामसारमेय-कथा

सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः ।
एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते ॥पन्च्_४.८३॥

अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस् तद्-भयाद् देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद् गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्-गृहाद् बहिर् निष्क्रान्तो ऽन्यैर् मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च को ऽपि युद्धं करोति । तद् एवं स्व-नगरं व्रजामि इत्य् अवधार्य स्व-स्थानं प्रति जगाम ।

अथासौ देशान्तरात् समायातः सर्वैर् अपि स्वजनैः पृष्टः-भोश् चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग् देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश् च व्यवहारस् तत्र इति ।

स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः ?