०४-१३ महाचतुरकख्यशृगाल-कथा

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥पन्च्_४.७८॥

आसीत् कस्मिंश्चिद् देशे महा-चतुरको नाम शृगालः । तेन कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश् चेतश् च विचरन् कश्चित् सिंहस् तत्रैव प्रदेशे समाययौ ।

अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः स-विनयम् उवाच-स्वामिन् ! त्वदीयो ऽहं लागुडिकः स्थितस् त्वद्-अर्थे गजम् इमं रक्षामि । तद् एनं भक्षयतु स्वामी ।

तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहम् अन्येन हतं सत्त्वं कदाचिद् अपि भक्षयामि ।

  • उक्तञ्च -

वनेऽपि सिंहा मृगमांसभक्ष्या
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभूता
न नीतिमार्गं परिलङ्घयन्ति ॥ +++( सम्पादकटिप्पनी - पुस्तके इदमधिकं पद्यम् ।)+++

तत् तवैव गजो ऽयं मया प्रसादीकृतः ।

तच् छ्रुत्वा शृगालः सानन्दम् आह-युक्तम् इदं स्वामिनो निज-भृत्येषु । उक्तं च यतः-

अन्त्यावस्थो ऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया ।
न श्वेत-भावम् उज्झति शङ्खः शिखि-भुक्त-मुक्तो ऽपि ॥पन्च्_४.७९॥

अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-अहो ! एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः । तत् कथम् इदानीम् एनम् अपवाहयिष्यामि ? नूनं शूरो ऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः-

न यत्र शक्यते कर्तुं साम दानम् अथापि वा ।
भेदस् तत्र प्रयोक्तव्यो यतः स वश-कारकः ॥पन्च्_४.८०॥

किं च सर्व-गुण-सम्पन्नो ऽपि भेदेन बध्यते । उक्तं च यतः-
अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
अन्तर्-भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम् ॥पन्च्_४.८१॥

एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वाद् उन्नत-कन्धरः स-सम्भ्रमम् उवाच-माम ! कथम् अत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च माम् एतद् रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तं माम् आवेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितो ऽस्मि ।

तच् छ्रुत्वा व्याघ्रः सन्त्रस्तम् आह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवम् अभिधाय सत्वरं पलायाञ्चक्रे ।

अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी समायातः । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रो ऽयं चित्रकः । तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तम् अप्य् उवाच-भो भगिनी-सुत ! किम् इति चिराद् दृष्टो ऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तद् अतिथिर् असि मे । एष गजः सिंहेन हतस् तिष्ठति । अहं चास्य तद्-आदिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज ।

स आह-माम, तद् एवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च-यच् छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच् च यत् (२३) इत्य् आदि ।

  • यच्छक्यं ग्रसितं ग्रासं ग्रस्तं परिणमेच्च यत्।
    हितञ्च परिणामे यत्तदाद्यं भूतिमिच्छता ॥ +++(सम्पादक टिप्पनी - इदमत्र पूर्णं पद्यं पुस्तके ।)+++

तत् सर्वथा तद् एव भुज्यते यद् एव परिणमति । तद् अहम् इतो ऽपयास्यामि ।

शृगाल आह-भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतो ऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति ।

तच् छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावद् असौ तद्-भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावद् अतिसङ्क्रुद्धो ऽपरः शृगालः समाययौ । अथ तम् आत्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८) इति श्लोकं पठन्

  • उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
    नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥ +++(सम्पादकटिप्पनी - पुस्तके इदं पूर्णं पद्यमत्र । )+++

तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस् तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे ।