०४-१२ उज्ज्वलकरथकार-कथा

सतां वचनम् आदिष्टं मदेन न करोति यः ।
स विनाशम् अवाप्नोति घण्टोष्ट्र इव सत्वरम् ॥पन्च्_४.७४॥

कस्मिंश्चिद् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश् चिन्तितवान्-अहो ! धिग् इयं दरिद्रतास्मद्-गृहे । यतः सर्वो ऽपि जनः स्व-कर्मणैव रतस् तिष्ठति । अस्मदीयः पुनर् व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश् चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः ।

यावत् किञ्चिद् वनं गच्छति तावद् गह्वराकार-वन-गहन-मध्ये सूर्यास्तम् अनवेलायां स्व-यूथाद् भ्रष्टां प्रसव-वेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत् । स च दासेरक-युक्ताम् उष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहम् आसाद्य रज्जुं गृहीत्वा ताम् उष्ट्रिकां बबन्ध । ततश् च तीक्ष्णं परशुम् आदाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर् भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशं पीवर-तनुर् उष्ट्री सञ्जाता । सो ऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यम् एव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति ।

अथ रथकारेण वल्लभत्वाद् दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद् रथकारो व्यचिन्तयत्-अहो ! किम् अन्यैर् दुष्कृत-कर्मभिः । यावन् ममैतस्माद् एवोष्ट्रापरिपालनाद् अस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किम् अन्येन व्यापारेण ?

एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह-भद्रे ! समीचीनो ऽयं व्यापारः । तव सम्मतिश् चेत् कुतो ऽपि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावद् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि ।

ततश् च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहम् आगतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश् च सम्मिलिताः । ततस् तेन महद् उष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभम् एकं प्रयच्छति । प्रतिवर्षम् अन्यच् चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारो ऽपि नित्यम् एवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति ।

अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर् यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस् तैः कलभैर् अभिहितम्-अहो ! मन्द-मतिर् अयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युम् अवाप्स्यति ।

अथ तस्य तद्-वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवम् आकर्ण्य समायातः । यावद् अवलोकयति, तावद् उष्ट्री-दासेरकाणां यूथं गच्छति । एकस् तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सो ऽपि वनान् निष्क्रम्य यावद् दिशो ऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद् भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन् यावत् कियद्-दूरं गच्छति, तावत् तच्-छब्दानुसारी सिंहो ऽपि क्रमं कृत्वा निभृतो ऽयं व्यवस्थितः । ततो यावद् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश् च ।