यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके ॥पन्च्_४.६९॥
कस्मिंश्चिद् अधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर् वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद् गृहे स्थैर्यम् आलम्बते । केवलं पर-पुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्यो ऽहम् । त्वद्-दर्शनेन स्मर-पीडितश् च । तद् दीयतां मे रति-दक्षिणा ।
ततस् तयाभिहितम्-भोः सुभग ! यद्य् एवं तद् अस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुम् अप्य् असमर्थः । ततस् तद्-धनम् आदायाहम् आगच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखम् अनुभविष्यामि ।
सो ऽब्रवीत्-रोचते मह्यम् अप्य् एतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रम् एव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते ।
सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तम् आदाय प्रत्यूष-समये तत्-कथित-स्थानम् उपाद्रवत् । धूर्तो ऽपि ताम् अग्रे विधाय दक्षिणां दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः ।
एवं तयोर् व्रजतोर् योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश् चिन्तयामास-किम् अहम् अनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदाप्य् अस्याः पृष्ठतः को ऽपि समेष्यति । तन् मे महान् अनर्थः स्यात् । तत् केवलम् अस्या वित्तम् आदाय गच्छामि ।
इति निश्चित्य ताम् उवाच-प्रिये ! सुदुस्तरेयं महानदा । तद् अहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस् त्वाम् एकाकिनीं स्व-पृष्ठम् आरोप्य सुखेनोत्तारयिष्यामि ।
सा प्राह-सुभग ! एवं क्रियताम् । इत्य् उक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रम् अपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः ।
सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावद् एतस्मिन्न् अन्तरे काचिच् छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशाद् आवतीर्थं को ऽपि प्रत्युपाद्रवत् । अत्रान्तरम् आकाशाद् अवतीर्य को ऽपि गृध्रस् तं मांस-पिण्डम् आदाय पुनः खम् उत्पतात । मत्स्यो ऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थ-श्रमा गृध्रम् अवलोकयन्ती तया नग्निकया स-स्मितम् अभिहिता-
गृध्रेणापहृतं मांसं मत्स्यो ऽपि सलिलं गतः ।
मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके ॥पन्च्_४.७०॥
- तच्छ्रुत्वा शृगालिका तामपि पतिधनजारपरिभ्रष्टां दृष्ट्वा सोपहासमाह–
“यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव ।”
माभूज्जारो न भर्त्ता च किं निरीक्षसि नग्निके ॥
एवं तस्य कथयतः पुनरन्येन जलचरेण आगत्य निवेदितम् - यदहो ! त्वदीयं गृहमपि अपरेण महामकरेण गृहीतम् । तत् श्रुत्वा असौ अतिदुःखितमनाः तं गृहात् निःसारयितुं उपायं चिन्तयन् उवाच् - अहो ! पश्यतां मे दैवोपहतत्वम् । +++( सम्पादकटिप्पनी - पुस्तके ऽत्रायम् अधिकः पाठः ।)+++
मित्रं ह्य् अमित्रतां यातम् अपरं मे प्रिया मित्रा ।
गृहम् अन्येन च व्याप्तं किम् अद्यापि भविष्यति ॥पन्च्_४.७१॥
अथवा युक्तम् इदम् उच्यते-
क्षते प्रहारा निपतन्त्य् अभीक्ष्णम् अन्न-क्षये वर्धति जाठराग्निः ।
आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वम् इदं नराणाम् ॥पन्च्_४.७२॥