या ममोद्विजते नित्यं साद्य माम् अवगूहते ।
प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत् ॥पन्च्_४.५५॥
अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । अथवा साध्व् इदम् उच्यते-
श्वेतं पदं शिरसि यत् तु शिरोरुहाणां
स्थानं परं परिभवस्य तद् एव पुंसाम् ।
आरोपितास्थि-शकलं परिहृत्य यान्ति
चाण्डाल-कूपम् इव दूरतरं तरुण्यः ॥पन्च्_४.५६॥
तथा च-
गात्रं सङ्कुचितं गति-विगलिता दन्ताश् च नाशं गताह्
दृष्टिर् भ्राम्यति रूपम् एव ह्रसते वक्त्रं च लालायते ।
वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते
हा कष्टं जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायते ॥पन्च्_४.५७॥
अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरम् अवलोक्य भय-व्याकुला वृद्धम् अपि पतिं गाढं समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश् चिन्तयामास-अहो ! किम् एषा माम् अद्यावगूहते । अहो चित्रम् एतत् ! ततश् च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनर् अप्य् अचिन्तयत्-नूनम् एषा चौरस्य भयान् माम् आलिङ्गति । तज् ज्ञात्वा चौरम् आह-या ममोद्विजते नित्यं साद्य (५५) इति । भूयो ऽपि निर्गच्छन्तम् अवादीत्-भो चोर ! नित्यम् एव त्वया रात्राव् आगन्तव्यं मदीयो ऽयं विभवस् त्वदीय इति ।