प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति ।
रथकारः स्वकां भार्यां सजारां शिरसावहत् ॥पन्च्_४.४९॥
कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षार्थं व्यचिन्तयत्-कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद् युज्यते कर्तुं, यतः-
नदीनां च कुलानां च मुनीनां च महात्मनाम् ।
परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च ॥पन्च्_४.४९॥
वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां तथा जातो व्यासो शत-गुण-निवासः किम् अपरम् । स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता स एवाभा̆च् छ्रीमान् अहह विषमा कर्म-गतयः ॥पन्च्_४.५०॥
कुलानाम् इति पाण्डवानाम् अपि महात्मनां नोत्पत्तिर् अधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणम् अनेक-दोषान् प्रकटयति स्त्रीणाम् इति । तथा च-
यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः ।
स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः ॥पन्च्_४.५१॥
यथापि शुद्धाम् अशुद्धां वापि जानामि लोक-वचनात् । उक्तं च-
यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् ।
तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम् ॥पन्च्_४.५२॥
एवं सम्प्रधार्य ताम् अवोचत-प्रिये, अहं प्रातर् ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल् लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् ।
सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते-
दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु ।
पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः ॥पन्च्_४.५३॥
अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । ततश् च पूर्व-परिचितं विट-गृहं गत्वा तम् अभ्यर्थोक्तवती यद्-ग्रामान्तरं गतः स दुरात्मा मे पतिः । तद् अद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् ।
तथानुष्ठिते स रथकारो ऽप्य् अरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहम् अपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किम् एनम् उत्थाय विनाशयाम्य् अथवा द्वाव् अप्य् एतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच् चेष्टितम् अस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तच्-छयनम् आरोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किम् अपि करोमि । एवं तस्याश् चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश् च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतो ऽहं पतिव्रता महा-सती च । नो चेच् छापं दत्त्वा त्वां भस्मसात् करिष्यामि ।
स आह-यद्य् एवं तर्हि किम् अर्थं त्वयाहूतः ?
सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वम् आपदं वेत्सि तथा तत्-पर्तीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस् तयाभिहितं-वत्से, सन्न् अपि नास्ति यतस् तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितं-देवि ! यन् मत्-प्राणैर् भवति तद् आदेशय येन करोमि । ततो देव्याभिहितं-यद्य् अद्य दिने पर-पुरुषेण सहैकस्मिञ् छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतं जीवति । तेन मया त्वम् अभ्यर्थितः । तयो यत् किञ्चित् कर्तुम् अनास् तत् कुरुष्व, नहि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार ।
सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तद् एहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मद्-आयुर्-वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती । ताम् एवम् उक्त्वा स-स्नेहम् आलिङ्गितवान् । स्व-स्कन्धे ताम् आरोप्य तम् अपि देवदत्तम् उवाच-भोः महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः । ततस् त्वम् अपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तं बलाद् आलिङ्ग्य स्कन्धे समारोपितवान् । ततश् च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम ।