०४-०८ महाधन ईश्वरनामभाण्डपति-कथा

गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः ।
दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण ॥पन्च्_४.४८॥

अस्त्य् अत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयो ऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चन्द्र-प्रदानेन निष्कासितः ।