०४-०७ शुद्धपटनामरजक-कथा

सुगुप्तं रक्ष्यमाणो ऽपि दर्शयन् दारुणं वपुः ।
व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः ॥पन्च्_४.४७॥

कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एको ऽस्ति । सो ऽपि घासाभावाद् अतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनम् आपतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति ।

तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयो ऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः । कृच्छ्राद् बन्धन-स्थानम् अपि नीयते । अथान्यस्मिन्न् अहनि स मधोद्धतो दूराद् रासभी-शब्दम् अशृणोत् । तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः ।

अथ ते क्षेत्र-पाला रासभो ऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तं व्यापादितवन्तः ।