०४-०६ नन्दवररुचि-कथा

न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः ।
अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम् ॥पन्च्_४.४५॥

अतिप्रख्यात-बल-पौरुषो ऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि ।

ततः कथञ्चित् तयोक्तं-यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि ।

तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्-भद्रे ! त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि ।

साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि ।

राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे ! किं पर्वणि मुण्डितं शिरस् त्वया ?