०४-०५ ब्राह्मण-कथा

यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् ।
सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः ॥पन्च्_४.४४॥

अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्यो ऽप्य् अतिप्रियासीत् । सो ऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सो ऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र ! तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय ।

अथासौ तद्-वचनानन्तरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति । यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी ।

तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-समम् एव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम् ।

इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति । तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति ।

पङ्गुर् अब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि ?

साब्रवीत्-किम् अनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः ।

तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु ।

सो ऽब्रवीत्-एवम् अस्तु ।

अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुम् आरब्धः साब्रवीत्-एष पङ्गुर् बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति ।

तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायो ऽपि नास्ति । तद् एनं पङ्गुं गृहीत्वा गच्छावः ।

सो ऽब्रवीत्-न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम् । किं पुनर् एनं पङ्गुम् ?

साब्रवीत्-पेटाभ्यन्तर-स्थम् एनम् अहं नेष्यामि ।

अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता । राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता । राज्ञा पृष्टा-को वृत्तान्तः ? इति ।

साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः ।

तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ ।

अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन् ! अयं मम भर्तुर् वैरी समायातः ।

राज्ञापि वध आदिष्टः । साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति । यदि त्वं धर्म-वत्सलः, तद् दापय ।

राजाब्रवीत्-भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय ।

सा प्राह-देव, मया न किञ्चिद् गृहीतम् ।

ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि ।

अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता । ततः स-विस्मयं राजाब्रवीत्-किम् एतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलो ऽपि तस्मै निवेदितः ।